जीवच्छ्राद्धनिर्णयः । मातुर्मातुलपुत्राश्च विशेया मातृबान्धवाः || तदभावे श्वशुरः, तदभावे जामाता, "जामातुः श्वसुराश्चक्रुः तेषां ते चापि संगताः" इति ब्रह्मपुराणात्, तद्भावे मातामहीभ्राता | "भागिनेयीसुतानां च सर्वेषां त्वपरेऽहनि । श्राद्धं कार्ये च प्रथमे स्नात्वा कृत्वा जलक्रियाम् ॥ । इति ब्रह्मपुराणात् । तदभावे यथाक्रम शिष्यर्तिवंगाचार्याः, "पुत्राभावे सपिण्डा मातृसपिण्डा वा शिष्याश्च दद्युः, तदभावे ऋत्विगा चार्या" इति गौतमस्मरणात् । तदभावे सब्रह्मचारिणः, "शिष्यसब्रह्मचारिणः" इति याज्ञवल्क्येन सब्रह्मचारिणो धनाधिकारप्रतिपादनात् । तदभावे स्वसुहृत्पितृसुहृदौ, "मित्राणां तदपत्यानाम्" इति ब्रह्मपुराणवाक्यात् । सर्वाभावे राजा कारयेत् "सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थत" इति स्कान्दोक्तेः । अधिकारिविशेषेणक्रियाव्यवस्थोका- विष्णुपुराणे | पूर्वाः क्रिया मध्यमाञ्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया होतास्तासां भेदान् शृणुष्व मे ॥ आदाहादादशाहाच्च मध्ये याः स्युः क्रिया नृप । ताः पूर्वा, मध्यमा मालि मास्येकोद्दिष्टसंशिताः ॥ प्रेते पितृत्वमापत्रे सपिण्डकिरणादनु । क्रियन्ते याः क्रियाः पुत्रा [त्रैः] प्रोच्यन्ते ता नृपोत्तराः ॥ पितृमातृसपिण्डैश्च समानसलिलैस्तथा । तत्सङ्घातगतैश्चैव राज्ञा च धनहारिणा ॥ पूर्वा मध्याश्च कर्तव्याः पुत्राद्यैरेव चोप्तराः | दोहर्वा नरश्रेष्ठ कार्यास्त त्तनयैस्तथा ॥ मृताहनि तु कर्तव्याः स्त्रीणामप्युत्तराः क्रियाः । [ इति अधिकारिनिर्णयः । ] अथ जीवच्छ्राद्धनिर्णय | तत्र बौधायनः । अथातो जीवच्छ्राविधिं व्याख्यास्यामः । यस्त्वात्मनः श्रेयसमिच्छ ति अपरपक्षे त्रयोदशीमुपोप्य तस्मिन्नेवाहनि सम्भारानुपकल्पयते, यान्यौर्ध्वदेहिकानिमृतानां, (१) वस्त्रषट्कं सुवर्णसूचीमङ्कुशं कन्यां रज्जुं ( १ ) वस्त्रषङ्कं सौवर्णी सूचीमङ्कुशं तान्तव पाशं कन्यां पलाशवृन्तमौदुम्वरीमासन्दीं ऋलशानीति, अन्यान्यपि च । श्वोभूते स्नात्वा — इति मुद्रित बौधायनगृह्यसूत्रे पाठः श्री० मि ४६ .
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७१
एतत् पृष्ठम् परिष्कृतम् अस्ति