पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवच्छ्राद्धनिर्णयः । ३६५ भीमस्य देवस्य परम्बै जनः स्वाहा । ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशाय देवाय तपो नमः । ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशाय देवाय तपः स्वाहा । ॐ ईश रजो मे गोपाय द्रव्ये तृष्णां ईशस्य देवस्य पत्न्यै तपो नमः | ॐ ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य देवस्य पत्म्यै तपः स्वाहा । ॐ महादेव सत्यं मे गोपाय ग्णा मीशस्य देवस्य पत्म्यै तपः स्वाहा । ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः । ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा । ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्न्यै ऋतं नमः । ॐ महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्न्यै ऋतं स्वाहा । ॐ पशुपते पाशं मे गो पाय भोक्तृत्वं भोग्ये पशुपतये देवाय सत्यं नमः । ॐ पशुपते पाशं मे गोपाय भोक्तृत्वं भोग्ये पशुपतये देवाय सत्यं स्वाहा । ॐ पशुपते पाशं मे गोपाय भोक्तृत्वं भोग्ये पशुपतेर्देवस्य परन्यै सत्यं नमः । ॐ पशुपते पाशं मे गोपाय भोक्तृत्व भोग्ये पशुपतेर्देवस्य पत्न्यै सत्यं स्वाहा । ॐ शिवाय सत्यं नमः । ॐ शि वाय सत्यं स्वाहा । एवं शिवादिहोतव्यं विरिन्ध्यन्तं च पूर्ववत् । विरिsव्यन्त [अध्याद्यं] पुराप्रोक्तं सृष्टिमार्गेण सुव्रताः ॥ पुनः पशुपतेः पत्नीं तथा पशुपति क्रमात् । सम्पूज्य पूर्ववन् मन्त्रैहोतग्यं वै क्रमेण च ॥ चर्वन्तमाज्यपूर्वं च समिदन्तं समाहितः । ॐ शर्ष घरां मे छिन्धि, घ्राणे गन्धं छिन्धि, मेऽघं जहि । भूः स्वाहा | भुवः स्वाहा । स्वः स्वाहा । भूर्भुवः स्वाहा । एवं पृथक् पृथक् हुत्वा केवलेन घृतेन च ॥ सहस्रं वा तदर्घे वा शतमष्टोत्तरं तु वा । ( १ ) पशुपत्यन्त माज्येन शतमष्टोत्तरं पृथक् ॥ प्राणादिभ्यश्च जुहुयात् घृतेनैव तु केवलम् । ॐ प्राणेनिविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा | प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा । ॐ भू स्वाहा । ( १ ) विरजा च घृतेनैवेति मुद्रित लिङ्गपुराणे पाठः । विरजा= तत्संज्ञकदीक्षाम- न्त्रैरिति लिङ्गपुराणठीका ।