पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवच्छ्राद्धनिर्णयः | आपत्रः स्त्री च शूद्रश्च मन्त्रैर्दग्ध्वा स्वकां तनुम् । तदद्वैव क्रियाः सर्वाः कुर्यादित्येव हि श्रुतिः । स्त्रीणां तृष्णीं समन्त्रक वा, मासिमास्येवं संवत्सरादूर्ध्व प्रतिसं वत्सरमाद्वादशाब्दात्, ततो निवृत्तिः, यदा स्वयं न शक्नुयात्, तदा पुत्रादयः कुर्युः । अथाप्युदाहरन्ति । जीवन्नेवात्मनः श्राद्धं कुर्यादन्येषु सत्स्वपि । यथाविधि प्रवृत्याशु सपिण्डीकरणाहते ॥ इति । तस्योक्तं कालं न विलम्बयेत, यतोऽनिश्यम् जीवनमिति शेष समापयेत् इत्याह - भगवान् बौधायनः । लिङ्गपुराणे | साम्प्रतम् । जीवच्छ्राद्धविधिं वक्ष्ये समासाच्छुतिसम्मतम् । मनवे देवदेवेन कथितं ब्रह्मणा पुरा ॥ ( १ ) वासिष्ठाय वसिष्ठाय भार्गवाय शृण्वन्तु सर्वभावेन सर्वसिद्धिकरं परम् ॥ श्राद्धमार्गक्रमं साक्षात श्राद्धार्हाणामपि क्रमम् । विशेषमपि वक्ष्यामि जीवच्छ्राद्वेषु यः स्मृतः ॥ पर्वते वा नदीतीरे बने देवालयेऽपि वा । जीवच्छ्राद्धं तु कर्तव्यं मृत्युकाले प्रयत्नतः । जीवच्छ्राद्धे कृते जीवो जीवशेव विमुच्यते ॥ कर्म कुर्वत्रकुर्वन् वा अज्ञानो ज्ञानवानपि । श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा ॥ वैश्यो वा नात्र सन्देदो योगमार्गरतो यथा । परीक्ष्य भूमिं विधिना गन्धवर्णरसादिभिः ॥ शल्यमुद्धृत्य यत्नेन स्थण्डिलं सैकतं भुवि । मध्यतो हस्तमानेन कुण्डं चैवाग्रतः शुभम् ॥ स्थण्डिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः । उपालिप्य विधानेन चोलियासि निधाय च ॥ अन्वाधाय यथाशास्त्रं (२) परिसमुह्य सर्वतः । (१) वसिष्ठाय च शिष्टाय भृगवे भार्गवाय च । इति मुद्रितलिङ्गपुराणे पाठः । (२) परिगृह्य च सर्वत इति मुद्रितलिङ्गपुराणे पाठः ।