श्राद्धाधिकारिनिरूपणम् । अत्र ऋयक्रीतेत्युपादानात् धर्म्या इति विशेषणाच्चासुरादिविवाहिता प्रतीतिरित्याहुः । अपरे तु अपरिणीताविषयमिति । अत्र यद्यपि पत्नीदुहितरवैवेत्यादिवाक्यस्य विभक्तासंसृष्टपरत्वेन अविभक्तस्य संसृष्टस्य च सहोदरस्य पक्षीतः पूर्व धनाधिकारो वक्ष्यते । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्म्येव दद्यात् तत्पिण्डं कृत्स्नमेशं लभेत च ॥ इति मनुवचनमपि विभक्तासंसृष्टमतृधनपरम् । तथापि अविभ कस्य संसृष्टस्य वा सोदरस्य सत्वे पत्न्या अधिकाराभावेऽपि पत्न्याः श्राद्धाधिकारो वाचनिकः | "गोजरिक्यानुगः पिण्ड" इत्यस्यौत्स र्गिकत्वेन प्रकृते अप्रवृत्तेः । पिर्धनग्राहिस्वेऽपि भ्रातुः श्राद्धाषिकार: | कालादर्शे तु पूर्वोत्तापविद्धपर्यन्तपुत्राभावे पत्नी, तदभावे गूढकानीनपौनर्भवाश्च इत्युतम् । का मनिगूढ सहजपुनर्भूतनयाश्च ये । पत्न्यमावे तु कुर्युस्ते अप्रशस्ता यतः स्मृताः ॥ इति स्मृतिसमहवचनमत्र प्रमाणत्वेनोक्तम् । पत्न्यभावे कन्या, "अपुत्रस्य तुया पुत्री सापि पिण्डप्रदा भवेत्" इति ऋष्यशृङ्गवचना- त् । याज्ञवल्क्येन पत्न्यनन्तरं तस्या धनाधिकारप्रतिपादनाच्च । मनुरपि । यक्षु- यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा | तस्यामात्मनि तिष्ठन्त्यां कथमन्या हरेजनम् ॥ [ अ० ९ श्लो० १३० ] पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया | तद्भावे तु पत्नी स्वात् तदभाषे सहोदरः ॥ इति शङ्खवचनं, यच्च "भ्रातुर्माता स्वयं चक्रे तद्भार्या चेन विद्यते” इत्यादिपुराणवचनं तद् विभक्तसंसृष्टविषयमिति केचित् । अन्ये तु पत्नीभार्यापदे कन्याया अप्युपलक्षके। "पुत्रेण दुहिता समा" इत्यनेन मनुना तस्याः पुत्रतुल्यत्वकथनेन सहोदरापेक्षया बलवत्वादिति वदन्ति । , तत्र प्रथमतोऽनुढा, तस्याः सगोत्रत्वात प्रथमं धनाधिकारा ञ्च, "गोत्ररिक्थानुगः पिण्ड" इत्यनेन मनुना पिण्डस्य गोत्रानुगत्वाभिधानात् ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६७
एतत् पृष्ठम् परिष्कृतम् अस्ति