३४८ वीरमित्रोदयस्य श्रद्धप्रकाशे- संख्या ग्राह्या अदूरवान्धवमित्यत्यन्त देशभाषाविप्रकृष्टस्य प्रतिषेध इति मिताक्षरा । बन्धुसनिकृष्टं प्रतिग्राह्यबन्धूनां समीपवर्तिनम् । इदमपि दृष्टार्थम् । परीक्षितस्यापि कथश्चित् ब्राह्मण्यादि सन्देह उत्पन्ने यावत्त त्रिवृत्ति [स्तावद्] दूरे शूद्रवत स्थापयेत् तेन न व्यवहरेत् । अपुत्रस्य पुत्र करणावश्यकत्वद्योतनाय श्रुत्युपन्यासो विज्ञायत इति श्रूयत इत्यर्थः । एकेन=अनौरसेनापि पुत्रेण बहून् = पित्रादीन् नरकात्त्रायत इति । अत्र दातृप्रतिगृहीतृगोचरो नियमः, क्रीतस्वयंदत्तकृत्रिमापविद्वेष्वपि य थासंभवं द्रष्टव्यो दृष्टार्थत्वात् । स्वयं दत्ते तु होमोऽपि । तत्रापि प्र तिग्रहसत्वात् "प्रतिग्रहबिन्" इत्युपक्रभ्य वसिष्ठेन होमविधानात् । अत्र तु स्त्रीशूद्रयोर्न होमस्तयोरविद्यत्वात् । पुत्रं प्रतिप्रयिनित्यस्य तु स्वर्गकामादिपदवत् सविद्यपरत्वेनाप्युपपत्तेः । प्रतिग्रहस्तु तयो वंचनादाचाराथ शेयः । अत्र विशेषः- कालिकापुराणे । “औरसः क्षेत्रजश्चैवे" त्यापक्रम्य । दत्ताश्चापि तनया निजगोत्रेण संस्कृताः । आयान्ति पुत्रतां सम्यगन्यबीज समुद्भवाः || पितुर्गोत्रेण यः पुत्रः सस्कृतः पृथिवीपते । आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः || चूड़ाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताधास्तनयास्ते स्युरन्यथा दास उच्यते ॥ ऊर्ध्वं तु पञ्चमाद्वर्षान्न दत्ताद्याः श्रुता नृपः । गृहीत्वा पञ्चवर्षीय पुत्रेष्टिं प्रथमं चरेत् ॥ पौनर्भवं तु तनय जातमात्रं समानवेत् । कृत्वा पौनर्भवं स्तोमं जातमात्रस्य तस्य वै । सर्वोस्तु कुर्बात् संस्कारान् जातकर्मादिकान्नरः ॥ कृते पौनर्भवेस्तोमे सुतः पौनर्भवस्ततः । एकोद्दिष्टं पितुः कुर्यात् न श्राद्धं पार्वणादिकम् ॥ क्रीत इति । मातापितृभ्यां मात्रा पित्रा वा विक्रीतः, अत्रापि दत्तक बदेकं ज्येष्ठं वर्जयित्वा आपदि सवर्णोऽविप्रतिपन्नश्च शेयः । यत्तु - क्रोणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स ऋतिकः सुतस्तस्य सडशोऽसहशोपि वा । [ अ० ९ श्लो० १७४ ]
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५८
एतत् पृष्ठम् परिष्कृतम् अस्ति