पैप्पलादसंहिता/काण्डम् ०९
९-१ 9.1
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्योग्नेः । तु. शौ.सं. ५.२७
द्युमत्तमा सुप्रतीकस्य सूनस्तनूनपादसुरो विश्ववेदाः ।।१।।
देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानो नराशंसः सुकृद्देवः सविता विश्ववारः।।२।।
अच्छायमेति शवसा घृतेनेडे वह्निं नमसाग्निम् ।
स्रुचो अध्वरेषु प्रयत्सु ।।३।।
स अक्षदस्य महिमानमग्नेः स इन्मन्द्रासु प्रयत्सु ।
वसोश्चेतिष्ठो वसुधातमश्च ।।४।।
द्वारो देवीरन्नस्य विश्वे व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः । ३५ । ।
ते अस्य वृषणो दिव्या नु योना ।
उषासानक्तेमं यज्ञमवतामध्वरं नः ।। ६ ।।
दैवा होतार इममध्वरं नो अग्नेर्जिह्वेमभि गृणीत ।
कृणुता नः स्विष्टिम् ।।७ ।।
तिस्रो देवीर्बर्हिरेदं सदन्त्विड़ा सरस्वती मही ।
भारती गृणाना ।।८ । ।
तन्नस्तुरीपमद्भुतं पुरुक्षु ।
त्वष्टा सुवीर्यं रायस्योषं वि स्यतं नाभिमस्मे ।।९।। स्यर्त
वनस्पते अव सृजा रराण: त्मना देवेभ्यः ।
अग्निर्हव्यं शमिता सूदयाति ।। १० ।।
अग्ने स्वाहा कृणु जातवेद इन्द्राय भागम् ।
विश्वे देवा हविरिदं जुषन्ताम् ।।११।।
9.2
यजूंषि यज्ञे समिध: स्वाहाग्निः प्रविद्वानिह वो युनक्तु । तु. शौ.सं. ५.२६
युनक्तु देव: सविता प्रजानन्नस्मिन् यज्ञे सुयुजः स्वाहा ।। १ ।।
इन्द्र उक्थामदानि यज्ञे अस्मिन् प्रविद्वान् युनक्तु सुयुज: स्वाहा ।
छन्दांसि यज्ञं मरुत: स्वाहा मातेव पुत्रं पिपृतेह युक्ता: ।।२।।
प्रैषा निविद आप्रियो यजूंषि शिष्टाः पत्नीभिर्वहतेह युक्ताः ।
एयमगन् बर्हिषां प्रोक्षणीभिर्यज्ञं तन्वाना अदितिः स्वाहा ।। ३ ।।
विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुज: स्वाहा ।।४।।
त्वष्टा युनक्तु बहुधा नु रूपाण्यस्मिन् यज्ञे सुयुज: स्वाहा ।।५।।
इन्द्रो युनक्तु बहुधा वीर्याण्यस्मिन् यज्ञे सुयुज: स्वाहा ।। ६ ।।
सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुज: स्वाहा ।।७।।
भगो युनक्त्वाशिषो न्यस्मां अस्मिन् यज्ञे सुयुज: स्वाहा ।।८ ।।
अश्विना ब्रह्मणेतमर्वाग् वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ।। ९ ।।
बृहस्पते ब्रह्मणेह्यर्वाङ् यज्ञोयं स्वरितं यजमानाय धेहि स्वाहा।। १० ।।
9.3
आपः पुनन्तु वरुणः पुनात्वयं च यः पवते विश्वदानीम् । तु. शौ.सं. १.२३
यज्ञो भगो अधिवक्ता विधर्ताग्निश्च नः पावयेतां सूर्यश्च।।१ । ।
दशशीर्षो दशजिह्व आ रभे वीरको भिषक् ।
मा ते रिषं खनिता यस्मै च त्वा खनामसि ।२ ।।
दशरात्रे किलासस्य वीरुधा वेद भेषजम् ।
इतस्तदभ्रियाखनं किलासं नाशयामि ते ।३।
अप्स्वन्या वि होहति धन्वन्यन्याधि तिष्ठति ।
किलासमन्या नीनशद् वर्चसान्या समुक्षतु ।।४।।
आज्येन घृतेन जुहोमि किलासभेषजम् ।
वीरुधामग्ने: सङ्काशे किलासं नानु विद्यते ।।५।।
पिशङ्गरूपो भवति कल्माषमुत संदृशि ।
किलास नश्येत: पर: प्र त्वा धक्ष्यामि वीरुधा ।।६।।
यानि पृथगुत्पतन्ति नक्षत्राणीव संदृशि ।
किलासं सर्वं नाशयन्नोघ इवाभ्येमि वीरुधा ।।७।।
यदि वा पुरुषेषितात् किलास पर्याजगन् ।
नमो नमस्यामो देवान् प्रत्यक्कर्तारमृच्छतु ।।८ ।।
शीर्ष्णस्ते स्कन्धेभ्यो ललाटात् परि कर्णयोः ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनराति: सहौषधिः ।। ९ । ।
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ।। १० ।।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ।। ११ ।।
पृष्टिभ्यस्ते पार्श्वभ्यां श्रोणिभ्यां परि भंसस: ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ।। १२ ।।
ऊरूभ्यां ते ऽष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
ओषध्या वर्षजूतया किलासं नाशयामि ते ।
स्वस्त्वा वर्ण आायत्यनरातिः सहौषधिः ।।१३ ।।
9.4
सहैव वो हृदयानि सह विज्ञानमस्तु व: । तु. शौ.सं. ६.६४
सहेन्द्रो वृत्रहा करत् सह देवो बृहस्पति: ।१।
समानमस्तु वो हृदयं समानमुतो वो मनः ।
समानो अग्निर्वो देवः सह राष्ट्रमुपाध्वम् ।।२ ।।
सं जानीध्वं सहृदया: सर्वे संमनस स्थ ।
नष्टो वो मन्युजीर्णेर्ष्या सह जीवाथ भद्रया ।३।
यथा पुत्र: प्रवावदः पितृभ्यां वदति प्रियम् ।
एवा यूयमन्योऽन्यस्मै जिह्वया वदत प्रियम् ।।४।।
सहैव वो धान्यानि समानाः पशवश्च वः ।
सह पृथिव्यां वीरुधः सह वः सन्त्वोषधीः ।। ५ ।।
सह दीक्षा सह यज्ञो विवाहो वो सहासति ।
सह प्रफर्वा नृत्यन्तु सह व स्त्रिय आसताम् ।।६।।
सहैव वो वीर्याणि सहान्यान् रन्धयाध्वै ।
सह पतत्रिणीमिषुमन्यस्मै हेतिमस्यत ।।७।।
सं वस्यामि समितिं मधुना वाचमाञ्जिषम् ।
युस्माकमन्ये शृण्वन्तूदितं सङ्गते जने ।।८।।
युष्मान् मित्रा वृणतां युष्मान् प्रतिजना उत ।
युष्मात् ज्ञातित्वं प्रेप्सन्त्यमृतं मर्त्या इव ।। ९ ।।
सं समिद्यः समाकरं सह यूथा गवामिव ।।
समानमस्तु वो मनो ज्येष्ठं विज्ञानमन्वित ।। १० ।।
इदं यदेषां हदयं तदेषां हृदये भवत् ।
अथो यदेषां हृदयं तद्वेषां हृदि श्रितम् ।
समानमस्तु वो मनः श्रेष्ठं विज्ञानमन्वित ।।११।।
इदं यदेषां मन एषां यानि मनांसि च ।
सध्र्यगिन्द्र तत् कृणु रथे पादाविवाहितौ । । १२ ।।
9.5
सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। तु. शौ.सं. १९.६
स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ।।१।।
त्रिभिः पद्भिद्यामरोहत् पादस्येहाभवत् पुनः । ।
तथा व्यक्रामद्विष्वङ् अशनानशने अनु ।२।
तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । पुरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।३। पादस्य
पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येश्वरो यदन्नेनाभवत् सह ।।४।।
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य किं बाहू किमूरू पादा उच्येते ।।५।।
ब्राह्मणो ऽस्य मुखमासीद् बाहू राजन्योभवत् ।
मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ।।६।।
विराड़ग्रे सममभवत् विराजो अधि पूरुष: ।
स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ।।७ ।।
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि: ।।८ । ।
तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।
तेन देवा अजायन्त साध्या वसवश्च ये । 1९ । ।
तस्मादश्वा अजायन्त ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ।। १० ।। गाव
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ।। ११ । ।
तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् ।
पशून् तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ।। १२ ।।
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृता: ।
देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ।। १३ ।। अवध्नन्
मूर्ध्नो देवस्य बृहतों ऽशव: सप्त सप्तती: । बृहतो
राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ।। १४ ।।
चन्द्रमा मनसो जातश्चक्षुः सूर्योऽजायत ।
श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ।। १५ ।।
नाभ्यां आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्राङ् तथा लोकाङ् अकल्पयन् ।।१६।।
(इति द्वादशार्चोनामनवमकाण्डे प्रथमो ऽनुवाकः)
9.6
इमां खनाम्योषधिमदृष्टहननीमहम् । तु. शौ.सं. ३.१८
अश्वस्थावो ददाति त्वा वैरूपो वाजिनीवति ।१।
नादृष्टा वो जिह्वाः सन्ति न दन्ता हन्वोरधि ।
नापि मध्यं नो शिरस्ते यूयं किं करिष्यथ ।२।
इन्द्रामित्रा इन्द्रहता न व इहास्ति न्यञ्जनम् ।
इन्द्रो वः सर्वासां साकं शक्रस्तृणेढु वृत्रहा ।। ३ ।।
अश्वतराङ् अयःशफान् यानिन्द्रो अधितिष्ठति ।
तैर्वोपि नह्येय ते मुखान्युदरसर्पिण: ।।४।।
अपिनह्यमदृष्टानां मुखं पादा दृतेरिव ।
उतैषां जिह्वा निष्कर्ता निर्दन्ता हन्वोरधि । ५ ।
अवधिषमसृगादां नि क्रोडादा अलिप्सत ।
अभैत्सं सर्वेषामाण्डानि ये अदृष्टाः पृथिवीक्षितः ।। ६ ।।
रिष्यासः पौरुषासो दर्भासो वैरिणा उत ।
मौञ्जा अदृष्टा: सौर्याः सर्वे साकं नि जस्यत ।।७।।
अदृष्टानां सप्त जाता पृथिवी न शिशे मही ।
तानिन्द्रो बाहुभ्यां सर्वाञ्छक्रो अपावयत् ।। ८ । ।
ये व: सन्ति सप्त जाता अदृष्टा: पुरुषादिन: । .
ग्राव्णांशूनिव सोमस्य तान् सर्वान् प्र मृणीमसि ।। ९ ।।
य आत्मजा ये वस्तिजा य ऋषा य उ तोदिन: ।
तेभ्य: खनाम्योषधिं येभ्यो बिम्बीवध: कृत: ।।१०।।
अदृष्टभ्यस्तरुणेभ्यो युवद्धद्य स्थविरेभ्यः ।
अहार्षमुग्रामोषधिं येभ्यो बिम्भीवधः कृतः ।। ११ !!
ये च दृष्टा ये चादृष्टास्तितीला: शलुनाश्च ये ।
तानग्ने सर्वान् सं दह क्रिमीननेजतो जहि ।।१२।।
9.7
शीतिजला इति शीता वाता उपा वन्तु ।
हिमेनाग्निरावृतो हिमेनाग्नि: परीवृत: ।१।
यत्त्वा देवा अपारुन्धन्ना समुद्रमधावय: ।
हिमो जघान गोअजं हिमो अक्षं हिमश्छदिः ।।२ । ।
हिमादधि प्र यामसि हिमे अद्य विमोचनम् ।
यमवटं शतदरमवैन्ध सप्तवध्रये ।।३ !!
अवका तत्र रोहतु खदे परि बिलं तव । ।
अर्चिष्टे अग्ने प्रथममङ्गाराङ् अपराङ् उत ।।४।।
गृभ्णामि ब्रह्मणा नाम धामधाम परुष्परु: ।
शीतिका नाम ते माता जलाषो नाम ते पिता ।।५।।
इह त्वमन्तरा भव बाहीकमस्तु यद्रप: ।
हिमे जातोदके वृद्धा सिन्धुतस्पर्याभृता ।
तया ते अग्रभं नामाश्वमिवाश्वाभिधान्या ।।६।।
आमा नामास्योषधे तस्यास्ते नाम जग्रभ ।
अगस्त्यस्य पुत्रासो मा वि धाक् पुरुषान् मम ।। ७ ।।
मा नो अग्ने तन्वं मा वायांसि रीरिषः ।
यं त्वा समुद्रज वयमारोहाम स्वस्तये ।।८ ।।
दिवस्तारा अवापद्रन् धारात् समुद्रिया अपः ।
हिरण्यकुम्भो हरितो ऽवकाभिः परिवृतस्तेनाग्निं शमयामसि ।। ९ ।।
शमयाम्यर्चिरग्नेः शिवस्तपतु मा वि धाक् ।
गृभीते द्यावापृथिवी गृभीतं पार्थिवं रजः ।। १० । ।
नि मुञ्जेषु यदुदकं नि नडेषु यदन्तरम् ।
यत् समुद्रे यत् सिन्धौ तेनाग्निं शमयामसि ।।११।।
वेतसस्यावकाया नड़स्य वीरणस्य च ।
रोहितकस्य वृक्षस्याग्निं शमनमुद्भरे ।। १२ । ।
आयतीरुदहार्यो वि ते हरन्तु यद्रपः ।
परायतीः परावतः परा हरन्तु यद्रपः ।। १३ ।।
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
शीतिके शीतमित् करो हिमिके हिममित् कर:।।१४।।
9.8
अक्षण्वता लाङ्गलेन पद्वता पतयिष्णुना।
लाङ्गूलगृह्य चर्कृषुर्वृकेण यवमश्विना।।१।।
देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ।। २ ।।
हिरण्ययं कलशं सुदानवो दिव्यया सरघया कृतम् ।
अव भृतमश्विना यवं तद् युवं मधु चक्रथुः ।। ३ ।।
क्रिशावेतदजयतमश्विना सारघं मधु।
ततो यवो व्यरोहत्सोऽभवद् विषदूषण: ।। ४ ।।
युवार्वान् सारघयाः प्रखिद्य मध्वाभरत् ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ।।५।।
यद् वृकं मधुपावानमवामयतमश्विना ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ।।६।।
कैरण्डा नाम सरसो वृकस्य वम्या अधि ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ।।७।।
यदस्य भरथो मधु सरघा सथ्वच्छिनत् ।
सद्यस्तदर्वतो युवं पुनरा दत्तमश्विना ।। ८ ।।
यो यवं दिग्धविद्धो अहिदष्ट उपासरत् ।
तीर्थ रध्रमिव मज्जन्तं उत्तं भरतमश्विना ।९।
यं वहन्त्यष्टायोगाः षङयोगा यं चतुर्गवाः ।
स ते विषं वि बाधतामुग्रो मध्यमशीरिव ।। १० ।।
९-९ 9.9
यस्य यव प्रसर्पस्यङ्गमङ्गं परुष्परु: ।
तस्माद् यक्ष्मं वि बाधस्योग्रो मध्यमशीरिव ।। १ ।।
शकलं च न ते यवान्या रुहन्त्योषधी: ।
यव इद् यावयाद्गोरश्वात् पुरुषाद् विषम् ।।२ ।।
यवो राजा यवो भिषक् यवस्य महिमा महान् ।
यवस्य मन्थं पपिवानिन्द्रश्चकार वीर्यम् ।। ३ ।।
आा भरामृतं घृतस्य पुष्पमा भर ।
अनभ्रिखात ओषध इदं दूषय यद् विषम् ।।१४।।
य आयन्ति दिग्धविद्धाः शूद्रा राजन्या उत ।
चक्षुर्मे सर्व आादृश्य ते यन्त्यगदाः पुन: ।। ५ ।।
9.10
जीवातवे न मर्तवे शिरस्त आ रभामहे ।
रसं विषस्य नाविदमुद्न: फेनमदन्निव ।१।
भूम्या मध्याद्दिवो मध्याद् भूम्या अन्तादथो दिवः ।
मध्ये पृथिव्या यद् विषं तद् वाचा दूषयामसि ।२ । ।
अश्वत्थे निहितं विषं कपाले निहितं विषम् ।
शिलाया जज्ञे तैमात: प्रथमो विषदूषणी ।३।
विषस्याहं वैन्दकस्य विषस्य दार्व्यस्य च ।
अथो विषस्य स्वैत्नस्य समानीं वाचमग्रभम् ।।४।।
तदिद् वदन्त्यर्थिन उत शूद्रा उतार्याः ।
विषाणां विष्वगर्थानां सर्वथैवारसं विषम् ।।५।।
परुषस्त्वामृतकर्णो विष प्रथममावयत् ।
यथा ह तं नारोपयस्तथास्यरसं विषम् ।।६।।
यद् वो देवा उपजीका उद्देहं शुषिरं ददुः ।
तत्रामृतस्यासिक्तं तच्चकारारसं विषम् ! ।।७।।
शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।
न रोपयति न मादयत्यरसं शार्वीयं विषम् ।।८।।
अत्यपप्ताम दुर्गाणि शारीः शकुनयो यथा ।
इहेन्द्राणीं वरुणानीं सिनीवालीं क्रकोढयाम् ।
ग्राहां शूरपुत्रां देवीं याचामो विषदूषणम् ।। ९ ।।
आलकं व्यालकं व्यावं जाल्म जिगीमहे ।
जरद्विषं युवाभिषक् वयमित् सासहामहै । । १० । ।
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।
अस्थुर्विषस्यारोपयोऽनड्वाह: क्रिशा इव ।। ११ ।।
यावत् सूर्यो वितपति यावच्चाभिविपश्यति । .
तेनाहमिन्द्रदत्तेन कृणोम्यरसं विषम् ।
तद्विषमरसं विषमधोभागरसं विषम् ।। १२ ।।
९-११ 9.11
मातरिश्वा समभरद्धाता समदधात् परु: ।
इन्द्राग्नी अभ्यरक्षतां त्वष्टा नाभिमकल्पयत् ।।१।।
भवस्त्वा अभ्यरुक्षद् रुद्रस्ते अंसुमाभरत् ।
रात्री त्वाभ्यगोपायत् सा त्वं भूते अजायथाः । ।२ ।।
द्यौष्ट आयुर्गोपायदन्तरिक्षमसुं तव ।
माता भूतस्य भव्यस्य पृथिवी त्वाभि रक्षतु ।३ ।
यां त्वा देवाः समदधुः सहस्रपुरुषं सतीम् ।
सा देवी त्वमस्येदमपाज व्यजा विषम् ।।४।।
या: पुरस्तात् प्रस्यन्दन्ते दिवा नक्तं च योषित: ।
आप: पुरु स्रवन्तीस्ता उ ते विषदूषणी: ।। ५ ।
आतपस्ते वर्षमासीदग्निश्छायाभवत्तपः ।
उल्बं ते अभ्रमासीत् सा त्वं भूते अजायथाः । । ६ । ।
गन्धर्वस् ते मूलम् आसीच् छाखाप्सरसस् तव।
मरीचीरासन् पर्णानि सिनीवाली कुलं तव ।।७।।
अजरा देवा अदधुरमृतं मर्त्येष्वा ।
तस्यैतदग्रमा ददे तदु ते विषदूषणम् ।। 1८ ।।
अनभ्रौ खनमानं विप्र गम्भीरे अपसम् ।
भिषक् चक्षुर्भिषक् खने तदु ते विषदूषणम् ।।९।।
याः पुरस्ताद् वितिष्ठन्ते गाव: प्रव्राजिनीरिव ।
अमृतस्येव वा अस्यथो हास्यरुन्धती ।।१० । ।
यो मय: सरघायाः प्रखाय मध्वाभरत् ।
ततो यवः प्राजायत्सोभवद् विषदूषण: ।। ११ ।।
यवस्यैतत् पलालिनो गोधूमस्य तिलस्य च ।
व्रीहेर्यवस्य दैव्येन कृणोम्यरसं विषम् ।। १२ । ।
महीं योनिं समुद्रस्यान्वविन्दन् ऋतायवः ।
तां देवा गुह्यामासीनां समुद्राच्चिदुदाभरन् ।।१३।।
समुद्राच्चिदुदाभृत्य तामु पुष्कर आ दधु: ।
अस्या: पृथिव्या देव्याश्चक्षुराकाश्यमसि विषदूषणम्।। १४ ।।
(इति द्वादशर्चोनाम नवमकाण्डे द्वितीयो ऽनुवाकः)
9.12
समानमर्थं पर्यन्ति देवा रूपंरूपं तपसा वर्धमाना: ।
यदादित्यमभिसंविशन्ति तदेकं रूपममृतत्वमेषाम् ।।१ । ।
देवो देवेभिरा गमन् महान् नो अतिथिष्पिता ।
स प्रैति जातवेदसमेकरूपो गुहा भवन् ।।२ ।।
आतिथ्यमग्निं निरपप्तदेव उभयेभि: पितृभिः संविदानः ।
महान् नु मर्त्य उप भक्षं नागन् संगृभ्यादित्यान् न्यविष्ट वह्निः । ।३ । ।
त आ विशन्ति पुरुषं शयानं प्राणा निविष्टा न ससन्त्येनम्।
ते नो रात्र्या सुमनस्यमाना अह्ना रक्षन्त्यहृणीयमाना: ।। ४ ।।
पशुभ्यो नः पशुपते मृड़ सर्व सं वृह आयताम् ।
मा न: प्राणेषु रीरिषः ।। ५ ।।
वायुः सत्ये अधि श्रितः प्राणापानावभिरक्षन् ।
सं प्रजा ऐरयदिमाः ।। ६ । ।
देवा यत्ताः प्रजापतावादित्याश्च येमिरे ।
पूषा रश्मिष्वायत आदित्यो विष्णुराक्रमे स रोहं दिवि रोहति ।।७।।
प्रजाद्देवा: सवितु: सवे त्वष्टा रूपाणि पिंशतु ।
अञ्जन्तौ मधुना पयो ऽतन्द्रं यातमश्विना ।।८ !!
विश्वे देवा: प्र यातनादित्यास: सजोषसः ।
पुरः पश्चात् स्वस्तये ।। ९ ।।
ब्रह्म वर्म बृहस्पतिः संगवो नोऽभि रक्षतु ।
देवो देवैः पुरोहितः ।। ११० ।।
मरुतो वृष्ट्या न आ गत सत्यधर्माण ऊतये ।
अपराह्नेषु जिन्वत ।। ११ ।।
इन्द्रो राजा दिवस्पतिरहर्विमाय तिष्ठति ।
स न इमाः कल्पयाद् दिशः ।। १२ ।।
9.13
आवतस्ते परावत: परावतस्त अवत: । तु. शौ.सं. ५.३०
इहैव भव मा नु गा मा पूर्वाननु गा गतानसुं बध्नामि ते दृढम् ।१।
यत्त्वाभिचेरुः पुरुषः सो यदरुणो जन: ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ।२।
यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ।३।
यदेनसो मातृकृताच्छेषे पितृकृतादुत ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ।।४।।
यत्ते माता यत्ते पिता जामिर्भ्राता च सर्जत: ।
प्रत्यक् सेवस्य भेषजं जरदष्टिं कृणोमि त्वा ।। !५ ।।
एहोहि पुनरेहि सर्वेण मनसा सह ।
दूतो यमस्य मानु गा अधि जीवपुरा इहि ।।६।।
अनुहूतः पुनरेहि विद्वानुदयनं पथः ।
आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ।।७।।
मा बिभेर्न मरिष्यसि जरदष्टिर्भविष्यसि ।
निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ।। ८ ।।
शीर्षरोगो अङ्गरोगो यश्च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्वाचा नुत्तः परस्तरम् ।। ९ ।।
ऋषी बोधप्रतीबोधात्तस्वप्नो यश्च यागृविः ।
ते ते प्राणस्य गोप्तारो दिवा नक्तं च जाग्रतु ।। १० ।।
9.14
अयमग्निरुपसद्य इह सूर्य उदेतु ते । तु. शौ.सं. ५.३०.११
उदेहि मृत्योर्गम्भीरात् कृच्छाच्चित्तमसस्परि ।१।
नमो यमाय नमोऽस्तु मृत्यवे नम: पितृभ्य उत ये नयन्ते ।
उत्पारणस्य यो वेद तमग्निं तत् पुरो दधे ।।२ ।।
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।
शरीरमस्य सं विदां तत् पद्भ्यां प्रति तिष्ठतु ।। ३ ।।
प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।
वेत्थामृतस्य मा मृत मो षु भूमिगृहो भुवत् ।।४। ,
मा ते प्राण उप दसन् मापानो अपि धायि ते ।
सूर्यस्त्वाधिपतिर्नृत्योरुदायच्छाति रश्मिभिः ।। ५ । ।
इयमन्तर्वदत्युग्रा जिह्वा पनिष्पदा ।
तया रोगान्वि नयामः शतं रोपीश्च तक्मनः ।।६ । ।
अयं लोक: प्रियतमो देवानामपराजित: ।
यस्मै त्वमिह जज्ञिषे दिष्टः पुरुष मृत्यवे ।
तस्मै त्वानु ह्वयामसि मां पुरा जरसो मृथाः ।।७।।
9.15
ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपार: सलिलो मातरिश्वा। ऽकुपारः तु. शौ.सं. ५.१७
वीडुहरास्तप उग्रं मयोभुव आपो देवी: प्रथमजा ऋतस्य ।१। भूव
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ! 1२ ।।
हस्तेनेव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत् ।
न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ।। ३ 11
यामाहुस्तारका विकेशीं दुच्छुनां ग्राममवपद्यमानाम् ।
सा ब्रह्मजाया प्र दुनोति राष्ट्रं यत्र प्रापादि शशः कल्कुषीमान्।। ४ । ।
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ।।५।।
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः ।
भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ।।६।।
ये गर्भा अवपद्यन्ते जगत् यच्चापलुप्यते ।
वीरा ये हन्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ।।७।।
सर्वे गर्भाः प्रव्यथन्ते कुमारा दशमास्याः ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजाया अचित्त्या ।८।।
पुनर्वै देवा अददु: पुनर्मनुष्या उत ।
राजानः सत्यं कृण्वन्तो ब्रह्मजायां पुनर्ददुः ।। ९ ।।
यो पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । किल्विषम्
ऊर्जं पृथिव्या भत्क्वोरुगायमुपासते ।। १० । ।
9.16
न तत्र धेनुर्दुहे नानड्वान् सहते धुरम् । तु. शौ.सं. ५.१७
विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया ।१।
न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।
नास्मै समिति: कल्पते न मित्रं नयते वशम् ।।२।।
असृङ्मती चरति ब्रह्मजाया आशा लिम्पन्ती प्रदिशश्चतस्रः।
यः क्षत्रियः पुनरेनां ददाति स दिवो धारां धयति प्रपीनाम्।।३।।
यो ऽपुनर्दाय ब्रह्मजायां राजा तल्पे निपद्यते ।
दुर्योणा अस्मा ओषधीर्याः काश्चाभिविपश्यति।।४ । ।
विषमश्नात्यपां विषमश्नाति वीरुधाम् ।
यो ब्रह्मजायां न पुनर्ददाति तस्मै देवाः सुदिहं दिग्धमस्याम्।।५।।
उद्यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
ब्रह्मा चेद्धस्तमग्रहीत् स एव पतिरेकधा।।६।।
ब्राह्मण एव पतिर्न राजा नोत वैश्यः ।
तत् सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ।।७।।
9.17
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे !
मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ।।१।।
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः !
स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ।।२।।
निर्वै क्षत्रं नयति हन्ति वर्चो ऽग्निरिवारब्धः प्र दुनोति राष्ट्रम् ।
यो ब्रह्मणं देवबन्धुं हिनस्ति न स पितॄणामप्येति लोकम्।३।
देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।
यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य।। 1४ ।।
विषं स पिबति तैमातं पशयन्नग्निं प्र सीदति ।
यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ।।५।।
शतापाष्ठां नि गिरति तां न शक्नोति निष्खिदम् ।
अन्नं यो ब्रह्मणां मन्य: स्वाद्वद्मीति मन्यते ।।६।।
य एनां हन्ति मृदुमन्यमानो देवपीयुर्धनकामो न चित्तात्।
सं तस्येन्द्रो हृदये अग्निमिन्ध उभे एनं द्युष्टो नभसी चरन्तम्।।७।।
न ब्राह्मणो हिंसितवा अग्नेः प्रियतमा तनूः ।
सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपा: ।।८।।
अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।
जेता अभिशस्तेन्द्रस्तत् सत्यं देवसंहितम् ।।९।।
आविष्टिताघविषा पृदाकूरिव चर्मणा ।
सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ।।१०।।
9.18
इषुरिव दिग्धा नृपते पृदाकूरिव गोपते । तु. शौ.सं. ५.१८
सा ब्राह्मणस्येषुर्दिग्धा तया विध्यति पीयकः ।।१ । ।
तीक्षणेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।
अनुहाय तपसा मन्युना चोत दूरादव भिन्दन्ति ते तया ।२।
जिह्वा ज्या भवति कुल्मलं वाङ् नाडीका दन्तास्तपसा सुदिग्धाः।।
तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ।३ । ।
यो ब्राह्मणं हिंसितारस्तपस्विनं मनीषिणं ब्रह्मचर्येण श्रान्तम्।
अवर्तिमद् भविता राष्ट्रमेषां तमसीव निहितं नानु वेत्ताः ।।४।।
ये सहस्रमराजन्नासन् दशशता उत।
ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ।।५।।
गोरेव तान् हन्यमाना वैतहव्याङ् अवातिरत् ।
ये केशरप्राबन्धायाश्चरमाजामपेचिरन् ।।६।।
अतिमात्रा अजायन्त नोदिव दिवमस्पृशन् ।
भृगुं हिंसित्वा माहीना असंभव्यं पराभवन् ।।७ ।।
ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जना: ।
येत्वस्तेषामुभयादन्नविस्तोकान्यावयत्।।८।।
ये ब्राह्मणं प्रत्यष्ठीवन् ये चास्मिच्छुक्लमीषिरे ।
अस्नस्ते मध्ये कुल्याया: केशान् खादन्त आसते।९।
अष्टपदी चतुरक्षी चतु:श्रोत्रा चतुर्हनुः ।
द्विजिह्वा द्विप्राणा भूत्वा सा राष्ट्रमव धूनुते । १० ।
९-१९ 9.19
ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । तु. शौ.सं. ५.१९
तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते पुमान् ।।१।।
आक्रमणेन वै दैवा द्विषन्तो घ्नन्ति पूरुषम् ।
स्तेयादं ब्रह्मज्यं क्षेत्रे चानृतवादिनम् ।।२।।
विषमेतद् देवकृतं राजा वरुणो अब्रवीत् ।
न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ।३।
तद् वै राष्ट्रमा स्रवति भिन्नां नावमिवोदकम् ।
ब्राह्मणो यत्र जीयते तद्राष्ट्रं हन्ति दुच्छुना ।४।।
एकशतं वै जनता भूमिर्या व्यधूनुत ।
प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ।।५।।
यामुदाजनृषयो मनीषिणः श्रमसातां बृहतीं देवजूताम् ।
सा ब्रह्मज्यं पचति पच्यमाना राष्ट्रमस्य बृहती यच्च वर्चः ।।६।।
वाचा ब्राह्मणमृच्छति जामि हन्त्यचित्त्या ।
मित्राय सत्ये द्रुह्यति यं देवा घ्नन्ति पूरुषम् ।।७ ।।
9.20
एकपाच्छन्द एककामं च ।
तदाप्नोति चाव च रुन्धे प्रथमया रात्र्या प्रथमया समिधा ।१।
द्विपाच्छन्दो द्विपदश्च पशून् ।
तदाप्नोति चाव च रुग्धे द्वितीयया रात्र्या द्वितीयया समिधा ।२।
त्रील्लोकान्स्त्रीं लोकपतीन् ।
तदाप्नोति चाव च रुन्धे तृतीयया रात्र्या तृतीयया समिधा ।३।
चतुष्पाच्छन्दश्चतुष्पदश्च पशून् । ।
तदाप्नोति चाव च रुन्धे चतुर्थ्या रात्र्या चतुर्थ्या समिधा ।। ४ ।।
पञ्च दिश: पञ्च प्रदिश: ।
तदाप्नोति चाव च रुन्धे पञ्चम्या रात्र्या पञ्चम्या समिधा।५।।
त्रैष्टुभं छन्दो विराजं स्वराजं सम्राजम्।
तदाप्नोति चाव च रुन्धे षष्ठ्या रात्र्या षष्ठ्या समिधा। ६ । ।
सप्त प्राणान् सप्तापानान् सप्त ऋषींश्च ।
तदाप्नोति चाव च रुन्धे सप्तम्या रात्र्या सप्तम्या समिधा ॥ ७ ! ।
ओजश्च तेजश्च सहश्च बलं च ।
तदाप्नोति चाव च रुन्धे अष्टम्या रात्र्या अष्टम्या समिधा।८।।
अम्भश्ध महश्चान्नं चान्नाद्यं च ।
तदाप्नोति चाव च रुन्धे नवम्या रात्र्या नवम्या समिधा ।। ९ । ।
ब्रह्म च क्षत्रं चेन्द्रियं च ब्राह्मणवर्चसं च ।
तदाप्नोति चाव च रुन्धे दशम्या रात्र्या दशम्या समिधा। १० । ।
विश्वावसू च सर्ववसू च ।
तदाप्नोति चाव च रुन्धे एकादश्या रात्र्या एकादश्या समिधा।११।।
पाङ्क्तं छन्द: प्रजापतिं संवत्सरम् ।
तदाप्नोति चाव च रुन्धे द्वादश्या रात्र्या द्वादश्या समिधा। १२ ।
(इति द्वादशर्चोनाम नवमकाण्डे तृतीयो ऽनुवाकः)
९-२१ 9.21
यो वा एकशरावं निर्वपेदेकर्षिमेवानु निर्वपेत् ।
एष वा एकर्षिर्यदग्निः।
एकर्षि चैव लोकं चाव रुन्धे एकर्षिरिव तपत्येकर्षिरिव दीदायैकर्षिरिवान्नादो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेदेकर्षेस्त्वा चक्षुषा पश्याम्येकर्षेस्त्वा हस्ताभ्यामा रभ एकर्षेस्त्वास्येन प्राश्नाम्येकर्षेस्त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं । प्राश्नीयादेवैनं प्राश्नाति ।१।
यो वै द्विशरावं निर्वपेत् प्राणापानावेवानु निर्वपेत्। एतौ वै प्राणापानौ यन्मातरिश्वा चाग्निश्च ।
प्राणापानौ चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेते एव देवते मनसा
ध्यायेत् प्राणापानयोस्त्वा चक्षुषा पश्यामि प्राणापानयोस्त्वा हस्ताभ्यामा रभे प्राणापानयोस्त्वास्येन प्राश्नामि प्राणापानयोस्त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।२।
यो वै त्रिशरावं निर्वपेत् त्रीण्येव त्रिकद्रुकाण्यनु निर्वपेत् ।
एतानि वै त्रीणि त्रिकद्रुकाणि यदृचः सामानि यजूंषि ब्राह्मणम् ।
ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद ब्रह्मणस्त्वा चक्षुषा पश्यामि ब्रह्मणस्त्वा हस्ताभ्यामा रभे ब्रह्मणस्त्वास्येन प्राश्नामि ब्रह्मणस्त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।३।
यो वै चतुःशरावं निर्वपेच्चतस्र एवोर्वीरनु निर्वपेत् ।
एता वै चतस्र उर्वीर्यद् दिशः ।
दिशश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मै दिशो दिशां प्रियो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद्दिशां त्वा चक्षुषा पश्यामि दिशां त्वा हस्ताभ्यामा रभे दिशां त्वास्येन प्राश्नामि दिशां त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।४।।
यो वै पञ्चशरावं निर्वपेद् वैश्वानरमेव पञ्चमूर्धानमनु निर्वपेत् ।
एष वै वैश्वानरः पञ्चमूर्धा यद् द्यौश्च पृथिवी च मातरिश्वा चाग्निश्चादसावातपन्। वैश्वानरं चैव लोकं चाव रुन्धे वैश्वानर इव तपति वैश्वानर इव दीदाय वैश्वानर इवान्नादो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद् वैश्वानरस्य त्वा चक्षुषा पश्यामि वैश्वानरस्य त्वा हस्ताभ्यामा रभे वैश्वानरस्य त्वास्येन प्राश्नामि वैश्वानरस्य त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।५।।
यो वै षट्शरावं निर्वपेत् षड्याव्न एव देवाननु निर्वपेत् ।
एते वै षड्यावानो देवा यदृतवः ।
ऋतूंश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मा ऋतवो न ऋतुष्वावृश्चत ऋतूनां प्रियो भवति य एवं वेद । ऋतोव
स य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेद् ऋतूनां त्वा चक्षुषा पश्याम्यृतूनां त्वा हस्ताभ्यामा रभ ऋतूनां त्वास्येन प्राश्नाम्यृतूनां त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।६।।
यो वै सप्तशरावं निर्वपेत् सप्त ऋषीनेवानु निर्वपेत् ।
एते चै सप्त ऋषयो यत् प्राणापानव्याना: ।
सप्तर्षींश्चैव लोकं चाव रुन्धे ज्योग् जीवति सर्वमायुरेति न पुरा जरस: प्रमीयते य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेत् सप्तर्षीणां त्वा चक्षुषा पश्यामि सप्तर्षीणां त्वा हस्ताभ्यामा रभे सप्तर्षीणां त्वास्येन प्राश्नामि सप्तर्षीणां त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।७ । ।
यो वा अष्टशरावं निर्वपेद् विराजमेवाष्टापदीमनु निर्वपेद् ।
एषा वै विराडष्टापदी यद् द्यौश्च पृथिवी चापश्चौषधयश्च वायुश्चान्तरिक्षं च सूर्यश्च चन्द्रमाश्च ।
विराजं चैव लोकं चाव रुन्धे विराजत्यस्मिंश्च लोके अमुष्मिंश्च वैराजर्षभ इत्येनमाहुर्य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेद् विराजस्त्वा चक्षुषा पश्यामि विराजस्त्वा हस्ताभ्यामा रभे विराजत्वास्येन प्राश्नामि विराजस्त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।८ ।।
यो वै नवशरावं निर्वपेन्नवयाव्न एव देवाननु निर्वपेत् ।
एते वै नवयावानो देवा यन्मासा: ।
मासश्चैव लोकं चाव रुन्धे कल्पन्ते अस्मै मासा मासां प्रियो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेता एव देवता मनसा ध्यायेन् मासां त्वा चक्षुषा पश्यामि मासां त्वा हस्ताभ्यामा रभे मासां त्वास्येन प्राश्नामि मासां त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।९।।
यो वै दशशरावं निर्वपेदिडामेव धेनुमनु निर्वपेत् ।
एषा वा इडा धेनुर्यद् यज्ञ: पशव: ।
इडां चैव धेनुं यज्ञं च लोकं च पशूंश्चाव रुन्धे कल्पन्ते अस्मा इड़ इड़ां प्रियो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवतां मनसा ध्यायेदिड़ायास्त्वा चक्षुषा पश्यामीड़ायास्त्वा हस्ताभ्यामा रभ इड़ायास्त्वास्येन प्राश्नामीड़ायास्त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।। १० । ।
यो वा एकादशशरावं निर्वपेद रोहितमेवानु निर्वपेत् ।
इन्द्रियावी प्रिय इन्द्रस्य भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयादेतामेव देवता मनसा ध्यायेदिन्द्रस्य त्वा चक्षुषा पश्यामीन्द्रस्य त्वा हस्ताभ्यामा रभ इन्द्रस्य त्वास्येन् प्राश्नामीन्द्रस्य त्वा जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राशनाति ।।११।।
यो वै द्वादशशरावं निर्वपेद् विश्वामेव देवाननु निर्वपेत् ।
एते वै विश्वे देवा यदिदं सर्वम्।
विश्वांश्चैव देवांल्लोकं चाव रुन्धे कल्पन्ते अस्मै विश्वे देवा: प्रियो विश्वेषां देवानां भवति ध्यायेद् विश्वेषां त्वा देवानां चक्षुषा पश्यामि विश्वेषां त्वा देवानां हस्ताभ्यामा रभे विश्वेषां त्वा देवानामास्येन प्राश्नामि विश्वेषां त्वा देवानां जठरे सादयामीति ।
स यथा हुतमिष्टं प्राश्नीयादेवैनं प्राश्नाति ।।१२।।
9.22
इमां मात्रां निर्वप ओदनस्य तस्य पक्ता मुच्यतां किल्बिषेभ्यः।
अभिद्रोहादेनसो दुष्कृताच्च पुनातु मा पवनैः पवित्रः ।। १ ।।
भद्रौ हस्तौ भद्रा जिह्वा भद्रं भवतु मे वचः।
मह्यं पवित्रमोदनं ब्रह्मणा निर्वपामसि हस्ताभ्यां निर्वपामसि।।२ ।।
यन् मयि गर्भं सति माता चकार दुष्कृतम् ।
अयं मा तस्मादोदन: पवित्र: पात्वंहसः ।। ३ ।।
यदर्वाचीनमेकहायनादनृतं किं चोदिम ।
अयं मा तस्मादोदन: पवित्र: पात्वंहस: । ॥४ ।।
यद् दुष्कृतं यच्छमलं यदेनश्चकृमा वयं ।
अयं मा तस्मादोदन: पवित्र: पात्वंहसः । । ५ । ।
यन् मातरं यत् पितरं यद्वा जामिं जिहिंसिम।
अयं मा तस्मादोदन: पवित्र: पात्वंहस: ।। ६ ।
यन् मातृघ्ना यत् पितृघ्ना भ्रूणघ्ना यत् सहासिम ।
अयं मा तस्मादोदनः पवित्रः पात्वंहसः ।।७ ।।
श्यावदंता कुनखिना स्तेनेन यत् सहासिम ।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः ।।८ । ।
शिशुन्धानां पूंश्चलानां तक्ष्णां यदन्नमाशिम ।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः ।। ९ । ।
यदपामपजह्रिम निमज्य पपिमोदकम् ।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः । । १० ।।
9.23
यत् क्रुद्धा मन्युतो वयं ब्राह्मणस्य निजग्मिम पदा वा गामुपारिम।
अयं मा तस्मादोदनः पवित्रः पात्वंहसः । ।१ ।।
यद् ब्रह्मचर्ये यत् स्नातचर्ये अनृतं किं चोदिम ।
अयं मा तस्मादोदन: पवित्रः पात्वंहसः ।। २ । ।
किलासेन दुश्चर्मणा वण्डेन यत् सहाशिमाधाराभिगतेन वा ।
अयं मा तस्मादोदन: पवित्र: पात्वंहस: ।३।
यत् क्षेत्रमभितिष्ठाथाश्वं वा यं निरेमिषे ।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः ।। ४ । ।
यदक्षेषु हिरण्ये गोष्वश्वेषु यद्धने अनृतं किं चोदिम ।
अयं मा तस्मादोदन: पवित्र: पात्वंहसः ।। ५ ।।
सख्युर्जायां स्वां दासीं सूतिकां लोहितावतीमशुद्धां यदुपेयिम।
अयं मा तस्मादोदन: पवित्रः पात्वंहसः ।। ६ ।।
परिवित्तेन परिविविदानेनाभ्यवस्नातेन परिभक्षितेन दिधिषूपत्या यत् सहाशिम ।
अयं मा तस्मादोदन: पवित्र: पात्वंहसः ।।७ । ।
यत् कुसीदं विभेजिम द्विमेयं धनकाम्या ।
अयं मा तस्मादोदन: पवित्र: पात्वंहस: ।।८।।
यद द्वयेकं यत् त्र्येकमुपैकमिति यद्ददौ ।
अयं मा तस्मादोदन: पवित्र: पात्वंहसः ।। ९ । ।
यत् त्चरमाणाः शबलमपक्वं मांसमाशिम ।
अयं मा तस्मादोदन: पवित्र: पात्वहंस: ।। १० ।
9.24
यदन्नमाशिमा वयमनन्नमन्नकाम्योदरस्याभिशाच्या।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः । । १ । ।
यद् विद्वांसो यदविद्वांसो अनृतं किं चोदिम ।
अयं मा तस्मादोदनः पवित्र: पात्वंहसः । ।२ । ।
येनेन्द्रमपुननमार्तमर्त्यास्तेनायं मां सर्वपशुं पुनातु ।। ३ ।।
येनापुनात सविता रेवतीरपो येनापुनीत वरुण: सवाय ।
येनेमा विश्वा भुवनानि पूतास्तेनार्थ मां सर्वपशु पुनातु ।४।।
अति क्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे ।
येन यन्ति सुकृतो नापि दुष्कृतस्तमा रुहेम सुकृतामु लोकम्।।५ ।
मा यक्ष्ममिह हासिष्ट मा रिफन्तो वि गातन ।
अमैव पुण्यमस्तु नो अतृनन्वेति किल्बिषम् ।।६।।
इमं पचाम्योदनं पवित्रं पवनाय कम्।
स मा मुञ्चतु दुष्कृताद् विश्वस्माच्चैनसस्परि ।।७।।
9.25
सहस्राक्षं शतधारमृषिभिः पवनं कृतम् । तु. शौ.सं. ६.१९
तेना सहस्रधारेण पवमानः पुनातु मा ।।१ ।।
येन पूतमन्तरिक्षं यस्मिन् वायुरधि श्रितः ।
तेना सहस्रधारेण पवमानः पुनातु मा । ।२ । ।
येन पूते द्यावापृथिवी आपः पूता अथो स्वः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।३।
येन पूते अहोरात्रे दिशः पूता उत येन प्रदेशाः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।।४।।
येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।। ५ ।।
येन पूता वेदिरग्निः परिधयः सह येन पूताः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।।६।।
येन पूतं बर्हिराज्यमथो हविः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।।७।।
येन पूतो यज्ञो वषट्कार उताहुतिः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।।८ ।।
येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।।९।।
येन पूता अश्वा गावो अथो पूता अजावयः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। १० ।।
9.26
येन पूता ऋच: सामानि यजुब्रह्मणा सह येन पूतम् ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। १ । ।
येन पूता अथर्वाण आथर्वणा अङ्गिरसो देवताः सह येन पूताः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।।२ । ।
येन पूता ऋतवो येनार्तवा येभ्य: संवत्सरो अधिनिर्मितः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।। ३ । ।
येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूता: ।
तेना सहस्रधारेण पवमानः पुनातु मा ।।४।। !
येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूता: ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। ५ । ।
येन पूता नद्यः सिन्धवः समुद्र: सह येन पूत: ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। ६ ।।
येन पूताः पर्वता हिमवन्तो वैश्वानरः परिभूः सह येन पूतः।
तेना सहस्रधारेण पवमान: पुनातु मा ।।७।।
येन पूता विश्वे देवाः परमेष्ठी प्रजापतिः ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। ८ ।।
येन पूत स्तनयित्नुरपां वत्सः प्रजापतिः ।
तेना सहस्रधारेण पवमान: पुनातु मा ।। ९ । ।
येन पूत: प्रजापतिर्ल्लोकान् विश्वं भूतं स्वराजभार ।
तेना सहस्रधारेण पवमानः पुनातु मा ।। १० ।।
येन पूतमृतं सत्यं तपो दीक्षा च पूयते ।
तेना सहस्रधारेण पवमान: पुनातु मा । । १ १ ।।
येन पूतमिदं सर्व यद्भूतं यच्च भाव्यम् ।
तेना सहस्रधारेण पवमान: पुनातु मा ।।१२ ।।
9.27
उच्चैर्घोषो दुन्दुभिः सत्वनायं वानस्पत्यः संभृत उस्रियाभिः । तु. शौ.सं. ५.२
वाचं क्षणुवानो दमयन् सपत्नान् सिंह इव ज्येष्यन्नभि तंस्तनभिः ।।१ ।।
सिंह इवास्तानीद् द्रुवयो विबद्धोऽभिक्रन्दन्वृषभो वाशितामिव ।।
वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ।।२ ।।
संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचमा हुर गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ।।३।।
वृषेव यूथं सहसो विदानो गव्यन्नभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः।।४।।
दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा।
नारी पुत्रन् धावतु हस्तगृहयामित्री भीता समरे वधाना।।५।।
धीभिः कृतः प्र भरस्व वाचमुद्धर्षय सत्वनामायुधानि।
अमित्रसेनामभिजञ्जभानो द्युमद वद दुन्दुभे सूनृतावत्।।६।।
पूर्वो दुन्दुभे वि षहस्व शत्रून् भूम्याः पृष्ठे वद बहु रोचमानः ।
इन्द्रमेदी सत्वन: सं ह्वयस्व मित्रैरमित्रानव जङ्घनीहि ।।७।।
अन्तरेमे नभसी घोषो अस्तु पृथक् ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानां श्लोककृन् मित्रतूर्याय स्वर्धि ।८।।
संक्रन्दन: प्रवेदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि भज द्विराजे।९।
श्रेय:केतो वसुजित् सहीयान् मित्रं दधानस्त्विषितो विपश्चित्।
अंशूनिव गवाधिषवणे अद्रिर्गव्यं दुन्दुभे अधि नृत्य वेद: ।। १० ।।
शत्रूषाण् नीषाड़भिमातिषाहो गवेषणः सहमान उद्भित् ।
वाग्वी मन्त्रं प्र जनयस्व वाजिन् साङग्रामजित्यायेषमुद् वदेह।। ११ ।।
अच्युदच्युत् समदो गमिष्ठो मृधो जेता पृतनाषाडयोध्यः ।
इन्द्रेण क्लृप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम्।। ११२ ।।
9.28
इमास्तपन्तु त्वौषधीरोषधीनामयं रसः ।
अश्वत्थस्ते ऽयं हृद्यग्निर्भूतो व्योषतु प्र पतातो ममाध्या ।१।
यथा सूत्र लाक्षारक्तमाज्येनानुषिच्यते ।
एवा ते कामः सर्पत्वन्तरस्थसु मञ्जसु
प्र पतातो ममाध्या ।२।
यथा कुष्ठ: प्रयस्यति यथा दह्यते अर्चिषा ।
एवा ते दह्यतां मनः प्र पतातो ममाध्या ।। ३ ।।
पुंसः कुष्ठात् प्र क्षरति स्तोक आधिभिराभृतः ।
स ते हृदये वि वर्ततां प्र पतातो ममाध्या ।। ४ ।।
एष ते स्तोको हृदयं दिग्धेवेषुः प्र पद्यताम् ।
अस्त्राखणं यथेष्वा कामो विध्यतु त्वा मम प्र पतातो ममाध्या ।। ५ । ।
हरित एधि शुष्काक्ष: सर्वदा हृदयामयि ।
स्त्रियस्ते अन्या माछाञ्छुरयो त्वाशाभि शोचतु प्र पतातो ममाध्या ।।६ । ।
शोचीमदस्तु ते शयनं शोचिमदुपवेशनम् ।
शोचीमदस्तु ते मनो यथात्र न रमासा अर्वाची न मनास प्र पतातो ममाध्या।। ७ । ।
न रमासै सङ्गतेषु शयानं त्वाभि शोचतु ।
स्तोकस्त्वोत्तुद उत्तुदात् प्र पतातो ममाध्या ।।८ ।।
अन्तर्दहति चर्मणो अस्थिमांसेभिराभृतम् ।
सर्वान् यज्ञः प्र याशयादैड आधिभिस्तव प्र पतातो ममाध्या।। ९ । ।
हृदयेऽधि समिध्यतां स्वैर्मांसेभिरेष ते ।
अग्निः कामस्य यो महान् स मह्यं रन्धयन्ति त्वा प्र पतातो ममाध्या।। १० ।।
9.29
अश्वत्थमग्निमाज्यं दूतान् कृण्वे मनोजवान् ।
अग्निश्चरुमिवार्चिषा कामो विध्यतु त्वा मम प्र पतातो ममाध्या। १ ।।
शयानमग्न आसीनमश्वत्थश्च सवासिनौ ।
प्र पतातो ममाध्या ।२।
चरन्तं त्वा तिष्ठन्तमासीनमपि संसदि।
रेष्मा तृणमिव मथ्नातु दहन् कामरथो मम प्र पतातो ममाध्या।। ३ । ।
यथेन्द्रायासुरानरन्धयद् बृहस्पतिः।
एवा त्वमग्ने अश्वत्थानमून् मह्यमिहानय प्र पतातो ममाध्या।।४।।
अहं ते मन आ दद ऐडेन सह मेदिना ।
देवा मनुष्या गन्धर्वास्ते मह्यं रन्धयन्तु त्वा प्र पतातो ममाध्या ।। ५ । ।
यथा अश्वत्थस्य पर्णानि नेलयन्ति कदा चन ।
एवासौ मम कामेन माव स्वाप्सीत् कदा चन प्र पतातो ममाध्या ।। ६ । ।
कुष्ठं तपन्ति मरुतः स्वाध्यन्दुरआजानं स्वरयन्तो अर्चिषा ।
यथा न स्वपात् कतमच्चनाहरैव गच्छान् ममाध्या ।।७।।
(इति द्वादशर्चोनाम नवमकाण्डे चतुर्थो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां द्वादशर्चोनाम नवमकाण्डः समाप्तः