वीरमित्रोदयस्य श्राद्धप्रकाशे- नाकम्यासु कचिम्नृणां लुप्तधर्मक्रिया हि ताः ॥ [अ० ८ श्लो० २२६ ] इति मनुवचनेन कन्यास्वेव पाणिग्रहणिकमन्त्रविधानात् कथमन्त्र गर्भिणी संस्क्रियत इत्युक्तम् | कन्यात्वं हि दानेनोपभोगेन वा गच्छ- ति "कानीनः कन्यकाजात" इत्यत्र तु कन्यापदमत्तापरम् | अस्था अनुपभुक्तत्वासम्भवात् । "कन्यामुपयच्छेत" इत्यत्र तु कन्यापदम नुपभुक्ताऽदत्तापरम् । अत एव "अनन्यपूर्विकाम्" इत्यत्र याज्ञवल्क्यवचने दान उपभोगे वा अन्य: पूर्वो यस्या नास्तीति सर्वनिबन्धुभि वर्थ्याख्यातम् । एवं च "कन्यामुपयच्छेत" इत्यत्र कन्यापदमेतदेक वाक्यतया अनन्यपूर्विकापरम् । अत एव च कुन्त्या अदत्ताया अपि सम्भोगेन कन्यात्वापगममवगत्य "कन्यैव त्वं भविष्यास" इति तस्यै सूर्येण वरो दत्तः । मनुस्मृतौ च । अकन्येति च यः कन्यां ब्रूयाद् द्वेषेण मानवः | स शतं प्राप्नुयाइण्डं तस्या दोषमदर्शयन् ॥ [ अ० ८ श्लो० २२५ ] इति वाक्ये अक्षतयोनिकायां कन्याशब्दः स्पष्ट एव । एवं च सति सगर्भायाः कथं संस्कार इति चेत् । अत्रोच्यते । पाणिग्रहणाख्यसंस्कारः भार्यात्वलक्षणः कन्या. स्वेवोत्पद्यते नाकन्यासु "अनन्यपूर्विकाम्" इत्यनेनाम्य पूर्विकायास्तत्र पर्युदस्तत्वात् । स च संस्कारः पाणिग्रहणिकमन्त्रैरुत्पद्यते । पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ [ अ० ८ श्लो० २२७ ] इत्यनेन मनुना पाणिग्रहणिकमन्त्राणां दारत्वनिष्पादकत्वाभिधा- नात् । तथा सति ते मन्त्राः कन्यास्वेव प्रयोज्या नाकन्यासु तत्र संस्कारानुत्पत्तेः, अत एवोकं "लुप्तधर्मक्रिया हि ता" इति । होमादिरूप: संस्कारस्तु तत्राप्यन्यपूर्विकादावनुवर्तत एवेत्यभिप्रायेणोक्तं "या गर्भिणी संस्क्रियत" इति, एवञ्च अन्यपूर्विकायां गर्भिण्यां भायत्वानुत्पादन तस्यां विवाहे तत्सम्पादकाः पाणिग्रहाणका मन्त्रा न प्रयोज्या होमादि संस्कारस्वनुवर्तत एवेति प्रागुतम् । गान्ध
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६०
एतत् पृष्ठम् परिष्कृतम् अस्ति