श्राद्धाधिकारिनिरूपणम् । वदिविवाहे तु भार्यात्वसिद्ध्यर्थ मन्त्राः प्रयोज्या एव । अत एव तेन, गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिभिर्वर्णैः समयेनाझिसाक्षिकः ॥ इत्यनेन गान्धर्षादिविवाहेषु सर्वोऽपि वैवाहिको विधिरुक्तः । उत्सृष्टोगृह्यत इति । अत्र विशेषमाह - मनुः । मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते । [ अ० ९ श्रो० १७१ ] उत्सृष्टं=श्यक्तं भरणासामर्थ्येन, गण्डजातत्वादिदोषेण वा, न तु पातित्येन, तस्य असंग्राह्यत्वात् । एतेषां च द्वादशपुत्राणां यो[गि] नार- दस्मृतौ- औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च । कानीनश्च सहोदश्च गूढोत्पन्नस्तथैव च ॥ पौनर्भचोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा । स्वयं चोपागतः पुत्राः द्वादशैते प्रकीर्तिताः || इत्यन्यथा क्रमो दृश्यते । एवं मनुस्मृतावपि । औरलः क्षेत्रजश्चैव दप्तः कृत्रिम एव च । मूढोत्पक्षोपविद्धश्च दायादा बान्धवाश्च षट् ॥ [ अ० ९ श्लो० १५९ ] पा इति तेषामन्यथा क्रमो दृश्यते । अत्र पुत्रिकापुत्रो नोक्तः । रशवापरनामा शौद्रश्चोकः, तलक्षणं चात्रे वक्ष्यते । स न श्राद्धाद्य धिकारक्रमतात्पर्यकः किन्तु परिगणनमात्रतात्पर्यकः । तत्र याशवल्क्येन "पूर्वाभावे परः परः" इत्यन्यथाक्रमविधानात् । यद्यपि विष्णुस्मृतौ और सक्षेत्रजपुत्रिका पुत्रपौनर्भवकार्नानगूढोत्पनसहोढदत्त कक्रीतस्वयमुपगतापविद्धयत्र क्वचनोत्पादितानां प्रथमद्वि- तीयतृतीयादित्वेनाभिधानादेतेषां पूर्वः पूर्वः श्रेयान् स एव दायहर इत्युक्तेश्च क्रमोऽभिहित एव, दायहरत्वेन च पिण्डदातृत्वस्यौत्सर्गिक त्वात् पिण्डदाने स एव तदनुमतः क्रम इत्युनीयते । तथा च विष्णू- तयाज्ञवल्क्योक्तक्रमयोर्विकल्प इति प्रतीयते ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६१
एतत् पृष्ठम् परिष्कृतम् अस्ति