पैप्पलादसंहिता/काण्डम् १२
ऽऽ
अथ पञ्चदशर्चोनाम द्वादशकाण्डः
12.1
अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा मरुतः पूतदक्षाः।
वेदिर्बर्हिः समिधः शोशुचाना अप रक्षांस्यमुया धमन्तु ।। १ ।। र्वर्हिः
अयं यो रूरो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने ।।२ ।।
तक्मन् सार्थिनमिच्छस्व वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा अनिनूर्त्तेषु दस्युषु । ।३ । ।
यः पुरुषः पारुषेयो ऽवध्वंस इवारुण: ।
तक्मानं विश्वधावीर्या अधराञ्चं परा सुव ।।४।।
अधराञ्चं प्र हिणोमि नमस्कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा पुनर्गच्छ महावृषान् ।।५।।
महावृषान्मूजवत ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ।।६।।
ओोको अस्य मूजवन्त ओोको अस्य महावृषाः ।
याज्जातस्तक्मं तादसि बलिहिकेषु न्योचर: ।।७।।
तक्ष्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ।८।।
गिरिं गच्छ गिरिजासि गिरौ ते माहिषो गृहः ।
दासीमिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ।।९।।
यस्त्वं शीतो अथो रूर: सह कासावीविय: ।
भीमास्ते तक्मन् हेतयस्ताभि स्म परि वृङ्धि नः ।। १० ।।
12.2
तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
पाम्ना भ्रातृव्येण नश्येतो मरटाङ् अभि ।१।
गन्धारिभ्यो मूजवद्भ्य: काशिभ्यो मगधेभ्यः ।
जने प्रियमिव शेवधिं तक्मानं परि दध्मसि । ।२ । ।
नार्कविन्दान्नार्विदालान्नान्नदी वर्तकावतीम् ।
व्रतानि तक्मने बूमो अन्यक्षेत्राणि वा इमाः ।३।
अन्यक्षेत्रे न रमते सहस्राक्षो अमर्त्यः ।
अभूदु प्रार्थस्तक्मा स गमिष्यति बलिहिकाम् ।।४।।
अदो गच्छ मुजवतस्ततो वा घ परस्तरम् ।
मा स्मातो अभ्यैर्न: पुनस्तत्त्वा तक्मन्नुप ब्रुवे ।।५।।
परस्मै व त्वं चर परमस्यां परावति ।
यथा नो नान्तमायसि यथा नो नाभिशोचया ।।६।।
१२-३ 12.3
यथेयमुर्वी पृथिवी वृद्धैव गर्भमादधे ।
एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ।। १ ।।
पर्वताद्दिवो योनेर्गात्राद्गात्रात् समाशृतम् ।
रेतो देवस्यदेवस्य त्सरौ पर्णमिवाधाम् ।।२।।
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।। ३ ।।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं युवमश्विनास्यामा धत्तं पुष्करस्रजा ।।४।।
गर्भं ते राजा वरुणो गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ।।५ ।।
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धा: ।।६।।
येनौषधयो गर्भिणी: पशवो येन गर्भिणः ।
तेषां गर्भस्य यो गर्भस्तेन त्वं गर्भिणी भव । ७ ।।
वि ते ग्रन्थिं चृतामसि धाता गर्भं दधातु ते ।
आ योनिं पुत्रो रोहतु जननं प्रति जायताम् ।।८ ।।
जनिष्ट हि महिया आ योनिं समिहासरत् ।
अथा सोम इव भक्षणमा गर्भः सीदत्वृत्वियम् ।।९।।
धात: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ।। १० ।।
१२-४ 12.4
सवित: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ।। १ ।।
विष्णो: श्रेष्ठेन रूपेणास्या नार्या गवीन्यो:।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ।।२ ।।
त्वष्ट: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ।।३।।
भगः श्रेष्ठेन रूपेणास्या नाव गवीन्यो: ।
पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ।।४।।
अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं प्रजायै त्वा नयामसि ।। ५।।
यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद्वृत्रहा वेद तद्भर्भकरणं पिब ।।६।।
वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।
ददन्ते पुत्रं देवाः सोमपामुभयाविनम् ।।७।।
सोमस्य त्वर्त्वियेनोपैमि गर्भकृत्वने ।
ततस्ते पुत्रो जायतां कर्तवै वीर्येभ्यः ।।८।।
12.5
जायस्वाग्नेऽश्वत्थादस्मै क्षत्रायौजसे । ր
उग्र आपतिकादधि यो वृक्षां अधिरोहति ।१।
विबाधं चित् सहमानं त्वामग्ने जनयामसि ।
जातां जनिष्यमाणां सपत्नान् प्र णुदस्व मे ।। २ ।।
अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः ।
ततो जाताय ते ऽजनि वीडुजम्भाग्निरग्नये ।।३।।
तं जातं जातवेदसमा दधाम्यमर्त्यम् ॥
पावकमग्निमूतये शुचिमन्तं विषासहिम् ।।४।।
उत्तनुष्व धनुः प्रति मुञ्चस्व वर्म जहि शत्रून् वीर्या ते कृणोमि ।
अत्र रध्यन्तु य उ ते सपत्नास्त्वमेकवृषो भव ।।५ । ।
वृषभ त्वा सजातानां सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृण्मो विराजं गोपतिं गवाम् ।।६।।
समुद्रोऽस्यपां ज्येष्ठ इन्द्रो देवेषु वृत्रहा ।
व्याघ्रं सिंहं त्वा कृण्मो दमितारं पृतन्यताम् ॥७ ।।
इन्द्र इव दस्यूनधरान् कृणुष्वोग्र इव वातो विशृणन् सपत्नान् ।
ते शुष्यन्त्वप दावादिवाग्ने: पर्यवीवरथा एनान् ।।८ ।।
सं वृश्चैनांस्ते शुष्यन्तु वृश्चैनान् मोपजां शिषः ।
सपत्नान् सर्वांस्तृढवा त्वमेकवृषो भव ।।९।।
त्वमुग्रस्त्वं बली त्वमेधि विवाचनम् ।
त्वं पृतन्यत: पूर्व: सपत्नां अव धूनुष्व ।। १० ।।
12.6
असपत्न: सपत्नहेन्द्र इवारिष्टो अक्षितः ।
अध: सपत्नास्ते पदो: सर्वे सन्त्वभिष्ठिताः ।। १ । ।
म्लायन्तु ते खातमूलाः सपत्ना अग्निमेषां निर्ह्वयामि शरीरात् ।
हविषैषामपि दधामि प्राणांस्तथैभ्यो अमुचिः कृताः ।।२।।
अभिवर्धमभिभवं सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः सपत्नेभ्यः पराभवन् ।।३।।
यो न: स्वो यो अरणो ऽरातीयति पूरुषः ।
इध्मस्येव प्रक्षायकस्तस्य मोच्छेषि किं चन ।४।।
असपत्नं पुरस्तात् पश्चान्नो ऽभयं कृतम् ।
सविता मा दक्षिणत उत्तरान्मा शचीपतिः ।। ५ ।।
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वत: सन्तु वर्म।।६।।
12.7
त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
त्वया जघान कश्यपस्त्वया कृण्वो अगस्त्य: ।। १ । ।
त्वया वयमप्सरसो गन्धर्वांश्चातयामसि ।
अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ।।२ ।।
नदीं यन्त्वप्सरसो अपान्तारमिव श्वसन् । .
गुल्गुलू पीला नलद्यौक्षगन्धिः प्रमन्दिनी ।। ३ ।।
यत्रामर्त्या अप्स्वन्तः समुद्रे तरुर्नीली तुर्वशी पुण्डरिका।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ।। ४ ।।
यत्र प्रेङ्खो गन्धर्वाणां दिवि बद्धो हिरण्ययः ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ।।५ । ।
गन्धर्वाणामप्सरसामानर्तमिति संगमम्।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ।। ६ ।।
यत्राश्वत्था न्यग्रोधा महारुक्मा: शिखण्डिन: ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ।। ७ ।।
यत्र वो ऽक्षा हरिता अर्जुना आघाटाः कर्कयः संवदन्ति ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ।। ८ । ।
इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्कावपि यातु शेफः ।। ९ ।।
एयमगन्नोषधिर्वीरुधां वीर्यावती ।
अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ।।१०।।
12.8
अपेतेतो अप्सरसो गन्धर्वा यत्र वो गृहाः ।
तीक्ष्णशृङ्ग्यराटक्यजशृङ्गी व्यृषतु ।। १ ।।
जाया वेद वो अप्सरसो गन्धर्वाः पतयो यूयम् ।
अप क्रामत् पुरुषादमर्त्या मर्त्यं मा सचध्वम् ।।२ ।।
भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मै ।
ताभिर्गन्धर्वानभैद्यानवकादान् व्यृषतु । ।३ ।।
अवकादाङ् अभिशाचो भित्सु द्योतयमामकान् ।
गन्धर्वान् सर्वानोषधे प्र णुदस्व परा णय ।४।।
उन्माद्यन्तीरभिशोचयन्तीर्मुनिं नग्नं कृण्वतीर्मोघहासिनम्
अप्सरसो रघटो याश्चरन्ति गन्धर्वपत्नीरजशृङ्ग्याशये ।।५।।
श्वेतीकृण्वानः पुरुषं विश्वा रूपाणि बोभुवत् ।
श्वेवैकं कपिरिवैकं कुमार: सर्वकेशकः ।
प्रिय दृशे भूत्वा गन्धर्वः सचते स्त्रियं तमितो नाशयामसि।।६।।
१२-९ 12.9
यो वै वशां देवयते पचते वाहुताममा ।
मृत्योः स बध्यते पाशे देवानां च यमस्य च ।। १ ।।
दक्षिणां सूर्यामदितिं वदन्ति वशां वाचं कल्पयन्तः समानीम् ।
सप्तऋषयो नि दधुर्वाचमेतां सरस्वती मृडया कल्पयन्त: ।२।
इमां वशां वाचमाहुर्वशेति तिस्रो वशा अतिहिताः सधस्थे ।
तासामग्नौ मनसैकां जुहोमि तां नः स्वाद्वीं भूतपतिः कृणोतु ।। ३ ।।
स्वाद्वीं न एतां सविता कृणोतु स्वाद्वीं न एतां जनिता पशूनाम् ।
जुहुध्यग्ने वयुनानि विद्वांस्तां न: स्वाद्वीं भूतपतिः कृणोतु ।।४।।
इदं तृतीयं वशिनी वशाशि महिम्ने त्वा गर्भो अभ्या विवेश ।
उशती त्वमुशतो गच्छ देवान् सत्याः सन्तु यजमानस्य कामाः ।।५।।
इयमम्भसा वाजसुतस्तभे गौर्यस्यामिन्द्रो वरुणस्तित्विषाते ।
नृम्णमनृम्णं सचत इयमागन् धीरः पशुर्वीर्यमा विवेश ।। ६ ।।
वशा ससूव स्थविरं विपश्चितं वशा ससूव वष्कयं दिविस्पृशन् ।
वशा ससूव तरुणं विभाजने वशा ससूव संजितं धनानाम् ।।७।।
यत् प्रोक्षणमपतद्बर्हिषस्परि दक्षिणतो वेद्या इन्द्रियावत् ।
वशा संभूत्याधि गौरमीमेतस्या: पीवो अभवद्वर्मवाससम् ।।८।। रमि
नमो महिम्न उत चक्षुषे वां वशर्षभो मनसा तत् कृणोमि ।
देवाङ् अपीतं पथिभिः शिवेभिर्मा नो हिंसिष्टं हरसा देव्येन ।९।।
वशामस्कन्ददृषभस्तिष्ठन्तीमधि तन्तुषु ।
गर्भं तमद्य को वेद यतिधा सो अकल्पयत् ।। १० ।।
12.10
रूपमेक: पर्यभवद्राजा नामैक उच्यते ।
पतीरूपस्यैको रूपं रूपमेक: सुकृत्वनाम् ।।१।।
प्रजापति: परमेष्ठी मृत्युर्विश्वानर: स्वः ।
सरस्वानस्या यज्ञस्य वशाया अधि जज्ञिरे ।।२ ।।
यस्य गृह आदायेत वशा देवकृतं हविः ।
निधानमस्या एष्यं दुहित्रे पत्यामिव ।। ३ ।।
नास्याः सकृदभि तिष्ठेन्नास्य श्लोणा गृहे स्यात् ।
वशा कन्येव दुर्मङ्कापचित्याविजानता ।।४।।
नैनां रक्षेत् ब्राह्मणेभ्यो नामा वि ग्लापयाति च ।
यतीं न पत्या वर्तयेद् यस्य गोषु वशा स्यात् ।।५ ।।
नास्या वशमा रुन्धेद् देवा मनुष्या उत ।
वशं यदन्वैद् ब्रह्मणा तस्मादेषाभवद्वशा ॥६ ।।
वशं कृण्वाना वशिनीयमागन् पदं कल्याण्यवपश्यमाना ।
अग्निष्ट्येष्टिमभि जायमाना यज्ञस्य मात्रामभिकल्पमाना ।।७ ।।
इन्द्रवन्तस्ते मरुतस्तुरीयं भेजिरे वशे।
तुरीयमादित्या रुद्रास्तुरीयं वसवो वशे ।। ८ ।।
तुरीयभाज आदित्यान् वशायाः कवयो विदुः ।
अथास्याः पथ्यैका तनुश्चतस्रश्चक्लृपे दिशः ।।९।।
वशा पन्थामन्वपश्यन्नाकपृष्ठं स्वर्विदाम् ।
आदित्या एनामन्वायन्नृषयश्च तपस्विनः ।। १o ॥
12.11
पदेपदे कल्पयन्त आदित्याङ्गिरसो यजुः ।
ईडाना अन्वायन्वशां तदैडं सामोच्यते । १ ।।
वशेडा वशानुमतिर्वशामाहु: सरस्वतीम् ।
विराजं मन्यन्ते वशां वाग्वशा पृथिवी वशा ।२।
वशा द्वेष्टी सिनीवाली वशोषा निर्ऋतिर्वशा ।
वशायां मृत्युमविशदा मृत्युमविशद्वशा ।३। (वशायां मन्युर् अविशत् तं मन्युम् अविशद् वशा - पाठभेदः(१३.५.२२)
अग्निर्वागुदकं चक्षुर्मनो वातो वशी वशा।
तन्वं को अस्यास्तां वेद ययोदक्रामदेकया ।४।।
यां चक्षुषा मनसा संविदाना हृदा पश्यन्ति कवयो मनीषिण: । पस्य
तस्याः प्रजाधिपतिः पशूनां वशा राज्ञा नांतवेषा सृष्टिः ।।५।।
को वशाया ऊधो वेद क उल्बं च जरायु च ।
स्तनानस्या: को वेद क इ तद्वेद यद्दुहे ।।६ ।।
अहमस्या ऊधो वेदाहमुल्बं च जरायु च ।
स्ततानस्या अहं वेदाथो तद्वेद यद्दुहे ।।७।।
नैनामहं रक्षेयं दद्यामेव स्याच्च मे ।
स्तना ह्यस्या अहं वेद क्षीरमुल्बं च जरायु च ।।८ ।।
कृत्तिर्योनिरधिवासो जरायु पाण्डमुल्बं नाभिरुष्णीषमस्याः ।
आा जरसं धयतु मातरं वशी ब्रह्मभिः क्लृप्तः स ह्यस्य बन्धुः ।।९।।
(इति पञ्चदशर्चोनाम द्वादशाकाण्डे प्रथमो ऽनुवाकः)
१२-१२ 12.12
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ।।१।।
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनव: स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः । ।२ ।।
वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्वपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ।। ३ ।। ।
यदिन्द्राहन् प्रथमजामहीनामान् मायिनाममिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ।।४।।
अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहि: शयदुपपृक् पृथिव्याः ।।५।।
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ।।६।।
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
वृषणो वध्रिः प्रतिमानं बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ।।७।।
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
याश्चिद्वृत्रो महिना पर्यतिष्ठत् तासामहि: पत्सुत:शीर्बभूव ।।८ ।।
नीचावया अभवदवृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
उत्तरा सूरधरः पुत्र आसीद् दनुः शये सहवत्सा न धेनुः ।।९ ।। अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः।। १० ।।
१२-१३ 12.13
दासपत्नीरहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः।
अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाङ् अप तद्ववार ।।१ ।।
अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन् देव एक: ।
अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून्।।२ । ।
नास्मै विद्युन् न तन्यतुः सिषेध न याम्यहमकिरद्ध्रादुनिं च ।
इन्द्रश्च यद् युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ।।३।।
अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
नव च यन्नवतिं च स्रवन्तीः शयेनो न भीतो अतरो रजांसि ।। ४ । ।
इंद्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव।।५ ।।
12.14
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत्।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ।।१ ।।
यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपिताङ अरम्णात्।
यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात् स जनास इन्द्रः।। २ ।। वरो
यो हत्चाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः ।।३।।
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवाल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ।।४।।
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्।
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ।।५।।
यो रन्ध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ।।६।।
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ।।७।।
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः।। 1८ ।।
यस्मान् नर्ते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ।।९।।
यः शश्वतो मह्येनो दधानानबुध्यमानान् सर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ।। १० ।।
12.15
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्र:।१ ।।
यः शम्बरं पर्यचरच्छचीभिर्यो वा वृकस्य नापिबत् सुतम्।
अन्तर्गिरौ यजमानं बहुं जनं यस्तंनासूरुक्षु स जनास इन्द्रः ।२ ।। वहुं
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्त सिन्धून् ।
यो रौहिणमस्फुरद् वज्रबाहुर्द्यमारोहन्तं स जनास इन्द्र: ।। ३ ।।
द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ।।४।।
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं य: शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ।। ५ ।।
यः सुन्वते पचते दुध्र आ चिद्वाजं ददर्षि स किलासि सत्यः।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ।।६।।
जातो व्यख्यत् पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।
तविष्यमाणो न्वोजो अख्यद् व्रता देवानां स जनास इन्द्रः ।।७ ।।
यः सोमकामो हर्यश्व आसु यस्माद्रेजन्ते भुवनानि विश्वा ।
यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ।।८ ।।
12.16
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सविताय शं योः शं न इन्द्रापूषणा वाजसातौ ।। १ ।।
शं नो भगः शमु नः शंसो अस्तु शं नः पुरुन्धिः शमु सन्तु राय।।
शं नः सत्यस्य सूयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ।। २ ।।
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ।। ३ । ।
शं नो अग्निर्ज्योतिरनीको अस्तु शं मित्रावरुणावश्विना शम्।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ।।४।।
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसः पतिरस्तु जिष्णुः ।।५।।
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ।।६।।
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु राज्ञाः ।
शं न: स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदि ।।७।।
शं न: सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
शं न: पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ।।८।।
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्का:।
शं नो विष्णुः शमु पूषा नो अस्तु शं नप भवित्रं शम्वस्तु वायुः ।। ९ ।।
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः।
श न: पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ।।१० ।। पर्ज
12.17
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः }
शं न ऋभवः सुकृत: सुहस्ताः शं नो भवन्तु पितरो हवेषु ।। 1१ ।।
शं नो देवा विश्वेदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । सं
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः।।२ ।।
शं नो अज एकपाद् देवो अस्तु शमहिर्बुध्न्यः शं समुद्र: ।
शं नो अपां नपात् पेरुरस्तु शं नः पृश्निर्भवतु देवगोपाः ।।३।।
आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ।।४।। ।
ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ।।५।।
तदस्तु मित्रावरुणा तदग्ने शंयोरश्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गातुमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ।।६।।
12.18
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एष: ।
तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद्भागधेयम् ।। १ ।।
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि क्रियमाणं यथेदम् ।
त्वं भिषग् भेषजस्थापि कर्ता त्वया गामश्वं पुरुषं सनेम ।।२।।
तथा त्वमग्ने कृणु जातवेदोऽनेन विद्वान् हविषा यविष्ठ ।
पिशाचो अस्य यतमो जघास यथा सो अस्य परिधिष्पताति ।। ३ । ।
योऽस्य दिदेव यतमो जघास यथा स अस्य परिधिष्पताति ।
तथा त्वमग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।।४।। भिदे
अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्धि प्र दतः शृणीहि ।
पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ।।५।।
यदस्य हृतं विहृतं यत् पराभृतमात्मनो जग्धमुत यत् पिशाचैः ।
तदग्ने विद्वान् पुनरा भर त्वं शरीरे प्राणमसुमेरयास्य ।६।
अपां त्वा पाने यतमो ददम्भौदने मन्थे यदि वोत लेहे ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ।।७।।
क्षीरे त्वा मांसे यतमो ददम्भाकृष्टपच्ये अशने धान्ये य: ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ।।८ ।।
आमे सुपक्वे शवले विपक्वे य इमं पिशाचो अशने ददम्भ।
तमिन्द्रो वाजी वज्रेण हन्तु भिनत्तु सोमः शिरो अस्य धृष्णुः ।।९।।
दिवा त्वा नक्तं यतमो ददम्भ क्रव्याद् यातुः शयने पिशाच: ।।
तदग्ने विद्वान् प्र दह क्षिणीह्यप्येनं धेहि निर्ऋतेरुपस्थे।१०।।
12.19
सोमस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितु: सवेन ।
अग्नेर्होत्रेण प्र णुदे पिशाचान् यविष्ठस्य ब्रह्मणा जातवेदसः।। १ ।।
क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः सहोभिः।
श्रद्धेमं ब्रह्म जुषतां दक्षिणायुर्यथा जीवात्यगदो भवति ।। २ ।।
पुनस्त्वा प्राणः पुनरैत्वायुः पुनश्चक्षुः पुनरैतु श्रोत्रम् ।
अपघ्ना नो दुरितानि विश्वा शतं हिमा: सर्ववीरा मदेम।।३।। सतं
पुनरस्मै मनो धेहि पुनरायुः पुनर्बलम्।
अपानमस्य प्राणं चाग्ने वर्धय जीवसे ।। ४ ।।
चक्षुः सूर्य पुनर्देहि वात प्राणं समीरय ।
शरीरमस्य मांसान्यग्ने सं भारया त्वम् ।।५।।
समा भर जातवेदो यज्जग्धं यत् पराभृतम् ।
गात्राण्यस्य कल्पय पुनरा प्यायतामयम् ।।६ ।।
सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।
अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवसे ।।७।। रप्सि
सं मा सिञ्चन्तु मरुत: सं पूषा सं बृहस्पतिः ।
सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे।। ८ ।।
वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम्।
सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्नि:।।९।।
ये पुमांसो यातुधाना या स्त्रियो यातुधान्य: ।
बलवदिन्द्रस्य वज्रेणावाचीनानव हन्मि तान् ।। १० ।।
12.20
यं शपामो य उ नः शपाति यं दिष्मो य उ द्वेषत् पिशाचः।
क्रव्यादमग्ने महता वधेन तमत्रापि प्र दह जातवेद: ।१।
य आरेभे यस्य वा घास्यप्सरा यः कृण्वेन संविदो यातुमावान् ।
उलूकयातुं भृमलो यस्य यातुस्तमत्रापि प्र दह जातवेदः ।।२ ।।
य आददे यस्य वाघासि पित्र्यास्तेन श्वयातुरुत संभिधेहिभिः।
यः पताद्रोधनस्याधिदेवनं क्रव्यात् पिशाचः क्रविषस्तितृप्सन्।
उलूकयातुं भूमलो यस्य यातुस्तमत्रापि प्र दह जातवेदः ।।३ ।।
यः पुरुषेणेयते रथेन क्रव्याद् यातुः पिशुनः पिशाचः ।
वैश्वानरेण सयुजा सूर्येण तमत्रापि प्र दह जातवेदः । । ४ ।।
यो नो वलिं मृगयां यश्च नः कृषिं परितिष्ठाद् यतुभिर्यश्च न: शपात्।
अस्ता रुद्रः श्रथत्वायुरस्य तमत्रापि प्र दह जातवेद: ।।५ ।। यात
मा यातुमान् विदत मूडितारमलोका अस्मै प्रदिशो भवन्तु ।
समेनं तपतां रोदसी उभे तमत्रापि प्र दह जातवेद:।।६।। यात
ज्योतिष्मतीस्तपना याध रोचना प्रत्योषन्तीस्तन्वो यास्ते अग्ने।
ताभिर्मे मर्माण्यभितो ददस्व मा त्वा दभन् यातुधाना नृचक्षः ।।७।।
अपो देवी: पिशाचानामप नह्यन्त्वास्यम् ।
यथेमं ममात्मानमनाधृष्य पुन: पतान् ।।८ ।।
सदं पुष्पे सदं फले सदमिन्द्राभिरक्षिते।
सदा पिशाचा म्रियन्तां मैषामुच्छेषि कधन ।।९।।
ये पतन्तो यातुधाना दिवानक्तमुपाचरान् ।
रात्री मा तेभ्यो रक्षत्वह्न आत्मानं परि ददे ।। १o ! }
12.21
इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नजम्भनं द्विषतस्तपन हृद: ।। १ ।।
द्विषतस्तापयन् हृद: शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वास्त्वं दर्भ घर्म इवाभीत् सुतापयन् ।। २ ।।
घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
हद सपत्नानां भिन्धीन्द्र इव विरुजं बलम् ।३।
भिन्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
उद्यं त्वचमिव भूम्याः शिर एषां वि पातय ।।४ । ।
भिन्धि दर्भ सपत्नान् मे भिन्धि मे पृतनायत: ।
भिन्धि मे सर्वान् दुर्हार्दो भिन्धि मे द्विषतो मणे ।।५।।
छिन्धि दर्भ सपत्नान् मे छिन्धि मे पृतनायतः ।
छिन्धि मे सर्वान् दुर्हार्दो छिन्धि मे द्विषतो मणे ।। ६ ।।
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायत: ।
वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ।।७ ।।
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायत: ।
कृन्त मे सर्वान् दुहृदः कृन्त मे द्विषतो मणे ।।८ ।।
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायत: ।
पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ।। ९ ।।
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायत: ।
विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ।। १० ।।
१२-२२ 12.22
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायत: ।
निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ।। १ ।।
तृन्धि दर्भ सपत्नान् मे तृन्धि मे पृतनायत: ।
तृन्धि मे सर्वान् दुर्हार्दो तृन्धि मे द्विषतो मणे ।।२।।
भङ्धि दर्भ सपत्नान् मे भङ्धि मे पृतनायत: ।
भङ्धि मे सर्वान् दुर्हार्दो भङ्धि मे द्विषतो मणे ।। ३ ।।
मृण दर्भ सपत्नान् मे मृण मे पृतनायत: ।
मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ।।४।।
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायत: ।
मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ।।५ ।।
कृन्त दर्भ सपत्नान् में कृन्त मे पृतनायत: ।
पिण्ढि दर्भ सपत्नान् मे पिण्ढि मे पृतनायत: ।
पिण्ढि मे सर्वान् दुर्हार्दो पिण्ढि मे द्विषतो मणे ।। ६ ।।
ओष दर्भ सपत्नान् मे ओष मे पृतनायत: ।
ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ।।७ ।।
दह दर्भ सपत्नान् मे दह मे पृतनायत: ।
दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ।।८।।
जहि दर्भ सपत्नान् मे जहि मे पृतनायत: ।
जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ।। ९ ।।
यत्ते दर्भ जरामृत्यू स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा सपत्नान् जहि वीर्यैः ।। १० ।।
शतं ते दर्भ वर्माणि सहस्त्रं वीर्याणि ते ।
तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ।। ११ ।।
त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ।। १२ ।।
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ।। १३ ।।
यत् समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युतां सह । पर्य
ततो हिरण्ययो बिन्दुस्ततो दर्भे अजायत ।। १४ ।।
(इति पञ्चदशर्चोनाम द्वादशकाण्डे द्वितीयो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां पञ्चदशर्चोनाम द्वादशाकाण्ड: समाप्तः