श्राद्धाधिकारिनरूपणम् । क्येन स्त्रिया भर्त्रनुशां विना दानप्रतिग्रहनिषेधः । स जीवद्र्तृका विषयः । “माता पिता वा" इत्यनेन मनुयाज्ञवल्क्याभ्यां परस्परनैरपेक्षेण तयोदीतृत्वप्रतिपादनात् । जीवति तु भर्तरि स्त्रिया अस्वातन्त्र्याद नुशाग्रहणावश्यकत्वाभिप्रायेण “अन्यत्रानुज्ञानाद्भर्तुः” इत्युक्तं वसिष्ठेन । अत एव तेनैव शुक्रशोणित सम्भवः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवत इत्यनेन मातापित्रोस्तुल्य- मेव प्रभुत्वमुक्तम् । एव- क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाडुः क्रियालोपान् मनीषिणः ॥ [ अ० ९ श्लो० १८० ] इति मनुवाक्येन स्त्रीपुंससाधारण्येन क्रियालोप हेतोः पुत्रकरणा- वश्यकत्व प्रतिपादनेनापुत्राया विधवाया अपि विनापि भर्त्रनुज्ञां पुत्रकरणं न विरुद्धम् । यस्तु वसिष्ठवाक्ये स्त्रियाः प्रतिग्रहनिषेधः स सभर्तृकाविषय इति प्रागेवोकम् । वाचस्पतिमिश्रोऽपि पितुर्मातुश्च द्वयोः प्रत्येकमपि दानाधिकारः, इयां स्तु बिशेषो यत् सति पितरि तदनुज्ञानान्मातुर्दातृत्वं असति तु तदभावेऽपीत्यनेनेदमेवाह | मनुवाक्ये आपग्रहणादनापदि न देयो, दातुरयं प्रतिषेधः। आपदि प्रतिग्रहीतुः पुत्राभाव इत्यन्ये । वसिष्ठः । शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकः तस्य प्रदानविक्र यत्यागेषु मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात्, प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषां, न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वान्यत्रानुशा- नाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि वाssवेद्य निवेश- मस्य मध्ये व्याहृतिभिर्दुत्वाऽदूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृ हयात् । सन्देहे चोत्पने दूरे शुद्रमिव स्थापयेत् । विज्ञायते होकेन बहूत्रायत इति । एकं पुत्रमित्युपलक्षणम् । अनेक पुत्रसद्भावे ज्येष्ठो न देयः | "ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः" इति मनु- वाक्येन तस्यैव पुत्र कार्यकरणे मुख्यत्वाभिधानात् । बघुन्नाहूयेति दत्त कस्य अंशप्राप्त्याद्यर्थे, राजनीत्यपि दृष्टार्थम्, निवेशन=गृहम् | इत्येत्यत्र संख्यानभिधानादनादेशविहिताष्टोत्तरशहस्त्राष्टशतादिरूपा
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५७
एतत् पृष्ठम् परिष्कृतम् अस्ति