वीरमित्रोदयस्य श्राद्धप्रकाशे- सहोदरादितुल्यन्यायत्वात् । तदभावे पिता | “पुत्रो भाता पिता वापी" त्यादिप्रचेतोवचनोक्कक्रमत्यागे बीजाभावात् । तदभावे माता जननी, "पुत्रो भूाता पिता वापी" त्यत्रापिशब्देन मातुः समुच्चयात् । "पितरो भातरस्तथा" इत्यत्र याज्ञवल्क्यवचने धनाधिकारे तथा दर्शनात् । ३६० असमाप्तव्रतस्यापि कर्तव्यं ब्रह्मचारिणः । श्राद्धादि मातापितृभिनं तु तेषां करोति सः ॥ इति ब्रह्मपुराणाञ्च । “न च माता न च पिता कुर्यात् पुत्रस्य पैतृ कम्" इति कात्यायनवचनन्तु भातृपुत्रपर्यन्तसद्भावे द्रष्टव्यम् | जनन्य भावेऽपि माता । "सर्वा पितृपत्म्यो मातर इति सुमन्तुवाक्येन तस्या अपि मातृत्वस्मरणेन मातृकार्यकारित्वोपपत्तेः । तदभावे स्नुषा | "वश्वादेश्व स्नुषा चैव” इतिशङ्खवचनात् । आदिपदेन श्वशुरपरि. ग्रहः, न तु श्वश्वा अपि श्वश्ररादिपदार्थः, स्नुषेभ्यनुपपत्तेः । तदभावे सपिण्डाः, सन्निधितारतम्येन क्रमशोऽधिकारिणः, तदभावे समानो. दकाः “सपिण्डसन्ततिर्वाति" इनिवक्ष्यमाणविष्णुपुराणवचनात् । तदभाषे मातामहः | मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे । तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा || इति ब्रह्मपुराणात् । तदभावे मातुलः । तदभावे भागिनेयः "स्वस्त्रीयो मातुलस्य" इति शातातपवाक्यात् तदभावे सन्निधिक्रमेण मातामहसपिण्डाः, तदभावे तत्समानोदका: । "मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा" इति विष्णुपुराणवाक्यात् । तदभावे सन्निधितारतस्येन स्वबान्धवा, तदभाषे पितृबान्धवाः, तदभावे मातृबान्धवाः, "सगोत्राश्चैव बान्धवाः" इत्युदाहृतप्रचेतोवाकबेन बान्धवानामप्यधि कारप्रतिपादनात् । “तत्सुतो गोत्रजो बन्धुः" इति याज्ञवल्क्यवाक्येन बन्धूनां धनाधिकारप्रतिपादनाच्च । ते च- , आत्मपितुः श्वसुः पुत्रा आत्ममातुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विशेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः | पितुर्मातुलपुत्राश्च विशेयाः पितृबान्धवाः ॥ मातुः पितुःस्वसुः पुत्रा मातुर्मातु: स्वसुः सुताः।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७०
एतत् पृष्ठम् परिष्कृतम् अस्ति