पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- व्यासः हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः । तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ वर्द्धमानतिलैः श्राद्धमक्षय्यं मनुरब्रवीत् । मार्कण्डेयः- गोधूमैरिक्षुभिर्मुद्रैः सतीनैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेक पितामहाः । सतीनाः = कलाया: । "कलायस्तु सतीनक" इत्यभिधानात् । मध्य. देशे वटुरीति प्रसिद्धः । अथ वर्ज्याणि धान्यानि | वायुपुराणे, अकृताप्रयणं धान्यजातं वै परिपाटलाः । राजमाषानणूंश्चैव मसुरांश्च विवर्जयेत् || अन्ननिष्पत्तावाहिताग्नेरिष्टिविशेष आग्रयणम् | अनाहिता नेस्तु नवानेव स्थालीपाकः । सर्वेषां वा श्राद्धमेवाग्रयणम् । श्यामा कैरिक्षुभिश्चैव पितॄणा सार्वकामिकम् । कुर्यादाश्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ॥ इति तत्रैवोक्तेः । धान्यजातं = विहितधान्यमात्रम् | इदं चाकृता प्रयणमित्यनेन सम्बध्यते । मसूरो= रोमाङ्गल्य का ख्याश्चिपिटका कृतिः शिम्बीधान्यविशेषः । षट्त्रिंशन्मते, कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्माणि | न वर्जयेतिलांश्चैव मुद्रान्माषास्तथैव च ॥ अत्र तिलमुद्गमाषाणामवर्जनं न तज्जातीय मात्रेऽन्वेति । अपि तु पूर्वे कृष्णगुणनिषेधात्तस्यैव प्रतिप्रतवार्थ लाघवात् । इतरेषां व र्जनप्रसत्यभावाच्च । अतश्चेतरेषां न विधिर्न निषेधः । राजमाषाणां तु नित्यं निषेध एव वक्ष्यमाणवचनात् । स्मृतिचन्द्रिकाकारस्तु "मुगाढकी माषवर्जे द्विदलानि न दद्यात्" इतिभारद्वाजवचने नज्युक्तस्य पाठस्य दर्शनादित्याह । आढकी = शिम्बिधान्यविशेषः । मुद्रुमाषौ प्रसिद्धौ । पाषा. णयन्त्रभ्रमणेन प्रायशो द्विधा भिद्यते तद् द्विदलम् । अत्र चय आढकी चणकाने याबादीनां विधिः स कृष्णेतरविषयः । यच निषेधः स कृष्णविषयः पूर्वोदाहृतवचनात् । यद्वा विहितप्रतिषिद्धत्वादिकल्पः ।