वीरमित्रोदयस्य श्राद्धप्रकाशे- दुहिता पुत्रवत् कुर्यात् मातापित्रोस्तु संस्कृता । अशौचमुक पिण्डमेकोद्दिष्टं सदा तयोः ॥ इति भारद्वाजवाक्यमसँस्कृताया मभावे सस्कृताया अध्यधिकार प्रतिपादकम् । तदभावे दौहित्रः । दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता | चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहिताः ॥ मातामहानां दौहित्राः कुर्वन्त्यहिने चापरे । इति ब्रह्मपुराणीयपाठक्रमात् । पौत्रदौहित्रयोर्लोके न विशेषस्तु धर्मतः | तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः || [ अ० ९ श्लो० १३३] इति मनुवचनेन पौत्रदौहित्रयोस्तुल्यविधानाच्च । तेन यथा पुत्राभावे पौत्रस्तथा दुहित्रमावे दौहित्र इति सिद्धम् | दुहितुरनन्तरं दौहित्रस्य धनाधिकाराञ्च स एव पिण्डाधिकारी | न च दत्तक न्यादौहित्राभ्यां प्राक् सगोत्रत्वात् सोदराधिकार इति वाच्यम् | पिण्डदानादेर्धन साध्यतया गोत्रापेक्षया रिक्थस्य बलवत्वेन रिक्थप्राहिणोहितृदौद्धि त्रयोबलवत्वात् । दौहित्राभावे सहोदरः- पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया | तद्भावे तु पत्नी स्यात् तदभावे सहोदगः ॥ इतिशङ्खचाक्यात् । अत्र पक्षीपदं दौहित्रपर्यन्तोपलक्षणम् । ब्रह्मपुराणमपि । भ्रातुर्माता स्वयं चक्रे तद्भार्या वेन विद्यते । तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः ॥ तत्र प्रथमतः कनिष्ठस्याधिकारः, तदभावे ज्येष्ठस्य | "नानुजस्य तथाग्रज" इति छन्दोगपरिशिष्ट वचनेनानुजे विद्यमाने अग्रजस्य कनिष्ठ भ्रातृश्राद्धनिषेधात् । यद्यप्यनेन ज्येष्ठस्याधिकार एव निषिध्यते । तथापि - पुत्रो भ्राता पिता वापि मातुलो गुरुरेव च । एते पिण्डप्रदा शेयाः सगोत्राश्चैव बान्धवाः ॥ इति प्रचेतोषचनेन भ्रातृत्वेन ज्येष्ठम्भ्रातुरप्यधिकारप्रतिपादनात्
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६८
एतत् पृष्ठम् परिष्कृतम् अस्ति