वीरमित्रोदयस्य श्राद्धप्रकाशे- शुङ्गवचने पुत्राभावे पुत्र्या अधिकार प्रतीयते । अङ्गादङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम् । तस्यामात्मनि जीवन्त्यां कथमन्यो हरेद्धनम् ॥ इति मनुवचनेन च पुत्राभावे प्रथमतो दुहितुर्धनाधिकारप्रतिपा दनेन "गोत्रॠकथानुगः पिण्ड" इत्यनेन प्रथमतः पिण्डाधिकारः प्रतीयते, तथापि पत्म्यनन्तरं तस्याधिकारो बोद्धव्यः । पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ [ अ० २ प्र० ८ श्लो० १३५ | एषामभावे पूर्वेषां धनभागुत्तरोत्तरः | स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ [ अ० २ प्र० ८ श्लो० १३६] इति याज्ञवल्क्यवचने पत्म्यनन्तर दुहितुर्धनाधिकारप्रतिपादनेन श्राद्धेऽपि तथा प्रतीतेः । यत्तु - अपुत्रा स्त्री यथापुत्रं पुत्रवत्यपि भर्तरि । दद्यात् पिण्डं जलं चैव जलमात्रं तु पुत्रिणी ॥ दुहिता पुत्रवत् कुर्यान्मातापित्रोस्तु संस्कृता । आशौच मुदकं पिण्डमेकोदिष्टं सदा तयोः ॥ इति पठ्यमानं वचनद्वयं तदमूलम् । समूलत्वेऽपि बालदेशान्तरित पुत्रसद्भावविषयमिति शूलपाणिः | सांवत्सरिकश्राद्धविषयमिति केचित् । यदापे च "सर्वाभावे स्त्रियः कुर्यु: स्वभर्तॄणाममन्त्रकम्" इति मार्क ण्डेयपुराणवचनम् | "कुलद्वयेऽपि चोच्छन्ने स्त्रीभिः कार्या सपिण्डता " इति विष्णुपुराणवचनं तदसवर्णविषयमिति शूलपाणिः । अपरे तु आसुरादिविवाहोढविषयमिदम् । याज्ञवल्क्यादिभिः प्रपौत्रानन्तरं पत्न्या अधिकारप्रतिपादनेन अत्रत्यस्त्रीपदस्य पत्नीव्यक्त [तिरिक्त] खीपरस्यात् । आसुरादिविवाहोढायास्तु पत्नीत्वाभावमाह - शातातपः- धम्यैर्विवाहरूढा या सा पक्षी परिकीर्तिता । सहाधिकारिणी द्वेषा यशादौ धर्मकर्मणि ॥ क्रयक्रीता च नारी सा न पक्षीत्वभिधीयते । म सा देवे न सा पित्र्ये दासीं तां मुनवो जगुः ॥
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६६
एतत् पृष्ठम् परिष्कृतम् अस्ति