श्राद्धाधिकारिनिरूपणम् । यत्तु भ्रातृणामेकजातानामे कश्चत् पुत्रवान् भवेत् । सर्वोस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ [ अ० ९ श्लो० १८२ ] सर्वासा मेकपत्नीनामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवती मनुः ॥ [ अ० ९ श्लो० १८३ ] इति मनुवचनद्वयम् । तत्राद्यवचनं भ्रातृपुत्रस्य पुत्रीकरणसंभवे ऽन्येषां पुत्रीकरणनिषेधार्थी [न] पुनः पुत्रश्वप्रतिपादनाय, "तत्सुनो गो जो बन्धुः" इति याज्ञवल्क्यचचनेन भातृपर्यन्ताभाव एव भ्रातृपुत्रस्याधिकारप्रतिपादनविरोधात् इति मिताक्षरा। द्वितीयवचनं तु पुत्र त्वप्रतिपादनार्थम् । विध्यादौरसः पुत्रो जनम्या औईदेदिकम् । तदभावे सपतीजः क्षेत्रजाद्यास्तयाहता ॥ तेषामभावे तु पतिस्तदभावे सपिण्डकाः ॥ इति कात्यायनवचने तस्यापि पुत्रकार्यकरणश्रवणात् । अन्ये तु अयं पुत्रित्वातिदेशो भातृपुत्रसद्भावे सपत्नीपुत्रसद्भावे च प्रति. निधीभूतपुत्रकरण निषेधाद्यर्थः, स्त्रियाः सपिण्डनाद्यर्थश्च । अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रियाहेतोर्नाम संकीर्तनस्य च ॥ शते वचने पुत्ररहितस्यैव पुत्रीकरणविधानात् । “पतिपुत्रविही नाया स्त्रिया नास्ति सपिण्डनम्" इति वचनेन पुत्रविहीनाया एव सपिण्डननिषेधाच्चेति प्राहुः । वस्तुतस्तु तेन पुत्रेणेतिश्रवणात् अयं पुत्रत्वातिदेशः, पुत्रित्वोप- संहारदर्शनात्, पुत्रिस्वातिदेशश्च । तत्प्रयोजनं च पुन्नामनरकत्राणादि, पुत्रित्व पुरस्कारेण विधिनिषेधप्रवृत्तिश्च । न च तस्य पुत्रीकरणसम्भवे तत्सद्भावे चान्यस्य पुत्रीकरणनिषेधः, अपुत्रेणेत्यादिवाक्येन मुख्यपुत्र रहितस्यैव पुत्रीकरणविधानात् । अत एव मनुनापि औरसा- दीन द्वादशविध पुत्रानुक्त्वा "क्षेत्रजार्दान् सुतानेतान्" इत्यादिना पुत्रप्रतिनिधि[धी] भूतक्षेत्रजादिपुत्रीकरणमुक्तम् । तस्मान् मनूकक्रि. वी० मि० ४५
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६३
एतत् पृष्ठम् परिष्कृतम् अस्ति