पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरामित्रोदयस्य श्राद्धप्रकाशे- ॐ भुवः स्वाहा | स्वः स्वाहा | भूर्भुवः स्वः स्वाहा । एवं क्रमेण जुहुयात् श्राद्धोकं च यथाक्रमम् । सप्तमेऽहनि (१) विप्रेन्द्रान् आद्धार्हान विप्र योजयेत् ॥ सर्वेषां चैव विप्राणा वस्त्राभरणसयुतम् । वाहन शयनं (२) कांस्यमासनादि च भाजनम् ॥ हैमं वै राजतं धेनुं तिलक्षेत्रं च वै गृहम् । दासीदासगणं चैव दातव्यं दक्षिणापि च ॥ पिण्डा पूर्ववयं पृथगुक्तप्रकारतः । ब्राह्मणानां सहस्रं च मोजयेव सदक्षिणम् । एकं वा योगनिरतं ब्रह्मनिष्ठं जितेन्द्रियम् ॥ प्रत्यहं चैव रुद्रस्य महाचरुनिवेदनम् । विशेषमेतत् कथितमशेषं श्राद्धचोदितम् || मृते कुर्यान कुर्याद्वा जीवन् मुक्तो यतः स्वयम् । नित्यं नैमित्तिक यत्तु कुर्याद्वा सन्त्यजेत वा ॥ बान्धवेऽपि मुते तस्य नैषाशौचं विधीयते । सूतकं च न सन्देहः स्नानमात्रेण शुद्ध्यति । पश्चाज्जाते कुमारे च स्वक्षेत्रे चात्मनो यदि ॥ तस्य सर्व प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद् भवेत् । कन्यका यदि सञ्जता पश्चात्तस्य महात्मनः ॥ एकपर्णा इवाज्ञेया अपर्णा इव सुव्रता । भवत्येव न संदेहस्तस्याश्चान्वयजा अपि ॥ मुच्यन्ते नात्र सन्देहः पितरो नरकादपि । मुच्यन्ते (३) सर्वकर्माणो मातरः पितरस्तथा ॥ काङ्गते द्विजे भूमौ खनेद्वापि दहेत वा । पुत्रकृत्यमशेषं वा कृत्वा दोषो न विद्यते ॥ कर्मणा चोत्तरेणैव गतिरस्य महात्मनः । ब्रह्मणा कथितं सर्वे मुनीनां भावितात्मनाम् ॥ ( १ ) योगीन्द्रान्-श्राद्धाहानपि भोजयेत् । इति मु० लि० पु० पाठः ( २ ) यानं कास्यताम्रा दिभाजनम् । इति मु० लि० पाठः । ( ३ ) कर्मणानेनेति मु० लि. पाठः ।