पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धनिर्णयः अशौचान्ते यतः सर्वे आत्मनो वापरस्य च ॥ कुर्यादस्थिरतां ज्ञात्वा भक्त्यारोग्यधनायुषाम् । इति जीवच्छाद्धनिर्णयः । अथ संन्यासाश्राद्धनिर्णयः । तत्र संन्यासमधिकृत्य- ३७१ बौधायनसूत्रे । आदौ अग्निमान् पार्वणविधिनाष्टौ श्राद्धानि कुर्यात् । पूर्णमास्या- ममावास्यायां वा देवश्राद्धम्, ऋषिश्राद्धं, दिग्यश्राद्धं, मानुषश्राद्धं, भूतश्राद्धं, पितृश्राद्धं, मातृश्राद्धम्, आत्मनः श्राद्धं चेति । देवश्राद्धे देवतात्रय ब्रह्मविष्णुमहेश्वराः । ऋषिश्राद्धे देवतात्रयं देव. र्षिब्रह्मर्षिक्षत्रर्षयः | दिव्यश्राद्धे देवतात्रयं वसुरुद्रादित्याः | मनुष्यश्राद्धे दे सत्यं सनकलनन्दनसनातनाः । भूतश्राद्धे देवतात्रयं पृथिव्यादीनि, [भूतानि] चक्षुरादीनि करणानि, चतुर्विधो भूतग्रामः । पितृश्राद्धे देवतात्रयं पितृपितामहप्रपितामहाः, मातामहमातुःपितामहमातुःप्रपितामहाश्च । मातृश्राद्धे देवतात्रयं मातृपितामहीप्रपितामह्यः । आत्मश्राद्धे देवतात्रयं, आत्मपितृपितामहाः । अथातः शौनकप्रोक्तं संन्यासविधि व्याख्यास्यामः । पूर्वेधुर्नान्दी मुखश्राद्धं कुर्यात् । देवर्षिदिव्यमनुष्यभूतपितृ [मातृ] आत्मनश्च पृथक् पृथक् पिण्डदानैर्युग्मैर्ब्राह्मणैः पिण्डोदकं दद्यात् । देवश्राद्धे देवता त्रयं [ ब्रह्मविष्णुमहेश्वराः, पिण्डत्रयं दद्यात् । ऋषिश्राद्धे देवतात्रय, ] देवर्षिक्षत्रार्षिमनुष्यर्षयः, पिण्डत्रयं दद्यात् । दिव्यश्राद्धे देवतात्रयं वसुरुद्रादित्याः पिण्डत्रयं दद्यात् । मनुष्यश्राद्धे देवतात्रय सनकसनन्दनसनातनापिण्डत्रयं दद्यात् । भूतश्राद्धे देवतात्रयं पृथिव्यादीनि भूतानि, चक्षुरादीनि करणानि, चतुर्विधो भूतग्रामः, [ पिण्डत्रयं दद्यात् । पितृश्राद्धे देवताषट्कम्, पितृपितामहप्रपि तामहाः, मातामहप्रमातामहवृद्धप्रमातामहाच पिण्डषट्कं दद्याद्, मातृश्राद्धे देवतात्रयं मातृपितामहीप्रपितामह्यः ] पिण्डत्रयं दद्यात् । आत्मश्राद्धे देवतात्रयं आत्मपितृपितामहाः पिण्डत्रयं दद्यात् । नामगोत्र सम्बधात्पिण्डोदकं दद्यात, अनन्तरं पुण्याहं वाच येदिति । इति संन्यासाङ्गश्राद्धनिर्णयः |