पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

३७२ वीरमित्रोदयस्य श्राद्धप्रकाशे- प्रत्याशं परिवर्द्धतेऽर्थिजनता दैन्यान्धकारापहे श्रीमद्वीर मृगेन्द्रदानजलाधेियद्वक्त्रचन्द्रोदये ॥ राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते ग्रन्थेऽस्मिन् खलु निर्मितः सुरुचिर: श्राद्धप्रकाशोऽगमत् ॥ इति श्रीमत्सकलसामन्तचक्रचूड़ामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनुजश्रीमन्महाराजमधुकरसाहसूनुचतुरुदाधवलयवसुन्धराहृदयपुण्डरीकावकासदिनकरश्रीमन्महाराजश्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मश्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीणजगद्दारिद्र्यमहागजपारीन्द्रषिद्वज्जनजीवातुश्रीमन्मित्रमित्रकृते वीरमित्रोदयामिधनिबन्धे श्राद्धप्रकाशः 'समाप्तः । सर्वविधपुस्तक प्राप्तिस्थानम्- जयकृष्णदास - हरिदास गुप्तः- - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, बनारस सिटी ।