वीरमित्रोदयस्य श्राद्धप्रकाशे- तथापि विज्ञानेश्वरादिप्रामाणिक निबन्धूमिर्याज्ञवल्क्योतकमाजोकारात् स एवादरणीयः | विष्णुस्मृतौ तु कृत्रिमो नोक्तः, पारशवा परनामा यत्र वचनोत्पादित उक्तः । तल्लक्षणमाह- मनुः । यं ब्राह्मणस्तु शुद्रायां कामादुरपादयेत् सुतम् । स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥ [ अ० ९ श्लो० १७८] "विश्नाग्वेष विधिस्मृतः" इति याज्ञवल्क्यदर्शनात शुद्रायामुढायामिति कुल्लूकभट्टः । यत्र क्वचनोत्पादितस्तु द्वादश इति विष्णुस्मृतिदर्श नाव ऊढायामनूढायां वेति वाचस्पतिमिश्रः । ब्राह्मण इति त्रैवर्णिकोपल क्षणम् । पारयन् पुत्रान्तररहितस्य पितुरुपकुर्वन् । शवः शव इव शवः असंपूर्णोपकारकत्वाच्छवव्यपदेशः । अत्र क्षेत्रजादीन् पारशवान्तान् सुतानुक्त्वा । क्षेत्रजादीन् सुतानेकानेकादश यथोदितान् । पुत्रप्रतिनिधीनाडुः क्रियालोपान् मनीषिणः ॥ इति मनुवचनात् । [ अ० ९ श्लो० १८० ] ब्राह्मणेन न कर्तव्यं शुद्रस्यैवौद्धदेहिकम् । शूद्रेण वा ब्राह्मणस्य विना पारशवात् कचित् ॥ इति पारस्करवचनाच्च पूर्वोक्तद्वादशविधपुत्राभावे शूद्रापुत्रस्या पि द्विजातिपितृश्राद्धादावधिकार इति प्रतीयते । यत्तु द्वादश पुत्रानुक्त्वा । य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः | यस्य ते बीजतो जाता स्तस्य ते नेतरस्य तु ॥ [ अ० ९ इलो० १८१] इति मनुवचनं तत् सत्यौरसे पुत्रे पुत्रिकापुत्रे वा सति ते न कर्तव्या इत्येवं परम् । “अन्यबीजजा" इति क्षेत्रजादि सकलपुत्रोपलक्ष णार्थम् । अत एव स्वबजजातावपि पौनर्भव शौद्रौ न कर्तव्यौ । अत एव - वृहष्पतिः । आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतः । तथैकादशपुत्रास्तु पुत्रिकौरसयोर्विना |
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६२
एतत् पृष्ठम् परिष्कृतम् अस्ति