पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ वीरमित्रोदयस्य श्राद्धप्रकाशे- गौतमोऽपि - नष्टे भर्तरीति प्रक्रम्य द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धेनेति भर्तृप्रतीक्षा कालमुक्त्वाऽभिहितं भ्रातरि चैवं ज्यायसि यवीयान् क म्याग्न्याधेयेष्विति | नष्टे भर्तरि=कुत्र गत इत्यनिर्णीतेऽत्यन्तदूरदेशस्थित इति यावत् । विद्यासम्बन्धेनेति, विद्याग्रहणार्थ देशान्तरङ्गते भर्तरि ब्राह्मणभार्यया द्वादशवर्षाणि प्रतीक्ष्य भन्नवदोहक कार्यम् । एवं ब्राह्मणे ज्येष्ठे विद्या ग्रहणायें देशान्तरं भ्रातरि गते द्वादशवर्षे प्रतीक्ष्य यवीयसाss धानविवाहे कार्ये, कार्यार्थ तु गतेऽष्टौ द्वादश वर्षाणि प्रतीक्षणीयानि तनोsनागमं निश्चित्य कुर्यादिति तात्पर्यार्थः । अत एव सुमन्तुरप्रतीक्षणीयानाह- व्यसनासक्तचितो वा नास्तिको वाऽथवाग्रजः | कनीयान धर्मकामस्तु आधानमथ कारयेत् || बण्डादयस्तु विवाहान ईत्वा देवाप्रतीक्षणीयाः । तथा च स्मृतिः- उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव वा । राजयक्ष्म्यामयावी च न न्याय्यः स्यात् प्रतीक्षितुम् ॥ खञ्जचामनकुब्जेषु गद्गदेषु जडेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ एवं विधे ज्येष्ठे सति कनिष्ठेन कृते विवाहे न दोष इत्यर्थः । सत्यधिकारिणि ज्येष्ठे तदनुज्ञायां सत्यां कनिष्ठस्याधाने दोषो ना स्तीत्याह वशिष्ठ:-- अग्रजश्व यदानझिराध्यादनुजः कथम् । अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि || अत्रान्निहोत्रशब्देनाधानमुच्यते उपक्रमानुरोधात् । एतच्चानुहा ग्रहणं विवाहातिरिक्त सोदराणाम् । तथा च हारीतः- सोदराणान्तु सर्वेषां परिवेशा कथं भवेत् । दारस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया ॥ इति अग्निहोत्रादिष्वनुशाता न परिविद्यन्ते, दारैः पुनरनुस्ता अपि परिविद्यन्त इत्यर्थ इति हेमाद्रिः ।