पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणानुकल्पनिरूपणम् | वृत्तविद्याकुलानां मध्ये विद्यावृत्ते गरीयसी इत्याह- मनुः । किं ब्राह्मणस्य पितर किं वा पृच्छसि मातरम् | वृत्तं चेदस्ति विद्या वा तन्मातापितरौ स्मृतौ इति ॥ विद्यावृत्तयोवृत्तं ज्याय इत्याह स एव - गायत्रीमात्र सारस्तु वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी || असम्बन्धिनो मुख्या इत्युक्तं तदलाभे मनुराह- मातामहं मातुलं च स्वस्त्रीयं स्वसुर गुरुम् । दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यांस्तु भोजयेत् । ( अ० ३ श्लो० १४८ ) गुरु = उपाध्यायः | विशो दुहितुः पतिर्विट्पतिः, जामातेति यावत् । अतिथिरिति मेधातिथिः । बन्धु मातुलशालादिरलगोत्रस्तथा गुणी । कामं श्राद्धे ऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ॥ अभिरूपंगुणादि युक्तम् । विष्णुपुराणे | ७५ ऋत्विकस्व स्त्रीयदौहित्रजामातृश्वसुरास्तथा । मातुलोऽथ तपोनिष्ठः पितृमातृस्वसुः पतिः ॥ शिष्याः संबन्धिनश्चैव मातापितुरतश्च यः । एतान् नियोजयच्छ्राद्धे पूर्वोक्तान् प्रथमं नृप ॥ ब्राह्मणान् पितृतुष्टयर्थमनुकल्पेष्वनन्तरान् । पूर्वोक्तान् = श्रोत्रियादीन् | अनन्तरान्= मातामहादीन् अन्यगोत्रान् । एतेषामध्यभावे उक्ताः कूर्मपुराणे - अभावे ह्यन्यगोत्राणां सगोत्रानपि भोजयेत् ॥ इति । गर्गोऽपि, नैकगोत्रेहविर्दद्याद् यथा कन्या तथा हविः । अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् | असमप्रवराभावे समानप्रवरांस्तथा ॥ इति । अत्र विशेष उक्तोऽ त्रिणा, षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपि ।