श्राद्धाधिकारिनिरूपणम् | ३५९ कनिष्ठसद्भाव एवायं निषेध इति सम्प्रदायः । अन्ये तु न जायायाः पतिर्दद्यात् अपुत्राया अपि क्वचित् । न पुत्रस्य पिता चैव नानुजस्य तथाग्रजः ॥ इतिछन्दोगपरिशिष्टवचनेन सामान्यतो यद्यपि पत्यादनिषेधः श्रूयते, तथापि - भार्यापिण्ड पतिर्दधात् भर्त्रे भायां तथैव च । श्वश्वादेश्व स्नुषा चैव तदभावे सपिण्डकाः ॥ इति शङ्खवचमेन पत्युरधिकारप्रतिपादनात "पुत्रो भ्राता पिता वापो" त्यादिप्रचेतोवचनेन पितुरधिकारप्रतिपादनादाधकार्यन्तरसद्भावे पतिपित्रोनिषेधकमस्त छन्दोगपरिशिप्रवाक्यम् तिपादकानां च वाक्यानां कनिष्ठभ्रातृपरत्वेनाप्युपत "नांनुजस्य तथाग्रजः” इत्येतस्यापि सोचे मानाभावः । थाई च- भ्रात्रधिकारप्रयदि कोहन कुर्वीत सपिण्डीकरण विना । गयायां च विशेषेण ज्यायानपि समाचरेत् ॥ इति छन्दोगपरिशिष्टनाम्ना पठ्यमान वचनं समूलं, तदाऽस्तु ज्याप सोऽपि सपिण्डीकरणातिरिक्तश्राद्वेष्वधिकार इति वदान्त | 3 कनिष्ठवाहुल्येत प्रथमं मृतानन्तरक्तदभावे तदनन्तरः सनि कर्षनारतस्यात् एव ज्येष्ठबाहुल्येऽपि बोध्यामेति वदन्ति । सोदराभावे वैमात्रेयः तस्याव्ये कपितृजन्यत्वरूपभ्रातृत्वसद्भावेन भ्रात्र धिकारप्रतिपादकवाक्येन तस्याप्यधिकारप्रतिपादनात् । न चकोदरजन्यश्वमपि भ्रातृपदार्थान्तामति वाच्यम् । तथासत्यसहोदरम्य भ्रातृत्वाभावेन परिवदनाप्रसक्तो छन्दोगपाराशेष्टिन देशान्तरस्थक्को- बकवृषणानसहोदरान् इत्युपक्रम्य "परिविन्दन दुष्यति" इत्यनेन सोदरस्य परिवेदनप्रतिप्रसवानुपपत्तेः । तत्रापि ज्येष्ठकनिष्ठयोः क्रमशोधिकारः पूर्वोक्तयुक्तेः । न च "तस्य भ्रातृसुनश्चक्रं यस्य नास्ति सहोदरः" इति ब्रह्मपुराणवचनात सहोदराभावे भ्रातृसुनस्यैवाधिका रो न वैमात्रेयस्येति वाच्यम् | "भ्रातुभ्रता स्वयं चक्रे तद्भार्या चैन विद्यते" इति तत्पूर्वार्द्धार्थपर्यालोचनया सोदरपदस्य भ्रातृपरत्व प्रती. तः । तदभाव कनिष्ठः सहोदरस्य पुत्रः, तदभाव ज्येष्ठः सहोदरस्य पुत्रः, तबभाव कनिष्ठवेमात्रेयः, तदभावे ज्वष्टवैमात्रेयः इति क्रमः,
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६९
एतत् पृष्ठम् परिष्कृतम् अस्ति