पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । ब्रह्मवैवर्ते, शिष्याश्च ऋत्विजो याज्याः सुहृदः शत्रवस्तथा । श्राद्धेषु श्वसुर: श्यालो न भोज्या मातुलादयः || मनुः -- ( अ० ३ श्लो० १६८ ) ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मान हूयते ॥ कूर्मपुराणे, यस्य वेदश्च वेदी च विच्छिद्येते त्रिपौरुषम् | सवै दुर्ब्राह्मणोऽनर्हः श्राद्धादिषु कदाचन || वेदिः =दर्शपूर्णमासिकी, सौमिकी वा । वेदवेदीविच्छेदस्य प्रत्ये क निमित्तत्वं निमित्तविशेषणस्य साहित्यस्य हविरुभयत्ववत् । विष्णुः, न वार्यपि प्रयच्छेत बिडालवतिके द्विजे । न बकवतिके पापे नावेदविदि धर्मवित् || बैडालव्रतिकश्चोक्तो मनुना-- धर्मध्वजी सदा लुब्धः साग्निको लोकदाम्भिकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥ ( अ० ४ श्लो० १९५ ) यश्च धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् | यमस्तु प्रकारान्तरेणाह- यत् कारणं पुरस्कृत्य व्रतचर्यो निषेवते । पाप व्रतेन प्रच्छाद्य बैडालं नाम तद् व्रतम् ॥ अर्थ च विपुलं गृह्य (१) हित्वा लिङ्ग निवर्तयेत् । आश्रमान्तरितं रक्षेत् बैडालं नाम तद् व्रतम् ॥ यो ह्यन्यायन विपुलमर्थ संगृह्य राजादिभिस्तदपहारमाशङ्कमान' पूर्वाश्रमलिङ्गानि परिवर्ज्यात्तिमाननीयाश्रमस्वीकारेण तद्रव्यं रक्ष ति तस्य तद्रतं बैडालसंज्ञं भवति । तथा, प्रतिगृह्याश्रमं यस्तु स्थित्वा तत्र न तिष्ठति । आश्रमस्य तु लोपेन बैडालं नाम तद् व्रतम् ॥ (१) दत्वेति दानखण्डे पाठः ।