पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- स्यन्दिनीयमसूसन्धिनीनां च याश्च वत्सव्यपेताः । क्षीरं अपेयमित्यनुषङ्गः । स्यन्दिनी=स्वयमेव क्षरत्क्षीरा, स्रवद्योनिर्वा । वत्सव्यपेता= अवत्सा, वत्सं विना वा दुग्धा । "न हृतवत्सायाः शोकाभिभूतत्वात्, न दुग्धाया विना वत्सात्”, इति हारीतवचनात् । अत्र शोकापगमे न निषेधः हेतुमन्निगदात् । इति वर्ज्यानि । अथ मांसानि । मनुः, मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । मक्षारलवणज्जैव प्रकृत्या हविरुध्यते ॥ (अ० ३ श्लो० २५७) तथा पितॄणां मासिक श्रद्धं अन्वाहार्थं विदुर्बुधाः । तदामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः॥ (अ० ३ श्लो० १२३) मासिक प्रतिमासभवममावास्याश्राद्धं तन्मुनयोऽन्वाहार्यमिति विदुः । तदामिषेण मांसेन प्रशस्तेनाप्रतिषिद्धेन विशेषविहितेन वा कर्तव्यमित्यर्थः । अयं च मुख्यः कल्पः । तथा च स्मृत्यन्तरम् सर्पिर्मांसं च प्रथमः कल्पः | अभावे तैलं शाकमिति । मांसं च व्यञ्जन त्वेन देयं न तु स्वातन्त्र्येण, गुणांश्च सूपशाकाद्यान् इति वचनात् । स्मृत्यन्तरे, तथा, विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत् । क्रव्यादाः पितरोयस्मादलाभे पायसादयः || मांसं शाकं दधि क्षीरं मधु मुन्यन्नमेव च । तित्तिरिं च मयूरं च लावकं च कपिञ्जलम् । वाघ्रणसं वर्तकं च भक्ष्यान्याह यमः सदा ॥ तित्तिरिः = चित्रपक्षः । मयूरः = शिखण्डी | लावकः = प्रसिद्धः | कपिजल = चभ्रुवर्णः पक्षी | गौरतित्तिर इति केचित् । वाघ्रणसः पूर्वोदाहृत निग मोकलक्षणः । वर्तकः-वृत्ताकारः पक्षिविशेषः । मनुः, पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः ॥ (अ० ५ श्लो०१६)