पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- मन्त्रब्राह्मणविद् चतुर्मेधो वाजसनेयी यः स्वधर्मानधीते यस्य च दशपुरुषं मातृपितृवंशः श्रोत्रियो विज्ञायते विद्वांसः, स्नातकाश्चै ते पडिपावना भवन्ति । चतुर्मेधः = सर्वतोमुखयाजी, अथवा चातुमस्ययाजी । तयोर्हि चत्वारो यज्ञाः सन्ति । वाजसनेयी = वाजसनेयशाखाध्येता | धर्मः=प्रवर्ग्यभागः । यम, वेदविद्याव्रतस्त्राताः ब्राह्मणाः पङ्किपावनाः । व्रतचर्यासु निरताः ये कृशाः कुशवृत्तयः || अनुक्रान्ताः स्वधर्मेभ्यस्ते द्विजाः पडिपावनाः । सत्रिणो नियमस्थाश्च ये विप्राः श्रुतिसम्मताः । व्रतानि =कृच्छ्रचान्द्रायणादीनि | कृशाः = तपोभिः शोषितशरीराः । कुशवृत्तयोऽश्वस्तनादिवृत्तयः । सत्रिण=इति स्थाने मन्त्रिण इति क्वचित् पाठः, तदा मन्त्रो गायत्र्यादिस्तनिष्ठा इत्यर्थः । तथा, प्राणिहिंसानिवृत्ताश्च ते द्विजाः पङ्क्षिपाचनाः । अग्निहोत्ररताः क्षान्ताः क्षमावन्तोऽनसूयकाः ॥ ये प्रतिग्रहनिस्नेहास्ते द्विजाः पङ्क्षिपावनाः । हारीतः, सौपर्णस्त्रिशीर्षा दशोभयतः श्रोत्रियास्त्रिणाचिकेतास्त्र मधुरित्र ज्येष्ठ सामगः पञ्चाग्निः षडङ्गवित् रुद्रजाप्यूर्ध्वरेता ऋतुकालगामी तत्वविश्वेति पङ्किपावना भवन्ति । अथाप्यत्रोदाहरन्ति । पचनः पाचनत्रेता यस्य पञ्चायो गृहे । सायं प्रातः प्रदीप्यन्ते स विप्रः पङ्क्षिपावनः || सहस्रसम्मितं प्राहुः स्नातकं पूर्ववत् गुणैः । पञ्चाग्न्यादिगुणैर्युक्तः शतसाहस्र उच्यते ॥ अनुचां यदि वा कृत्स्नां पड़ियोजनमायताम् । पुनाति वेदविद् विप्रो नियुक्तः पङ्किमूर्धनि | दशोभयत इति । मातृतः पितृतश्चेत्यर्थः । त्रिशीर्ष = अथर्व रुद्र वैश्वा मरशिरसामध्येता | ऊर्ध्वरेता = नैष्ठिकब्रह्मचारी | तत्ववित्=आत्मज्ञान वान् गृहस्थोऽपि | पचनः वैश्वदेवार्थपाकोपयोग्यावसथ्योऽन्यो वा, केषां चिच्छा खायामावसथ्यातिरिक्तस्य तस्योक्तत्वात् । पाचनः=लभ्यः | एतस्य च पाक प्रयोजक कर्तृत्वमावसथ्या नियतत्वात् गौण्या वृत्स्यो.