पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- शानी भवेत् । एवं दुहिता च । तथा चैतत् सन्ततौ योगिनो जायत इति । आदिपुराणे । देशकालघनश्रद्धा व्यवसायसमुच्छ्रये । जीवते चाप्यजीवाय दद्यात् श्राद्धं स्वयं नरः ॥ वाशब्दाच्छ्राद्धकर्जन्तराभावे स्वयमेव स्वस्य श्राद्धं कर्तव्यमिति । तथा । कृतोपवासः सुनातस्त्रयोदश्यां समाहितः । कर्तारमथ भोकार विष्णुं सर्वेश्वरं यजेत् || जले स्थलेऽम्बरे मूर्ती कलशे पुष्करे रवै।। चन्द्राग्निगुरुगोविप्रमातापितृषु सर्वगम् ॥ सदक्षिणाश्च सतिलास्तिस्रस्तु जलधेनवः | निवेदयेत् पितृभ्यश्च तद्प्रेषु समाहितः || एवं विष्णुं सम्पूज्य पितुरुहेशेन तिस्रो जलधेनूर्वधात् कैर्मन्त्ररित्यपेक्षित आह- सोमायत्वा पितृमते स्वधा नम इति ब्रुवन् । अनये कव्यवाहनाय स्वधा नम इति स्मरन् । दक्षिण तु निद्ध्याच्च तृतीयां दक्षिणायुताम् । यमायाङ्गिरसे वाथ स्वधा नम इति स्मरन् ॥ तयोर्मध्ये तु निक्षिप्य विप्रान् पञ्चोपवेशयेत् । अग्नये कव्यवाहनाय स्वधा नम इतीमं मन्त्रं स्मरन् "दक्षिणेन द्वितीयां निद्ध्यात्" इत्युक्तेः, अर्थात् प्रथमाबा उत्तरतो निधानं सिद्धं भवति । तृतीयान्तु तयोः पूर्वोक्तयोर्धेन्वोर्मध्ये निक्षिप्य पञ्चधिप्रानु- पवेशयेत् इति योजना | आवाहनादिना पूर्वे विश्वेदेवान् प्रपूज्य च । वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः ॥ सूर्येभ्यस्त्वामहं विप्र भोजयानीति तान् वदेत् । आवाहनादिकं सर्वे कुर्याच्च पितृकर्मवत् ॥ सौम्यधेनुस्ततो देया वासवाय द्विजाय तु । आग्नेयीं चाथ रौद्राय याम्यां सूर्यद्विजाय तु ||