पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- षड्भ्यः स्ववंशजेभ्यः । एतेन स्वगोत्रेषु सप्तमादूर्ध्वे भोजनीया इति सिद्धम् । एतदभावे आह- - गौतम । भोजयेन्नित्य ऊर्ध्व गुणवन्तमिति । आपस्तम्बस्तु, भोजयेत् ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्ते. वास्यसंबद्धान् गुणहान्यां तु परेषां समुदेतः । मन्त्रसंबद्ध = शिष्यः । समुदेतः = लोदर्यः । अत्र च विशेष उक्तोऽत्रेिणा-- पिता पितामहो भ्राता पुत्रो बाथ सपिण्डकः । न परस्परमर्याः स्युर्न श्राद्धे ऋत्विजस्तथा ॥ ऋत्विपित्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः । वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तरा इति ॥ अयं च पित्रादिनिषेधो न तदुद्देश्यकश्राद्धे, जीवपितृकस्य "वि प्रवच्चापि तं श्राद्धे” इत्यादिना पित्राद्युपवेशनविधानात किन्तु अन्यो- हेश्यकश्राद्ध एवेति बोध्यम् | ऋत्विजोऽपि श्रद्धेन भवन्तीत्यर्थ । अतश्च मनुवचनेऽपि ऋत्विग्विधिर्वैश्वदेवस्थान एवेति बोध्यम् । निर्गुणस्याप्यनुकल्पत्वमाह वशिष्ठ - ●- आनुशंस्यं परो धर्मो याचते यत् प्रदीयते । अयाचतः सीदमानान् सर्वोपायैर्निमन्त्रयेत् ॥ सीदमानेभ्योऽयाच केभ्यो देयमिति मुख्यो धर्मस्तदभावे याच मानेभ्योऽपीति । ननु मुख्याभावेऽनुकल्पस्य न्यायलभ्यत्वात् वचनमनर्थक मिति वेत सत्यम्, अनियमेन प्राप्तस्य नियमार्थानि वचनानि इति नानर्थ- क्यम्, निषिद्धानामपि वा संबन्धिनामनुकल्पत्वार्थ वचनानीति । इत्यनुकल्प निरूपणम् । अथ सन्निहितब्राह्मणाना मनतिक्रमणीयत्वमुच्यते । तत्र तदतिक्रमे दोष उक्तः शातातपपराशराभ्याम् - संन्निकृष्टमधीयान ब्राह्मण यस्त्वतिक्रमेत् | भोजने चैव दाने च दहत्यासप्तमं कुलमिति । सन्निकृष्टं= निकटस्थम् । सन्निहितस्याप्य वैदिकस्यातिक्रमे दोषाभाव उक्तो व्यासवशिष्ठशातात पै:- ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ||