पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवच्छ्राद्धनिर्णयः । पुनः सनत्कुमाराय कथित तेन धीमता ॥ कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना | प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः ॥ ज्ञातं मया कृतं चैध नियोगादेव तस्य तु | एतद्वः कथित सर्व रहस्य सर्वसिद्धिदम् || नैव दुष्टाय दातव्यं न चाभक्ताय सुव्रताः । अत्र कानिचित पदानि व्याख्यायन्ते || वक्ष्ये इति=सुतः श्रोतॄन् प्रत्याह । श्राद्धमार्गेति । जीवच्छ्राद्धाद्याध कारप्रकारम् । विशेष = देशकालादिरूपम् । मृत्युकाले= मरणकाले समासको । जीवन्नेवेति=सत्वशुद्धिद्वारेण तत्वज्ञानलाभात् मुख्यत एवेश्यर्थः । अप्रत इति । मध्यस्थण्डिलादच्यर्चनार्थात् प्राग्दिशि कुण्ड स्थण्डिलं वा होमार्थ कार्यम् । एतैः=वश्य माणब्रह्मादिमन्त्रैः । स्थाण्डले ब्रह्मादन सम्पूज्य तैरेव समिधादीन् जुहुयात् । आत्मनोति । आत्मि तत्वानि भूतानि च तत्तन्मन्त्रप्रकाशितानि एकैकशः समुद्धृत्य पृथक् कृतानीति भावयित्वा तां तां देवतामुद्दिश्य जुहुयात् । ततस्तत्तत्तत्वं शुद्धं भावयेत् । अत्र नमोन्तः पूजायां, स्वाहान्तो होमे मन्त्रः । तत्र ब्रह्मादिप्रथमाष्ट॑के तत्तद्देवानां पूजाहोमौ । एवं सृष्टिक्रमेण द्विचतुर्वि शतिमन्त्रानुक्का संहारे तद्विपरीतताप्रदर्शनार्थे प्रथमाष्टकप्रान्तमन्त्रमाद्यत्वेनोदाहरति । ॐ शिवाय सत्यमित्यादि । एवमिति । सृष्टिक्रमेण प्रागुतविरिञ्ज्यादिशिवान्तदेवताष्टकमन्त्रेषु पुनः संहारक्रमेण ॐ शिवाय सत्यं स्वाहेत्यादि ब्रह्मणे स्वाहेत्यन्तम् । तथा पशुपतिप त्यादिशर्वान्तं उक्तक्रमेण सम्पूज्य घृतचतु [रु] समित्क्रमात् प्रत्ये कं होतव्यम् । ॐ शर्वेत्यादि केवलाज्यहोममन्त्राः । तत्र शर्वधरामिति वायत्रयान्ते भुवः स्वाहेति तृतीयो भूर्भुवः स्वाहेति चतुर्थो मन्त्रः । एव पृथक् पृथक् । अथ भूः स्वाहेत्यादिभिरूहितैः चतुर्भिर्मन्त्रैः होमः तथा विराश्च मन्त्रैश्च तथा प्राणे निविष्ट इत्यादि षण्मन्त्रैश्च श्राद्धोक्तः पितृपितामहप्रपितामहोद्देश्यको होमश्च । एवं सप्ताहं प्रत्यहं हुत्वा स तमे दिने मवादितत्वाइशेन विप्रानभ्यर्च्य शर्वादिभ्योऽष्टौ पिण्डा देयाः । एवं कृते जीवच्छ्राद्धे स्वबान्धवे मृते नाशौचं न च सुतकम् । तस्मादुत्पन्नः पुत्रोऽपि पित्रादिना जातकर्मादिना संस्कार्यः स च