पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । निश्चिताध्ययनेनैव गुणेन स्वीकृताखिलः । मूर्खो यो ब्रह्मचारी तु जटिलस्तं न भोजयेत् || दौहित्रवदयं चापि भ्रान्त्या प्राप्तो निषिध्यते । ईहशस्य गृहस्थस्य प्राप्त्यर्थमपरे विदुः || तन्न युक्तमविद्वांश्च गृहस्थश्च विरुध्यते । वस्तुतो जटिलो जटावान गृहस्थ एव वैखानसो वा, तथा च जटिलस्य पृथङ् निषेधः | दुर्वाल:=कुत्सितकेशः खलतिर्वा । दुर्बल. मितिपाठे तु दुर्बलो विकोशध्वजः । पूगयाजकः = बहूनां याजकः । अत्र श्राद्ध इत्युपादानात् यद्यपि पितृमात्रविषयत्व प्राप्यते तथापि तद. ङ्गभूतवैश्वदेविकोऽपि निषिध्यत एव, मन्द्रं प्रातः सवन इति वत् । चि. कित्सकः=वृत्स्यर्थ धर्मार्थ वा चिकित्साकर्ता | तैत्तिरीयश्रुतौ निषेधस्या. विशेषेण श्रयमाणत्वात् तस्माद् ब्राह्मणेन भेषजं न कार्यम् । "महतो ह्येषोऽमेध्यो भिषक्” इति स्मृतिचन्द्रिकाकारः । तन्न साम्प्रतम् । निरूप- धिक्रियमाणे तस्मिन् शुश्रुतादौ पुण्यश्रवणात् । देवलक उक्तो देवलेन- देवार्चनपरो नित्यं वित्तार्थ वत्सरजयात् । असौ देवलको नाम हव्यकव्येषु गर्हितः || देवकोशोपजीवी च नाम्ना देवलको भवेत् । अपाङ्केयः स विज्ञेयः सर्वकर्मसु सर्वदा ॥ इति । विपणोपजीबी=अनापदि वणिगवृत्तिः । तञ्च वाणिज्यं स्वयं कृत बोध्यम् । कृषिवाणिज्ये चास्वयंकृते इति गौतमेन ब्राह्मणस्य मुख्य वृत्तौ वाणिज्यस्याऽस्वयंकृतस्योपादानात् मांसविक्रयच पृथगुपा दानादस्वयंकृतोऽपि निषिद्ध एव । मांसपद चाविक्रेयोपलक्षणार्थम् । मेधातिथिस्तु मांसस्य पृथगुपादान विनिमयनिषेधार्थमित्याह । प्रेष्यः = आशाकरः ग्रामस्य राशश्च । प्रत्येकं निषेधः । त्यताग्निः= बुद्धिपूर्व विच्छिन्नाभिः । वार्धुषिकश्चोक्तो वशिष्ठेन- समर्थ धनमुद्धृत्य महर्घे यः प्रयच्छति । स वै वाधुषिको नाम ब्रह्मवादिषु गर्हितः ॥ देवलस्तु, विप्रं वाधुषिकं विद्यादन्नवृद्ध्युपजीविनम् । १२ वी० मि०