वीरमित्रोदयस्य श्राद्धप्रकाशे- पालाशवृन्तं कृष्णाजिनमौदुम्बरीमा सन्दीं कलशादीम्यपि, तस्मिन्नेवाहनि, श्वोभूते १ स्नात्वा मध्याहे जले स्थिरवोपोत्थाय (१) पुण्याहं स्वस्त्ययनमिति वाचयित्वा वस्त्राङ्गुलीयकं दक्षिणां दद्यात, लघृतं पायसं दक्षिणामुखोऽश्रीयात् | अथ श्राद्धोक्तविधिनाग्निमुपसमाधाय परिस्तीयोनिमुखान् कृत्वा पक्काज्जुहोति "चत्वारि शृङ्गा” इति पुरोनुवाक्या- मनुष्य त्रिधा हितमिति याज्यथा जुहोति । तत्सवितुर्वरेण्यमिति पुरोनुवाक्यामनूष्य 'योजयित्री सुनृतानाम्' इति याज्यया जुहोति । चत्वार इति पुरोनुवाक्यामनूव्य द्वे स्रुती इति याज्यया जुहो ति। (२) वसूनि पुरोनुवाक्यामनुष्य यातिरश्चनिपचतेहमिति याज्यथा जुहोति । अथाज्याहुतीरुपजुहोति, पौरुषेण सुकेनाष्टा दशन घृतं हुवा गायडया अष्टसहस्रमष्टशतमष्टाविंशर्ति वा जुहुयात् स्विष्टकृत्प्रभृतिसिद्ध माधेनुवरप्रदानात् । धार्य एवाग्निरासमाप्तेः । चक्षुष्पथं गत्वा सुचीमङ्कशं कन्थां रज्जुमिति कृष्णतनवे हस्वाय ब्राह्मणाय दत्वा प्रीयन्तां यमकिङ्करा, इति वाचयित्वा व्रीहिषु कलशान् सादयेत् तन्तुनावेष्ट्य जलपूर्णान् पुरुषाकर्ति कृत्वा त्रीणि शीर्ण, मुखे त्रीणि ग्रीवाया मेकविंशर्ति शरीरे चतुष्टयं, बाहो द्वे लिङ्गस्यैकं, पादयोः पञ्च पश्चेति प्रीतोस्तु भगवान् यमः, इति । तत आसन्दीं कृत्वा पञ्चगव्येन प्रक्षालय पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा कलशपुरुषे प्राणानामनिवेश्य वृन्तशरीरे देहमभिनिवेश्य स्वपेत् | उदिते सूर्ये कलशैर्देहं स्वयमेवाभिषेचयेत् पौरुषेण सूक्तेन पञ्चगव्येन शुद्धोदकेन, सायाह्न सतिलमन्न सर्पि बाऽश्नीयात् । ब्राह्मणानपि यमकिङ्करतृप्तये भोजयेत् । चतुर्थ्यो यन्त्र दाहः, उदकं पिण्ड चामुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधेति नमस्कारान्तं कृत्वा समापयेत् । , तत्राशौचं दशाहं स्थात् स्वस्य ज्ञातेर्न विद्यते । एकादश्यामेकोद्दिष्टमिति प्रतिपद्यते । अधाप्युदाहरन्ति । ( १ ) पुण्याह स्वस्ति-ऋद्धिम् इति मु० बौ० पाठः । ( २ ) अग्ने नय इति पुरोनुवाक्यामनूच्थ या तिरक्षी इति ग्राज्यया जुहोति । • इति मु• बौ० पाठः । .
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७२
एतत् पृष्ठम् परिष्कृतम् अस्ति