पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अथ श्राद्धीयब्राह्मणनिरूपणम् । तत्र ब्राह्मणत्वजातिमान् ब्राह्मणः । ब्राह्मणत्व च विशुद्धमातापितृजन्यत्वज्ञान सहकृतप्रत्यक्षगस्य जातिरूपं रतत्वावान्तरजाति वत् | तदेव ब्राह्मणपदप्रवृत्तिनिमित्तम् । न च याजनाध्यापनप्रतिग्र हादि प्रवृत्तिनिमित्तमस्त्विति वाच्यम् । याजनादिविधौ ब्राह्मणस्य इयत्वेन पूर्वप्रसिद्धिसापेक्षत्वात्, याजनादेर्विधेयत्वेन पश्चाद्भावित्वा दवेष्ट्यधिकरणोक्त न्यायेन ( १ ) पूर्वप्रवृत्तिनिमित्तत्वायोगात् (२) | आ हवनीयादौ त्वनुपपत्या तदाश्रयणम् (३) । प्रतिग्रहादिनिवृत्तेष्वव्या तेरापदिक्षत्रियादिषु प्रतिग्रहादिप्रवृत्तेष्वतिव्याप्तेश्च । यन्तु यमशातातपाभ्यामुक्तम् । तपो धर्मो दया दानं सत्यं ज्ञान श्रुतिघृणा | विद्याविनय मस्तेयमेतद्ब्राह्मणलक्षणम् ॥ इति न तच्छब्दप्रवृत्ति निमित्तपर, किन्तु हव्यकव्यसम्प्रदानब्राह्म णप्राशस्त्यपरम् । अत एव - बौधायने, विद्या तपश्च योनिश्च एतद् ब्राह्मणलक्षणम् । विद्यातपोभ्यां यो हीनो जातिब्राह्मण एव सः ॥ इति विद्यारहितेऽपि जातिमात्रेण ब्राह्मणत्वं दर्शयति । इति ब्राह्मण लक्षणम् । अथ ब्राह्मणप्रशंसा | यावतीवै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति । इति । याज्ञवल्क्यः, ( अ० १ दानप्र० श्लो० १९८) तपस्तत्वासृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये | तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ इति । तैत्तिरीये, भविष्येsपि, (१) पूर्वममि० अ० २ पा० ३ अधि० २ । (२) यथा “राजानमभिषेचयेत्” इत्यभिषेकविधौ राज्ययोगात् पूर्वमेव प्रयु. तस्य राजशब्दस्य क्षत्रियत्वमेव प्रवृत्ति निमित्त न तु राज्ययोगः, तथा प्रकृतेऽपि ब्राह्मणशब्दस्यादृष्टविशेषप्रयोज्य ब्राह्मणत्वमेव प्रवृत्तिनिमित्तं न तु याजनादियोग इति ध्येयम् । (३) आघानसाध्यस्यैव। ऽऽहवनीयपदार्थत्वादिति भावः ।