पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- त्रियायैव देयानीत्युक्त्वा -- सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥ इति ( अ० ३ श्लो० १३१ ) अनुचाम्=अधर्मशानाम् । अध्ययनस्य "श्रोत्रियायैव" देयानि इत्यत एव प्राप्तेः, अनधीयानानामप्राप्तेः | प्रीतस्तर्पितो भोजित इति यावत् । सर्वान्स्तानचा नार्हति स्वीकरोति यैरभेदमापद्यते । एव च तेषु सह सादिसइयेष्वपि भोजितेषु यत् फलं तदेकेनापि लभ्यत इत्यर्थ इति हेमाद्रयादयः । वस्तुतस्तु एतस्य वाक्यस्य पूर्वोक्तश्रोत्रियसम्प्र. दानकदानविधेः प्रशसार्थत्वमेव युक्तम् । मेधातिथिना तु अनुचा इति प्रथमाबहुवचनान्तपाठ उद्धृतः, तस्मिन् पक्षे अनुचाः सहस्र यत्र भुञ्जते इति सम्बन्धः । गौतमः, श्रोत्रियान् वाक्पवयःशीलसम्पन्नान् युवभ्यो दानं प्रथममेके पितृवदिति | वाकूसम्पन्नाः = वेदशास्त्रविदः । रूपसम्पन्ना:-सुन्दराः वयःसम्पन्नाः =नातिस्थविरा अपरिणतवयसश्च । शलिसम्पन्नाः= मनो वाक्कायैः सकलप्राणिहितकारिणः । युवभ्यो दानं प्रधानमेके मन्यन्ते ते हि श्राद्धीयनियमसम्पादनक्षमा भवन्ति । पितृवदेके पितरमुद्दिश्य स्थविरं प्रपितामहमुद्दिश्य स्थविरतरमिति | वशिष्ठः । पितृभ्यो दद्यात् पूर्वेद्युब्रह्मणान् सन्निपात्य यतीन् गृहस्थान साधूनपरिणतवयसोऽविकर्मस्थान श्रोत्रियान् शिष्यानन्तेवासिन इति । पूर्वेधुः श्रद्धादनात्, सन्निपात्य= आमन्त्र्य | यतयः = प्रत्रजिताः । ते च- मुण्डान् जटिलकाषायान् श्राद्धकाले विवर्जयेत् । शिखिभ्यो धातुरतेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् ॥ इति वचनात् । साधुरुक्त आदित्यपुराणे--- अक्रोधना धर्मपराः शान्ता शमदमे रताः । निस्पृहाञ्च महाराज ते विप्राः साधवः स्मृताः ॥ इति । सौरपुराणेsपि, गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तितः । तत्रोत्पना द्विजा ये वै साधवस्ते प्रकीर्तिताः ॥ इति ।