अथ अष्टादशर्चोनाम पञ्चदशकाण्ड:

15.1
सम्यन्दिग्भ्यः पवते सं स्वर्विन्मधोरतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् ॥ १ ॥
रथन्तरं सामभि: पात्वस्मान् गायत्रेण च्छन्दसा विश्वरूपम् ।
द्वादशा इष्टय स्तोमो अह्नां समुद्रो वाच इदमोज: पिपर्तु ।२।
उग्रा दिशामभिभूतिर्वयधा: शुचिः शुक्रे अहन्योजस्ये ।
इन्द्राधिपतिः पिपृतादतो नो मयि क्षत्रं विश्वतो धारयेदम् ॥ ३ ॥
बृहद्राष्ट्रं क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरम् ।
इन्द्र स्तोमैः पञ्चदशेन वर्च इदं वातेन सगरेण रक्षतु ॥ ४ ॥
प्राची दिशां सहयशा यशस्वती विश्वे देवा: प्रावृषाह्नां स्वर्वती ।
इदं क्षत्रं दुष्टरमस्त्वोजो अनाधृष्टं सहस्वं सहस्वत् ॥ 1५ ॥
वैरूपे सामन्यह तच्छकेयं जगत्यैनद्विक्ष्वा वेशयामि ।
विश्वे देवाः सप्तदशेन वद्यमिदं क्षत्रं सलिलावतमुग्रम् ॥ ६ ॥
धर्त्री दिशां क्षत्रमिदं दाधर्तूपस्थाशानां मित्रवदस्त्वोजः ।
मित्रावरुणा शरदाह्ना चिकित्नू अस्मै क्षत्राय महि शर्म यच्छतम्॥७॥
वैराजे सामन्यधि मे मनीषानुष्टुभा संभृतं वीर्यं सह ।
इदं क्षत्रं मित्रवदार्द्रदान्वोजा मित्रावरुणा रक्षतमाधिपत्ये ॥८ ॥
सम्राड् दिशां सहसाम्नी सहस्वत्यृतुर्हेमन्तो विष्टया न: पिपर्तुं ।
ओषजातां बृहती तु शक्वरीमं यज्ञमवतां नो घृताची ॥ ९ ॥
स्वर्वती सुदुघा न: पयस्वती दिशां देव्यवतु नो घृताची ।
त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्धि वाचम् ॥ १० ॥
15.2
स्तोमैकविंशे भुवनस्य पत्नि विवस्वग्वाते अभि नो गृणीहि ।
घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु ॥१ ॥
ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्ना ।
रेवत्साम्नां पङ्क्तिश्छन्दसामजातशत्रुः स्योना नो अस्तु ।२ ॥
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी ।
विश्वव्यचा इषयन्ती सुहुतिः स्योना नो अस्त्वदितेरुपस्थे ॥ ३ ॥
ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर्मातरिश्वोत वायुः सन्धाना वाता अभि नो गृणन्तु ॥ ४ ॥
यो नः पिता जनिता यो विधर्ता यो न: सतो अभ्या सज्जजान ।
स आशिषा द्रविणमिच्छमान: प्रथमच्छदो वर आ विवेश ॥५॥
अभ्या वर्तस्व पृथिवी यज्ञेन पयसा सह ।
अपान्तो अग्निरिषितो ऽव रोहतु ॥६ ॥
यदग्ने चन्द्रं यत् पूतं यच्छुक्रं यच्च यज्ञयिम् ।
तद् देवेभ्यो भरामसि ॥ ७ ॥
इषमूर्जमहमत आदि यज्ञस्य योनौ महिषस्य धामन् ।
आा नो गोषु विशस्त्वा प्रजायां जहामि सेदिमनिराममीवाम् ॥८ ॥ ।
15.3
आयुषो ऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
तदाञ्जन त्वं शन्तातेसि मायोभवं कृतम् ॥१ ॥
यो हरिमा जायान्यो अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२ ॥
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
कृणोत्वत्प्रमायकं रथजूतिमनागसम् ।३।
प्राण प्राणं त्रायस्वासो असवे मृड़ ॥
निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
सिन्धोगर्भो ऽसि विद्युतां पुष्पम् ।
वात: प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५ ॥
देवाञ्जनं त्रैककुदं परि मा पाहि विश्वतः ।
न त्वा तरन्त्योषधयो बाह्या: पर्वतीया उत ।६।
वीदं मध्यमवासृजद्रक्षोहामीवचातनः ।
अमीवा: सर्वाश्चातयन्नाशयदभिभा इति ॥ ७ ॥
बह्विदं राजन् वरुणानृतमाह पुरुषः ।
तस्मात् सहस्रवीर्य मुञ्च न: पर्यंहसः ॥८ ॥
यदापो अघ्न्या इति वरुणेति यदूचिम ।
तस्मात् सहस्रवीर्य मुञ्च न: पर्यंहसः ॥९ ॥
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
तौ त्वानुगत्य दूरं भोगाय पुनरोहतु ॥१० ॥
15.4
ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्द: पृष्टीरपि शृणाञ्जन ॥ १ ॥
यदस्मासु दुष्वप्न्यं यद् गोषु यच्च नो गृहे ।
अमामगत्यस्त दुर्हार्दः प्रिय प्रति मुञ्चताम् ॥२ ॥
अपामूर्ज अतसो वावृधानमग्नेर्जातमधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु।
ध्रुवस्तिष्ठाधि सवितेव वार्य इमा विशो अभि हरन्तु ते बलिम्॥४॥
आङ्क्ष्वैक मणिमेकं कृणुष्व स्नाह्येकेन पिबैकमेषाम् ।
चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान्॥५॥
अग्निर्माघ्न्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा॥६॥
इन्द्रो मेन्द्र्येणावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा॥७॥
सोमो मा सोम्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा॥८॥
भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा॥९॥
मरुतो मा गणैरवन्तु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा॥१०॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे प्रथमो ऽनुवाक:)
15.5
आयुर्दा देव जरसं पृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम् ॥१॥
आयुरस्मै धेहि जातवेद: प्रजां त्वष्टरधि नि धेह्योनः ।
रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम्॥२ ॥
इममग्न आयुषे वर्चसे धाः प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्।३।
अग्निष्ट आयुः प्रतरं कृणोतु सोमस्ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वानधि ते ब्रवीत्वादित्यैस्ते अदितिः शर्म यच्छतु ॥ ४ ॥
रेवतीस्त्वा व्यक्षणं कृत्तिकाश्चकृतस्त्वा ।
अपसस्त्वामतन्वत धियोऽवयन्नवाग्नायीरपृञ्चन् ॥ ५ ॥
सहस्रमन्तां अभितोऽददन्ताशीतिर्मध्यमभयं वि नारीः।
देवीर्देवाय परिधे सवित्रे महत्तदासामघवन्महित्वम्॥६॥
इममश्मानमा तिष्ठाश्मेव त्वं स्थिरो भव।
प्र मृणीहि दुरस्यतः सहस्व पृतनायतः ॥ ७ ॥
येन देवं सवितारं परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥८॥
परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
यथैतं जरसे नयां ज्योक् क्षत्रे अधि जागरत् ॥९॥
परीमं सोममायुषे महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां ज्योक् श्रोत्रे अधि जागरत् ॥१०॥
15.6
परि धत्त धत्त वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥ १ ॥
जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिवा उ ।
शतं च जीव शरदः सुवर्चा रायस्योषमुप सं व्ययस्व ॥२ ॥
परीदं वासो अपि धा: स्वस्तये ऽभूर्वापीनामभिशश्तिपा उ ।
शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥ १३ ॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥४॥
हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥५॥
यदोत्तमत्तन्तुबद्धाय नावद्वास: पूर्वयावत् पुरुरूपपेश: ।
भद्रातीकासमजरं सुवीरं तेन ते देवा: प्र तिरन्त्वायुः ॥६॥
यस्य ब्रह्माण: सिचमारभन्ते श्रथ्नन्तो नीवं प्रतिरन्त आयुः।
तस्य देवा देवहूतिं जुषन्तां स विश्वहा सचतां स्वस्ति ॥७॥
अन्यदा धत्स्व परि धत्स्व वास इममुल्वमपलंपामि यस्ते ।
जरसे त्वामृषयः सं व्ययन्तु सूर्यो भगस्ते प्र तिरन्त्वायु ॥८ ॥
यस्य देवासः प्रथमवास्यं हरामि तं त्वा विश्वे अवन्तु देवाः।
तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥ ९ ॥
अहतेनाहतो भव स्थिर स्थिरेण सं भव ।
प्र मृणीहि दुरस्यतः सहस्व पृतनायतः ॥ १० ॥
15.7
मित्रः पृथिव्या अध्यक्षः ॥
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषि: स्वाहा ।१। हुत्या
वरुणो ऽपामध्यक्षः ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥ २ ॥ हुत्या
वायुरन्तरिक्षस्याध्यक्षः ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषि: स्वाहा ।३।
सूर्यो दिवो ऽध्यक्षः ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४॥
चन्द्रमा नक्षत्राणामध्यक्षः ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥५ ॥
वसुः संवत्सराणामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायमस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ६ ॥
संवत्सर ऋतूनामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥७॥
अग्निर्वनस्पतीनामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां
देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥ ८ ॥
इन्द्रः कर्मणामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ।९।
सविता प्रसवानामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां
पुरोधायामस्यां देवाहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ।१o ।
15.8
विष्णुः पर्वतानामध्यक्षः ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । १ ॥
त्वष्टा रूपाणामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । २॥
रुद्रः पशूनामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ३ ॥
सोम: पयसामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४॥
पर्जन्य ओषधीनामध्यक्षः
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ५ ॥
समुद्रो नदीनामध्यक्षः।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ६ ॥
हिंकार: साम्नामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ७ ॥
सरस्वती वाचामध्यक्षा।
सा मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ८ ॥
पूषा पथीनामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । ९ ॥
गायत्री छन्दसामध्यक्षा।
सा मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा । १०॥

15.9
बृहस्पतिर्देवानामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥१ ॥
प्रजापतिः प्रजानामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥२ ॥
यमः पितॄणामध्यक्ष: ।
स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥३ ॥
पितरः परे वरस्ततस्ततामहः।
ते मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४ ॥
देवानां देवा देवा देवेष्वधिदेवाः परा क्रमध्वम्।
प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु ॥५॥
त्रिरेकादशा विश्वे वैश्वानरा महि महान्तो न मा रभध्वम् ।
इदं शकेयं यदिदं कृणोमि स्वाहा ॥६॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे द्वितीयो ऽनुवाकः)
15.10
जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ।१।
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्रा: समदो जयेम ।
धनुः शत्रोरपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥ २ ॥
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्कते वितताधि धन्वञ्ज्या इयं समिति पारयन्ती ॥३॥
ते आचरन्ती समनेव योषा मातेव पुत्रं पिपृतामुपस्थे ।
अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान्॥४॥
बह्वीनां पिता बहुरस्य पुत्रो व्यचः कृणोति समदोऽवगत्य ।
इषुधिः सङ्काः पृतनाश्च सर्वा: पृष्ठे निनद्धो जयति प्रसूतः ॥ ५ ॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥६॥
तीव्रान् घोषान् कृण्वतां वृषपाणयो ऽश्वा रथेभिः सह वाजयन्त:।
अपक्रामन्त प्रपदैरमित्रान् क्षिणन्ति शत्रून्रनपव्ययन्त ॥७॥
रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।
तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥८ ॥
स्वादुषंसदः पितरो वयधाः कृच्छ्रेश्रित: शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ ९ ॥
ब्राह्मणासः पितर: सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।
पूषा न पातु दुरितादृतावृधो रक्षा माकिर्णो अघशंस ईशत।१०॥
15.11
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ १ ॥
सुपर्णं वस्ते मृगो अस्या द्न्तो गोभिः संनद्धा पतति प्रसूता।
यत्रा नरः सं च वि च द्रवन्ति तदस्मभ्यमिषवः शर्म यच्छान् ॥२ ॥
सुपर्णो वासो यदु सर्पिरासामनो हिरण्यमिषवः पतत्री ।
मास्माड् अरन्नमुत आपतन्तीरितः प्रहिताः सवितर्जयन्तु ॥ ३ ॥
अहिरिव भोगैः पर्येति बाहुँ ज्याया हेतिमपबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु मृत्योः ॥४॥
आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते ।
अश्वाजनि प्र चोदयाश्वान् समत्सु पादय ।५॥
दिवस्पृथिव्याः पर्योज आाभृतं वनस्पतिभ्य: परि संभृतं सह: ।
अपामोज्मानं परि गोभिराभृतमिन्द्रस्य वज्रं हविषा रथं यज । ६ ॥
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ ७ ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीर: ।
गोभि: संनद्धो रथ वीडयस्वास्थाता ते जयतु जेत्वानि । ८ ।
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद् दवीयो अप सेध शत्रून् ॥९॥
आा क्रन्दय बलमोजो न आ धा अभि ष्टन दुरितां बाधमानः।
अप सेध दुन्दुभे दुच्छुनामित इन्द्रस्य मुष्टिरसि वीडयस्व । १० ।
15.12
प्रामूञ्जयाभीमे जयन्तु केतुमद् दुन्दुभिर्वावदीतु ।
समश्वपर्णा: पतयन्तु नो नरो ऽस्माकमिन्द्र रथिनो जयन्तु ॥१ ॥
इन्द्रो रथाय प्रपदं कृणोतु यमध्यष्ठान् मघवा जयन्तम् ।
इर्य इव पशुभिर्युयोतु गोपा अरिष्टो जातः प्रथमः सिषासन्॥ २ ॥
पर्यन्यस्येव स्तनयित्नुरासोरिन्द्राग्न्योरिव चेखिद्यते घोषो अस्य ।
साहस्रो वीर: शतं ससन्वानयुतं ससन्वान् रथ मृडेह ।३।
श्येनस्य पक्षौ हरिणस्य बाहू इन्द्रस्य मुष्टिर्मरुतामनीकम् ।
गोभि: सनद्धो असि वीडयस्व॥१४॥
उद्यंयमीति सवितेव बाहू उभे सिचौ यजते भीम ऋञ्जन् ।
उच्छुक्रमत्कमजते शचीभिर्नवा मातृभ्यो वसना जहाति ।५ ।
उग्रौ ते नेमि पवी त उग्रा उग्राः शङ्कवो बृहतो रथस्य ।
ईषात्र वेणवो नमतिस्त उग्राग्निश्चक्षुः प्रवयणं रथस्य ।
तेनामित्रान् प्रमृणन् याहि शत्रून् ॥६॥
अरा नाभयो बलमित्ते अक्ष उग्रौ ते कोषौ सहनिस्यदाभ्याम्। वल
आण्योर्वधानुत कोषघोरा स्थानं बन्ध उत बन्धुरं ते ॥७।
गोष्ठे बलं मृग एकमङ्गं परा क्रमध्वं मह आ सुवन्त ॥
अभीशवो हतानेन वृत्रमयं क्षत्रेण प्रजयास्तूग्र: !!८ ।
आ तिष्ठ जिष्णुस्तरसा सपत्नान् साहस्रो वीरः प्रमृणन् याहि शत्रून्।
पृष्टियुगे कृणुतं वीर्याणि तदेतामेतं रथमस्य शग्मे ॥९॥
अष्टौ चक्षूंषि कवय: सं नमन्त्वश्वा प्राकाशा ऋजु धावयन्तः ॥
अनु त्वा स्कम्भो ददतां पितेव चक्रमाणमैनं धत्स्वोपस्थे प्र तिरात्यायुः ॥ १० ॥
कविभि: स्युतः स रथे विबद्धः स धन्वधिर्धनुचित्ते जजान ॥
अनुप्रास्येमानि पृथुमध्यमान्यश्वेभ्य: शंत्वाय कविभि: कृतानि तेभिष्टे शर्म यच्छन्तु देवा ॥ ११ ॥
15.13
अग्निं ब्रूमो वनस्पतीनोषधीरुत वीरुध: ।
इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥ १ ॥
ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
त्वष्टारमग्र्यं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ २ ॥
ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ३ ॥
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
वातं ब्रूम: पर्जन्यमन्तरिक्षमथो दिश: ।
आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५ ॥
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसा उभा ।
आदित्यान् सर्वान् ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥६ ॥
मुञ्चन्तु मा सपथ्यादहोरात्रे अथो उषाः ।
सोमो मा दिव्यो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७ ॥ !
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि बूमसि ।
भङ्गो दर्भो यवः सहस्ते नो मुञ्चन्त्वंहस: ।l८ ।
ये ग्राम्या: सप्त पशव आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥ ९ ॥
भवाञ्शर्वाविदं ब्रूम उग्रः पशुपतिश्च य: ।
इषूर्या एषां विद्मस्ते नो मुञ्चन्त्वंहसः ॥ ! १० ॥
15.14
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
यजूंषि होत्रान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ १ ॥
ऋतून् ब्रूम ऋतुपतीनार्तवाङ् उत हायनान् ।
समा: संवत्सरान् मासस्ते नो मुञ्चन्त्वंहसः ॥२ ॥
दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥ ३ ॥
सप्त ऋषीन्वा इदं ब्रूमो ऽपो देवी: प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।I४ ॥
विश्वान् देवानिदं ब्रूम: सत्यसन्धानृतावृधः ।
विश्वाभि: पत्नीभिः साकं ते नो मुञ्चन्त्वंहसः ॥ ५ ॥
आदित्या रुद्रा वसवो देवा दैवा अथर्वाण: ।
अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥ ६ ॥
ये देवा दिविषदो ऽन्तरिक्षसदश्च ये ।
पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥७ ॥
एत देवा दक्षिणतः पश्चात् प्राञ्च उतेदन ।
पुरस्ताच्छक्रा उत्तराद्विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥८॥
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनानुत ।
मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ९ ॥
या देवीः पञ्च प्रदिशो ये देवा द्वादशार्त्तव: !
संवत्सरस्य ये दंष्ट्रास्ते न: सन्तु सदा शिवा: ॥१०॥
भूतं ब्रूमो भूतपतिं भूतानामुत यस्पतिः ।
भूतानि सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११ ॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे तृतीयो अनुवाक:)
15.15
यावद् द्यौर्यावत् पृथिवी यावत् पर्येति सूर्य: ।
तावत् त्वमुग्र ओषधे परि पाह्यरुन्धति ।१।
अरिष्टस्त्वा खनत्यरिष्टाय खनामि त्वा ।
द्विपाच्चतुष्पादस्माकं सर्वमस्त्वनातुरम् ॥२ ॥
देवानामसि स्वसा मरुतामसि सङ्चरी ।
यं जीवमश्नुषे त्वं न स रिष्याति पूरुष: ।३।
असन्धती नामासि तृतीयस्यामितो दिवि ।
तत्रामृतस्य रोहणं तेन त्वाच्छावदामसि ॥ ४ ॥
शं त आपो हृद्या: शं ते कुलिज्या उत।
शं वातः शं बृहस्पति: सं ते तपतु सूर्य: ॥ ५ ॥
शं त इन्द्राग्नी भवतां शं रात्री प्रति धीयताम् ।
शं ते पृथिव्यां वीरुध: शमु ते सन्त्वोषधी: ॥६॥
बह्वीषु हि त्वामविदमोषधीं वीर्यावतीम् ।
अरुन्धति त्वामाहार्षमितो मा पारयानिति ।७ ॥
अभिप्रेप्सेव जीवन्तमभि दस्येदसन्धती ।
एषादविद्व्यभेषजी देवी वातीकृतस्य च ॥८ ॥
अनु षिञ्च नस्तत् कुर्वगदो वै भविष्यति ।
वातीकृतस्य भेषज्यागन् देव्यरुन्धती ! ॥ ९ ॥
मा बिभेर्न मरिष्यस्यगदो वै भविष्यसि ।
वातीकृतस्य भेषज्यागन् देव्यरुन्धती ॥ १० ॥
१५-१६ 15.16
अरुन्धत्य: सं वदन्ते गाव: प्रव्राजिनीरिव ।
यमातुरमभिगच्छामावतं कृणु मावतं ॥१ ॥
इमं मे त्वं जरामृत्युं पुरुषं कृण्वोषधे ।
राज्ञी हि सर्वासामस्योषधीनामरुन्धती । २ ॥
त्रायमाणा ह्यसि जीवला वीर्यावती ।
अरुन्धति त्चामाहार्षमितो मा पारयानिति । ३ ।
दिग्धेन च विद्धस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ४ ॥
आहेयेन च दष्टस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥५ ॥
वातीकारेण च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी । ६ ।
भवेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥७ ॥
शर्वेण च क्षिप्तस्याघस्थाघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥८ ॥
रुद्रेण च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ९ ॥
पशुपतिना च क्षिप्तस्याघस्याघविषा च या ॥
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ १० ॥
15.17
उग्रेण च देवेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ १ ॥
महादेवेन च क्षिप्तस्यघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ।२ ॥
ईशानेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ३ ॥
यत् पृथिव्यां विषं वीरुत्स्वधि यद्विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ४ ॥
यदोषधीभ्य: संभरन्ति ब्रह्माणो मेनये विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ५ ॥
यद् ब्राह्मणाः संभरन्ति तृष्टमाशीविषं विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥ ६ ॥
य: क्षिप्तो मृत्युनायस्मैर्यो दष्टस्तृष्टदंश्मभि: ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥७॥
सं जिहीष्वामुक्था यक्ष्मादारुक्षो लोकमुत्तमम् ।
अपा जीवसि पात्रेणाधि जीवपुरा इहि ॥८॥
१५-१८ 15.18
अप्सरसो वि वो यकृद्वि वो भिनद्मि मेहनं ।
वि चण्डालं व्यर्जुनं वि ववृत्रं भिनद्मि वः ॥१ ॥
विश्जन्या: पाञ्चजन्या महारुक्मा: शिखण्डिनी: ।
सर्वा इन्द्रस्य वज्रेण हता बुद्बुदयात्तव: ॥२ ॥ ।
अन्धाचीमसिताचीमुलूखलस्य बुध्नेन ।
अवैतं वत्सपं जहि ॥ ३ ॥
दूरादेना: प्रत्यपश्यप्रापतन्तीरथो दिव: ।
देवानां हव्यमोहनीरिन्द्रो अप्सरसो हनत् ॥४॥
आ हता अप ता इतः खलादिव यातुधान्य: ।
अमुं गच्छत पूरुषं समुद्रमपगच्छति । !५
दिवं गच्छन्तु दिव्या: सरो गच्छन्तु सारसी: ।
उलुङ्गलस्य यो गृहस्तदु गच्छन्त्वासुरीः ॥६॥
आस्कन्दिके विस्कन्दिके पराचीरप नृत्यतु ।
सारङ्गेण शुना सह ॥७ ॥
यः सारङ्गो हिरण्यदन् श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभास्मा अरिष्टतातये 1८ ॥
अद्यां ते विरणी पराचीरप नृत्यत ।
शृणामि घोरा व: पृष्टी ब्रह्मणा किकसा उत ॥९॥
एकत्रिंशदश्वतीश्चतस्र उत गुङ्गुव
शिवा दश शृता दश केशिनीः पञ्चविंशतिः ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम : ॥ १०॥

१५- १९ 15.19
या: प्रेङ्खे प्रेङ्खयन्ते सन्ताने मालवा इव ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम : ॥ १ ॥
या: पुरस्तादाचरन्ति साकं सूर्यस्य रश्मिभिः ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥२ ॥
या अधरादाचरन्त्यनसा छदिसा सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥३॥
या: पश्चादाचरन्त्यन्धेन तमसा सह।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः 1४।
या उत्तरादाचरन्ति वर्षेण विद्युता सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥५ ॥
या अधस्तादुद्वीक्षन्ते साच्यक्षि करिक्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम ६ ॥
या उपरिष्टादवेक्षन्ते नीलव्यक्तानि बिभ्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥७।
या अन्तरिक्ष ईरयन्ति वातेन रेष्मणा सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः॥८॥
या नदी: प्रतिगाहन्ते संरभ्य कन्या इव ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥९॥
यास्तीर्थानि विगाहन्ते ऽघ्न्या: श्वसतीरिव ।
इदमुलुङ्कलुकाभ्यो अप्सराभ्यो ऽकरं नम: ॥ १० ॥
या: समुद्रादुच्चरन्त्युच्चैर्घोषान् करिक्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥११॥
या गच्छन्ति जनंजनमिच्छन्तीः प्रयुतं बहु ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥१२ ॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे चतुर्थो ऽनुवाकः)
15.20
त्वज्जाता रुद्र शन्तमा त्वं हि नो बभूर्या भेषजेभिः। बभु
व्यक्ष्मां यावयास्मद् व्यंहो व्यमीवाश्चातयास्मद्विषूचीः॥१॥
त्वं देवानामसि रुद्र श्रेष्ठस्तवस्तमस्तवसामुग्रबाहो।
हृणीयसा मनसा मोदमान आ बभूविथ रुद्रस्य सूनोः॥२॥
त्वं हि नो वीराङ् ईरय भेषजेभिरुरुं नो भवन्तमघवो मरुत्वं ।
करा न: पारमंहस: स्वस्ति विश्वा अभीतीरप सेधास्मत् ।३।
त्वं हि नो वृषभ चक्षिमेष्ठा अस्मै रुद्रायोग्राय मीढुषे ।
क्षयद्वीराय प्र भरामहे मतिं यथा न: शमसो द्विपदे शं चतुष्पदे।४॥
क्व तेषु रुद्र हस्तो मृडयाको जलाषः ।
अपभर्ता रपसो दैव्यस्य ।५॥
प्र यक्ष्मः प्र निर्ऋतिरेत्वस्मत् सेनेव सृष्टा प्र चताममीवा ।
आराद्धत् सना वृजना जहीति ॥६॥
अर्हन् धनुर्हितं बिभर्ष्यर्हन् निष्कं रजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमेजन्न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान् परि पश्यसि भूमिम् ॥७॥
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येन प्रदिशमस्यसि ॥ ८ 1!
मा देवानामुग्र राजन्नस्माकं पुरुषा रिषन् ।
रक्षांस्यस्मद् यक्ष्मांश्च नाशयामसि ब्रह्मणा ॥ ९ ॥
ब्रह्मणेतो नाशयामो यत् किञ्चाङ्गेष्वामयत् ।
शल्यां यक्ष्मस्याथो रोपीस्ता इतो वि नयामसि ॥१०॥
१५-२१ 15.21
नयामि वां पशुपती घृतेनाज्येन वर्धयन् ।
यं दिष्मो यश्च नो द्वेष्टि तस्य वेश: करिष्यथ: । १ ॥
अधि ब्रूतं पशुपती द्विपदे मे चतुष्पदे।
प्रसूतौ यत्र जघ्नतुस्ततो मेमातरं रिषत् ॥ २ ॥
या वां रुद्र: शिवा तनू या वां सन्ति रोगणा: ।
या वामायुष्मतीस्तनूस्ताभिर्नो मृडतं युवम् ॥ ३ ॥
न प्र मिनन्ति व्रतिनो व्रतानि सत्यं जिन्वन्तो विदथा वदन्त: ।
यस्येमे रोदसी उभे संयुक्ते मनसा हृदा ।४॥
स प्रजानां प्रजापतिः साधु रक्षति वर्षति ।
स वेद रत्नभेषजं देवेभ्यस्पर्याभृतं तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे ऽथो अरिष्टतातये ॥५॥
सगुणास आसते संयुक्ता बलाय कम ।
तेषां यदिन्द्रियं बृहचतिरोचतिरोचना । ६ ।
ये ते रोचने बृहती अन्तरिक्षे अथो दिव: ।
ताभ्यामुप प्र याहि न: सर्ववीरा ङ अरिष्यतः ॥ ७ ॥
सर्ववीरा अरिष्यन्तो रोचने अधि तस्थिम ।
यथा नस्तृष्णमद्वसु दिवि क्षिपद्भ्यो अप्सु या ।८॥
15.22
इन्द्राग्नी हुवे प्रथमौ हृयामि मरुतः शिवाम् ।
ह्वयामि विश्वां देवानिमं होममवन्तु मे ।१।
त्वं प्रथमो अमृतत्वमग्ने देवो देवत्वं प्रथमो जिगेथ ।
तव दिवि हृदयं सं बभूव स नः शिवा आपो जातवेदो नि यच्छ।२ ॥ । वभूब
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एष: ।
तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद्भागधेयम् ॥ ३ ॥
ये देवा दिवि ष्ठ ये पृथिव्यां जातवेदो य उरावन्तरिक्षे ।
ये गिरिषु पर्वतेष्वप्स्वन्तस्ते देवा अशनिं यावयाथ ।४॥
मित्रं दिग्भिः कृणुष्व जातवेद आशाभिर्मित्रमधिपा विपश्चित् ।
मा नो हिंसीर्दिव्येनाग्निना सस्यां येन यन्ति मरुत स्पर्धमानाः ॥५॥
विद्योतमान स्तनयन् वृषेवैषि कनिक्रदत् ।
भीमः पर्जन्य ते रथः स उ न: शर्म यच्छतु ॥६ ॥
ये विद्युतमशनिमातन्वन्ति मरुतः सलिलादधि ।
कृष्यै नो विश्वाराया अवधन्वा नि तन्वताम् ॥७॥
यो विद्युतमशनिमातन्त्यन्तरिक्षादुत वाताद्दिवश्च ।
तेभ्यो मरुद्भ्यो नमो ऽस्त्वोजसे ॥ ८ ॥
ता यन्तु स्वरंकृताः स्योना: शिवतमा: पथा ।
मा न इन्द्र यवं वधीर्मित्रमेनेन कृण्महे ! ९ ॥
दर्भो अग्र ओषधीनां शतकाण्डो अजायत । धिनां
स देवैः प्रहितो ऽयमागन् स्वस्तये वृषा मरुद्धि: सह संविदान: । १o ।
15.23
वृषाक्षस्यासुरस्य मेनिरसि तां त्वया तथा वेद कर्णस्य कौविदस्येवमाशा।
तां माभ्यव गा द्वादशाहानि वि रक्षे । १ ॥
असिर्मे तिग्मस्यायस इन्द्राग्निभ्यां सुसंशित: ।
तेन सेधामिदादुनिं कृषिं मे माव गादिति सस्यं मे मा वधीदिति ।२।
मरुत: परि वृङ्धि नो दिवः क्षुद्रेभिरश्मिभिः ।
उदुम्बरस्य शाखया चक्षुषाशनिं यावयामसि ।३।
मरुतो मृडयात नो दिव: शुक्रेभिरश्मिभि: ।
उदुम्बरस्य शाखया विचक्षुषाशनिं यावयामसि ॥४॥
वर्ताद्वर्तमा क्राम पर्वतादधि पर्वतम्।
गिरौ प्रतिशृता सती वृक्षान् भङ्धि मा यवम् ॥ ५ ॥ i
अदाम्ना त्वा सन्द्यामि यावण्या परिभूर्ण्या । i
सानौ प्रतिशृता सती तृणं भङधि मा यवम् ॥६॥
उशती नामासि सलिन्दा नाम । .
अन्यामासां गच्छ यं द्विष्मस्तं गच्छ ॥७॥
पराचीमनु संवतं पराचीमनु संविद पराच्यनु नि द्रव ।
इतस्त्वा नाशयामसि ब्रह्मणा वीर्यावता ॥८ ॥
वार्भवोदकं भवोदकस्योदकं भव ।
क्षुद्रात् क्षोदीयसि भूत्वाथेह्यधमं तमः ॥९॥
स्योना भव शिवा भव शिवाच्छिवतरा भव ।
फेनान्मृदीयसी भूत्वेदं शस्यमुपा चर ॥ १० ॥
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अग्ने दूरेहेते कृण्मो मा नो हिंसीर्द्विपदो मा चतुष्पद: ॥११॥
प्रति त्वा सहसासह: सहसा प्रति रुध्मसि ।
ऐन्द्रमिदं सहो महद् भूम्यास्तवं दिवि श्रितम् ।
अफालकृष्टमा क्राम मा न इन्द्र यवं वधीः ॥ १२ ॥
या: समुद्रादुच्चरन्त्युत्सेभ्यो या नदीभ्यः ।
अत्यन्तः सर्पो वैद्युतो ऽशनिं यावयादितः ॥१३॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे पञ्चमो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां अष्टादशर्चोनाम पञ्चदशकाण्डः समाप्तः