प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ क्षुद्रकाण्डनामषोडश: काण्डः

16.1
अन्तकाय मृत्यवे नमो इहायमस्तु पुरुषः सहासुमा ।
सूर्यस्य भागे अमृतस्य लोके प्राणा अपाना इह ते रमन्ताम् ।।१।।
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये । २ । ।
इह ते ऽसुरिह प्राण इहायुरिह ते मनः ।
उत्वा निर्ऋत्या: पाशेभ्यो दैव्या वाचा भरामसि ।३।
उत्क्रामात: माव पत्था मृत्योः पड्वीशमवमुञ्चमान: ।
मा छित्था अस्माल्लोकादग्ने: सूर्यस्य संदृश: ।।४।।
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्याप: ।
सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ।।५ ।।
उद्यानन्ते पुरुष नावयानं जीवातन्ते दक्षपतिं कृणोतु ।
आ हि रोहो मममृतं सुखं रथमथजिर्विर्विदथमा वदसि।६।
माते मनस्तत्रगान् मा तिरोभून् मा जीवेभ्यः प्रमोदो मानुगाः पितॄन्।
विश्वे देवा अभिरक्षन्तु त्वेह ।।७।।
मा गताना मादिधीथा ये नयन्ति परावतम् ।
उदारोह तमसो ज्योतिरेह्या ते हस्तं रभामहे ।।८।।
श्यामश्च त्वा मा बलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङ् एहि मा वि दीध्यो माति तिष्ठ: पराङ्मनाः |
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
एतत् पुरुष मा प्र पत्था अभयं परस्तादभयं ते अर्वाक्।१०।।
16.2
रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ।। १ ।।
रक्षतु त्वा पृथिवी रक्षतु द्यौ: सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर ।२।
अन्तरिक्षं रक्षतु देवहेत्या: बोधश्च त्वा प्रतीबोधश्च रक्षताम् । ।
अस्वप्नश्च त्वानवद्राणश्च रक्षतां गोपायंश्च त्वा रक्षतां जागृविश्च।।३।।
ते त्वा रक्षन्तु ते त्वा गोपायन्तु ते त्वांहसस्पान्तु तेभ्यो नमस्तेभ्य स्वाहा ।।४।।
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाण: ।।
मा त्वा प्राणो बलं हासीदसुं तेनु ह्ययामसि ।।५।।
मा त्वा जम्भः संहनुर्मा तमोविदन् मा जिह्वाबर्हिः प्रमयुः कथा स्याः।
उत् त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ।।६।।
अयं देवा इहैवास्त्वयं मामुत्र गादितः । ।
इमं सहस्रवीर्येण मृत्योरुत् पारयामसि ।।७।।
उत् त्वा मृत्योरपीपरं सं धमन्तु वयोधस: ।
मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ।।८।।
अहार्षं त्वाविदं त्वा पुनरागा: पुनर्नव: ।
सर्वाङ्ग: सर्व ते चक्षुः सर्वमायुश्च ते ऽविदन् ।। ९ ।।
उत् त्वा द्यौरुत् पृथिव्युत् प्रजापतिरग्रभीत् ।
उत् त्वा मृत्योरोषधय: सोमराज्ञीरपीपरन् ।। १० । ।
व्यवात् ते ज्योतिरभूदप त्वत् तमो अक्रमीत् ।
अप त्वन्मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ।। ११ ।।
16.3
आ रभस्वेमाममृतस्य श्नुष्टिमच्छिद्यमाना जरदष्टिरस्तु ते ।
असुं त आयु: पुनरा भरामि रजस्तमो मोप गा मा प्रमेष्ठा: ।।१।।
जीवतां ज्योतिरभ्येहि लोकमा त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्यवमुञ्चन्तु मृत्युपाशान् अशस्तीः । ।२ ।।
वातत्ते प्राणमविदन् सूर्याच्चक्षुरहं परि ।
यस्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वदजिह्वयालपन् । ।३ ।।
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
नमस्ते मृत्यो चक्षुषे नम: प्राणाय ते ऽकरन् ! ।। ४ ।।
अयं जीवतु मा मृतेमं समीरयामसि ।
कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः । । ५ ।।
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
त्रायमाणां सहमानां सहस्वतीमरुन्धतीमिह हुवे ऽस्मा अरिष्टतातये।६।
अधि ब्रूहि मा रभथा: सृजेमं तवैव संत्सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ।।७ । ।
देवानां हेतिः परि त्वा वृणक्तु पारयामि रजस उत्त्वा मृत्योरपीपरम्।
आरादग्निं क्रव्यादं निरुह जीवातवे ते परिधिं दधामि ।।८।।
अस्मै मृत्योरधिब्रूहीमं दयस्वोदितो यमेतु । ब्रुही
अरिष्ट: सर्वाङ्ग: सुश्रुज्जरसा शतहायनात्मनाभुजमश्नवत् ।।९।।
यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म्म कृण्मसि ।। १० ।।
16.4
कृणोमि ते प्राणापानौ जरां मृत्युं कृणुतां दीर्घमायु: स्वस्ति ।
वैवस्वतेन प्रहितान् यमदूतांश्चरत आरादप सेधामि सर्वान् ।१ ।।
अरादरातिं निर्ऋतिं परो ग्राहिं क्रव्याद: पिशाचान् ।
रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि ।२ ।।
अग्नेष्टे प्राणममृतादायुष्मतो वन्वे जातवेदस: ।
यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम्।।३ । ।
शिवे ते स्तां द्यावापृथिवी असंतापे अधिश्रियौ ।
शं ते सूर्या तपति शं वातो वातु ते हृदे ।
शिवा अभिरक्षन्तु त्वापो दिव्या: पयस्वतीः शिवास्ते सन्त्वोषधीः ।। ४ । ।
उत् त्वा हार्षमधरस्यादुत्तरां पृथिवीमभि ।
तत्र त्वादित्यौ रक्षतां सूर्या चन्द्रमसावुभा ।।५।।
यते वास: परिधानं यां नीविं कृणुषे त्वम् ।
शिवं ते तन्वे तत् कृण्मः संस्पर्शे ऽद्रूक्ष्णमस्तु ते । । ६ ।।
यत् क्षुरेण मर्चायता सुतेजसा वप्ता वपसि केशश्मश्रु ।
शुभं मुखं मैनमायुः प्र मोषी: ।।७।।
शिवौ ते स्तां व्रीहियवावबलासावदोमथौ ।
एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ।।८ ।।
यदश्नाशि यत् पिबसि धान्यं कृष्या: पयः ।
आद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि । ९ । ।
अह्ने च त्वा रात्रये चोभाभ्यां परि दध्मसि ।
अरायेभ्यो जिघत्सुभ्य इमं न: परि रक्षतु ।। १० । ।
16.5
शतं ते ऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि सन्तु ।
इन्द्राग्नी विश्वे देवा अनुमन्यन्तामहृणीयमाना: ।।१।।
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दध्मसि ।
वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ।।२ ।। बर्ध
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
तस्मात् त्वां मृत्योर्गोपतेरुद्धरामि स मा मृथाः ।। । ३ ।
सो ऽरिष्टो न मरिष्यसि न मरिष्यसि मा बिभे: ।
न वै तत्र प्र मीयन्ते नो यन्त्यध्वरं रजः ।। ४ । । म्रीय
सर्वो वै यत्र जीवति गौरश्व: पुरुषः पशुः ।
यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम । ५ । क्रीय
परि त्वा पातु समानेभ्यो ऽभिचारात् सबन्धुभ्यः ।
यमम्रिर्भवामृतो ऽतिजीवो मा ते हासिषुरसवः शरीरम् ।। ६ ।।
विश्वे देवा अमृतेन बिभ्रत्वधिवक्ता पशुपतिष्टे अस्तु ।
अनामयत्सविता ते कृणोत्वा त्वा प्राणो विशतु जीवनाय।७।
ये मृत्यव एकशतं या नाष्ट्रातिजीव्या ।
मुञ्चन्तु तस्मात् त्वा देवा अग्नेर्वैश्वानरादधि ।।८ ।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे प्रथमो ऽनुवाकः)
16.6
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म ।
शिशानो अग्नि: क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ।।१।।
अयोदंष्ट्रो अर्चिषा वावृधानानुप स्पृश जातवेद: समिद्धः ।
आ जिह्वाया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन्।२।
उभोभयाविन्नुप धेहि दंष्ट्रो हिंस्रः शिशानोवरं परं च । ।
उतान्तरिक्षे परि याह्यग्ने जम्भै: सं देह्यभि यातुधानान्। ३ ।।
अग्ने त्वचं यातुधानस्य भिन्द्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर्वि चिनोत्वेनम् ।। ४ ।।
जज्ञैरिषूः संनममानो अग्ने वाचा शल्याङ् अशनिभिर्दिहानः ।
ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ।। ५ ।। वाहू
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । उता
उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशान:।। ६ ।
उतारब्धान्त्स्पृणुहि जातवेद उतारेभाणां ऋष्टिभिर्यातुधानान् ।
अग्ने पूर्वो नि जहि शोशुचान आमाद: क्ष्विङ्कास्तमदन्त्वेनी: ।। ७ ।।
इह प्र ब्रूहि यतम: सो अग्ने यो यातुधानो य इदं शृणोति ।
तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् । । ८ ।।
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्य: प्र णय प्रचेत: ।
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्ष: ।। ९ ।।
नृचक्षारक्ष: प्रतिपश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा: ।
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च। १० ।
16.7
त्रिर्यातुधान: प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयन् जातवेद: समक्षमेनं गृणते नि वृङ्धि । १ ।।
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनस : शरव्या जायते या तया विध्व हृदये यातुधानान् । २ ।।
पराशृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि !
परार्चिषा मूरदेवाञ्छृणीहि परासुतृप: शोशुचतः शृणीहि । ३ ।।
पराद्य देवा वृजिनं शृणीहि प्रत्यगेनं शपथा यन्तु सृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधान: ।। ४ ।।
सनादग्ने मृणासि यातुधानान्नत्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्याया: ।। ५ ।
य: पौरुषेयेण क्रविषा समङ्क्ते योऽश्व्येन पशुना यातुधान:।
यो अघ्न्याया भरति क्षीरमग्ने स्तेषां शीर्षाणि हरसापि वृश्च । ६ । अघ्या
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्ष: । उस्री
पीयूषमग्ने यतमस्तितृप्सात् तं प्रत्यञ्चमर्चिषा विध्व मर्माणि । । ७ ।।
विषं गवां यातुधानाः पिबन्त्वावृश्चन्त्वामदितये दुरेवा: । पिव
परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ।।८।।
त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात् ।
प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ।९।
पश्चात् पुरस्तादधरादुदक्त: कवि: काव्येन परि पाह्यग्ने ।
सखा सखायमजरो जरिम्णे अग्ने मर्त्याङ् अमर्त्यस्त्वं न: ।। १० ।
16.8
तदग्ने चक्षुः प्रति धेहि रेभे सफारुजं येन पश्यसि यातुधानान् ।
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तुमचितं न्योष ।।१।।
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ।।२।।
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुषे महित्वा।
प्रादेवीर्मायाः सहते दुरेवा: शिशीते शृङ्गे रक्षसे विनिक्ष्वे ।३।
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः।
शुचिः पावक ईड्यः।।४।।
अग्ने रक्षाणो अंहस: प्रतिस्म देवरिषत: ।
तपिष्ठैरजरो दह ।।५।।
ये ते शृङ्गे अजरे जातवेदस्तिग्म शोचीर्ब्रह्म संशिते ।
ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनं
प्रत्यञ्चं यातुधानं जातवेदो विनिंक्ष्व।।६।। विनि
विषेण भङ्गुरावतः समिन्द्र रक्षसो दह ।
प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ।।८।। दव्धं
प्रत्यग्ने हरसा हरः शृणीहि विश्वत: प्रति ।
यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ।। ९ ।।
सीदान्वेया: प्रमृण रक्ष इन्द्र यातुधान क्षयणैर्मूरै: ।
एतावग्ने मिथुना यातुधाना विष्वञ्चौ उक्तै हरसा शयाताम् । । १० ।।
बृहस्पतिर्न: परि पातु पश्चादुतोत्तरस्मादधरादघायो: ।
इन्द्र: पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ।। ११ ।।
16.9
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृध: ।
परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिण:।।१।।
इन्द्रासोमा समघशंसमभ्यगं तपुर्ययस्तु चरुरग्निवाङ् इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ।२।
इन्द्रासोमा दुष्कृतो वव्र अन्तरनारम्भणे तमसि प्र विध्यतम् ।
यथैषां नातः पुनरेकश्चनोदयत् तद् वामस्तु सहसे मन्युमच्छवः ।।३।।
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ।।४।।
इन्द्रासोमा प्र हरतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथ: ।। ५ ।।
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां तं परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम्। ६।
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः।
इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिदभिदासति द्रुहुः। ७ ।।
यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
आपो इव काशिना संगृभीता असंनस्त्वासत इन्द्र वक्ता ।।८ ।।
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभि:।
अहये वा तान् प्रददातु सोम आवा दधातु निर्ऋतेरुपस्थे ।।९।।
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
रिपु स्तेन स्तेयकृद् दभ्रमेतु नि ष हीयतां तन्वा तना च।१०।।
16.10
पर: सो अस्तु तन्वा तना च तिस्र: पृथिवीरधो अस्तु विश्वा: ।
प्रति शुष्यति यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम्।।१ ।।
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते।
तयोर्यत् सत्यं यतरदृजीयस्तदित् सोमोवति हन्त्यासत्।।२।।
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्।
हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते।।३।।
यदि वाहमनृतदेवो अस्मि मोघं वा देवाङ् अप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ।।४।।
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह । ५ ।
यो मायातुं यातुधानेत्याह यो वा रक्षा: शुचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट । १६ ।।
प्र या जिगाति खर्गलेव नक्तमप द्रुंहुस्तन्वं गूहमाना।
वव्राङ् अनन्ताङ् अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपद्वैः ।।७ ।।
वि तिष्ठध्वं मरुतो विक्ष्वीच्छत गृभायतः रक्षसः सं पिनष्टन ।
वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे।८।।
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो अदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वध नूनं सृजदशनिं यातुमद्भ्य: ।।९।।
प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन् सं शिशाधि ।
प्राक्तो अपाक्तो अधरादुदक्तो ऽभि जहि रक्षस: पर्वतेन ।। १० ।।
१ ६- १ १ 16.11
इन्द्रो यातूनामभवत् पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ।। १ ।।
उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव: प्र मृण रक्ष इन्द्र । ।२ । ।
मा नो रक्षो अभि नड्यातुमावतामपोच्छन्तु मिथुना या किमीदिना ।
पृथिवी न: पार्थिवात् पात्वंहसोन्तरिक्षं दिव्यात्पात्वस्मान् ।। ३ ।।
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ।। ४ ।।
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
रक्षोभ्यो वधमस्यतमशनिं यातुमदभ्य: ।।५।।
(इति क्षुद्रकाण्डनामषोडशकाण्डे द्वितीयो नुवाक:)
16.12
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः।
असिक्नीः कृष्णा ओषधीः सर्वाच्छा वदामसि।।१।।
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि।
यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव।।२।।
आपो अग्रं दिव्या ओषधयः।
तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशम्।।३।।
प्रस्तृणोती स्ताम्बिनीरेकशुङ्गाः प्रोतन्वतीरोषधीरा वदामि।
अंशुमतीः काण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ।।४।।
यद्वः सह: सहमाना वीर्यं यच्च वो बलम् ।
तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीः । । ५ । ।
जीवलां नघारिषां जीवन्तीमोषधीमुत । जीब
अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीं हुवे । ६ ।
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ।।७ । ।
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्नवा:
ध्रुवा: सहस्रनाम्नीर्भेषजी: सन्त्वाभृता: ।।८ ।।
अवकोल्बा उदकात्मान ओषधयः । कोल्बा
व्यृषन्ति दुरितं तीक्ष्णशृङ्ग्यः ।।९ ।।
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीरथो बलासनाशनीः ।
रक्षोनाशनी: कृत्यादूषणीश्च यास्ता इहा सन्त्वोषधी: ।। १० । ।
१६ - १३ 16.13
शिवास्ते सन्त्वोषधीरपक्रीता: सहीयसीर्वीरुधो या अभिष्टुता: ।
अपां रसस्वतीं ज्येष्ठां त्रायन्तामस्माकं गामश्वं पुरुषं पशुम् ।।१।।
मधुमन्मूलं मधुमदग्रमासां मधुमन्मध्यं वीरुधां बभूव ।
मधुमत्पर्णं मधुमत्पुष्पमासां मधोः संभूता अमृतस्य भक्षो-
घृतमन्नं दुह्रतं गोपुरोगवम् ।।२ ।।
यावती: कियतीश्चेमा: पृथिव्यामध्योषधी:
ता न: सहस्रपर्णो मृत्योर्मुञ्चन्त्वंहसः ।। ३ ।।
वैयाघ्रो मणिर्वीरुधां त्रायमाणोभिशस्तिया: ।
अमीवा: सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ।।४।।
सिंहस्येव स्तनथोरोषधीनामग्नेरिव विजन्त आभृताभ्य: ।
गवां यक्ष्म: पुरुषाणां वीरुद्भिरतिनुक्तो नाव्या एतु स्रोत्या: ।। ५ । ।
मुमुञ्चाना ओषधयो ऽग्नेर्वैश्वानरादधि ।
भूमिं संतन्वतीरिव यासां राजा वनस्पतिः ।।६।।
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
अज्ञाता जानीमश्च या यासु विद्मसि संभृतम् ।
सर्वा: समग्रा ओषधीर्बोधन्तु वचसो मम ।।७ ।। र्वोध
या रोहन्त्याङगीरसी: पर्वतेषु समेषु च ।
वीरुधो विश्वभेषजी:।
ता नो पयस्वती: शिवा ओषधीः सन्तु शं हृदे ।।८।। सन्त्वु
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हवि: ॥
व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ।।९।।
उजिजहीध्वे स्तनयत्यभिक्रन्दत्यौषधीः ।
यदा वः पृश्निमातर: पर्जन्यो रेतसावति ।। १० ।
16.14
तस्यामृतस्येमं बलं पुरुषं पाययामसि । ।
अथो कृणोमि भेषजं यथासच्छतहायनः ।।१।।
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
गन्धर्वा: सर्पा या विदुस्ता इहा सन्त्वोषधी: ।२।
या सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्याश्च सर्वे पतत्रिण: ।
मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ।३।
यावतीनामोषधीनां गाव: प्राश्नन्त्यघ्न्या यावतीनामजावय: ।
तावतीर्विश्वभेषजीरा भरामि त्वामभि ।४।।
यावतीषु मनुष्या भेषजं विषयो विदुः।
तावतीस्तुभ्यमाभृताः शर्म यच्छन्त्योषधीः।।५।।
पुष्पवती: प्रसूमती: फलिनीरफला उत ।
संमातर इवदुह्रामस्मा अरिष्टतातये।।६।।
उत्वाहार्षं पञ्चशलादुत्वा दशशलादुत।
उत्वा यमस्य पड्बीशादोषधीभिरपीपरम्।।७।।
16.15
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।
अहिनामपमारथ स्थाणुमारदथार्षत् । ।१ ।।
दर्भः शोचिस्तरूणकमश्वस्य वार: पुरुषस्य वारः ।
रथस्य बन्धुरमहीनामरसं विषं वारिदुग्रम् ।। २ ।।
अव श्वेत पदा जहि पूर्वेण चापरेण च ।
उदप्लुतमिव दार्वहीनामरसं विषं वारिदुग्रम् ।। ३ ।।
अरंघुषो निमज्योन्मज्य पुनरब्रवीत् ।
उदप्लुतमिव दार्वहीनामरसं विषं वारिदुग्रम् ।।४।।
पैद्वो हन्ति कसर्णीलं पैद्व श्वित्रमुतासितम् ।
पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ।।५ । । र्ब्याः
पैद्वो प्रेहि प्रथमोनु त्वा वयमेमसि ।
अहीन् व्य ऽस्यतात् पथो येन स्मा वयमेमसि ।। ६ ।।
इदं पैद्वो अजायतेदमस्य परायणम् ।
इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ।।७ ।।
संयतं न वि ष्परद् व्यात्तं न सं यमत् ।
अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ।।८ ।।
अरसास इहाहयो ये अन्ति ये च दूरके ।
घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ।।९।।
अघाश्वस्येदं भेषजमुभयो: स्वजस्य च ।
इन्द्रो मह्यमघायन्तमहिं पैद्वो अरन्धयत् ।। १० । ।
16.16
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्न: ।
इमे पश्चात्पृदाकव: प्रदीध्यंत आसते ।।९।। दीध्य
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ।। 1२ ।।
हतास्तिरश्चिराजयो निपिष्ठास: पृदाकवः ।
दर्विं करिक्रतं श्वित्रं दर्भष्वसितं जहि ।।३।।
कैरातिका कुमारिका सका खनति भेषजम् ।
हिरण्ययोभिरभ्रिभिर्गिरीणामुप सानुषु ।।४।।
आयमगन् युवा भिषक् पृश्निहापराजित: ।
स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ।।५।।
इन्द्रो मे ऽहीन् जम्भयन्मित्रश्च वरुणश्च ।
वाता पर्जन्योभा । । ६ ।
पैद्वो मे ऽहीनजम्भयत् पृदाकुं च पृदाकव: । दाकूं
स्वजं तिरश्चिराजिं कसर्णीलं दशोदसिन् ।।७।।
इन्द्रो जघान प्रथमं जनितारमहे तव । ,
तेषां वस्तृह्यमाणानां कः स्वित् तेषामसद्रस: ।।८ ।।
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
सिन्धोर्मध्यं परेत्य व्य ऽनिजमहेर्विषम् ।। ९ ।।
अहीनां सर्वेषां विषं परा वहन्तु सिन्धव: ।
हतास्तिरश्चिराजयो निपिष्टास : पृदाकव: ।। १० ।
१६-१७ 16.17
ओषधीनामहं वृण उर्वरीरिव साधुया ।
नयाम्यर्वतीरिवाहे निरैतु ते विषम् ।।१।।
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत् ।
कान्दा विषं कनिक्लकं निरैत्वैतु ते अहे ।२।
अङ्गादङ्गात् प्र च्यावय हृदयं परि वर्जय ।
अधा विषस्य तत्तेजोवाचीनं तदेतु ते ।३।
अग्ने त्रायस्व विमदं नयेमं पुनर्धेहि जीवसे जातवेद:।
मा ते हेडांसि दुरिताव गन्माहिर्वधीद् द्विषत: पुरुषं न: ।। ४ ।।
ये अग्निजा ओषधीजाहीनां ये अभ्रजा विद्युत आबभूवुः ।
येषां जातानि बहुधा बहूनि तेभ्य: सर्पेभ्यो नमसा विधेम ।। ५ । ।
तौदी नामासि कन्या घृताची नाम वा असि ।
अधस्पदेन ते पदोराददे विषदूषणम् ।।६।।
आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
अग्निरहेर्निरधाद् विषं सोमो निरणयीत् ।
दंष्ट्रारमन्वगाद्विषमहिरमृत । १७ ।
16.18
कृतस्तौ जातौ कतमः सो अर्ध: कस्माल्लोकात्कतमस्या: पृथिव्या: ।
वत्सौ विराज: सलिलादुदैतां त्वौ त्वा पृच्छामि कतरेण दुग्धा ।१।
यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयान: ।
वत्स: कामदुघो विराजो गुहा: चक्रे तन्व: पराचै: ।२।
यानि चत्वारि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम्।
ब्रहौनद्विद्यातपसा विपश्चिद्यस्मिन्नेकं युज्यते यस्मिन्नेकम् ।३।
बृहत: परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
बृहद् बृहत्या निर्मितं कुतोधि बृहती मिता ।। ४ ।।
बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
माया हि यज्ञे मायाया मायाया मातली परि।५।।
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्नि: ।
ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ।।६।। "
षट् त्वा पृच्छाम ऋषय: कश्यपेदं त्वं हि युक्तं युयुक्षे योग्यं च ।
विराजमाहुर्ब्रह्मणः पितरं तां नो विधेह्यृतुधा सखिभ्यः ।।७।।
यां प्रच्युतामनु यज्ञाः प्रोच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
यस्या व्रते प्रसवे यक्षमेजति सा विराडृषय: परमे व्योमन् ।।८।।
अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजमभ्येति पश्चात् ।
विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्तेनाम् ।।९।।
को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । ऋतुन्
क्रमान् को अस्या: बहुधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ।। १० ।।
१६-१९ 16.19
इयमेव सा या प्रथमा व्यौच्छात्साप्स्वन्तश्चरति प्रविष्टा ।
वधूर्जिगाय नवगज्जनित्री महान्तो अस्यां महिमानो अन्त: ।१।
छन्द: पक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते ।
सूर्यपत्नी सञ्चरत: प्रजानती केतुमती अजरे भूरिरेतसा ।२।
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । .
प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ।३।
अग्निषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तः ।।४।।
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनान्मीमृतवोनु पञ्च ।
पञ्च दिश: पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ।।५।।
षड्जाता भूता: प्रथमजर्तस्य षडु सामानि षडहं वहन्ति ।
षड्योगं सीरमनु सामसाम षडाहुर्द्यावापृथिवी: षडुर्वीः ।। ६ ।।
षडाहुः शीतान् षडु मास उष्णानृतुं नो ब्रूत यतमोतिरिक्तः ।
सप्त सुपर्णा: कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ।।७ ।।
सप्तहोमाः समिधो ह सप्त मधूनि सप्तर्तवो नु सप्त ।।८ ।।
सप्ताज्यानि परि भूतमायन् सप्त होतार ऋतुष्या यजन्ति ताः सप्त गृध्रा इति शुश्रवाहम् ।। ९ । ।
अष्टौ धामानि प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये ।
अष्टयोनिरदितिरष्टपुत्रा अष्टमीं रात्रिमभि हव्यमेतु । । १० ।।
इत्थं श्रेयो मन्यमाने दमागमं युष्माकं सख्ये अहमस्मि शेवा ।
समानजन्मा क्रतुरस्तु वः शिवः स नः सर्वाः सं चरति प्रजानन्।।११ ।।
16.20
केवलीन्द्राय ददुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । केबली
अथा तर्पयच्चतुरश्चतुर्धा देवान् मनुष्याङ् असुरानुतर्षीन् ।। १ ।।
अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा ।
अपो मनुष्यानोषधीस्तां उ पश्चानु सेचिरे ।२।
को नु गौ: क एकर्षिः किमु साम का आशिषः ।
यक्ष्मं पृथिव्यामेकवृदेकर्तुः कतमो नु स: ।। ३ ।।
एक गौरेक एकर्षिरेकं सामैकधाशिषः ।
यक्ष्मं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ।।४।।
१६ - २ १ 16.21
प्राणाय नमो यस्य सर्वमिदं वशी ।
यो भूत: सर्वस्येश्वरो यस्मिन् सर्वं प्रतिष्ठितम् ।। १ ।।
नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
नमस्ते अस्तु विद्युते नमस्ते प्राणवर्षते । । २ ।।
यत प्राण ऋतावागते अभिक्रन्दत्योषधी: ।
प्र वीयन्ते गर्भान् दधतेथो बह्वीर्वि जायन्ते ।३।
यत् प्राण स्तनयित्नुना ऽभिक्रन्दत्योषधीः ।
सर्वं तदा प्र मोदते यत् किं च भूम्यामधि ।।४।।
यदा प्राणो अभ्यक्रन्दीद्वर्षेण स्तनयित्नुना ।
पशवस्तत् प्र मोदन्ते महो वै नो भविष्यति ।।५।।
अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।
आयुर्वै न: प्रातीतर: त्सर्वा न: सुरभीरक: ।।६।।
नमस्ते प्राण प्राणते नमो अस्त्वोपानते ।
प्रतीचीनाय ते नम: पराचीनाय ते नम: सर्वस्मै त इदं नम: ।। ७ ।।
नमस्ते अस्त्वायते नमो अस्तु परायते ।
नमस्ते प्राण तिष्ठत आसीनायोत ते नम: ।।८ । ।
या ते प्राण प्रिया तनूर्या वा ते प्राण प्रेयसी ।
अथो यद् भेषजं तव तस्य नो धेहि जीवसे ।। ९ ।।
प्राण: प्रजा अनुपास्ते पिता पुत्रमिव प्रियम् !
प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न । । १० । ।
16.22
प्राणा मृत्युः प्राणोमृतं प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनमुत्तमे लोक आादधत् ।। १ । ।
प्राणो विराट् प्राणो देष्ट्री प्राणं सर्व उपासते ।
प्राणो अग्निश्चन्द्रमा: सूर्य: प्राणमाहुः प्रजापतिम् ।। २ ।।
प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते।
यवे ह प्राण आहितोपानो व्रीहिरुच्यते।।३।।
अपानति प्राणति पुरुषो गर्भे अन्तरा ।
यदा त्वं प्राण जिन्वस्यथ स जायते त्वुत ।४।।
प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च प्राणे सर्वं समाहितम् ।। ५ । ।
आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजाश्च याः ।
सर्वा: प्र मोदन्तु ओषधयो यदा त्वं प्राण जिन्वसि ।।६।। जीन्व
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् । वर्षि
ओषधय: प्र मोदन्तेथो या: काश्च वीरुधः ।।७ ।।
यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठित: ।
सर्वे अस्मै बलिं हरानमुष्मिंल्लोक उत्तमे ।।८।।
यथा प्राण बलिहृतस्तुभ्यं सर्वा: प्रजा इमा: ।
एवा तस्मै बलिं हरान् यस्त्वा शुश्राव: सुश्रवा: ।।९।।
अन्तर्गर्भश्चरति देवतास्वाभूतो भूत: स उ जायते पुन: ।
स भूतं भव्यं भुवनं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः ।। १० ।।
16.23
एकपादं नोत्खिदति सलिलाद्धंस उत्पतन् |
यदङ्ग स तमुत्खिदेन्नैवाद्य न श्वः
रात्री नाह: स्यान्न प्रज्ञायैति किं च न । १ । ।
अष्टाचक्रं वर्त्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परिबभूव विश्वं यदस्यार्धं कतम : स केतुः ।।२।।
यो अस्य विश्वजन्मन ईशे सर्वस्य चेष्टत: ।
अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोस्तु ते ।३।
यो अस्य सर्व जन्मन ईशे विश्वस्य चेष्टत: ।
अतन्द्रो ब्रह्मणा धीर: प्राणो मामभि रक्षतु ।।४।।
ऊर्ध्व: सुप्तेषु जागार ननु तिर्यङ् नि पद्यते । तीर्य
न सुप्तमस्य सुप्तेष्वनु सुश्राव कश्चन ।। ५ ।।
प्राणो मा मत् पर्यावृतो न मदन्यो भविष्यसि ।
अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि । ६ ।
16.24
सहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।
भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ।। १ ।।
अपां यो अग्रे प्रतिमा बभूवुः प्रभूः सर्वस्मै पृथिवीव देवी । प्रती
पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि न: कृणोतु ।२।
पुमानन्तर्वाङ स्थविरः पयस्वान् वसो: कबन्धमृषभो बिभर्ति ।
तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ।।३।।
देवानां भाग उपनाह एषो ऽपां रस ओषधीनां घृतस्य ।
सोमस्य द्रप्समवृणीत शक्रो बृहन्नद्रिरभवद्यच्छरीरम् ।। ४ । । वृह
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
वत्सो जरायुः प्रतिधुक् पीयूष आमिक्षा घृतं तद्वस्य रेतः ।।५।।
सोमस्य पूर्णं कलसं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् । विभ
शिवास्ते सन्तु प्रजन्व इमान्यस्मभ्यं स्वधिते यच्छ या अमूः ।। ६ ।।
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत् ।
बृहस्पतिः संभृतमेतमाहुर्ये धीरास: कवयो मनीषिणः ।।७।। संभू
आज्यं बिभर्ति घृतमस्य रेत: साहस्र: पोषस्तमु यज्ञमाहुः ।
इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ।।८।। -
दैवीर्विशः पयस्वाना तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभो मा जुहोति ।।९।।
बृहस्पति: सविता ते मनो दधौ त्वष्टुर्वायो: पर्यात्मा त आभृत:
अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी अभूताम् ! ! १०।।
16.25
य इन्द्र इव देवेष्वेति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया । १ । ।
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
अष्ठीवन्तावब्रवीन्मित्रो ममैतौ केवलाविति ।२।
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पते: }
पुच्छं वातस्य देवस्य तेन धूनोत्योषधी: ।।३ ! !
क्रोड आसीज्जामिशंसस्य सोमस्य कलशो धृत: ।
उत्थातुरब्रुवन् पदो यद्ऋषभं व्यकल्पयन् ।। ४ ।।
गुदा आसन् सिनीवाल्या: सूर्यायास्त्वचमब्रुवन् । सुर्या
देवा: संगत्य यत्सर्व ऋषभं व्यकल्पयन् ।।५।।
ते कुष्ठिका: स्वरमायै: कूर्मेभ्यो अदधुः शफान् ।
ऊबध्यमस्य कीटेभ्य: श्ववर्तेभ्यो अधारयन् ।। 1६ !!
शृङ्गाभ्यां रक्ष ऋषत्यरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां गवां य: पतिरघ्न्य: । १७ । ।
शतयाजं स यजते नैनं ऋण्वन्त्यग्नय: ।
जिन्वन्ति सर्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ।।८ ।।
ब्राह्मणेभ्य ऋषभं दत्वा वरीय: कृणुते मन: !
पृष्टिं सो अघ्न्यानां स्वे गोष्ठे वि पश्यतु । ९ ।
गाव : सन्तु प्रजा: सन्त्वथो अस्तु तनूबलम् ।
सर्वं तदनु मन्यन्तां देवा ऋषभदायिने । १o ।
१ ६-२ ६ 16.26
अयं पिपान इन्द्रियं रयिं बिभर्ति चेतनीम् ।
अयं धेनु सुदुघां नित्यवत्सां वशं दुहे विपश्चितं परो दिव: ।। १ । ।
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो नागन् ।
प्रजामस्मभ्यं दधत् रयिं च रायस्पोषमुप सत्ता सदेम ।२।
एतं वो युवानं परि दध्मो अत्र तेन क्रीडन्तीश्चरत वशाङ् अनु । क्रिड
मा नो हिंसिष्ट जनुषा सुभागा रायस्पोषैरभि न: सचध्वम् ।३। स्पोसै
उपेहोपपर्चना ऽस्मिन् गोष्ठे उप पृञ्चतु ।
उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ।।४।।
16.27
अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वध्य
वीर्यावान् सपत्नहा शूरवीर: परिपाण: सुमङ्गलः । । १ ।।
अयं मणि सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक्कृत्या दूषयन्नेतु वीरः।।२।।
अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान् पराभावयन्मनीषी।
अनेन द्यावापृथिवी उभे अजयदनेनाजयत् प्रदिशश्चतस्रः।।३।।
अयं स्राक्त्यो मणि: प्रतीवर्त: प्रतिसर: ।
ओजस्वान् विमृधो मणि: सो अस्मान् पातु विश्वत: ।।४।।
तदग्निराह तदु सोम आह बृहस्पति: सविता तदिन्द्र: ।
ते ते देवा: पुरोहिताः प्रतीची: कृत्या: प्रतिसरैरजन्तु अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
उतेमं ब्रह्मणस्पतिम् ।
ते ते देवा: पुरोहिता: प्रतीची: कृत्या: प्रतिसरैरजन्तु ।। ६ ।।
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
सूर्यो दिवमिवारुह्य वि कृत्या बाधते वशी ।।७ ।। वाध
स्राक्त्येन मणिन ऋषिणेव मनीषिणा ।
अजैषं सर्वा पृतना वि मृधो हन्मि रक्षस: ।। ८ ! !
या: कृत्या आङ्गिरसीर्या: कृत्या आसुरीरुत ।
कृत्या या: स्वयंकृता या उ चान्येभिराभृता: ।
उभयीस्ता: परा यन्तु परावतो नवतिं नाव्या अति ।।९।।
अस्यै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः वध्न
प्रजापति: परमेष्ठी विराड् वैश्वानर ऋषयश्च सर्वे ।। १० । ।
16.28
उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्र: श्वपदामिव ।।
यमैच्छामाविदाम तं प्रतिस्पाशनमन्तितम् ।।१।।
स इद् व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ।।२।।
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ।३।
कश्यपत्स्वामसृजत् कश्यपस्त्वा समैरयत् ।
अबिभस्त्वेन्द्रो मानुषे वर्म बिभ्रत् संश्रेषिणे ऽजयत् ।। १४ ।।
मणिं सपत्नं जम्भनं वर्म देवा अबध्नत ।
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यस्त्वा यज्ञैर्जिघांसति ।
प्रत्यक् त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ।।५ । ।
अयमिद्वै: प्रतीवर्त: सहस्वान् संजयो मणि: ।
प्रजां धनं च रक्षतु परिपाण: सुमङ्गल: ।। ६ ।।
असपत्नं नो अधरादसपत्नं न उत्तरात् ।
इन्द्रासपत्नं न: पश्चाज्ज्योति: शूर पुरस्कृधि ।।७ ।।
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नाति विध्यन्ति सर्वे ।
तत्ते तन्वं त्रायतां सर्वतो बृहदायुष्मान् जरदष्टिर्यथासत् ।।८ ।।
आ त्वा रुक्षद्देवमणिर्मह्या अरिष्टतातये ।
इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ।। ९ ।।
अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत् ।। १० ।।
इन्द्रो बध्नातु ते मणिं जिगीवाङ् अपराजितः सोमपा अभयंकरो वृषा ।
स त्वा रक्षतु सर्वदा दिवानक्तं च विश्वतः ।। १ १ ।।
(इति क्षुद्रकाण्डनामषोडषकाण्डे पञ्चमो ऽनुवाकः)
१ ६- २९ 16.29
इन्द्रो मन्थतु मन्थिता शक्रः शूर: पुरन्दर: ।
यथा हनाम सेनाममित्राणां सहस्रशः । । १ । ।
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमुम् ।
अग्निं धूमं परादृश्य हृत्स्वा दधतां भयम् ।।२ ।।
पुरुषानमून् पुरुषाह्वः कृणोतु हन्त्वेनान् वधको वधै: ।
क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिता: ।। ३ । ।
अमूनश्वत्थ नि: शृणीहि खादामून् खदिराजिरम् । मुन
ताजभङ्ग इव भज्यन्तां बृहज्जालेन संदिताः ।।४।।
अन्तरिक्षं जालमासीज्जालदण्डा दिशो मही: ।
तेनाभिधाय सेनामिन्द्रो दस्यून् अपावपत् ।।५।। दस्यु
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
तेन न्युब्ज मघवन्नमित्राः शस्वतीभ्य: समाभ्यः | | ६ || |
बृहद्धि जालं बृहत: शक्रस्य वाजिनीवत: ।
तेन शतं सहस्रमयुतं जघानेन्द्रो दस्यूनामभिधाय सेनाम्।।७।। दस्यु
अयं लोको जालमासीच्छक्रस्य महतो महान् ।
तेनाहमिन्द्रजालेन तमसामूनपि दधामि सर्वान् ।।८ ! ! ।
सेदिरुग्रा वयृद्धिरार्तिश्चानपवाचना ।
श्रमस्तन्द्रीश्च मोहश्च तैरमूनपि दधामि सर्वान् । !९ ! !
मृत्यवेमून् प्र यच्छामि मृत्युपाशैरमी सिताः । वेमु
मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्धान् ।। १० ।।
16.30
मृत्युदूता अमून्नयत यमदूता अपोम्भत:
पर:सहस्रा हन्यन्तां तृणेढ्येनां मत्यं भवस्य । १ ।।
साध्या एकं जालदण्डमुद्यत्य यन्त्वोजसा ।
रुद्रा द्वितीयं वसवस्तृतीयमादित्यैरेक उब्जत: ।२।
विश्वे देवा उपरिष्टादुब्जन्तो यन्त्वोजसा ।
मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो वधै: ।। ३ ।।
वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः ।
द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ।।४।।
गन्धर्वाप्सरसो देवान् सर्पान् पुण्यजनान् पितॄन् ।
दृष्टानदृष्टानिष्णामि यथा सेनाममूं हनन् ।।५ ।।
मृत्युपाशा इमे युक्ता यानाक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया इदं कूट सहस्रहम् ।।६।।
घर्मः समिद्धो अग्निनायं होमः सहस्रह: ।
भवश्च पृश्निबाहुः शर्व सेनाममूं हतम् ।।७ ।।
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ।।८ । ।
पराजिता: प्र त्रसतामित्रा जिता धावत ब्रह्मणा ।
बृहस्पतिप्रणुत्तानां मामीषां मोचि कश्चन ।।९।।
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
अथैषां बहु बिभ्यतामिषवो घ्नन्तु मर्मणि ।।१०।।
समेनान् क्रोशतां द्यावापृथिवी उभे समन्तरिक्ष सह देवताभि: ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो विघ्नाना उप यन्तु मृत्युम्।। ११ ! ।। .
16.31
दिशश्चतस्रोश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्भिः ।।१ ।।
द्यावापृथिवी पक्षसी ऋतवोभीशवो वाक्परिरथ्यम् ।।२ । ।
अहोरात्रे चक्रे मासराः संवत्सरो अधिष्ठानम् ।।३।
विराडीषाग्नीरथमुखमिन्द्र: सव्यष्ठाश्चन्द्रमा: सारथिः । । ४ । ।
इतो जयेतो वि जय स्व जय सं जय स्वाहा ।।५।।
१ ६- ३२ 16.32
दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान्मधुकशा हि यज्ञे ।
तां चायित्वामृतं वसानां हृद्धि: प्रजा: प्रति नन्दन्ति सर्वा: ।। १ ।।
पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।
अग्नेर्वातान्मधुकशा हि यज्ञे मरुतामुग्रा नप्ति: ।२।
महद्विश्वरूपं पयो अस्या: समुद्रस्योत त्वा रेत आहु: ।
यत ऐति मधुकशा रराणा तत् प्राणस्तदमृतं निविष्टम् ।। ३ ।।
मातादित्यानां दुहिता वसूनां प्राण: प्रजानाममृतस्य नाभि: ।
हिरण्यवर्णा मधुकशा घृताची महद् भर्गश्चरति मर्त्येषु ।।४।।
मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूप: ।
तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवनाभि वस्ते।।५।।
कस्तौ प्र वेद क उ तौ न आह यावस्या: स्तनौ सहस्रधारावक्षितौ ।
ऊर्ज दुहाते अनपस्फुरन्तौ ।।६।।
कस्तं प्र वेद क उ तं चिकेत यो अस्या हृद: कलश: सोमधानो अक्षितः।
ब्रह्मा सुमेधा: सो अस्मिन् मदेत ।।७।। !
हिङ् करिक्रती बृहती वयोधा उच्चैघौषाभि याति या व्रता: ।
त्रीन् घर्मानभि वावशाना मिमाति मायुं पयते पयोभि: ।।८ ।।
यामापीनामुपसीदन्त्यापो यां शाक्वरा वृषभा यां स्वराजः ।
ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमाप: ।। ९ ।।
स्तनयित्नुस्ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।
अग्नेर्वातान्मधुकशा हि यज्ञे मरुतामुग्रा नप्ति: ।। १० ।।
16.33
यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।
एवा मे अश्विना वर्च आत्मनि ध्रियताम् ।।१।।
यथा सोमो द्वितीयसवन इन्द्राग्न्योर्भवति प्रियः ।
एवा म इन्द्राग्नि वर्च आत्मनि ध्रियताम् ।।२ । ।
यथा सोमस्तृतीयसवन ऋभूणां भवति प्रिय: ।
एवा म ऋभवो वर्च आत्मनि ध्रियताम् ।। ३ ।।
मधु जनिषीय मधु वंशिषीय ।
पयस्वानग्न आगमं तं मा सं सृज वर्चसा ।। ४ । ।
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सहऋषिभिः ।।५।।
यद् गिरिषु पर्वतेषु गोष्वश्वेषु यन्मधु ।
सुरायां सिच्यमानायां यत्तत्र मधु तन्मयि । । ६ । ।
यथामधु मधुकृतः सं भरन्ति मधावधि ।
एवा मे अश्विना बलमोजश्च ध्रियताम् ।।७।।
यथा मक्षा इदं मधु न्यञ्जन्त्यक्षणावधि ।
एवा मे अश्विना वर्चस्तेजोश्च ध्रियताम् ।।८।।
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा वर्चस्वतीं वाचमावदानि जनाङ् अनु ।।९।।
वृषा शुष्मं क्षिपसि भूम्यां दिवो मधो कशया पृथिवीमनक्षि।
तां जातां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति।१०।।
16.34
पृथिवी दण्डोन्तरिक्षं गर्भो द्यौ कशा विद्युत् प्रकाश: ।१।
मधो: कशासि घृताची हिरण्ययो विदुः ।।२।।
उर्व्यसि प्रभ्व ऽस्यम्भोऽसि नभो ऽसि सहो ऽसि ।। ३ । ।
अम्भो मां कृणु नभो मां कृणु सहो मां कृणु ।।४।।
समुद्रोस्यक्षितो अपरिमिता सहस्रमणि: सहस्रं मामृच्छतु ।। ५ ।।
यो वै मधुकशाया: सप्त मधूनि वेद सप्त मधुमतीन् ।।६।।
मधुमन्तं लोकं जय ऽसि मध्वस्याहार्यं भवति ।।७।। .
यद्वीध्रे स्तनयति तत् प्रजापतिरेव प्रजाभ्य: प्रादुर्भवति ।। 1८ ।।
तस्मात् प्राचीनोपवीतस्तिष्ठे प्रजापते ऽनु मा बुध्यस्वेति ।।९।।
अन्वेनं प्रजापतिरनुप्रजा बुध्यन्ते य एवं वेद ।।१०।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे षष्ठो ऽनुवाको)
१६-३५ 16.35
यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सव:। बहतौ
सारादेत्त्वप नुदाम एनान् ।।१।।
संभूतां विश्वरूपाम् ।
प्रत्यक् प्रतिप्रहिण्मसि यश्चकार तमृच्छतु । ।२ । ।
शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
जाया पत्या नुत्तेव कर्तारं बन्धुमृच्छतु ।३। वन्धु
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
यां क्षेत्रे चक्रुर्याँ गोभ्यो यां वा ते पुरुषेभ्य: ।।४।।
कृत्या: सन्तु कृत्याकृते शपथाः शपथीव्ने । थीब्ने
प्रत्यक् प्रति प्रहिण्मसि यश्चकार तमृच्छतु ।। ५ ।।
प्रतीचीन आङ्गिरसो ऽध्यक्षो नः पुरोहित: । ङ्गी
प्रातीची: कृत्या आकृत्यामून् कृत्याकृतो जहि ।।६।।
यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।
तं कृत्ये अभिनिवर्तस्व मास्मानिच्छो अनागसः ।।७ । ।
यस्ते परूंषि संदधौ रथस्येव ऋभुर्धिया ।
तं गच्छ तत्र तेयनमज्ञातस्तेयं जन: ।। ८ । ।
ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
तेन त्वा स्नपयामसि।९।
यद्युर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।।
अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ।।१०।।
16.36
यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
सन्देश्यात्सर्वस्मात् पापादिमा मुञ्चन्तु त्वौषधीः । ।१ ।।
देवैनसात् पित्र्यान्नामग्राहात् संन्देश्यादभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणः ऋग्भिः पयस ऋषीणाम्।।२ ।।
यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
एवा मत् सर्वे दुर्भूतं ब्रह्मनुत्तमपायति ।। ३ ।।
अपक्राम नानदती विनद्धा गर्दभीव ।
कर्तॄन्नक्षस्वेतो नुता ब्रह्मणा वीर्यावता ।।४।।
अयं पन्थापि नयामस्त्वा कृत्ये प्रहितां प्रति त्वा प्र हिण्म: ।
तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी।।५।।
पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति दुर्गा: स्रोत्या मा क्षणिष्ठाः परेहि।६ ।।
वात इव वृक्षं नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्।
कर्तॄन्निवृत्येत: कृत्ये प्रजास्त्वाय बोधय ।। ७ ।।
यां ते चक्रुर्बर्हिषि यां श्मशाने कृत्यां क्षेत्रे वलगं वा निचख्नुः । र्वर्हि
अग्नौ वा त्वा गार्हपत्येभिचेरु: पाकं सन्तं धीरतरा - अनागसं तदितो नाशयामसि ।। ८ । ।
उपाहतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
तदेतु यत आगतं त्राताश्च इव वर्ततां हन्तु कृत्याकृतः प्रजाम्।।॥९ ।।
स्वायसा असय: सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।। १० ।। परुंषि
उत्तिष्ठैव परेहीतोज्ञाते किमिहेच्छसि ।
ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।१।
16.37
इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती ।
सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ।।२ । ।
भवाशर्वा वस्यतां पापकृत्वने कृत्याकृते दुष्कृते विद्युतं देवहेतिम् ।३।
यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा पुन: परेहि दुच्छुने ।।४।।
अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ।।५।।
परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
मृग: स मृगयुस्त्वं न त्वा निकर्तुमर्हति ।।६।।
अमर्त्यो मर्त्यः स्वयंकृतं यं चकाराचित्या हस्ताभ्यामात्मनेवधीम् ।।७ । । मृत्यः
उतहन्ति पूर्वासिनं प्रत्यादायावर्हीष्वा ।
उतो पूर्वस्य निघ्नतो नि हन्त्यपर: प्रति ।।८ ।।
एतद्धि शृणु मे वचोथेहि यत एयथ ।
यस्त्वा चकार तं पुनः ।॥९ ।।
अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।। १० । ।
16.38
यत्र यत्रासि निहिता ततस्त्वोत्थापयामसि ॥
पर्णाल्लघीयसी भव ।१।
यदि स्थ तमसाभृता जालेनाभिहिता यूयम् ।
सर्वाः संलुप्येत: कृत्याः पुनः कृत्ये प्र हिण्मसि ।।२ ।।
कृत्याकृतं मूलकृतमभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच्छिषोमून् कृत्याकृतं जहि ।।३।।
यथा सूर्यस्तमसो मुच्यते परि रात्रिं जहात्युषसश्च केतून् । ।
एवाहं सर्वं दुर्भूतं हस्तीव रजो दुरितं जहामि । । ४ ।।
१६-३९ 16.39
उपमित: प्रतिमितो ऽथो परिमितश्च यः ।
शालाया विश्वाराया नद्धानि वि चृतामसि ।१।
यत्ते नद्धं विश्ववारे पाशी ग्रन्थिश्च य: कृत: ।
बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् । ।२ । ।
आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढ़ान् ।
परूंषि विद्वाञ्छस्तेवेंद्रेण वि चृतामसि ।३। वेद्रे
संदंशानां पलदानां परिष्यञ्जल्यस्य च ।
सर्वामानस्य पत्नि ते नद्धानि वि चृतामसि ।। ४ ।।
वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ।।५।।
यानि ते अन्त: शिक्यान्याबेधू रण्याय कम् ।
प्र ते तानि वि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ।।६।।
हविर्धानमग्निशालं पत्नीनां सदनं सदः । ।
सदो देवानामसि देवी शाले ।।७।।
अक्षुमोपशं विततं सहस्राक्षं विषूवति ।
अपिनद्धमभिहितं ब्रह्मणा वि चृतामसि ।।८ । ।
यश्च त्वा प्रतिगृह्णाति येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ।।९।।
अमुत्रैनमा गच्छताद् दृढा नद्धा परिष्कृता ।
यस्यास्ते वि चृतामस्यङ्गमङ्ग परुष्परु: ।। १० ।।
16.40
अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।
विजावति प्रजावति वि ते पाशांश्चृतामसि । १ । ।
उर्जस्वती घृतवती पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाले मा हिंसी: प्रतिगृह्णत: 1।।२।।
यस्त्वा पूर्वो निमिमाय सञ्जभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापति:।।३।।
नमस्तस्मै नमो दात्रे शालापतये च कृण्मसि ।
नमोग्नये प्रचरते पुरुषाय च ते नम: ।।४।।
गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।। ५ । ।
यदन्तरिक्षं रजसो विमानं तत् कृण्वेहमुदरं शेवधिभ्य: ।
यच्छालां प्रति गृह्णामि तस्मै ।। ६ ।।
तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी।। रात्रिव
मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ।।७।।
या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
मानस्य पत्नीमग्निर्गर्भ इवा शये ।।८।।
इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन्।
वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु।।९।।
कुलायेधि कुलायं कोशे कोशः समुब्जितः।
तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ।।१०।।
१६- ४१ 16.41
चतु: स्रक्तिं परिचक्रां कविभिर्निमितां मिताम ।
इन्द्राग्नी रक्षत: शालाममृतो सोम्यं सद: ।। १ ।।
मा नः पाशान् प्रति मुचो गुरुर्भारो लघुर्भवः ।
वधूमिव त्वा शाले यत्रकामं भरामसि ।२।
इमा आपः प्र हराम्ययक्ष्मा यक्ष्मनाशनी: ।
गृहानभि प्र सीदाम्यमृतेन सहाग्निना ।३।
प्रतीचीं त्वा प्रतीचीन: शाले प्रैम्यहिंसतीम् ।
अग्निर्ह्यन्तरापश्चर्तस्य प्रथमोभा ।। ४ । ।
स्वाहा देवेभ्यः स्वाह्येभ्य:
प्राच्या दिश: शालाया नमो महिम्ने । 1५।
स्वाहा देवेभ्यः स्वाह्येभ्य:
दक्षिणाया दिश: शालाया नमो महिम्ने ।।६।।
स्वाहा देवेभ्यः स्वाह्येभ्य:
प्रतीच्या दिश: शालाया नमो महिम्ने ।।७।।
स्वाहा देवेभ्यः स्वाह्येभ्य:
उदीच्या दिश: शालाया नमो महिम्ने ।८ । ।
स्वाहा देवेभ्यः स्वाह्येभ्य:
धुवाया दिश: शालाया नमो महिम्ने ।।९।।
स्वाहा देवेभ्यः स्वाह्येभ्य:
ऊर्ध्वाया दिश: शालाया नमो महिम्ने ।।१०।।
स्वाहा देवेभ्यः स्वाह्येभ्य:
दिशोदिश: शालाया नमो महिम्ने । ११ ।
16.42
अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतो शिर; ।
प्र वृश्चामीदमोजसा । १ ।।
वर्ममह्यमयं मणिः फालाज्जात: करिष्यति ।
तृप्तो मन्थेनमागमद्रसेन सह वर्चसा । ।२ । ।
यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।
आपस्त्वा तस्माज्जीवलाः पुनन्तु शुचय: शुचिम् ।। ३ ।।
हिरण्यस्रगयं मणिर्दुहानो व: स्वक्षतम् ।
श्रद्धां यज्ञं महो दधत् गृहे वसतु नोतिथि: ।। ४ । ।
तस्मै घृतं सुरां मध्वन्नमन्नं क्षदामहे ।
स नः पितेव पुत्रेभ्य: श्रेय: श्रेयश्चिकित्सतु देवेभ्यो मणिरेत्य।।५।।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमग्नि: प्रत्यमुञ्चताज्याय रसायकं सो ऽस्मा आज्यं दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ।। ६ ।।
यमबध्नाद् बृहस्पतिर्मणिं फालं मधुश्चुतमुग्रं खदिरमोजसे । ।
तमिन्द्र: प्रत्यमुञ्चतौजसे वीर्याय कं सो ऽस्मै बलमिद्दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ।। ७ । ।
यमबध्नाद् बृहस्पतिर्मणिं फाल घृतश्चुतमुग्रं खदिरमोजसे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ।।८।।
16.43
यमाबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं सोम: प्रत्यमुञ्चत द्रविणाय रसाय कं
सो अस्मै मोह इददुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ।।१।।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोजयद् दानवानां हिरण्ययीः सो अस्मै तेज इद् दुहे ।
भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि । २ । ।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवं सो अस्मै राज्यं इद् दुहे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ।।४।।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं बिभ्रत् सविता मणिं तेनेदमजयत्स्व:

सो अस्मै सुनृतां दुहे ।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ।।५।।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमापो बिभ्रतीर्मणि सदा धावन्त्यक्षिता:
स आभ्यो अमृतं दुहे।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ।।६।।
यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तेन मां मणिना कृषिमश्विनावभिरक्षतः
स भिषग्भ्यां पयो दुहे।
भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ।।७।।
यमबध्नाद् बृहस्पतिर्वाताय मणिमाशवे
सो अस्मै वाजिनमिद्दुहे।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ।।८।।
यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन्
स एभ्यो जितिमिद्दुहे।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि।।९।।
यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तामिमं देवता मणिं तुभ्यं दधतु भर्तवे
स उ ते भूतिमिद्दुहाम्।
भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ।। १० ।।
१६-४४ 16.44
अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत।
प्रजापतिसृष्टो मणिर्द्विषतो मे अधराङ् अकः । ।१ ।।
ऋतवस्तमबध्नतार्तवास्तमबध्नत ।
संवत्सरस्तं बद्ध्वा सर्वं भूतं वि राजति ।२।
अथर्वाणो अबध्नताथर्वणा अबध्नत । ।
अङ्गिरसस्तं बद्ध्वा दस्यूनां बिभिदुः पुरः ।।३।। अङ्गी
तं धाता प्रत्यमुञ्चत स भूतान्यकल्पयत् ।
तेन त्वं द्विषतो जहि ।।४।।
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्ना
स त्वायं मणिरागमत् सह गोभिरजाविभिरन्नेन प्रजया सह । ५ ।
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्ना
स त्वायं मणिरागमन्मधोर्घृतस्य धारया
कीलालेन श्रिया सह ।।६।।
यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिरागमदोजसा तेजसा सहसा भूत्वा
द्रविणेन श्रिया सह ।।७।।
यस्य लोका इमे त्रय: पयो दुग्धमुपासते ।
स त्वायमभिरक्षतु मणि: श्रैष्ठ्याय मूर्धतः ।।८ ।।
स त्वायं शतदक्षिणो मणि: श्रेष्ठ्याय जिन्वतु ।
यं देवाः पितरो मनुष्या उपजीवन्तु सर्वदा ।। ९ ।।
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिणो मणे श्रैष्ठाय जिन्वतात्। १o ।
16.45
असपत्नः सपत्नहा सपत्नान्मे अधराङ अकः ।
उत्तरं द्विषतस्त्वा मणि: कृणोतु देवजा: ! ।। १ ।।
मणिं समस्रवीर्यं ब्रह्मणा तेजसा सह प्रति मुञ्चामि ते शिवम् ।
स त्वायमभिरक्षतु देवै: फाल मणिः सह ।।२ । ।
यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।
एवास्मिन्प्रजा पशवो अन्नमन्नं वि रोहतु ।३।
एतमिध्मं समाभृतं जुषाणो अग्ने प्रतिहर्य होमम्।
तस्मिन् विदेम सुमतिं स्वस्ति चक्षुः प्राणं प्रजां पशून् जातवेदसि ब्रह्मणा ।।४।।
16.46
क्षा चासि क्षमा चासि तस्यास्ते भूतं च सुभूतं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।१।।
भूमिश्चासि भूतिश्चासि तस्यास्ते भुवनं च सुभूतिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।२।।
पृथ्वी चासि पृथिवी चासि तस्यास्ते भविष्यच्चाभविष्यच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां ने मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। ३ ।।
क्षेम्या चासि क्षितिश्चासि तस्यास्ते कं च नाकं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ।
ग्राह्या बन्धेभ्यो विमदं न एनम् ।।४।।
दृढ़ा चासि सुदृढा चासि तस्यास्ते स्वश्च स्वर्गश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिम्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।५।।
अमितिश्चासि निर्ऋतिश्चासि तस्यास्ते मित्रं च मैत्रं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।६ ।।
शितिपृष्ठा चासि विधून्वाना चासि तस्यास्ते विन्दच्च विन्दमानं चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।७।।
सुहिता चासि सुहितिश्वासि तस्यास्ते वित्तिश्च सुवित्तिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।८ ।।
बप्सा चासि बप्सतिश्चासि तस्यास्ते वसुश्च प्रवसुश्चैति मुखे । वप्स
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।९।।
परुश्चासि सदान्वाना चासि तस्यास्ते स्वं च स्वावं चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।१० ।।
16.47
पृश्निश्चासि पृषतीच्चासि तस्यास्ते यच्छश्च प्रयच्छश्चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।१।।
विश्वभृच्चासि विश्वरूपा चासि तस्यास्ते ददच्च प्रददच्चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।२ ।।
गिरन्तीचासि गरर्गृच्चासि तस्यास्ते वृन्दं च सुवृन्दानं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र !
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि
ग्राह्या बन्धेभ्यो विमदं न एनम् ।३।
गुर्वी चासि गुरुभृच्चासि तस्यास्ते दोहश्च दुहानं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।४।।
दितिश्चास्यदितिश्चासि तस्यास्ते पयस्वापयस्वच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।५ ।।
जूर्णा चासि जरयन्ती चासि तस्यास्ते दक्षश्च दक्षमाणं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। ६ । ।
अप्रतिष्ठा चासि प्रतिष्ठिता चासि तस्यास्ते ओजश्च तेजश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।७।।
लोकिनी चासि लोककृच्चासि तस्यास्ते स्रवश्च स्रवस्यश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। ८ ।।
उर्वी चासि प्रवर्वी चासि तस्यास्ते कुर्वच्च संस्कुर्वाणं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नी मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। ९ ।।
नीचीचास्युत्ताना चासि तस्यास्ते रोहच्च विरोहच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। १० ।।
16.48
रोहिणी चासि सुरोहिणी चासि तस्यास्ते चान्नं चान्नाद्यं चैति मुखे । रोही
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।१।।
सरा चासि सरस्वती चासि तस्यास्ते ब्रह्म च क्षत्रं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।२ । ।
वसुभृच्चासि वसुमती चासि तस्यास्ते सूनृता चेरा चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।। ३ ।।
महश्चासि महस्वती चासि तस्यास्ते कामश्च तृप्तिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।४।।
सर्वा चासि सर्वं च तदिदं तस्यास्ते विश्वं च विश्वे च देवा यन्ति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ।।५ ।।
( इति क्षुद्रकाण्डनाम षोडशकाण्डे अष्टमोऽनुवाको )
16.49
यद्देवा देवहेडनं देवासश्चकृमा वयम् ।
आदित्यास्तस्मान्नो यूयमृतस्य ऋतेन मुञ्चत ।। १ ।।
ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
यज्ञं यद्यज्ञवाहस: शिक्षन्त उपारिम: । ।२ । ।
मेदस्वता यजमानाः स्रुचाज्येन जुह्वत: ।
आकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ।३ ।
यद्विद्वांसो यदविद्वांसो एनांसि चकृमा वयम् ।
तस्मान्नो इह मुञ्चतो विश्वे देवा: सजोषसः ।।४।।
यदि जाग्रद्यदि स्वपन्नेन एनस्योकरम् । |
भूतं मा तस्माद् भव्यं च द्रुपदादिव मुञ्चताम् ।।५।।
द्रुपदादिवः मुमुचानः स्विन्न: स्नात्वा मलादिव । ु
पूतं पवित्रेणाज्यं विश्वान् मुञ्चन्तु मैनसः ।। ६ ।।
यद्यामं चकुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमन्नो अस्तु ।।७।।
वैवस्वत: कृणवद् भेषजानि मधुभागो मधुना सं सृजाति ।
मातुर्यदेन इषितं न आगन् यद्वापितापराद्धो जिहीडे ।।८ ।।
यदीदं मातुर्यदि वा पितुर्नो भ्रातु: पुत्राच्चेतस एन आगन् ।
यावन्तो अस्या: पृथिवी सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ।। ९ ।।
अपमित्यमप्रतीत्तं यदस्मिन् यमस्य येन बलिना चरामि ।
इदं तदग्ने अनृणो भवामि जीवन्नेव प्रति ददामि सर्वम् ।।१०।।
16.50
हहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत् ।
अपमित्य धान्यं यज्जघसाग्निर्मा तस्मादनृणं कृणोतु । ।१ । ।
अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणा: स्याम ।
ये देवयाना उत पितृयाणां सर्वान् पथो अनृणा: आा क्षियेम ।२ ।।
यद्धस्ताभ्यां चकृमा किल्विषाण्यक्षाणामक्तमुपलप्समानाः । ।
उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं न: ।। ३ ।।
उग्रंपश्ये राष्ट्रभृतं किल्बिषं यदक्षवृत्तमनुदत्तं नस्तत्। ल्विषं
ऋणान्नो नर्ण यत्समानो यमस्य लोके अधिरज्जुरायत् ।।४।।
यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवा: । ।
ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ।। 1५ । ।
यददीव्यन्नहमृणं कृणोम्यदास्यन्नग्न उत संगृणामि । ।
वैश्वानरो अधिपा नो वसिष्ठ उदिन्नयाति सुकृतस्य लोकम् ।।६।।
वैश्वानर: पावयान्न: पवित्रैर्यत् संगरमभिधावाम्याशाम् ।
अनाजानन् मनसा याचमानः यत्तत्रैनो अप तत् सुवामि ।।७।।
वैश्वानराय प्रति वेदयामि एतद्यदृणं संगरो देवतासु।
स एतान्पाशान् विचृतं प्र वेदाम्यथ यज्ञेन सह सं भवेम ।।८ ।
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम ।
अग्निर्मा तस्मादेनसो गार्हपत्य: प्र मुञ्चतु ।। ९ ।।
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या न: ।
द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात् ।। १० । ।
16.51
यत्रा सुर्हार्द: सुकृतो मदन्ति विहाय रोगं तन्व: स्वाय़ाः ।
अश्लोणा अङ्गैरहृता: स्वर्गे तत्रा पश्येम पितरौ च पुत्रान् ।।१।।
विषाणा पाशाङ् अभि वि ष्वाध्यस्मद् य उत्तमा अधमा वारुणा ये ।
यद्दारुणा वध्यसे यच्च रज्वां यद्भूम्यां वध्यसे यच्च वाचा ।।२।।
उदगातां भगवती विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छतां प्रैतु बद्धोकमोचनम् ।३।
वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । वद्ध
योन्या इव प्रच्युतो गर्भ: पथः सर्वाङ् अनु क्षिय ।। ४ ।।
तं प्रजानन् प्रतिगृह्णाति विद्वान् बृहस्पति: प्रथमजा ऋतस्य । ।
अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं न' ?” : ।। ५ !
ततं तन्तुमन्वेके तरन्ति येषां दत्तमायनं पित्र्येण ।
अबन्ध्वेके ददत: प्रयच्छान्दातुं चेच्छिक्षान्स स्वर्ग एषाम् ।।६।।
अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधाना: सचन्ते !
यद्वां पूर्तं परिविष्टमग्नौ तस्य गुप्तये दंपता स श्रयथाम् ।। ७ || !
देवा: पितर: पितरो देवाः ।
यो ऽस्मि सो ऽस्मि सो ऽयमस्मि ।।८ । ।
स पचामि स यजामि स यजतेस्य ।
स्वमयं इष्टमस्तु सूनं श्रान्तं शिवं कृतम् तस्मान्मा यवम् । । ९ । ।
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
विद्धि पूर्त्तस्य नो राजन् स देव सुमना भव । । १० । ।
16.52
अपास्मद् ब्राह्मणां संधामपधारां नि दध्मसि ।
इन्द्राग्नी विश्ववेदसावर्णवादधिमुञ्चताम् ।। १ । ।
नमस्ते ब्राह्मणा संधे परे हि यते यथ । ।
योस्मां द्वेष्टि यं वयं द्विष्मस्तं ते प्र सुवामिस्तमद्धिप्रसूता: ।।२।। योष्मां
अपारं त्वाहुरर्णवम् अनुर्यायां न ये विदुः ।
यस्ते वेदो वरमास्य महत्साक्षाद्वेदि मुखं तव निर्याण तव ते विदुः ।। ३ ।।
इन्द्रेण क्लृप्ता योनिर्नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमान: स्वर्गे लोके अपि नः कृणोतु ।।४।।
१६ - ५३ 16.53
तस्यौदनस्य बृहस्पति: शिरो ब्रह्ममुखं सूर्याचन्द्रमसावक्ष्यौ बृहद्रथन्तरे श्रोत्रे ।
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ता: पवमान: प्राण: ।। १ ।।
ओषधयो लोमानि वनस्पतय: केशा: समुद्रोमूत्रमश्विना प्रपदे।
चरुं पञ्चबिलमुखं घर्मो ऽभीन्धे ।।२।।
चक्षुर्मुषलं काम उलूखलं दितिः शूर्पमदितिः शूर्पग्राही वातोपाविनक् ।
गावस्तण्डुला अश्वा: कणा मशकास्तुषा:
कब्रु फलीकरणा: स्याममयो लोहितमयो अस्य मांसम् | ३ । !
त्रपु भस्मार्जुनमस्थि हरितं वर्ण: पुष्करं गन्ध: ।
खल: पात्रमष्टारौ बाहू स्फ्यावंसौ गुदा वरत्राः ।
ईषानूक्यं युगानि जत्रव: ।।४।।
ऋतं हस्तावाभिषेचनं कुल्योपसेचनमार्तवा: पक्तारो अग्नि: प्राशिता ब्राह्मण: प्रतिग्रहीता ।।५।।
16.54
तस्यौदनस्य भूमिः कुम्भी द्यौरपिधानं शरोभ्रमुषा नीहारो बृहदायवनं रथन्तरं दर्वी ।१।
दिश: पार्श्वे सीता: पर्शव: सिकता ऊबध्यं बलनमुपस्तरणमहोरात्रे विक्रमणे ओदनस्य ।२।
वर्षं प्रोक्षणं मरुतः पर्यैन्धति किष्करव: परिधयः ।
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेष्यते ब्रह्मणा प्रतिगृह्यते ।३।
य एतस्यौदनस्यैवं महिमानं विद्यात् ।
नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ।।४।।
यावद्दाताभिमनस्येत तन्नाति वदेत् ।
ओदनेन यज्ञवच: सर्वे लोका: समाप्या: ।
यस्मिन् समुद्रो द्यौर्भूमिस्त्रयोवरपरं श्रिता: ।। ५ ।।
16.55
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं शीर्ष्णा प्राशी: ।। १ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं मुखेन प्राशी: ।। २ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमक्षीभ्यां प्राशी: ।३।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं श्रोत्राभ्यां प्राशीः ।। ४ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी:
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमास्येन प्राशीः ।। ५ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं जिह्वया प्राशीः ।। ६ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं दन्तै: प्राशीः ।।७ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं प्राणैः प्राशीः ।।८ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमुरसा प्राशीः ।। ९ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं व्यचसा प्राशीः ।। १० ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं पृष्ठेन प्राशीः ।। १ १ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमुदरेण प्राशीः ।। १२ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं वस्तिना प्राशीः । । १ ३ । ।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमूरुभ्यां प्राशीः ।। १४ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमष्ठीवद्भ्यां प्राशीः ।। १५ ।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्चं त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं पद्भ्यां प्राशी: ।।१६।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यामेनं प्रतिष्ठायां प्राशी: ।।१७।।
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं हस्ताभ्यां प्राशी: ।। १८ । ।
16.56
ततश्चैनमन्येन शीर्ष्णा प्राशीर्येनैतमग्रे प्राश्नन् ।
शिरस्ते अवपतिष्यतीत्येनमाह । १ ।। तिस्य
ततश्चैनमन्येन मुखेन प्राशीर्येनैतमग्रे प्राश्नन्।
मुखन्ते विङक्षरिष्यतीत्येनमाह । २ ! !
ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
अन्धो भविष्यतीत्येनमाह ।३।
ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
बधिरो भविष्यसीत्येनमाह ।।४।।
ततश्चैनमन्येनास्येन प्राशीर्येनैतमग्रे प्राश्नन् । ।
वाक् ते प्रक्रमिष्यतीत्येनमाह । ५ ।
ततश्चैनमन्यया जिह्वया प्राशीर्ययैतमग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्येनमाह ।।६।।
ततश्चैनमन्येनमन्यैर्दन्तै: प्राशीर्यैरेतमग्रे प्राश्नन् ।
दन्तास्ते शत्स्यन्तीत्येनमाह ।। ७ । ।
ततश्चैनमन्येनमन्यै: प्राणै: प्राशीर्यैरेतमग्रे प्राश्नन् ।
प्राणास्ता हास्यन्तीत्येनमाह ।। ८ । ।
ततश्चैनमन्येनोरसा प्राशीर्येनैतमग्रे प्राश्नन् ।
कृष्यान रात्स्यसीत्येनमाह । । ९ । ।
ततश्चैनमन्येन व्यचसा प्राशीर्येनैतमग्रे प्राश्नन् ।
राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।। १० । । .
ततश्चैनमन्येन पृष्ठेन प्राशीर्येनैतमग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्येनमाह । । ११ ।। त्वा
ततश्चैनमन्येनोदरेण प्राशीर्येनैतमग्रे प्राश्नन् ।
दरणत्स्वाहनिष्यतीत्येनमाह ।।१२।।
ततश्चैनमन्येन वस्तिना प्राशीर्येनैतमग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्येनमाह ।। १३ ।।
ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
ऊरू ते ऽवपत्स्येते इत्येनमाह । ॥१४ ।
ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।
स्रामो भविष्यसीत्येनमाह ।।१५।
ततश्चैनमन्याभ्यां पद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।
सर्पस्त्वा हनिष्यतीत्येनमाह । १६ ।
ततश्चैनमन्यस्यां प्रतिष्ठायां प्राशीर्यस्यामेतमग्रे प्राश्नन्।
अप्रतिष्ठानो भविष्यसीत्येनमाह ।। १७ । ।
ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यामेतमग्रे प्राशन् ।
ब्राह्मणं हनिष्यसीत्येनमाह ।। १८ ।।
१६-५७ 16.57
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् बृहस्पतिना शीर्ष्णाशीत् ।।१।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् ब्रह्मणा मुखेनाशीत् ।२।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् सूर्याचन्द्रमसाभ्यामक्षिभ्यामाशीत् ।३।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् बृहद्रथन्तराभ्यां श्रोत्राभ्यामाशीत्।।४।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् अग्नेरास्येनाशीत् ।।५।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद्विद्युता जिह्वयाशीत् ।।६।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीन्मरुद्भिर्दन्तैराशीत् ।।७।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् सप्त ऋषिभिर्प्राणैराशीत् ।।८।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्पृथिव्योरसाशीत् ।।९।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीदन्तरिक्षेण व्यचसाशीत् ।।१०।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् दिवा पृष्ठेनाशीत् ।।११।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् वरुणस्योदरेणाशीत् ।।१२।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्समुद्रेण वस्तिनाशीत् ।।१३।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीन्मित्रावरुणोयोरूरुभ्यामाशीत् ।।१४।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: !
ओदन एवौदनं प्राशीद् ऋतस्याष्ठीवद्भ्यामाशीत् ।।१५।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्सवितुः पद्भ्यामाशीत् ।।१६।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीदस्यां प्रतिष्ठायां प्राशीत् ।।१७।।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन : ।
ओदन एवौदनं प्राशीत्सत्यस्य हस्ताभ्यामाशीत्।।१८।।
तं एनं प्रशीषुस्त एनमारुरोहन् त एनमजीगमन्।
एतस्माद्वै लोकान् त्रयस्त्रिंशतं प्रजापतिं निर्मिमीतः ।।१९।। पतिन्
तस्य गुप्तये यज्ञानसृजन्त देवाः।
ये त्रयस्त्रिंशत् प्रजापतिसृष्टा पुण्यलोकाः ।
ते ऽस्य सर्वे ऽभिजिता अवरुद्धा भवन्ति य एवं वेद । । २० ।।
16.58
एष वा ओदनः सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठ:।
सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठो भवति य एवं वेद। १ ।
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ।
न च प्राणं ऋणद्ध्य अथ सर्वस्सं जीयते ।। २ ।।
न च सर्वस्सं जियते अथैनमाहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति ।
अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति ।३।
16.59
केन पार्ष्णी आभूते पुरुषस्य केन मांसं संभृतं केन गुल्फौ ।
केनाङ्गुलीः पेशनी: केनखानिः केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम्!।।१।।
कस्मान्नु गुल्फावधरावकृण्वन्नष्ठीवन्तावुत्तरौ पुरुषस्य ।
निर्ऋत्यजङ्घे न्यदधु: क्वस्विज्जानुनी: संधी को इमौ जजान ।। २ । ।
चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् !
श्रेणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुधृतिर्बभूव । ३ ।।
कति देवा: कतमे त आसन् य उरश्चिक्युरर्ग्र्यं पुरुषस्य ।
कति स्तनौ न्यदधु: क: कफोडौ कति स्कन्धान् कति पृष्ठीरचिन्वन्।४।।
को अस्य बाहू समभरद्वीर्यं कृणवादिति ।
अंसौ को अस्य तद्देव: कुसिन्ध आदधादधि ।। ५ । ।
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो य: कपालम् ।
चित्वा चित्यं पुरुषस्य हन्वो दिवं रुरोह कतम: स देव: ।।६।।
क: सप्त खानि वि ततर्द शीर्षणि कर्णाविमावक्ष्णा नासिके मुखम् ।
येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ।।7।
हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम ! ।
स आ वरीवर्ति महिनाव्योमन्नपोवसान: का उ चित्प्रवेद । !८ 1 ।। ।
मूर्धानामस्य संसीव्याथर्वा हृदयं च यत् । ।
मस्तिष्कादूर्ध्वं प्रैरयत् पवमानो ऽधि शीर्ष्णः ।। ९ । ।
तद्वा अथर्वणः शिरो देवकोशः समुब्जितः।
तत्प्राणो अभि रक्षतु श्रियं अन्नमथो मन: || १० ।।
16.60
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्य: ।
आनन्दमुग्रो नन्दांश्च तानिद्वहति पुरुष: | । १ ! !
आर्तिरवर्तिनिर्ऋति कुतो नु पुरुषेमतिः ।
ऋद्धिः समृद्धिरव्यृद्धिर्मतिरुदितय: कुत: ! ! २ । ।
को अस्मिन्नापो अदधाद्विषूवृत: पुरूच्युत: सिन्धुसृत्याय जाता: ।
तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाची: पुरुषे तिरश्ची: ।। ३ । । उर्ध्वा
को ऽस्मिन् प्राणमदधात् को अपानं व्यानमु ।
समानमस्मिन् को देवो ऽधि शिश्राय पुरुषे ।।४।।
को ऽस्मिन् रूपमदधात् को मह्मानं च नाम च !
गातुं को अस्मिन् क: केतुं कश्चरित्राणि पूरुषे । ५ ।
को अस्मिन् रेतो अदधात्तन्तुरा तायतामिति ।
मेधां को अस्मिन्नध्यौहत् को वाणं को नृतो दधौ ।।६।।
को वाससा पर्यदधात् को अस्यायुरकल्पयत् ।
बलं को अस्मै प्रायच्छत् को अस्याकल्पयज्जवम् ।।७।।
को अस्मिन् यज्ञमदधादेको अग्रेधि पुरुषे ।
को अस्मिन् सत्यं कोनृतं को मृत्युं को अमृतं दधौ ।।८ ।।
केनापो अन्वतनुत केनाहरकृणोद् रुचे ।
उषसं केनान्वैन्द्ध केन सायंभवं ददे ।।९।।
केनेमां भूमिमौर्णोत् केन पर्यभवद्दिवम् ।
केनाभि मह्ना पर्वतान् केन कर्माणि पूरुषः । । १० ।।
१ ६ – ६१ 16.61
केन देवाङ् अनु क्षियति केन दैवरजनयद्विश: ।
केनेदमन्यन्नक्षत्रं केन सत् क्षत्रमुच्यते ।। १ ।।
केन पर्जन्यमाप्नोति केन सोमं विचक्षणम् ।
केनेममग्निं पुरुष: केन संवत्सरं ममे ।२।
केनेयं भूमिर्निहिता केन द्यौरुत्तरा हिता । रुत
केनेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ।३।
ब्रह्मणा भूमिर्निहिता ब्रह्म द्यामुत्तरां दधौ ।
ब्रह्मेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ।। ४ ।। तीर्यक्
केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
केन यज्ञश्च श्रद्धा च केनास्मिन्निहितं मन: ।। ५ ।।
ब्रह्म श्रोत्रियमाप्नोति ब्रहेमं परमेष्ठिनम् ।
ब्रह्म यज्ञश्च श्रद्धा च ब्रह्मास्मिन्निहितं मन: ।। ६ । ।
क इदमस्थ्यसृजत क इदं मांसं समभरत् ।
क इमां त्वचं च लोमं च को इदं रूपं समैरयत् ।।७।।
क इदं ब्रह्मास्थ्यसृजत ब्रह्म मांसं समभरत् ।
ब्रह्म त्वचं च लोमं च ब्रह्मरूपं समैरयत् ।।८।।
क इदं चक्षुरसृजत क: प्राणं केष्वामयत् ।
क इदं मनश्च वाचञ्च क इमां समभरत्पुरम् ।। ९ ।।
ब्रह्म चक्षुरसृजत ब्रह्म के प्राणमावयत् ।
ब्रह्म मनश्च वाचञ्च ब्रह्म समभरत् पुरम् ।। १० ।।
16.62
नैनं चक्षुर्जहाति न प्राणो जरस: पुरा ।
पुरं यो ब्रह्मणो वेद यस्मात् पुरुष उच्यते ।१।
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
तस्मै ब्रह्म च ब्राह्म्यश्चायुष्प्राणं प्रजां ददुः ।।२ । ।
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्यय: कोश: स्वर्गो ज्योतिषावृत: ।३।
तस्मिन् हिरण्यये कोशे त्र्योरे त्रिप्रतिष्ठिते ।
तस्मिन् यदन्तरात्मन्वत्तद्वै ब्रह्मविदो विदुः ।।४।।
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ।।५।।
16.63
अयं ते वरणो मणि: सपत्नक्षयण: कृत: ।
तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यत: ।। १ ।।
प्रैणाञ्छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात् ।
अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वर्यत् ।।२ ।।
आ त्वारक्षद्वरणो विश्वभेषज: सहस्राक्षो हरितो हिरण्यय: ।
यस्ते शत्रून्नधरान्पादयासि पूर्वस्तान् दभ्नुहि य उ त्वा द्विषन्ति। ३ ।।
अयं ते कृत्यां विततां पौरुषेयमयं वधम् ।
अयं ते सर्वं पाप्मानं वरणो वारयिष्यते । । ४ । ।
वरणो वारयाता इत् अयं देवो वनस्पतिः।
यक्ष्म: प्रविष्टो यो ऽस्मिन्तमु देवा अवीवरन् ।। ५ ।।
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्।
परिक्षवाच्छकुने: पापवादादयं मणिर्वरणो वारयातै ।।१६।।
अरात्या मा निर्ऋत्या अभिचारादथो भयात् ।
मृत्योरोजीयसो वधात् त्वं वरणो वारय ।।७ । ।
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धव: ।
असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ।।८।।
यन्मे माता यन्मे पिता भ्रातरो यच्च ते स्वा यदेनश्चकृमा वयम्।
तस्मान्नो वारयिष्यते अयं देवो वनस्पति: ।। ९ । ।
अरिष्टोहमरिष्टगुरायुष्मान् सर्वपूरुषः ।
तस्मान्मायं वरणो मणि: परि पातु दिशोदिशः ।। १० ।।
१६-६४ 16.64
अयं मे वरण उरसि राजा देवो वनस्पति: ।
स मे क्षत्रं च राष्ट्रं च पशूनोजश्च ते दधत् । । १ ।।
इमं बिभर्मि वरणमायुष्माञ्छतशारद: ।
स मे शत्रून् वि बाधतामिन्द्रो दस्यूनिवासुरान् । ।२ । ।
यथा वातो वनस्पतीन् जीर्णान्भनक्त्योजसा ।
एवा सपत्नांस्त्वं भङ्ग्धि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ।३।
यथा वातेन प्रक्षीणा वृक्षा: शेरे न्यर्पिता: ।
एवा सपत्नांस्त्वं सर्वान् प्र क्षिणीहि न्यर्पय पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ।।४।।
यथा वातश्चाग्निश्च सर्वान् प्सातो वनस्पतीन् !
एवा सपत्नास्त्वं प्साहि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु । । ५ । ।
तास्त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुष: ।
य इमं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ।।६।।
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
एवा सपत्नांस्त्वं सर्वान् अति भाति श्व:श्वो वरणस्त्वाभि रक्षतु ।। ७ । ।
यथा यश: पृथिव्यां यथास्मिन् जातवेदसि ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ।८।।
यथा यशो अग्निहोत्रे वषटकारे यथा यशः ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ।९।
यथा यश: सोमपीथे मधुपर्के यथा यश: ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा । १o ।
16.65
यथा यश: कन्यायां यथास्मिन् संभृते रथे ।
एवा मे वरणो मणि: कीर्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा । १ । ।
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतु
तेजसा मा समुक्षतु यशसा समनक्तु मा ।२।
यथा यश: प्रजापतौ यथास्मिन् परमेष्ठिनि ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ।३।
यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ।४।।
16.66
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्न: ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ।।१।। घृतो
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यस्मिन्निमा विश्वा भुवनानि तस्थुः । ।२ । । निमा
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम।।३।।
को ददर्श प्रथमं जायमानमस्थन्वतं यदनस्था बिभर्ति ।
भूम्या असुरसृगात्मा क्व स्वित् को विद्वांसमुप गात्प्रष्टुमेतत्।।४।।
पाकः पृच्छामि मनसाविजानन् देवानामेना निहिता पदानि ।
वत्से वष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ।५।।
अचिकित्वांश्चिकितुषश्चिदत्र कवीन् पृच्छामि विद्मने न विद्वान् ।
वि यस्तस्तम्भ षडिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ।।६।।
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वे: ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापु:।।७ । ।
माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
सा बिभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ।।८ । ।
युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्वन्त: ।
अमीमेद्वत्सो अनु गामपश्यद् विश्वरूप्यं त्रिषु योजनेषु ।९ ।
तिस्रो मातॄस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ।।१०।।
16.67
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
आा पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ।।१ 1 ।।
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षडर आहुरर्पितम् ।।२ ।।
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभार: सनादेव न च्छिद्यते सनाभि: ।। ३ ।। ।
सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्निमा विश्वा भुवनान्यार्पिता ।। ४ ।। निमा
साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामश: स्थात्रे रेजन्ते विकृतानि रूपश:।।५।।
स्त्रीय: सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान् न वि चेतदन्ध: ।
कविर्य: पुत्र: स ईमा चिकेत यस्ता विजानात् स पितुष्पितासत्।६।
अव: परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् । ।।७।।
अव: परेण पितरं यो अस्यानुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद्देवं मन: कुतो अधि प्रजातम् ।॥८ । ।
ये अर्वाञ्चस्तान् उ पराच आहुर्ये पराञ्चस्तान् उ अर्वाच आहुः ।
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ।। ९ । ।
द्वा सुपर्णा सयुजा सखायाः समानं वृक्षं परि षस्वजाते।
तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभि चाकशीति ।।१०।।
यस्मिन् वृक्षे मध्यद: सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्येदाहु: पिप्पलं स्वाद्वग्रे तन्नोन्नशद्य: पितरं न वेद ।।११।।
यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपा: स मा धीर: पाकमत्रा विवेश।१२।।
१६-६८ 16.68
यद्गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत ।
यद्वा जगज्जगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ।। १ ।।
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदा ऽक्षरेण मिमते सप्त वाणी: ।२।
जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् ।
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा । । ३ ।।
उप हृये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन्नोभीद्धो घर्मस्तदु षु प्र वोचम् ।।४।।
हिङकृण्वती वसूपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो ऽघ्नेयं सा वर्धतां महते सौभगाय ।।५।।
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्अकृणोन्मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ।। ६ ।।
अयं स शिड्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिमौहत ।।७ ।।
विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्य: समान ।८ । ।
अनच्छये तुरगातु जीवमेजद् ध्रुवं मध्य आ पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनि: ।।९।।
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान आा वरीवर्ति भुवनेष्वन्त: ।। १o ।।
१६-६९ 16.69
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिमा विवेश ।१।
द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् । वन्धु
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ।। 1२ ।।
पृच्छामि त्वा परमन्तं पृथिव्या: पृच्छामि त्वा भुवनस्य नाभिम् । ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतो वाच: पृच्छामि परमं व्योम।।३।।
इयं वेदि: परो अन्त: पृथिव्या अयं यज्ञो भुवनस्य नाभि: ।
अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाच: परमं व्योम । । ४ । ।
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुव: परि भवन्ति विश्वत: ।।१५।
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्या: ।। ६ ।
उपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ।।७।।
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः।
यस्तन्न वेद किमृचा करिष्यति य इत् तद्विदुस्त इमे समासते ।।८ 1।।
ऋच: पदं मात्रया कल्पयन्तो ऽर्धर्चेन चाक्लृपुर्विश्वमेजत् ।
त्रिपाद् ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्र: ।।९ ।।
सूयवसाद् भगवती हि भूया अथो वयं भगवन्त: स्याम: ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती । १० ।
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः
समुद्रा अधि वि क्षरन्ति ।।११।।
अपादेति प्रथमा पद्तीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्या ऋतं पिपर्त्यनृतं नि पाति ।।१२।।
कृष्णं नियानं हरय: सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आाववृत्रन् त्सदनादृतस्यादिद् घृतेन पृथिवीं व्यूदुः ।। १३ । ।
(ड्रति क्षुद्रकाण्डनामषोडशकाण्डे एकादशोऽनुवाक)
16.70
द्यौर्जवेनापृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितु: प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतं ब्राह्मणेभ्यो निर्वपामि ।१। ।
ऋषिभ्यस्त्वार्षेयेभ्यत्स्वा ।
जुष्टतमं वह्नितमं पप्रितमं
स्वस्तितममूर्जोभागमक्षितमक्षितये निर्वपामि ।२।
वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु ।३।
रुद्रास्त्वा त्रैष्टुभेन छन्दसा निर्वपन्तु । । ४ । ।
आदित्यास्त्वा जागतेन छन्दसा निर्वपन्तु ।५।।
इदमभि राव्णामिदमभि गत्वराणामिदमभि मन्यूनाम् ।। ६ ।।
यथा कूप: शतखा: सहस्रखा नोपदस्यन्ति ।७।
एवेदमोपदसत्तीर्थमश्विनोरिव ।
यो नो द्वेषन्मनसा यश्च वाचा दैव्ये लोक उत मानुषे यः ।।८ । ।
ग्राव्णा हन्तु महता तस्य सर्वमिन्द्रो देवो मघवाञ्छचीपति: ।
वीरुत्ग् परि जयैतदूर्जा सोम पुनरा विशेह नः ।। 1९ ।।
दुंहस्य बाह्वो अम्वधृष्वमारिषो ऽग्निश्चैतत्सनिष्यत: ।
देवीराप ऊर्जो भागायवोक्षितात्क्षितयासिञ्चामि । । १० ।।
१६-७१ 16.71
अक्रव्यादा तन्वा जातवेदो या ते स्वर्गा तपसा सयोनि: ।
तयोदनमभिश्राम्यैतं तया नो अग्ने महि शर्म यच्छ: ।१।
सोमस्यांशुभिर्यत: मध्यमदित्या: पृष्ठेसीदत ।
ये त ओदन देवयाने लोके विदुः पात्रं दारुमयं मनुष्या: ।।२।।
तेषामेधि पात्र मात्र: स्वर्ग: पृथिवीं विद्म तव पात्रम् ।
एतास्त्वौदनोप यन्त्वापो घृतश्चुत: पयसा वर्धयन्ती: ।। ३ ।।
स्तभ्नासि स्व: पृथिवीमुतद्यामुतान्तरिक्षं स्वधया पूरयासि ।
यावन्तस्तण्डुलास्तत्तस्य विष्ठास्तावन्तो यज्ञास्तत्तस्य दोहा: ।। ४ ।।
तावती स्वधा घृतपृष्ठे मे अस्तूर्जं दुहां मधुपृचं व्योमन् ।
यमोदनं पचामि श्रद्दधानः पात्रेपूरं घृतपृष्ठं जुषाण: ।।५।।
स मे मां क्षेष्ट सदमिष्यमानो यमस्य लोके परमे व्योमन् ।
ओदनः पात्रेण सह दक्षिणया ब्राह्मणेभ्यो दत्तो अमृतत्वे दधाति ।।६।।
सूर्यस्य ध्राजीरनु रश्मिन् आगन्दिवस्पृष्ठान् शकुन इवारोहन् ।
सं प्राणेन प्राणभृतं सृजामि सं वीर्येण पयसाशिषा च ।।७ । ।
आस्तावं गच्छ सुकृतां यत्र लोकं ते त्वां प्राश्नन्तु दक्षिणतो निषद्य।
अग्निष्टोमेन सरथं हि याह्यथोक्तमतिरात्रं च गच्छ ।।८ ।।
द्विरात्र मात्रस्त्र्यहं व्यश्नुह्यथारोह चतूरात्रं रथमिव ।।
चतूरात्रेण कल्पमानो हि याह्यथ सप्तरात्रं दशरात्रं च गच्छ। ९ ।।
द्वादशाहं परिभूय विश्वत एकविंशत्या विमृधो नुदस्व ।
एकविंशत्या विमृधो हि याह्यथैक चत्वारिंशतोप याह्येकम् ।
त्रयस्त्रिंशतामृतो भूत्वा त्रिमास्यमोदनान् वा रभस्व । । १० ।।
16.72
इदावत्सरं च परिवत्सरं च व्रध्नस्य विष्टपि परमे व्योमन् ।
नाकेन नाकमभिसंभवौदन ।१।
साध्यानयन्तु मुखतो ममैतमादित्यारुद्रा वसव: सचेतसः ।
विश्वे देवा ऋतुभि: संविदाना इमं रक्षन्तु सधमप्रमादम ।२।
इदावत्सरं च परिवत्सरं च संवत्सरमहोरात्राणि मासाः ।
सूर्यस्याग्नेश्चन्द्रमसोनुभूतिं वातस्याभूतिमन्वावभौदन ! ! ३ ।।
यमीडते पितरो यं च देवा: पुरोहितं तपसा ब्रह्मणा च ।
स्वधामूर्जामक्षितिमा जुहोमि वाते देवे पवमाने बृहस्पतौ ।। ४ । ।
चतुर्धैत्योदनः कल्पमान ऊर्जा देवान् स्वधा पितॄन् ।
शरीरं मनुष्यानाशितं भव ब्राह्मणान् सो अस्माकमस्तु परमे व्योमन् ।। ५ ।।
अयं पन्था ओदन देवयानो अनारुद्धो मृत्युना तेन याहि ।
अदब्ध स्वतो निहित: सकृद्भिर्ब्रह्मणा सृष्ट: प्रशिषायमस्य सः। ६ ।
यत्र ते ग्राह्या ओदन तत् परेहि यत्राप: तद् गच्छन्त्याप: ;
यत्र योनिमोदनं ब्राह्मणा विदुः सो अस्माकमस्तु परमे व्योमन् !!७ !)
हुतं ते वाचि हुतमस्तु चक्षुषि हुतं विज्ञाने हुतमस्तु ते बले ।
श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते हुतं कामे च हुतमस्तु ते ||८ || !
यद्वाग्नेयो यदि वास्यैन्द्रो यदि मारुतो यदि वैश्वदेव: ।
यस्ते अग्निर्नृम्णानामहृद्यस्तास्मिन्नेष सुहुतो अस्त्वोदन:
सो अस्माकमस्तु परमे व्योमन् । ९ ! !
य आविवेश नृम्णा मनुष्या अग्निनामग्निः प्रथमो वयोधाः ।
स्तस्मिन्नेष सुहुतो अस्त्वोदन सो अस्माकमस्तु परमे व्योमन् ।। १o ।।
16.73
या ते तनूरपचक्राम मृत्यो र्देवानां सख्यमभिजीव लोकम् ।
अप्सुचरा गह्वरेष्ठा महित्त्वा तस्यामेष सुहुतो अस्त्वोदन:
सो अस्माकमस्तु परमे व्योमन् । १ ।।
अहेडमानाभ्ये हि नो गृह संकाशं भद्रे सुमना अघोरा ।
प्रति त्वा वर्षवृद्धमेतु ।
एषां न स्वधा नवगज्जनित्र्यमृतेष्वमृता हुताभूत् ! ।। २ ।।
तान्नो गोपाय सधमप्रमादमस्माकमेतोरनुरक्ष जागृहि ।
ये नो निधिमभिधामन्त्व्येतं प्रवाहं प्रौढ़ं यमराज्ये । ३ ।।
राजा तेषां वरुण इन्द्रियाण्यभितिष्ठतु हरसा दैव्येन ।
एतं सधस्था: परिणो वा ददाम्यनुख्यता यज्ञपतिर्यदायत् ।।४।।
य आखिदन्ति विखिदन्ति दत्तं विगृह्णते दक्षिणामीयमाना: ।
तानिन्द्रो देवो मघवाञ्छचीपतिरग्निमेदी प्रदहन्नेतु शक्रः ।
बृहस्पतिर्वरुण: सोम इन्द्रो ममैव दत्तं केवलं कृण्वन्तु । । ५ । !
16.74
शीर्षक्तिं शीर्षामयं कर्णशूलं तृतीयकम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे । १ ! !
कर्णाभ्यां ते कङ्कूषेभ्यः शुक्तिबल्गं विलोहितम् ।
सर्व शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे । २ । ।
य: कृणोति प्रमोत्तमन्धं कृणोति पूरुषम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे । ३ ! !
यस्य हेतो: प्रच्यावते यक्ष्मो नासत आस्यत: ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ।।४।।
शीर्षरोगमङ्गरोगं विश्वाङ्गीनं विसल्पकम् ।
सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ।।५।।
यस्य भीम: प्रतीकाश उद्वेपयति पूरुषम् ।
तक्मानं शीतं रूरञ्च तं ते निर्मन्त्रयामहे । । ६ । ।
य उरू अनुसर्पत्यथो एति गवीनिके ।
बलासमन्तरङ्गेभ्य: बहिर्निर्मन्त्रयामहे ।। ७ ।।
यदि कामादपकामाद्धृदयाज्जायते परि ।
हृदो बलासमङ्गेभ्य: बहिर्निर्मन्त्रयामहे ।।८।।
हरिमाणं ते अङ्गेभ्यो यक्ष्मोधामन्तरात्मनः ।
यक्ष्मं ते सर्वमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ।। ९ ।।
आसो बलासो भवतु मूत्रं भवत्यामयत् ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ।। १० ।।
16.75
बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ।।१।।
उदरात्ते परि क्लोम्न नाभ्या हृदयादधि ।
यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ।२।
या: सीमानं विरुजन्ति मूर्धानं प्रत्यर्षणी: ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।३।
या हृदयमुपसर्पन्त्यनुतन्वन्ति कीकसाः ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।४।।
या: पार्श्वे उपऋषन्त्यनुनिक्षन्ति पृष्ठी: ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।५।।
यास्तिरश्चीरुपसर्पन्त्यर्षणीर्वक्षणासु ते । र्बक्ष
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।६।।
या गुदा अनुसर्पन्त्यान्त्राणि याहयन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।७।।
यामज्ज्ञो अनुसर्पन्ति परूंषि विरुजन्ति च ।
अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।८।।
ये अङ्गानि विजयन्ति यक्ष्मासो रोपणाः सह ।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ।। ९ ।।
विसल्पस्य विद्रधस्य वातीकारस्य वालजे: ।।
यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ।। १० । ।
पादाभ्यां ते गुल्फाभ्यां जानुभ्यां ऊरुभ्यां श्रोणिभ्यां परि भंसस: ।
अनूकादर्षणीरुष्णिहाभ्यो ग्रीवाभ्यः स्कन्धेभ्यः शीर्ष्णो रोगमनीनशम् ।। ११ ।।
सन्ते शीर्ष्ण: कपालानि हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो ऽङ्गरोगमनीनशत् ।। १२ ।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वादशो ऽनुवाकः)
16.76
सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।
नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ।१।
यन्मे मनसो न प्रियं न चक्षुषो यन्मे हृदये नाभिनन्दति ।
तद्दुष्वप्न्यं प्रतिमुञ्चामि सपत्ने कामं स्तुष्टुवानुदहं भिदेयम् ।।२।।
दुष्वप्न्यं काम दुरितं च कामाप्रजस्तामस्वगतामवर्तिम्।
उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात् ।। ३ ।।
सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम ।
तया सपत्नान् परिवृङधि ये मम पर्यनान् प्राणः प्रजा: पशवो जीवनं वृणक्तु ।।४।। ङ्घि
कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितु: सवेन ।
अग्नेर्होत्रेण प्र णुदे सपत्नांच्छम्बीव नावमुदकेषु धीर: ।।५।।
अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।
विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ।।६।। ।
इदमाज्यं घृतवज्जुषाणा: कामज्येष्ठा इह मादयन्ताम् ।
कृण्वन्तु मह्यमसपत्नमेव ।।७।।
इन्द्राग्नी काम सरथं हि भूत्वा नीचै: सपत्नान् मम पादयाथ: । निचैः
तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ।।८ ।।
जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।
निरिन्द्रिया ऽरसाः सन्तु सर्वे यथा न जीवात् कतमच्चनैषाम्।। ९ ।।
अवधीत् कामो मम ये सपत्ना उरु लोकमकरन् मह्यमेधतुम् ।
मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ।। १० ।।
16.77
यत्ते काम शर्म त्रिवरूथमुद्भुर्ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।
तेन सपत्नान् परि वृङ्गधि ये मम पर्येनान् प्राणः प्रजा: पशवो जीवलं वृणक्तु ।१।
अधरांच: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् ।
न सायकप्रणुत्तानां पुनरस्ति निवर्त्तनम् । ।२ । ।
- -- --- - -- ----
16.78
यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिव: ।
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि।। ३ ।।
यावतीर्भृङ्गा जत्व: कुरूरवो र्यावतीर्वघा वृक्ष सर्प्यो बभूवु: ॥
ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि ।।४।।
यास्ते शिवास्तन्वः काम भद्रा याभि: सत्यं भवति यद् वृणीषे ।
ताभिष्ट्वमस्मानुप संविशस्वान्यत्र पापीरप वेशया धिय: ।।५।।
१६-७९ 16.79
यौ ते मातोन्ममार्ज जाताया: पतिवेदनौ ।
दुर्णामा तत्र मा गृधदलिंश उत वत्सप: ।। १ ।।
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
अश्लिष्यं वव्रिवाससमृक्षग्रीवं प्रमीलिनं मुष्कयोरपहन्मसि ।२ ।।
मा सं वृतो मोप सृप ऊरू माव सृपोन्तरा ।
कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ।।३।।
दुर्णामा च सुनामा चोभौ संवृतमिछत: ।
अरायानप हन्मसि सुनामा स्त्रैणमिछताम् ।।४।।
य: कृष्ण: केश्यसुर स्तम्बज उत तुण्डिकः ।
अराया नस्या भंससो मुष्कयोरपहन्मसि ।।५।।
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
अरायांछ्वकिष्किणो बजः पिङ्गो अनीनशत् ।।६।।
यस्त्वा सुप्ताञ्चरति यश्च दिप्सति जाग्रतीम् ।
छायामिव प्र तान् सूर्य: परिक्रामन्ननीनशत् ।।७।।
यस्त्वा सुप्तां निपद्यते भ्राता भूत्वा पितेव च । भुत्वा
बजस्तान्त्सहतामित: क्लीवरूपांस्तिरीटिनम् ।।८ ।।
य: कृणोत्यवतकां मृतवत्सामिमां स्त्रियम् ।
तमोषधे त्वं नाशयास्या: कमलमञ्जिवम् ।।९।। त्वां
ये शालाः परिनृत्यन्ति सायं गर्दभनादिन: ।
कुसूला ये च कुक्षिला: कुकुभाः सरमा: सुमा: ।
तानोषधे त्वं गन्धेन विषूचीनान् वि नाशय । १० ।
16.80
ये कुकुन्धाः कुकुरभा: कृत्यैर्दूर्शानि बिभ्रती ।
क्लीबा इव प्र नृत्यन्तो घोषं ये कुर्वते वने तानितो नाशयामसि । १ ।।
येषां पश्चात् प्रपदे पुर: पार्ष्णी पुरो मुखम् !
खलजा: शकधूमजा: उरुण्डा ये च मट्मटा: कुम्भमुष्का अयाशव:।
तानस्या ब्रह्मणस्पते प्रतीबोधेन नाशय । २ । ।
ये सूर्य्यं न तितिक्षन्त आतपन्तममुं दिव: !
अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ।। ३ ।।
ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुरादधि ।
बजश्च तेषां पिङ्गश्च हृदयेधि नि विध्यताम् ।।४।। ।।
य आत्मानमतिमात्रमंसाधाय बिभ्रति ।
स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय । ! ५ |
ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः।
आपाकेस्था: प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि । ६ ।
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणा: सन्तु पण्डगाः ।
अव भेषज पातय य इमां संविवृत्सत्यपति: स्वपतिं स्त्रियम्।।७।।
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पंदना ।८।।
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ।। ९ ।।
ये अम्नो जातान् मारयन्ति सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वानभ्रं वातमिवाजतु । १० ।
१६-८१ 16.81
परिसृष्टं धारयन्तं यद्धितं माव पादि तत् ।
गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ।१।
परिपाणं पुरुषाणां रक्षसामसि चातनम् ।
अरायान् सर्वान् दुर्णाम्नो यातुधानान्विषूचीनान् विनाशय ।२।
पवोनसात्तङ्गल्वाच्छायकादुत नग्नकात् ।
प्रजायै पत्ये त्वा पिङ्ग: परि पातु किमीदिन: ।३।
द्व्यास्याच्चतुरक्षात् पञ्चपादादनङ्गुले ।।४।।
वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ।
य आामं मांसमदन्ति पौरुषेयं च ये क्रविः ।
गर्भान् खादन्ति केशवाः ।
अरायानस्या भंससो मुष्कयोरप हन्मसि ।।५।।
पिङ्ग रक्ष जायमानं पुमांसं मा स्त्रियं करन् ।
आण्डादो गर्भान्मा दभन् बाधस्वेत: किमीदिन: ।।६।।
अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
वृक्षादिव स्रजं कृत्वा ऽप्रिये प्रति मुञ्च तत् ।।७ ।।
पिङ्ग जहि यातुधानान् दुर्गन्धींल्लोहितास्यान् ।
त्वया प्रणुत्ताः क्रव्यादो विश्वञ्चो यन्तु निर्हताः ।।८ । ।
16.82
उच्छिष्टे नामरूपाण्युच्छिष्टे लोक आहित: ।
उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्त: समाहितम् ।।१।।
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
आप: समुद्र उच्छिष्टे चन्द्रमा वात आहितः ।।२।।
सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
लौक्या उच्छिष्टायत्ता व्रश्च द्रश्चापि श्रीर्मयि ।३।
दृढो दृंहस्थिरो अन्यो ब्रह्म विश्वसृजो दश।
नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताहिता: ।। ४ ।।
ऋक्साम यजुरुच्छिष्ट उद्गीथ: प्रस्तुतं स्तुतम् ।
हिंकार उच्छिष्टेस्वर: साम्नो मेढिश्च तन्मयि ।५।।
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ।। ६ ।।
राजसूयं वाजपेयमग्निष्टोमस्तदध्वर: ।
अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तम: ।।७।।
अग्न्याधेयमथो दीक्षा कामप्रच्छन्दसा सह ।
उत्सन्ना यज्ञा: सत्त्राण्युच्छिष्टेधि समाहिता: ।। ८ ।।
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
दक्षिणेष्टं पूर्तं चोच्छिष्टेधि समाहिता: ।। ९ ।।
एकरात्र: त्रिरात्रश्च सद्य: क्री: प्रक्रीरुक्थ्य: ।
ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया: ।।१०
16.83
चतूरात्र: पञ्चरात्र: षड्रात्रश्चोभय: सह ।
षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्व ये यज्ञा अमृते हिता: ।। १ ।।
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च य: ।
साह्नातिरात्रावुच्छिष्टे द्वादशाहोपि तन्मयि ।२।
सूनृता संनति क्षेम: स्वधोर्जामृतं सह: ।
उच्छिष्टे सर्वे प्रत्यञ्चः कामा: कामेन तृप्यन्तु । ।३ । ।
नव भूमी समुद्राश्चोच्छिष्टेधि श्रिता दिव: ।
आ सूर्यो भात्युच्छिष्टे अहोरात्रे च तन्मयि । । ४ ।।
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिता: बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता। .
पिता जांभतुरुच्छिष्टो असो: पौत्र: पितामह: ।
स क्षियति विश्वस्येशानो वृषा भूम्यामतिघन्य: ।।६।।
ऋतं सत्यं तपो दीक्षा: श्रमो धर्मश्च कर्म च ।
भूतं भविष्यदुच्छिष्टे वीर्यं लक्षीर्बलं बले।।७।।
समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः।
संवत्सरोध्युच्छिष्ट इडा प्रैषा ग्रहा हविः।।८।।
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः।
उच्छिष्टे यज्ञा होत्राश्च पशुबन्धास्तदिष्टयः ।। ९ ।।
अर्ध मासाश्च मासाश्चार्तवा ऋतुभि: सह ।
उच्छिष्टे घोषिणीराप: स्तनयित्नुः श्रुतिर्मही । १० ।
16.84
शर्करा: सिकता अश्मान ओषधयो वीरुधस्तृणा । विरु
अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता: ।।१ । ।
रातिः प्राप्तिर्व्याप्ति: समाप्तिर्मह एधतुः ।
अत्याप्तिरुच्छिष्टे भूतिराहिता निहिता हिता ।२।
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ।।१३।।
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ।।४।।
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित : ।। ५ ।
ऋच: सामानि छन्दांसि पुराणं यजुषा सह ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: । ६।
अथर्वाङ्गिरसो ब्रह्म सर्प पुण्यजनाश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: । !७ ! !
आनन्दाश्च प्रमादाश्चाभीमोदमुदश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ।। ।।८ ।।
16.85
यन्मन्युर्जायामावहत् संकल्पस्य गृहादधि ।
क आसं जन्या: के वरा: क उ ज्येष्ठवरो ऽभवत ! ! १ । ।
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
त आसं जन्यास्ते वरा स उ ज्येष्ठवरो ऽभवत्।।२।।
दश साकमजायन्त देवा देवेभ्यः पुरा ।
यो वै तान् विद्यान्नामथा स वा अद्य महद्वदेत् ।३।
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या।
व्यानोदानौ वाङ् मनस्ते वा आकूतिमावहन्।।४।।
अजाता आसन्नृतवोथो धाता बृहस्पतिः।
इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ।५।।
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
तपो ह यज्ञे कर्मणस्तत् ते ज्येष्ठमुपासत ।। ६ ।।
कुत इन्द्र: कुत: सोम: कुतो अग्निरजायत ।
कुतस्त्वष्टा समभवद्धाता समभवत् कुत: ।।७।।
इन्द्रादिन्द्र: सोमात्सोमो अग्नेरग्निरजायत ।
त्वष्टा ह यज्ञे त्वष्टुर्धाता धातुरजायत ।।८ ।।
ये त आसन्दश जाता देवा देवेभ्यः पुरा: ।
पुत्रेभ्यो लोकं दत्त्वा कस्मिन्ते लोक आसते ।।९ ।।
येतो भूमि: पूर्वासीद्यामद्धातय इद्विदुः ।
के तस्यां देवा आसते कस्मिन् उषाधिश्रिता: ।। १० ।।
16.86
कुतः केशान् कुत: स्नाव कुतो अस्थीन्याभरत् ।
अङ्गा पर्वाणि मज्जानं को मांसं कुतो आभरत् ।।१।।
यदा केशानस्थि स्नाव मांसं मज्जानमाभरत् ।
शरीरं कृत्वा पादवत् कं लोकमनु प्राविशत् ।२।
संसिचो नाम ते देवा ये संभरैः समभरन् ।
सर्वे संसिच्य मर्त्यं देवा: पुरुषमाविशन् ।। ३ ।। परु
शिरो हस्तावथो बाहू जिह्वां ग्रीवाश्च कीकसाः ।
पृष्टिर्बर्जह्ये पार्श्वे कस्तत् समदधादृषि: ।। ४ ।।
ऊरू पादावष्ठीवन्तौ श्रोणीहस्तावथो मुखम्। उरू
त्वचा प्रावृत्य तत्सर्वं संधा समदधान्मही ।। ५ । ।
यत्तच्छरीरमशयत् संधया संहितं महत् ।
येनेदमद्य रोचते को अस्मिन् वर्णमाभरत् ।। ६ ।।
सर्वे देवा उपाशिक्षन् तदजानाद्वधू: सती ।
ईशा वशस्य या जाया सास्मिन् वर्णमाभरत् ।।७।।
यदा त्वष्टा व्यतृणत् पिता त्वष्टुर्य उत्तर: ।
गृहं कृत्वा मर्त्यं देवा: पुरुषमाविशन् ।।८ ।।
स्वप्नो वै तन्द्रीर्निऋतिः पाण्मानो नाम देवता:।
जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ।।९।।
स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो महः।
बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ।। १० ।।
१६-८७ 16.87
भूतिश्च वा अभूतिश्च रातयोरातयोश्च या: ।
क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् । ।१ ।।
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् । ।२ । ।
विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
शरीरं ब्रह्मा प्राविशदृच: सामाथो यजुः ।। ३ ।।
आनन्दानन्दा: प्रमुदोभीमोदमुदश्च ये ।
हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ।।४।।
आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
शरीरं सर्वे प्राविशन्नायुज: प्रयुजो युजः ।।५।।
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।
व्यानोदानौ वाङ्मन: शरीरेण त ईयन्ते ।। ६ । ।
आशिषश्च प्रशिषश्च संशिषो विशिषश्च या: ।
चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ।।७।।
· · · · · · वै धृतयश्चेडाशी: सूनृतेडा ।
शरीरं सर्वे प्राविशन्नृतरीर्ष्यायुधोमृध: ।।८।।
आस्तेयीश्च वास्तेयीश्च त्वरणा: कृपणाश्च या: ।
गुह्या: शुक्रा आप: स्थूलास्ताबीभत्सुरसादयन् ।।९।।
अस्थि कृत्वा समिधं तदष्टापो असादयन् ।
रेत: कृत्वाज्यं देवा: पुरुषमाविशन् ।। १० । ।
16.88
या आपो याश्च देवता या विराड ब्रह्मणा सह । .
शरीरं ब्रह्म प्राविशच्छरीरेधि प्रजापतिः । ।१ । ।
सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
अथास्येतरमात्मानं देवा: प्रायच्छन्नग्नये । २ ।
तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
सर्वा ह्यस्मिन् देवता: शरीरेधि समाहिता: ।। ३ ।।
संदेश्य स्थानमङ्गेषु पिता लोकाङ् अकल्पयत्।
शरीरं सर्वा देवता यथाङ्गमनु प्राविशन् ।। ४ ।।
अङ्गमङ्ग शरीरस्य सर्वे देवा अनु प्राविशन् ।
पिता ह्येभ्य: प्रायच्छत्तं लोकमपराजितम् ।। ५
तं लोकमपराजितं सर्वे देवा अनु प्राविशन् ।
प्रजापतिर्यदाभरच्छरीरं बहुधा हितम् ।।६।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे षोडशो ऽनुवाक:)

16.89
अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा।
सप्तऋषयो भूतकृतस्ते त्वा मन्दन्तु प्रजया सहेह ।१।
कृणुतं धूमं वृषण: सखायोद्रोघाविता वाचमच्छ !
अयमग्नि: पृतनाषाट् सुवीरो येन देवा असहन्तु शत्रून्। २ ।।
अग्नेजनिष्ठा महते वीर्याय ब्रहौदनाय पक्तवे जातवेद: !
सप्तऋषयो भूतकृतस्ते त्वाजीजन्नस्यै रयिं सर्ववीरं नि यच्छ ।३।
समिद्धो अग्ने समिधा समिध्यसे विद्वान् देवान् यज्ञियाङ् एह वक्ष: ।
तेभ्यो हव्यं श्रपयं जातवेद स्वर्गं लोकमधि रोहयैनम् ।। ४ । ।
त्रेधा भागं निहितो य: पुरा वो देवानां पितॄणामुत मर्त्यानाम् |
अंशान् जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयति ।।५।।
अग्ने सहस्वानभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृत: कृणोतु ।६।
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय।
उर्ध्वो नाकस्थाधि रोह विष्टपं स्वर्गों लोक इति यं वदन्ति।।७।।
इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
अथ गच्छेम सुकृतामु लोकम् ।।८।।
एतौ ग्रावाणौ सयुजा युङ्गधि चर्माणि निर्भिन्ध्यंशून् यजमानाय साधु }
अवघ्नती नि जहि ये पृतन्यव ऊर्ध्व प्रजामुद्धरन्त्युदूह ।। ९
गृहाण ग्रावाणौ सुकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगु : ।
त्रय वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि । १० ।
१ ६-९० 16.90
उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः।
श्रिया समानानति सर्वान् त्स्यामाधस्पदं द्विषतस्पादयेम ।। १ !
इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा: ।
परा पुनीहि य इमां पृतन्यवोस्यै रयिं सर्ववीरं नि यच्छ ।२।
परेहि नारि पुनरेहि क्षिप्रमपो त्वा गोष्ठो अध्यरुक्षद् भराय ।
तासां गृह्णीताद्यतमा यज्ञिया असन्विभाज्य धीरीतरा जहीतात्। ३ ।। ताषां
एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व !
सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञ: प्रति कुम्भं गृभाय ।। ४ । ।
उर्जो भागो निहितो य: पुरा वो ऋषिप्रशिष्टाप आहरैता: ।
अयं यज्ञो नाथविद् गातुवित् प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ।।५।।
अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ।। ६ ।।
शुद्धा आपो योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्रा: ।
ददन् प्रजां बहुलान् पशून् मे पक्तौदनस्य सुकृतामेतु लोकम् ।।७।।
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
अप: प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्ता सुकृतामेतु लोकम् ।।८ ।।
अभ्यावर्तस्व प्रजया सहैनां प्रत्यङ्नां देवताभि: सहैधि ।
स्वर्गं लोकमभिसंवर्धयैनामादित्यो देव: परमं व्योम ।। ९ ।।
ऊरु : प्रथस्व महता महिम्ना सहस्रपृष्ठ: सुकृतस्य लोके ।
पितामहा: पितर: प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि । । १० । ।
१६-९१ 16.91
सहस्रपृष्ठ: शतधारो अक्षितो ब्रह्मौदनो देवयान: स्वर्ग: ।
अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय कृणुतां मह्यमेव ।। १ ।।
उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्ष: प्रतरं धेह्येनाम् ।
श्रिया समानानति सर्वान् स्यामाधस्पद द्विषतस्पादयेम ।२।
ऋतेन तष्टा मनसा हितेयं ब्रहौदनस्य निहिता वेदिरग्रे ।
अंशध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ।३।
अदितेहस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।
सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ।।४।।
शूतं त्वा हविरुपसीदन्तु दैवा नि:सृप्याग्ने: पुनरेवं प्र सर्प । रूप
सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ।। ५ ।।
सोमो राजन् संज्ञानमा वपैभ्य: सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीनार्षेयांस्तपसोधि जातान् ब्रह्मौदने सुहवा जोहवीमि ।।६।।
इमा आपो मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदमभिसिञ्चामि वोहमिन्द्रो मरुत्वान् त्स ददादिदं मे ।।७ ।।
इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु य: स्वर्ग: ।। ८ ।।
अग्नौ तुषाङ् आ वप जातवेदसि पर: कम्बुकानप मृड्ढ्येतान् ।
एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम्।।९।।
श्राम्यतः पचत एति सुन्वतः स्वर्गं लोकमधिरोहयैनम्।
येन रोहात् परमापद्य यद्वय: उत्तमं नाकं परमं व्योम ।।१०।।
१६-९२ 16.92
बभ्रेरध्वर्यो मुखमेतद् वि मृड्ढ्याज्याय लोकं कृणुहि प्रजानन् ।
घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु य: स्वर्ग:।।१।।
बभ्रे रक्षः सुमदमा वपैभ्योब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमाना: पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ।।२ ।।
आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्वत्र !
अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम्।। ३ । ।
यज्ञं दुहानं सदमित् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वमुत दीर्घमायू रायस्पोषमुप स त्वा सदेम ।४।
वृषभो ऽसि स्वर्ग ऋषीनार्षेयान् गच्छ ।
सुकृतां लोके सीद तत्र नौ संस्कृतम् ।।५।।
समाचिनुष्वानुसंप्रयाह्यग्ने पथ: कल्पय देवयानान् ।
एभिः सुकृतैरनु प्रगेष्म यज्ञं नाके तिष्ठन्तमधि सप्तरश्मा । । ६ ।।
येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तं त्वा पचामि ज्योतिषां ज्योतिरुत्तमं सनस्त्वद् धेहि सुकृतामु लोके।।७।।

16.93
प्राच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ।। १ ।।
दक्षिणायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ! !२।
प्रतीच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।। ३ । ।
उदीच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।।४।।
ध्रुवायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ।।५।।
ऊर्द्ध्वायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ।। ६ ।।
दिवे त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।।७।।
अन्तरिक्षाय त्वा निर्वपामि शतधारमपक्षुधम् । रीक्षा
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।।८ 1।।
पृथिव्यै त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।।।।९ ।।
पशुभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।। १० ।।
16.94
मनुष्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।। १ ।।
पितृभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः।।२।। ! !
ऋषिभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् !.
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ! ! ३ : ;
आर्षेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणाः ||४||
अङ्गिरोभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् । अङ्गी
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ।। ५
आङ्गिरसेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् । आङ्गी
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ।। ६ ! !
अथर्वभ्यस्त्वा निर्वपामि शतधारमापक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ।।७ ! ;
आथर्वणेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा:। ८ ।
वनस्पतिभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ! I९ ! ।
वानस्पत्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ।। १० । ।
१६-९५ 16.95
वीरुदभ्यस्त्वा निर्वपामि शतधारमपक्षुधम ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ।। १ ।।
ओषधीभ्यस्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा : ।।२।
ऋतुभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ।। ३ ।।
आर्तवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणा:।।४।।
लोकेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।। ५ । ।
लौक्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।।६।।
लोकानां त्वा ऽध्यक्षेभ्यो निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः।।७।।
देवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।।८ ।।
दैवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ।।९।।
सर्वाभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ।१० ।।
. १६-९६ 16.96
पुमान् पुंसो अधि तिष्ठ चर्म न ते शिश्नं प्र दहाज्जातवेदा: ।
भवात् ते स्त्रैणमप्यप्सरासु । १ । ।
महती द्यावापृथिवी अन्तरिक्षमिदं महत्।
महान् महिम्ना सर्वाङ्गो यस्त्वा पचत्योदन ।। २ ।।
सप्तैनं सूर्याभृताः सप्त पुषकरणीरुत।
सप्तो सहस्रं गन्धर्वा यस्त्वा पचत्योदन ।। ३ । ।
धातात्रैषामुद्गातासीद्देवा होतार ऋत्विजः ।
सर्वाङ्ग यत्रौदनं सत्येनाग्रे समैरयन् ।।४।।
सप्त ऋषयो भूतकृत ऋषयः साध्याश्च ये ।
ते वै सर्वाङ्गमोदनं श्रद्धयाग्रे समैरयन् ।।५।
यः सर्वाङ्गं पचति ब्रह्माणं च न हिंसति ।
तस्मै ज्योतिष्मन्तं लोकं यमो राजाभि रक्षति ।। ६ । ।
तं सर्वाङ्गं घृतपृष्ठं द्यौमात्रं देव संहितम्।
निधत्स्वामुत्रत्शेवधि तं ते ब्रह्माभि रक्षतु ।। ७ ।।
तस्यौदनस्योदरमन्तरिक्षं द्यौ: पृष्ठं दिशः पार्श्वे ।
सूर्याचन्द्रमसावक्षावृतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम्।।८।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे पञ्चदश अनुवाकः)
16.97
आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्।
तीर्त्वा तमांसि बहुधा विपश्यन्नजो नाकमा क्रमतां तृतीयम्।।१।।
प्र पदो ऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
ज्योतिष्मन्तं सुकृतां लोकमीप्सन् तृतीये नाके अधि वि क्रमस्व।।२।
अनु च्छ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः।
माभि द्रुहः परुश: कल्पयैनं सुकृतां मध्ये अधि वि श्रयैनम् ।।३।।।।
भूम्यां त्वा भूमिमधि धेह्य् एतामासिञ्चोदकमव धेह्येनम्।
पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः।।४।।
अग्नेरग्निरधि सं बभूविथ ज्योतिष्मान् गच्छ सुकृतां यत्र लोकः ।।५।।
पञ्चौदनः पञ्चधा वि क्रमस्वाक्रंस्यमानः पञ्च ज्योतींषि।
ईजानानां सुकृतां प्रेहि मध्यं ज्योतिष्मन्तमभि लोकं जयास्मै।।६।।
अजमेवाग्निमजमु ज्योतिराहुरजं ब्रह्मणे जीवता देयमाहुः।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्धधानेन दत्तः।।७।।
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेजं ददाति।
अजस्तमांस्यप हन्ति दूरं पञ्चौदनो ब्रह्मणे दीयमानः।।८।।
पञ्चौदनो ब्रह्मणे दीयमानोजो नाकं मा क्रमतां तृतीयम् ।
विचक्रमाणः सुकृतस्य लोके स्वर्ज्योतिषा तमो अप हन्ति दूरम् ।।९।।
अजा क्रमस्व सुकृतां यत्र लोक: शरभो न चत्तो अति दुर्गाण्येष: ।
पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा कामदुघास्येका । १० । दूघा
16.98
ज्योतिष्मन्तं सुकृतां लोकमीप्सन् पञ्जौदनं ब्रह्मणेजं ददाति ।
स व्याप्नुह्येभि लोकं जयास्मै शिवोस्मभ्यं प्रतिगृहीत एधि ।। १ ।।
अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे सुकृतां लोके ददिवांसं दधाति । वासं
पञ्चौदनो ब्रह्मणे दीयमान: स दातारं तृप्त्या तर्पयाति । ।२ ।।
अजोह्यग्नेरजनिष्ट शोकात् विप्रो विप्रस्य सहसो वयोधाः ।
हुतमिष्टमभिपूर्तं वषट्कृतं तद्देवा ऋतुश: कल्पयन्तु ।। ३ ।।
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
तथा लोकान् समाप्नुयाद् ये दिव्या ये च पार्थिवा: ।।४।।
एतास्त्वाज धारा: उप यन्तु विश्वत: सोम्या देवीर्घृतपृष्ठा मधुश्चुत: ।
स्तभान पृथिवीं दिवं सदस्व नाके तिष्ठास्यधि सप्तरश्मौ । ५ ।
पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद् दिवमारुहम् ।
दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम् ।। ६ ।।
अजो ऽस्यज स्वर्गो ऽसि त्वया लोकमङ्गिरसः प्राजानम् ।
तं लोकमनु प्र ज्ञेष्म ।।७ ।।
येना सहस्रं वहसि येन वा सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ।।८ ।।
अजं च पचत पञ्च चौदनान् ।
अजं पञ्चौदनान् पक्त्वा देवा लोकान् समानशुः ।।९।।
पञ्चौदनं पञ्चभिरङ्गुलीभिर्दर्व्योद्धर पञ्च चौदनमेतम् ।
प्राचीं दिशं दक्षिणां प्रतीचीमुदीचीं ध्रुवामूर्ध्वां दिशमाक्रमस्व । १० ।
१६-९९ 16.99
प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम्।
प्रतीच्यां दिशि भसदमस्य धेह्युदीच्यां दिश्युत्तरं धेहि पार्श्वम् ।।१।।
अजस्यानूकमूर्ध्वायां दिशि धेहि दिशि धेहि पाजस्यं ध्रुवायाम् ।
अन्तरिक्षे मध्यतो मध्यमस्य पद्भिश्चतुर्भि: प्रति तिष्ठ दिक्षु ।।२ । ।
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्।
स उत्तिष्ठ प्रेहि नाकमुत्तमं पद्भिश्चतुर्भि: प्रति तिष्ठ दिक्षु ।। ३ ।।
सर्वा दिश: संविदाना: सध्रीची: सान्तर्देशा: प्रतिगृह्णन्तु तेजम् ।
तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्यो जुहोमि हविषा घृतेन ।।४।।
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
सर्वं तदग्ने सुकृतस्य लोके जानीतान्न: सङ्गमने पथीनाम् ।।५।।
अजः पञ्चौदनो व्यक्रमत
तस्योर इयमभवदुदरमन्तरिक्षं द्यौ: पृष्ठं दिश: पार्श्वे ।। ६ ।। ईय
दितिश्चादितिश्च शृङ्गे सत्यं च ऋतं च चक्षुषी ।
विश्वरूपं श्रद्धा प्राणो विराट् शिरः ।।७।।
एष वा अपरिमितो यज्ञो यदज: पञ्चौदन: ।
अपरिमितं लोकं जयत्यपरिमितं लोकमवरुन्धे ऋन्धे
य एवं विदुषेजं पञ्चौदनं ददाति।।८।।
नास्यास्थीनि भिन्द्यान्न मज्ज्ञो निर्धयेत् ।
सर्वाणि समादायेदमिदं प्रवेशयेत्।।९।।
इदमिदमस्य रूप तेनैनं सं गमयति ।
स्वधामूर्जमक्षितिमहो अस्मै दुहे य एवं विदुषेजं पञ्चौदनं ददाति।।१०।।
16.100
इन्द्राय भागं सविता कृणोत्विमं यज्ञं यज्ञपतिश्च सूर: ।
ये नो द्विषन्त्यनु तान् रभस्वारिष्ठा वीरा यजमानस्य सर्वे ।१।
पञ्चलोका: पञ्चऋतव: ||
पञ्चषु तुतुष्टु घ्नोति य एवं विदुषेजं पञ्चौदनं ददाति । ।२ ।।
एष वै निदाघो यज्ञो यदजः पञ्चौदनः।
निरप्रियं भ्रातृव्यं दहति भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति।३।
यो वा आयन्तमित्यृतुं वेद।
आयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति।
य एवं विदुषेजं पञ्चौदनं ददाति।४।।
यो वै संयन्तमित्यृतुं वेद।
संयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति।
य एवं विदुषेजं पञ्चौदनं ददाति।५।।
यो वै संभवन्तमित्यृतुं वेद।
भवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति। ६।
यो वा अभिभवन्तमित्यृतुं वेद।
अभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति।।७।।
यो वा उद्यन्तमित्यृतुं वेद।
उद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति।।८।।
यो वै मूर्द्धानमित्यृतुं वेद।
मूर्ध्नीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना ।
परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति ।।९।।
यो वै सर्वमित्यृतुं वेद ।
सर्वामेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति ।
य एवं विदुषेजं पञ्चौदनं ददाति।।१०।।
यावन्त्यस्य लोमानि ब्रह्मणास्तृणोति वेद्याम् ।
तावतीरस्यधारा: समुद्रस्येवाक्षताः ।। ११ । ।
दुहां क्षीरं भवतु सर्पिरेभ्यः स्वराड् भूत्वोपतिष्ठत्सुराणाम्।
मधोर्धारामधुघेभ्यो दुहानोजो नाके तिष्ठतु मोदमानः ।।१२।।
16.101
स्कंम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । ।
स्कम्भ इदं सर्वमार्पितमेजत्प्राणं निमिषच्च यत् ।। १ ।। ।
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परिबभूव विश्वं यदस्यार्धं कतम: स केतुः ।। 1२ ।।
पञ्चवाहि वहत्यग्रमस्य प्रष्टयो युक्ता अनुसंवहन्ति । बह
अयातमस्य ददृशे न यातं परं नेदीयोवरं दवीयः ।।३।।
इदं सवितर्वि जानीहि षड् यमा एक एकजः।
तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ।।४।।
तिर्यग्बिलश्चमस उर्ध्वबुध्नो यस्मिन् यशो निहितं विश्वरूपम्।
तत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ।।५ ।।
तिस्रो ह प्रजा अत्यायमायन् न्य न्या अर्कमभितो विशन्त ।
बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ।६।
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । ।
तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये।।७।।
अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते । ।
ते नाकपालश्चरति प्रजानन् विद्वान् भूतं यदु भव्यमस्य ।।८ ।।
आविः सन्निहित गुहा जरन्नाम महत् पदम्।
तत्रेदं सर्वमार्पितमेजत् प्राणत् निमिषच्च यत् ।।९।।
ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदु: ।। १० ।।
१६- १०२ 16.102
ऊनात्पूर्णमुदचति पूर्णादूनमुदच्यते।
कविस्तद्ब्रह्मणा वेद यतस्तत् परिषिच्यते । । १ । ।
प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायत ।
अर्धन विश्वं भुवनं जजान यदस्यार्धं किमु तज्जजान ।२।
यदेजति चरति यच्च तिष्ठत्यप्राणात् प्राणन्निमिषच्च चेष्टत ।
तद्दाधार पृथिवीं विश्वरूपं तत् संभूय भवत्येकमेव ।३।
या: पुरस्ताद्युज्यते योत पश्चाद्या विश्वतो युज्यते योत सर्वत:।
यया यज्ञस्त्रायते प्राङ् तां त्वा पृच्छामि कतमा नु सर्चाम् ।। ४ ।।
यत: सूर्य उदेत्यस्तं यत्र च गच्छति ।
तदेव मन्येहं ज्येष्ठं ततो नात्येति किं चन । ५ ।
सत्येनोर्ध्वो स्तपति ब्राह्मणार्वाङ वि पश्यति ।
प्राणेन तिर्यङ् प्राणाति यस्मिन् ज्येष्ठमधि श्रितम् ।।६ ।।
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु।
सविद्वान् ज्येष्ठं मन्येत स विद्याद् ब्राह्मणं महत् ।।७ । ।
अपादग्रे समभवत् सो अग्रे स्वराभरत् ।
चतुष्पाद् भूत्वा भोग्य: सर्वमादत्त भोजनम् ।।८ ।।
भग्यो भवदथो अन्नमदद् बहु ।
यो वेदमुत्तरावन्तमुपासातै सनातनम् । ९ ।
सनातनमेनमाहुरुताद्य स्यात् पुनर्णवः ।
अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयो: । १० ।
16.103
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन्निविष्टम् ।
तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचते एष एतत् ।। १ ।।
आराग्रमात्रं ददृश उतैकं नेव दृश्यते ।
तत: परिष्वजीयसी देवता सा मम प्रिया ।२।
इथं कल्याण्यजरा मर्त्यस्यामृता गृहे |
धस्मै कृता शये स यश्चकार जजार स: ।३।
त्वं स्त्री त्वं पुमानसि त्वं कुमार्युत वा कुमारः । ।
त्वं जीर्णो दण्डेन भञ्जसि त्वं जातो भवसि विश्वतोमुखः ।।४।।
उतैष ज्येष्ठ उत वा कनिष्ठ उतैषां भ्रातोत वा पितैष: ।
एको देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ।।५।।
अनेनैत्येजति सर्वमस्मिन् विश्वा भूतानि पर्याभृतस्य ।
स पुमान् पुंसो जनयनृतेन सर्वानन्तान् गच्छति तिष्ठन्नेव । । ६ । । पूंसो
मध्ये दिवो निहित: पृश्निरश्मा विचक्रमाणौ रजसस्पात्यन्तौ । रस्मा
स विश्वाभिरभि चष्टे शचीभिरन्तरापूर्वमपरं च केतुम् । १७ ।
ये अर्वाङ् मध्य उत वा पुराणे वेदं विद्वांसमभितो वदन्ति ।
आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ।। ८ । ।
एकामृचं समिन्धते द्वादशभिरग्निभिः ।
तस्यामापस्तस्याङ्गावस्तस्यामोषधय: श्रिता: ।। ९ ।।
सप्त सुपर्णा उप धावन्ति वाणमनुष्टुभा संभृतं विश्वरूपं ।
तमाततं विततं तन्तुमाततं स न: पुनातु सलिलस्य पृष्ठे l१० ।।
सप्त ऋषय: प्रतिहिता: शरीरे सप्त रक्षन्तु सदमप्रमादम् ।
सप्तापः स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ
सत्त्रसदौ च देवौ ।।११।।
(ड्रति क्षुद्रकाण्डनाम षोडशकाण्डे षोडशो अनुवाक :)
16.104
भवाञ्शर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पद:।।१।।
शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ।
ये च कृष्णा अविष्यव:।
मक्षिका: ते पशुपते वयांसि ते विघसे मा विदन्त ।।२।।
क्रन्दाय ते प्राणाय ते याचते भव रोपयः । ।
नमस्ते रुद्र कृण्मः सहस्राक्षायमर्त्यः ।३ । ।
पुरस्तात्ते नम: कृण्म:, उत्तरादधरादुत ।
अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नम: ।।४।
मुखाय ते पशुपते यानि चक्षूंसि ते भव।
त्वचे रूपाय संदृशे प्रतीचीनाय ते नम: ।।५।।
अङ्गेभ्यो उदराय जिह्वाया आस्याय च।
दद्भ्यो गन्धाय ते नमः । ६ । ।
अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना।
रुद्रेणार्ध्वकघातिना तेनमा समरामहि।।७।।
स नो भवः परि वृणक्तु विश्वत
आपो इवाग्निः परि वृणक्तु नो भव: ।
मा नो अभि मांस्त नमो अस्त्वस्मै ।।८।।
चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।
तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा आादजावयः ।।९।।
तव चतस्रोः प्रदिशस्तव द्यौस्तवेदमुग्रोर्वन्तरिक्षम्।
तवेदं सर्वमात्मन्वद्यदेजदधिभूम्याम् ।। १० । । ।

16.105
उरु: कोशो वसुधानस्तवायं यस्मिन्निमा विश्वा भुवनान्यन्त: ।
स नो मृड पशुपते नमस्ते
पर: क्रोष्टारो अभिभा: श्वान: परो यन्त्वघरुदो विकेश्य: ।१।
धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्नि शतवधं शिखण्डिन्।
रुद्रस्येषुश्चरति देवहेतिस्तस्मै नमो यतमस्यां दिशीत: ।। २ ।।
योभियात निलयते त्वामुग्र निचिकीर्षति।
पश्चादनुप्रयुंङ्क्षे तं विद्धस्य पदनीरिव ।३।
भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय।
तयोर्भूमिरन्तरिक्षं स्वर्द्यौस्ताभ्यां नमो भवमर्त्त्याय कृण्मः।।४।।
नमस्ते अस्त्वायते नमो अस्तु परायते।
नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः।।५।।
नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा।
भवाय च शर्वाय चोभाभ्यामकरं नमः।।६।।
सहस्राक्षमतिपश्यं पुरस्ताद् रुद्रमस्यन्तं बहुधा विपश्चितम्।
मोपाराम जिह्वयेयमानम् ।।७।
श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम्।
पूर्वे प्रतीमो नमो अस्त्वस्मै।।८।। पुर्वे
मा नोभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।
अन्यत्रास्मद्दिव्यां शाखां वि धूनु ।।९।
मा नो नो हिंसीरधि नो ब्रूहि परि णो वृङ्ग्धि मा क्रुध: ।
मा त्वया समरामहि ।।१०।
16.106
मा नो अश्वेषु गोषु पुरुषेषु मा गृधो नो अजाविषु ।
अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ।। १ । ।
यस्य तक्मा कासिका हेतिरेकाश्वस्येव वृषण: क्रन्द एति ।
अभिपूर्वं निर्णयते नमो अस्त्वस्मै । ।२ ।।
यस्तिष्ठति विष्टभितो अन्तरिक्षे ऽयज्वन: प्रमृणन् देवपीयून् ।
तस्मै नमो दशभि: शक्वरीभिः ।३।
तुभ्यमारण्या: पशवो मृगा वने हितास्तुभ्यं वयांसि शकुना: पतत्रिण: । शुकु
तव यक्षं पशुपतेप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो मृधे ।। ४ ।।
शिंशुमारा अजगराः पुलीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान् प्रति पश्यसि भूमिम्।।५ ।।
पूर्वस्माद्धंस्युत्तरस्मिन् समुद्रे मा नो रुद्र तक्मना मा विषेण ।
मा न: सं स्रा दिव्येनाग्निना ऽन्यत्रास्मद्विद्युतं पातयैताम् ।।६।।
भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।
तस्य मा प्रापत् दुच्छुना का चनेह ।।७।।
भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ । ।
य: श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेस्य मृड ।८।।
मा नो महान्तमुत मा नो अर्भकं मा नः उक्षन्तमुत मा नो उक्षत: ।
मा नो हिंसी पितरं मोत मातरं स्वां तन्व रुद्र मा रीरिषो न: ।। ९ । ।
रुद्रस्यैलबकारेभ्यो ऽसंसूक्त गिरेभ्यः।
इदं महाश्वेभ्य: श्वभ्यो अकरं नम: ।
नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्य: ।
नमः संभुञ्जतीभ्य: नमो नमस्वस्तीभ्यो । । १० ।।
१६-१०७ 16.107
नमस्ते जायमानायै जाताया उत ते नमः ।
बालेभ्य: शफेभ्यो रूपायाघ्न्ये ते नमः । ।१ । ।
यो विद्यात् सप्त प्रवत: सप्त विद्यात् परावत: ।
शिरो यज्ञस्य यो विद्यात् स वशां प्रति गृह्णीयात् ।।२ । !
वेदाहं सप्त प्रवत: सप्त वेद: परावत: ।
शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ।३।
यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।
वशां सहस्रधारां ब्रह्मणाच्छावदामसि ।।४।।
शतं वत्साः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्या: ।
ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ।।५।।
यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी देवाङ् अप्येति ब्रह्मणा ।।६।।
अनु त्वाग्नि: प्राविशदनु सोमो वसे त्वा ।
ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ।।७ ।।
अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे। ।
तृतीयं राष्ट्रं धुक्षे ऽन्नं क्षीरं वशे त्वम् ।।८।।
यदादित्यैर्हूयमानोपातिष्ठ ऋतावरी।
इन्द्रः सहस्रं पात्रान् सोमं त्वापाययद् वशे।।९।।
यदनूचीन्द्रमैरात् त्व ऋषभो ऽह्वयत्।
तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धो ऽभरद् वशे।।१०।।
16.108
यत् क्रुद्धो धनपति: क्षीरं ते अभरद् वशे ।
इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति । । १ ।।
त्रिषु पात्रेषु तं सोममा देव्यभरद् वशा ।
अथर्वा यत्र दीक्षितो वर्हिष्यास्त हिरण्यये ।।२।।
सं हि सोमेनागत समु सर्वेण पद्वता ।
वशा समुद्रे प्रानृत्यदृच: सामानि बिभ्रती । ३ ।।
सं हि सूर्येणागत समु सर्वेण चक्षुषा ।
वशा समुद्रमध्यष्ठाद् गन्धर्वै: कलिभिः सह ।।४।।
सं हि वातेनागत समु सर्वैः पतत्रिभि: ।
वशा समुद्रमत्यख्यद् भद्रा ज्योतींषि बिभ्रती ।।५।।
तद् भद्राः समगच्छन्त वशा द्वेष्ट्यथो स्वधा
अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ।।६।।
अभीवृता हिरण्येन यदतिष्ठ ऋतावरि।
अश्व: समुद्रो भूत्वाध्यस्कन्दद् वशे त्वा ।।७।।
वशा माता राजन्यस्य वशा माता स्वधे तव।
वशाया यज्ञ - आयुधं ततश्चित्तमजायत ।।८ । ।
ऊर्ध्वो बिन्दुरुदचरद् ब्रह्मणः ककुदादधि।
ततस्त्वं यज्ञिषे वशे ततो होता अजायत।।९।।
आस्नस्ते गाथा ऽभवन्नुष्णिहाभ्यो बलं तव।
पाजस्याज्जज्ञे ते यज्ञ स्तनेभ्यो रश्मयो वशे ।। १० ।।
16.109
ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव। इर्मा शक्थि
आन्त्रेभ्यो अत्रा यज्ञिरे उदरादधि वीरुधः ।।१ । ।
यदुदरं वरुणस्यानुप्राविशथा वशे।
ततस्त्वा ब्रह्मोदह्वयत् स हि नेत्रमवेत्तव । ।२ ।।
सर्वे गर्भादवेपन्त जायमानादसूस्वः।
ससूव हि तामाहुर्वशेति ब्रह्मणा क्लृप्त उत बन्धुरस्या: ।।३।।
युध एक: सं सृजति यो अस्या एक इद्वशी ।
तरांसि यज्ञा अभवन् तरसां चक्षुरभवद् वशा ।। ।।।४।।
वशा सूर्यं प्रत्यगृह्णाद् वशा यज्ञमधारयत्।
वशायामन्तराविशदोदनो ब्रह्मणा सह ।५। बिश
वशामेवाहुरमृतं वशां मृत्युमुपासते।
वशेदं सर्वमभवद्देवा मनुष्या असुरा: पितर ऋषय: ।। ६ ।।
य एवं विद्यात् स वशां प्रति गृह्णीयात् ।
तथा हि यज्ञः सर्वपाद्दुहे दात्रे अनपस्फुरन् ।।७।।
तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।
तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा।।८।।
चतुर्धा रेतो अभवद् वशायाः आपस्तुरीयं अमृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्।
य एवं विद्यात् स वशां प्रति गृह्णीयात्।।९।।
वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः।
वशाया दुग्धमपिबन् साध्या वसवश्व ये ।।१०।।
16.110
वशाया दुग्धं पीत्वा साध्या वसवश्च ये।
इमे ब्रध्नस्य विष्टपि पयी अस्या उपासते ।१।
सोममेनामेके दुह्रे घृतमेक उपासते।
य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिव: ।२।
वशां दत्त्वा ब्राह्मणेभ्यः सर्वांल्लोकान् समश्नुते।
ऋतं ह्यस्यामाहितमपि ब्रह्माथो तपः ।।३। ।
वशां देवा उप जीवन्ति वशां मनुष्या उत।
वशेदं सर्वमभवद्यावत् सूर्यो विपश्यति ।।४।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे सप्तदशो अनुवाक:)
१६-१११ 16.111
यो वा एकं ब्रह्माऽनुष्ठ्या विद्यात् स वा अद्य महद् वदेत् ।
परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ।।१ ।।
छन्दांसि यस्य लोमानि परिस्तरणमिद्धविर्यजुर्हृदयमुच्यते ।
यदतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते । । २ ।।
यदभिवदति दीक्षामुपैति यदुदकं याचत्यप: प्र णयति ।
या यज्ञ आप: प्रणीयन्ते ता एव ता: ।। ३ ।।
यत् तर्पणमाहरन्ति योग्नीषोमीयः पशुर्बध्यते स एव सः ।
यत् खादमाहरन्ति पुरोडाशावेव तौ ।।४।।
यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत् कल्ययन्ति।
यदुपस्तृणन्ति बर्हिरेव तत् ।। ५ ।।
यत् कशिपूपबर्हणान्याहरन्ति परिधय एव ते ।। २ ।।
यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ।।६।।
यदभ्यञ्जनमाहरन्त्याज्यमेव तत् ।
यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ।।७।।
यद् व्रीहयो यद्यवा निरुप्यन्ते अंशव एव ते ऽन्यूप्यन्ते ।। ८ ।।
१६ – ११२ 16.112
उलूखल मुसलं ग्रावाणौ शूर्पं पवित्रं तुषा ऋजीषा।
स्रुग् दर्विर्नेक्षणमायवनं आपो ऽभिषवणी: द्रोणकलश: कुम्भ्यः ।१।
इदमेव कृष्णाजिनं वायव्यानि पात्राणि ॥
यजमानब्राह्मणं वा एतदतिथिपति: कृणुते
यदाहार्याण्यवेक्षत इदं भूया इदामिति ।२।
यदाह भूय उद्धरेति प्रजां चैव तेन पशूंश्च वर्धयते
प्राणमेव तेन वर्षीयांसं कृणुते ।३।
यत् संपृच्छति काममेव तेनावरुद्धे कामं हि पृष्ठो याचति ।
यदुदकमभिषिञ्चत्यप एव तेनावरुन्द्धे । ४ ।
यदुपहरति हवींष्या सादयति । तेषामासन्नानामतिथिरात्मनि जुहोति ।
स्रुक्कारेण वषट्कारेण स्रुचा हस्तेन प्राणे यूपे । ५ ।
16.113
तस्मान्नद्विषन्नद्यान्न द्विषतो ऽन्नमद्यान्न मीमांसितस्य न मीमांसमानस्य ।। १ ।।
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति । ।२ । ।
सर्वो उ एषो ऽजग्धपाप्मा यस्यान्नं नाश्नन्ति । । ३ । ।
प्रजापतेर्वा एष विक्रान्तमनुविक्रमते य उपहरति ।।४।।
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति 1५ ।
सर्वदा वा एष सुतसोम युक्तग्रावार्द्रपवित्र आहृतयज्ञक्रतुर्विततोध्वरो य उपहरति । । ६ । ।
योऽतिथीनां स आहवनीयो योऽन्नकरण: स दक्षिणाग्निर्यो वेश्मनि स गार्हपत्य: ।।७ । ।
इष्टं च वा एष पूर्तं चाश्नाति य: पूर्वोतिथेरश्नाति ।
प्रजां च वा एष पशूंश्चाश्नाति ।।८ ।।
ऊर्ज च वा एष पयश्च गृहाणामश्नाति य: पूर्वोतिथेरश्नाति ।। ९ ।।
एष वा अतिथिर्यच्छ्रोत्रियः तस्मात् पूर्वो नाश्नीयादशितावत्यश्नीयात्तद् व्रतम् ।।१०।।
यज्ञस्याविच्छेदाय यज्ञस्य गुप्तये यज्ञस्य सात्मत्वाय ।। ११ । ।
१६-११४ 16.114
यत् क्षीरमुपसिच्योपहरति यावदग्निष्टोमेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ।१।
यत् सर्पिरुपसिच्योपहरति यावत् साह्नेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे । २ ।
यन् मधूपसिच्योपहरति यावदतिरात्रेण समृद्धेनेष्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ।३।
यन् मांसमुपसिच्योपहरति यावद्द्वादशाहेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे !!४ ।।
यदुदकमुपसिच्योपहरति प्रजानां प्रजननाय योग्जीवति सर्वमायुरेति न पुनरा जरस: प्र मीयते य एवं वेद ।।५।।
१६-११५ 16.115
तस्मै वा उषा हिङ्कृणोति सविता भूत्या प्र स्तौति
बृहस्पतिरूर्जोयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम्।
निधनं भूत्याः प्रजाया: पशूनां भवति य एवं वेद । १ ।।
तस्मा उद्यन् सूर्यो हिङ्कृणोति सङ्गव: प्र स्तौति ।
मध्यन्दिन उद्गायत्यपराह्नः प्रतिहरत्यस्तंयन् निधनम् ।
निधनं भूत्या: प्रजाया: पशूनां भवति य एवं वेद ।।२ ।।
तस्मा अभ्रो भवन् हिङ्कृणोति विद्योतमानः प्र स्तौति
स्तनयन्नुद्गायति वर्षं प्रति हरत्युदगृह्णन् निधनम् ।
निधनं भूत्या: प्रजायाः पशूनां भवति य एवं वेद ।३।
अतिथीन् प्रति पश्यति हिङकृणोत्यभि वदति प्र स्तौत्युदकं
याचत्युद्गायत्युपहरति प्रति हरत्युच्छिष्टं निधनम् ।
निधनं भूत्या: प्रजायाः पशूनां भवति य एवं वेद ।। ४ । ।
१६-११६ 16.116
एते वै प्रियाश्चाप्रियाश्च ऋत्विजः स्वर्गं लोकं गमयन्ति यदतिथयः । । १ । ।
यत् क्षत्तारं ह्वयत्या श्रावयति ।। २ ।।
यत् प्रतिशृणोति प्रत्याश्रावयति ।।३।।
यत् परिवेष्टार आवसथान् प्रपद्यन्ते चमसाध्वर्यव एव ते तेषां वै न कश्चनाहोता । ३ ।।
यत् प्रातरुपहरति प्रातः सवनमेव तत् ।। ४ 1 ।।
यद्दिवोपहरति माध्यन्दिनमेव तत् सवनम् ।। ५ । ।
यत् सायमुपहरति तृतीय सवनमेव तत् ।। ६ ।।
यदतिथिपतिरतिथीन् परिविष्यासनं याचते अवभृथमेव तदुपावैति । ७ ।।
यत् सभागयति दक्षिणामेव तत् सभागयति यदनुतिष्ठत्युदवस्यत्वेव तत् । । ८ । ।
१६-११७ 16.117
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत् पृथिव्यां विश्वरूपम्। ३.
पृथिव्यां तपति पृथिव्यामाभाति स्वर्गलोक भवति य एवं वेद । । १ । ।
स उपहूतो अन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यदन्तरिक्षे विश्वरूपम्।
अन्तरिक्षे तपत्यन्तरिक्ष आभाति स्वर्गलोक भवति य एवं वेद । ।२ । ।
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ।
दिवि तपति दिव्याभाति स्वर्गलोक भवति य एवं वेद । । ३ । ।
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्देवेषु विश्वरूपम् ।
देवेषु तपति देवेष्वाभाति स्वर्गलोक भवति य एवं वेद ।। ४ ।।
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यल्लोकेषु विश्वरूपम् ।
लोकेषु तपति लोकेष्वाभाति स्वर्गलोक भवति य एवं वेद।५।।
१६- ११८ 16.118
यत् प्राङ्ग् आसीनो निर्वपति यज्ञाय च देवेभ्यश्चा वृश्चते ।। १ ।।
यद्दक्षिणामासीनो निर्वपति यमाय च पितृभ्यश्चा वृश्चते । ।२ । ।
यत् प्रत्यङ्ग् आसीनो निर्वपति वरुणायाप्सुषदे चा वृश्चते । । ३ ।। `
यदुदङ्ग् आसीनो निर्वपति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते।। ४ ।।
यदुपस्थं कृत्वासीनो निर्वपति भूमये चाग्नये चा वृश्चते । ५ ।
यदूर्ध्वकृरासीनी निर्वपति वायवे चान्तरिक्षाया चा वृश्चते ।।६।।
यदूर्ध्वस्तिष्ठन् निर्वपति दिवे चादित्याय चा वृश्चते ।।७ ।।
१६- ११९ 16.119
यं कामयेत पापीयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन स्यादिति ।
तस्यैवं निर्वपेत्तस्यैवं निरुप्यैवमेवानु निर्वपेत् ।
तवैव स पापीयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन भवतीदमिदं कुर्यात् सा प्रायश्चित्ति: । १ ।।
यं कामयेत वसीयान् छ्रेयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन स्यादिति ।
तस्यैवं निर्वपेत्तस्यैवं निरुप्यैवमेवानु निर्वपेत् ।
तवैव न वसीयान् छ्रेयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन भवतीदमिदं कुर्यात् सा प्रायश्चित्तिः ।२।
16.120
यदवहन्यमानस्य तण्डुलस्कन्दति समासमानस्य वरः प्रमायुषो भवति ।। १ ।।
यदिष्ट्वा भवति पितृदेवत्यं करोति ।२ ।।
यद् विष्यन्दते गृहाणाञ्च पशूनाञ्च पयो विष्यन्दते ।। ३ ।।
यदुपसिञ्चति गृहाणाञ्च पशूनाञ्च पयोपसिञ्चति ।। ४ ।।
यदायवनीय शीर्यते गृहपतिर्मियते ।।५।।
यद् दर्वी: शीर्यते गृहपत्नी म्रियते ।।६।।
यत् कुम्भी विकसति सर्वज्यानिदाता च प्रतिगृहीता च जीयते।।७।।
16.121
यत् प्राञ्चमुद्वर्तयति यज्ञाय च देवेभ्यश्चा वृश्चते । । १ ।।
यद्दक्षिणाञ्चमुद्वर्तयति यमाय च पितृभ्यश्चा वृश्चते ।।२ ।।
यत् प्रत्यञ्चमुद्वर्तयति वरुणायाप्सुषदे चा वृश्चते ।।॥३ ।।
यदुदञ्चमुद्वर्तयति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ।।४।।
यदनुद्वृतमुद्धरति दिशोदिशो वैनं भयमा गच्छति।५।।
१६ – १२२ 16.122
यत् प्राचीनं बर्हि: स्तृणाति यज्ञाय च देवेभ्यश्चा वृश्चते ।। १ ।।
यद्दक्षिणाचीनं बर्हि: स्तृणाति यमाय च पितृभ्यश्चा वृश्चते ।।२ । ।
यत् प्रतीचीनं बर्हि: स्तृणात्यकृतपूर्व करोति ।। ३ ।।
यदुदीचीनं बर्हिः स्तृणाति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ।।४।।
१६ – १२३ 16.123
यत् पुरस्तात्पात्रस्य श्छिरं करोत्यर्ष: प्रतिग्रहीतुर्मुखे जायते ।१।
यद्दक्षिणत: पात्रस्य श्छिरं करोति यमाय च पितृभ्यश्चा वृश्चते ।।२।।
यत् पश्चात् पात्रस्य श्छिरं करोति प्रतीची प्रतिग्रहितारं शरव्यछितु ।३ । ।
यदुतरत: पात्रस्य श्छिरं करोति
सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ।।४।।
१६- १२४
यच्छुक्रो भवत्यादित्यानामेव प्रियं धामोपैति ।
स य: शुक्रं प्राश्नीयादादित्यानां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्।
ततश्चैनमन्येन धाम्ना प्राश्नात्यादित्येभ्य वृश्चते ।१।
यत फलीकृतो भवति विश्वेषामेव देवानां प्रियं धामोपैति ।
स य: फलीकृतं प्राश्नीयाद्विश्वेषां त्वा देवानां प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्।
ततश्चैनमन्येन धाम्ना प्राश्नाति विश्वेभ्यो देवेभ्य आ वृश्चते । ।२ ।।
यद् फलीकृतो भवति मरुतामेव देवानां प्रियं धामोपैति ।
स यो फलीकृतं प्राश्नीयान्मरुतां त्वा देवानां प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति मरुद्भ्य आ वृश्चते ।। ३ ।।
यद् वक्षामो भवत्यग्नेरेव प्रियं धामोपैति ।
स यद वक्षामं प्राश्नीयादग्नेस्त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यग्नय आ वृश्चते ।।४।।
यदनवक्षामो भवति मित्रावरुणयोरेव प्रियं धामोपैति ।
प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नामि मित्रावरुणाभ्यामा वृश्चते ।। ५ ।।
यत् क्लिन्नो भवतीन्द्रस्यैव प्रियं धामोपैति ।
स यत् क्लिन्न प्राश्नीयादिन्द्रस्य त्वा प्रियेण धाम्ना प्राश्नामीत्येन प्राश्नीयात् । दीन्द्र
ततश्चैनमन्येन धाम्ना प्राश्नातीन्द्राया वृश्चते ।। ६ । ।
यत् क्लिन्नो भवति पितॄणामेव प्रियं धामोपैति ।
स यत् क्लिन्नं प्राश्नीयात्पितॄणां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति पितृभ्य आ वृश्चते ।।७।।
यत् क्षुद्रो भवत्यपामेव प्रियं धामोपैति ।
स यत् क्षुद्रं प्राश्नीयादपां त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यद्भ्य आ वृश्चते ।।८ । ।
यच्छिथिरो भवति दिशामेव प्रियं धामोपैति ।
स यत् शिथिर प्राश्नीयाद्दिशां त्चा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात्। प्राश्नि
ततश्चैनमन्येन धाम्ना प्राश्नाति दिग्भ्य आ वृश्चते।।९ ।।
यद् गलन्ती भवति प्रजापतेरेव प्रियं धामोपैति ।
स यद् गलन्तीनं प्राश्निया प्रजापतेस्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नाति प्रजापतय आ वृश्चते ।। १० ।।
यच्छुष्को भवत्यूर्ध्वनभस एव प्रियं धामोपैति । त्युर्ध्व
स यच्छुष्कं प्राश्नीयादूर्ध्वनभसस्त्वा प्रियेण धाम्ना प्राश्नामीत्येनं प्राश्नीयात् ।
ततश्चैनमन्येन धाम्ना प्राश्नात्यूर्ध्वनभसि आ वृश्चते ।। ११ ।।
16.125
यत् क्षीरमुपसिच्य प्रथमं प्राश्नाति किलासः प्रतिग्रहीतारं हन्ति ।१ ।।
यत् सर्पिरुपसिच्य प्रथमं प्राश्नाति शर्वः प्रतिग्रहितारं हन्ति ।२ ।।
यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः प्रतिग्रहितारं हन्ति । ३ ।।
यन् मांसमुपसिच्य प्रथमं प्राश्नातीशानः प्रति ग्रहितारं हन्ति ।।४।।
यदुदकमुपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् ।
ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्र मीयते य एवं वेद।।५।।
१६-१२६ 16.126
यत् प्राशिष्यन् पुरस्तादभिमृशति ।
प्राङ् प्रतिग्रहीतुः प्राण: प्र क्रामति ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ।१।
यत् प्राशिष्यन् दक्षिणत: प्रमृशति ।
दक्षिणा प्रतिग्रहीतुः प्राण: प्र क्रामति
ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ।२।
यत् प्राशिष्यन् उत्तरत: प्रमृशति ।
उदङ् प्रतिग्रहीतुः प्राणः प्र क्रामति
ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रज
द्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ।३।
यत् प्राशिष्यन् पश्चात् प्राञ्चमभिमृशति ।
शर्मणा चैवैनं तद्वर्मणा चाभिमृशति शर्म चैवास्मै वर्म च भवति जयत्योदनमोदनलोको भवति य एवं वेद ।।४।।
१६-१२७ 16.127
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि जिष्णवे योगाय
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ।१।
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगाय क्षत्रयोगैर्वा युनज्मि जिष्णवे योगाय
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ।२।
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ।३।
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।
जिष्णवे योगायान्नयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ।४।।
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेद्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।
विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता मापः स्थ । । ५ ।।
16.128
अग्नेर्भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।१।
इन्द्रस्य भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।२।।
सोमस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।३।।
वरुणस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।४।।
यमस्य भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।५।।
पितॄणां भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।६।।
बृहस्पतेर्भाग स्थ ।
अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये । १७ । ।
देवस्य सवितुर्भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त।
प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ।।८।।
१६- १२९
यो व आपोपां भागो अप्स्वन्तर्यजुष्यो देवयजन: ।
इदं तमति सृजामि तं माभ्यविनिक्षि ।
तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।१।
यो व आपोपामूर्मिरप्स्वन्तर्यजुष्यो देवयजन: ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या। २ ।।
यो व आपोपां वेगो अप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।३।
यो व आपोपां बिन्दुरप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि । विन्दु
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।४।।
यो व आपोपां गर्भो अप्स्वन्तर्यजुष्यो देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।।५।।
यो व आपोपां वत्सो अप्स्वन्तर्यजुष्यो देवयजनः
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।।६।।
यो व आपोपां वृषभो अप्स्वन्तर्यजुष्यो देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।।७।।
यो व आपो अश्मा पृश्निर्दिव्योप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं त स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।८।।
यो व आपोपां हिरण्यगर्भो अप्स्वन्तर्यजुष्या देवयजन:
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ।९।
यो व आपोपामग्नयो अप्स्वन्तर्यजुष्या देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या। १० ।
16.130
यदर्वाचीनमेकहायनादनृतं किं चोदिम ।
आपो मा तस्मादेनसो दुरितात्पान्तु विश्वत: ।१।
अरिप्रा आपो अपरिप्रमस्मत् ।
प्रास्मोदेनो दुरितं सुप्रतीका: प्र दु:ष्वप्न्यं प्र मलं वहन्तु ।।२ ।। बह
समुद्रं वो प्र सृजामि स्वां योनिमपीतन ।
अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ।। ३ । ।
१६ - १ ३ १ 16.131
विष्णो: क्रमो ऽसि सपत्नहा पृथिवीसंशितो अग्नितेजा: ।
पृथिवीमनु वि क्रमेहं पृथिव्यास्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
पूर्वजान् सपत्नान् ऽवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ।। १ ।।
विष्णो: क्रमो ऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
अन्तरिक्षमनु वि क्रमेहमन्तरिक्षात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
सहजान् सपत्नान् अवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ।। २ । ।
विष्णो: क्रमो ऽसि सपत्नहा द्यौसंशित: सूर्यतेजाः ।
दिवमनु वि क्रमेहं दिवस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
अपरजान् सपत्नानवैनान्वाधे अत्येनान् क्रामान्वपाङ् अपनुत्त: सपत्न: ।। ३ ।।
विष्णोः क्रमो ऽसि सपत्नहा दिक्संशितो वाततेजा: ।
दिशो अनु वि क्रमेहं दिग्भ्यस्तं निर्भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।। ४ ।।
विष्णो: क्रमो ऽसि सपत्नहाशासंशितो मनस्तेजा: ।
आशा अनु वि क्रमेहमाशाभ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।। ५ ।।
विष्णो: क्रमो ऽसि सपत्नहापसंशितो वरुणातेजा: ।
आपो अनु वि क्रमेहमद्भ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।। ६ । ।
विष्णो: क्रमो ऽसि सपत्नह ऋक्संशितो सामतेजा: ।
ऋचो अनु वि क्रमेहमृग्भ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।।७ ।।
विष्णो: क्रमो ऽसि सपत्नहा यज्ञोसंशितो ब्रह्मतेजा: ।
यज्ञमनु वि क्रमेहं यज्ञात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।।८ ।।
विष्णो: क्रमो ऽसि सपत्नहौषधीसंशितः सोमतेजा: ।
ओषधीरनु वि क्रमेहमोषधिभ्यस्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।।९ ।।
विष्णो: क्रमो ऽसि सपत्नहा कृषिसंशित: पुरुषतेजा: ।
कृषिमनु वि क्रमेह कृष्यास्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।। १० ।।
विष्णो: क्रमो ऽसि सपत्नहा प्राणसंशितोन्नतेजा: ।
दिशी अनु वि क्रमेहं प्राणात्तं निर्भजामो यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।। ११ ।।
१६ – १३२ 16.132
अगमं स्वरगमं ज्योतिरभ्यष्ठां विश्वा: पृतना अराती: ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामसि । १ । ।
सूर्यस्यावृत मन्वावर्ते दक्षिणामन्वावृतम् ।
सा मे द्रविणं यच्छन्तु सा मे ब्राह्मणवर्चसम् । २ ।।
दिशो ज्योतिष्मतीरभि पर्यावर्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ।। ३ ।।
सप्तऋषीनभि पर्यावर्त्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ।।४।।
ब्रह्माभि पर्यावर्त्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ।।५।।
ब्राह्मणानभि पर्यावर्त्ते ।
ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ।।६।।
यत्ते अन्नं भुवस्पत आक्षियेत पृथिवीमनु । भूव
तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ।।७।। भूव
यं वयं मृगयामहे तं वधै स्तृणवामहै।
व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ।।८।।
वैश्वानरस्य दंष्ट्राभ्यां मृत्युस्तं समधादभि ।
इयं तं प्सात्वाहुति: समिद्देवी सहीयसी ।। ९ ।।
राज्ञो वरुणस्य बन्धोसि
सो ऽमुमामुष्यायणममुष्या: पुत्रमन्ने प्राणे बधान ।
अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।।१० ।।
सो अस्यपर्वाणि प्र शृणातु सर्वा तन्मे देवाह्यनु जानन्तु विश्वे ।
यदग्ने तपसा तप उपप्रेक्षामहे वयम् ।
प्रिया: श्रुतस्य भूयाश्चायुष्मन्त: सुमेधसः । । १ १ ।।
१६ – १३३ 16.133
विराड् वा इदमग्रे ऽजायत तस्या जाताया अबिभेत् सर्वम् |
इयमेवेदं भविष्यति न वयमिति । ।१ । ।
सोदक्रामत् सा दक्षिणाग्नौ न्यक्रामत् ।
यज्ञर्त्तो वासतेयो भवति य एवं वेद ।२।
सोदक्रामत् सा गार्हपत्ये न्यक्रामत् ।
गृहमेधी गृहपतिर्भवति य एवं वेद ।३।
सोदक्रामत् साहवनीये न्यक्रामत् ।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ।।४।।
सोदक्रामत् सा सभायां न्यक्रामत्।
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ।।५।।
सोदक्रामत् सा समितौ न्यक्रामत् !
यन्यस्य समितिं समित्यो भवति य एवं वेद ।। ६ ।।
सोदक्रामत् सामन्त्रणे न्यक्रामत् ।
यन्त्वस्या मन्त्रणमामन्त्रणीयो भवति य एवं वेद ।।७।।
सोदक्रामत् सान्तरिक्षे चतुर्धा विक्रान्ता तिष्ठत्तां देवमनुष्या अब्रुवन्नियं तद् वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति तामुपाह्वयन्त ।
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ।।८।। सुनृ
तस्या बृहद्रथन्तरं च द्वौ स्तनावास्तां वृह
यज्ञायज्ञियञ्च वामदेव्यं च द्वौ ।। ९ ।।
ओषधीर्वै रथन्तरं देवा अदुह्रन् व्यचो बृहदपो वामदेव्यं यज्ञं यज्ञायज्ञियम् । वृह
ये ते वै विराज: कामधुगास्तना: ।
कामंकामं विराजं दुहे य एवं वेद ।।१०।।
१६-१३४ 16.134
सा वनस्पतीनागच्छत्तां वनस्पतयोघ्नत सा संवत्सरे समभवत् ।
तस्मात्संवत्सरे वनस्पतीनां वृक्णमपि रोहति वृश्चतेस्याप्रियो भ्रातृव्यो य एवं वेद । १ ।।
सा पितॄनागच्छत्तां पितरोघ्नत सा मासे समभवत् ।
तस्मात् मासे पितृभ्यो ददति स्वधावान् पितृषु भवति
प्र पितृयाणं पन्थां जानाति य एवं वेद । ।२ । ।
सा देवानागच्छतां देवा अघ्नत सार्धमासे समभवत ।
तस्मादर्धमासे देवेभ्यो जुहोति जुहोत्यग्निहोत्रं
प्र देवयानं पन्थां जानाति य एवं वेद ।३।
सा मनुष्यानागच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
तस्मादुभयद्युर्मनुष्याणामुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ।४।।
१६- १३५ 16.135
सोदक्रामत् सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति । १ ।
तस्या विरोचन: प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् । २ ।।
तां द्विमूर्धार्त्व्योधोक् तां मायामधोक् । ३ ।।
तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद।४।।
सोदक्रामत् सा पितॄनागच्छत्तां पितर उपाह्वयन्त स्वध एहीति ।।५।।
तस्य यमो वैवस्वतो वत्स आसीद्रजतपात्रं पात्रम् ।। ६ ।।
तामन्तको मार्त्यवोधोक् तां स्वधामधोक् ।। ७ ।।
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ।।८।।
सोदक्रामत् सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति । !९ ।।
तस्या मनुर्वैवस्वतो वत्स आसीत् पृथिवी पात्रम् ।। १० ।।
तां पृथी वैन्योधोक तां कृषिं च सस्यं चाधोक ।।११।।
तां कृषिं च सस्यं च मनुष्या उप जीवन्त्युपजीवनीयो भवति य एवं वेद । । १२ । ।
सोदक्रामत् सा देवानागच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ।। १३ ।।
तस्या इन्द्रो वत्स आसीत् दारु पात्रं पात्रम् ।। १४ ।।
तां सविताधोक तामूर्जामधोक् । १५ ।
तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद। १६ ।
सोदक्रामत् सा सप्तऋषीनागच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति । १७ । ।
तस्याः सोमो वत्स आसीच्छन्द: पात्रम् ।। १८ ।।
तां बृहस्पतिराङ्गिरसोधोक् तां ब्रह्म च तपश्चाधोक् ।। १९ । !
तद् ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद । २० ।
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।।२ १ ।।
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम्।।२२ ।।
तां वसुरुचि: सौर्य वर्चसोधोक् तां पुण्य गन्धमधोक्।। २३ ।।
तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ।।२४।।
सोदक्रामत्सा पुण्यजनानागच्छत्
तां पुण्यजना उपाह्वयन्ति तिरोध एहीति ।। २५ ! ।
तस्याः कुबेरो वैश्रवणो वत्स आसीदाम पात्रं पात्रम् ।। २६ । ।
तां रजतनाभिः काबेरकोधोक् तां तिरोधामधोक् ।। २७ । । धक्
तां तिरोधां पुण्यजना उप जीवन्ति तिरोधत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद । २८ । ।
सोदक्रामत् सा सर्पानागच्छत्तां सर्पा उपह्वयन्त विषवत्येहीति।।२९ ।।
तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम्।।३o ।
तं धृतराष्ट्र ऐरावतोधोक् तां विषमधोक् ।।३१।।
तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद !॥३२ ।।
तस्माद्यस्या अलाबुनाभिषिञ्चेन्मनसा त्वा
प्रत्याहन्मित्येनं प्रत्याहन्यात् ।। ३३ ।।
यत् प्रत्याहन्ति विषं प्रत्याहन्ति
न च प्रत्याहन्ति विषमनुप्रषिच्यते ।। ३४ ।।
विषमस्या प्रियं भ्रातृव्यं हन्ति य एवं वेद । ३ ५ ।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे ऊनविंशो ऽनुवाकः)
16.136
अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।
इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानाय गातुः ।।१ ।।
वेदिष्ट चर्म भवतु बर्हिर्लोमानि यानि ते ।
एषा त्वा रशनाग्रहीद् ग्रावा त्वैषोधि नृत्यतु । ।२ । !
बालास्ते प्रोक्षणी: सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये ।
शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ।३।
य: शतौदनां पचति कामप्रेण स कल्पते ।
प्रीता ह्यस्य ऋत्विज: सर्वे यन्ति यथा यथम् ।।४।।
ये ते देवी शमितार: पक्तारो ये च ते जना: ।
एते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषी: शतौदने ।।५।।
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिव: ।
हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ।।६।।
स तांल्लोकान् समाप्नोति येषु देवाः समासते ।
अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ।।७।।
वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।
आदित्या: पश्चाद् गोप्स्यन्ति साग्निष्टोममति द्रव ।।८ ।।
गन्धर्वाप्सरसो देवा रुद्राङ्गिरस्त्वा ।
एते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ।। ९ ।।
अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिश: ।
लोकान् सर्वानाप्नोति यो ददाति शतौदनाम् ।।१०।।
16.137
घृतं प्रोक्षन्ती सुभगा देवान् देवी गमिष्यति ।
पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ।१।
ये पितरो दिविषदो ऽन्तरिक्षसदश्व ये ये चेमे भूम्यामधि ।
तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ।२।
यत्ते शिरो ये च शृङ्गे यौ कर्णौ यै च ते अक्षौ ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु । ३ ।। सर्पी
यत्ते मुखं या जिह्वा ये दन्ता ये च ते हनू ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ! ।४।। सर्पी
यत्ते क्लोमा यद्धृदयं पुरीतत् सहकण्ठिका !
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।५ । ।
यत्ते यकृद् ये मतस्ने यान्यान्त्राणि याश्च ते गुदा: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।६।
यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च उदरम् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।७।
यत्ते मज्जा यान्यस्थीनि यन्मांसं यच्च लोहितम् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।८।।
यौ ते बाहू यौ ते अंसौ ये दोषणी या च ते ककुत् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।९।
यत् ते स्कन्धा या ग्रीवा या: पृष्ठीर्याश्च पर्शव: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु । १० ।
१६-१३८ 16.138
यौ त ऊरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् । उरु
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु । १ ।।
यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तना: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।२।
यास्ते जङ्घा या: कुष्ठिका हि ऋच्छरा ये च ते शफाः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।३।
यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु।४।।
अयन्ते स्तन आमिक्षामयं सर्पिरथो मधु।
अयन्ते सर्वकान् दुहां देवि शतौदने ।।५।।
क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा सा दातारं दिवं वह ।।६।।
उलूखले मुषले ये च चर्मणि यो वा शूर्पे तण्डुला: कणाः।
यद्वा वातो मातरिश्वा ममाथाग्निष्टद्धोता सुहुतं कृणोतु ।७।
अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदमभिषिञ्चामि वोहं तन्नो अस्तु
वयं स्याम पतयो रयीणाम् ।।८ ।।
१६-१३९ 16.139
प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्र: शिरो अग्निर्ललाटं यम: कृकाटं सोमो राजा मस्तिष्क: । स्कः
द्यौरुत्तरहनुः पृथिव्यधर । । १ ।।
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ताः पवमान: प्राणः ।
विश्वं वायुः कण्ठ: स्वर्गोलोकः कृष्णद्रं विधरणी निवेष्यः ।।२ । ।
रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वह:
श्येनः क्रोडो अन्तरिक्षं पाजस्यम् ।
मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी ।। ३ ।। ष्ठा
महादेवो बाहू बृहस्पतिः कुकुद् बृहती: कीकसा: ।
देवानां पत्नीः पृष्टय उपसद: पर्शव: ।। ४ ।।
इन्द्राणी भसद् वात: पुच्छं पवमानो बालाः ।
ब्रह्म च क्षत्रं च श्रोणी बलमुरू
धाता च सविता चाष्ठीवन्तौ ।।५।।
जङ्घा गन्धर्वाप्सरसः कुष्ठिका अदितिः शफाः ।
चेतो हृदयं यकृन्मेधा हरिमापितं व्रतं पुरीतत् ।।६।।
क्षुत् कुक्षिरिरा वनिष्ठुः पर्वता प्लाशिर्देवजना
गुदा मनुष्या आन्त्राण्यत्रा उदरमितरजना ऊबध्यं रक्षांसि लोहितम् ।।७ ।। कृक्षि
क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ।
समुद्रो वस्तिर्नदी सूत्री स्तनयित्नुरूधो वर्षस्य पतय स्तनाः ।।८ ।।
विश्वव्यञ्चाश्चर्मोषधयो लोमानि नक्षत्राणि रूपम् ।
अभ्रं पीबो मज्जा निधनम् ।
निधनं भूत्या: प्रजाया: पशूनां भवति य एवं वेद ।। ९ । ।
इन्द्र: प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यम:
प्रत्यङ तिष्ठन् धातोदङ तिष्ठन् सविता ।
तृणानि प्राप्त: सोमो राजा आवृत्त आनन्द: ।।१० । ।
इक्षमाणो मित्रो युज्यमानो वैश्वदेवो युक्त: प्रजापतिर्विमुक्त: सर्वम् ।
एतद्वै गोरूपम्।
उपैनं रूपवन्तः पशवस्तिष्ठन्ति य एवं वेद ।। ११ । ।
(ड़ति क्षुद्रकाण्डनाम षोडशकाण्डे विंशति अनुवाक:)
१६-१४० 16.140
श्रमेण तपसा सृष्टा ब्राह्मणा वित्तर्ते श्रिता ।१।
सत्येनावृता श्रिया प्रावृता यशसा परिवृता स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ।। २ ।। पर्यु
छन्दांसि रूपमङ्गिरसः सन्तापा ब्रह्म पदवायं ब्राह्मणो ऽधिपति: ।। ३ । ।
तामाददानस्य ब्राह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ।४।।
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मी: ।।५।।
16.141
ओजश्च तेजश्च सहश्च बलं च ।
वाक् चेन्द्रियं च श्रीश्च धर्मश्च । । १ । ।
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च ।
त्विषिश्च यशश्च वर्चश्च द्रविणं च । ।२ । ।
आयुश्च रूपं च नाम च कीर्त्तिश्च ।
पयश्च रसश्चान्नञ्चान्नाद्यञ्च । ३ । ।
प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ।
ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ।। ४ ।।
तानि सर्वाण्यपि क्रामन्ति क्षत्रियस्य ब्रह्मगवीमाददानस्य ॥९ ! ।
16.142
सैषा भीमा ब्रह्मगव्यघविषा कृत्या कूल्बजमावृता ।
सर्वाण्यस्यां क्रूराणि सर्वे च मृत्यव:
सर्वाण्यस्यां घोराणि सर्वे पुरुषवधा: ।।१ ।।
सा ब्रह्मज्यं ब्रह्मगव्यादीयमाना मृत्योः पड्बिष आ द्यति । ।२ । ।
मेनि: शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ।
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ।३।
वैश्वानर उद्वीता महादेवोपेक्षमाणा वज्रो धावन्ति हेति: सफानुत्खिदन्ती ।। ४ ।।
वाश्यमाना विस्फूर्जन्ति ब्रह्मगवी ब्रह्मज्यम् ।। ५ । ।
१६ - १४3 16.143
उग्रो देव: पुच्छं पर्यस्यन्ती सर्वज्यानि कर्णौ वरीवर्जयन्ती
राजयक्ष्मो मेहन्ती मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ।
सेदीरुपतिष्ठन्ती मिथोयोध: परामृष्टा
शरव्या मुखेपिनह्यमान।।१।।
ऋतिर्हन्यमाना गृध्रा हिताघविषा निपतन्ती तमो निपतिता।
अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य । ।२ ।।
१६-१४४ 16.144
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना देवहेतिर्हियमाणामतिर्हिता निर्ऋतिनिहिता ।
पाप्माधिधीयमाना पारुष्यमवधीयमाना प्रयस्ता विहिता । । १ ! !
घर्म: परिधीयमाना वैश्वानर: पर्याहिता विषं प्रयस्यन्ती तक्मा प्रयस्ता ।
मूलबर्हणी पर्याक्रीयमाणा क्षिति: पर्याकृता । २ । ।
अघं पच्यमाना पराभूति: पक्वा ।
शुगुद्ध्रियमाणाशीविष उद्धृता असंज्ञा गन्धेन । ।३ ।।
अभूतिरुपह्रियमाणा पराभूतिरुपहृता !
शर्वः क्रुद्धः पिश्यमाणा शिमिदा पिशिता । । ४ ।। कृद्धः
अवर्तिरश्यमाना निर्ऋतिरशिता । निऋर्ति
अशिता लोकाञ्च्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च।। ५ ।। च्छिन
16.145
तस्या आहननं कृत्या मेनिराशासनं वलग ऊवध्यमस्वगता परिह्वृता। उव
अग्नि: क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ।१।
सर्वास्याङ्गामूलानि वृश्चति छिनत्त्यस्य पितृबन्धून् परा भावयति मातृबन्धून् । वन्धू
विवाहां ज्ञातीन् सर्वानपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ।२।
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणी भवति क्षीयते ।
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादते । ३ ।।
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ।
क्षिप्रं वै तस्या दहनं परि नृत्यन्ति केशिनीराघ्न्याना: पाणिनोरसि कुर्वाणा: पापमैलबम् ।। ४ ।।
क्षिप्रं वै तस्य वास्तुषु गङ्गणं कुर्वते वृका: ।
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासीदिदं नु तात् ।।५।।
16.146
छिन्ध्याछिन्ध्य प्र छिन्ध्यपि क्षापय क्षापय !
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ।१।
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ।
ओषन्ती समीषन्ती ब्रह्मणो वज्रः ।। २ । ।
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ।
आ दत्से जिनतां वर्च इष्टं च पूर्तं चाशिष: ।। ३ । ।
आदाय जीतं जीताय लोके ऽमुष्मिन् प्र यच्छसि ।
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ।४।।
मेनि: शरव्या भवाघादघविषा भव ।
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागस: ।।५।।
त्वया प्रवृक्णं ऋदितमग्निर्दहतु दुष्कृतं ।
देवपीयुमराधसम् ।
वृश्च प्र वृश्च छिन्धि प्र छिन्धि कृन्त प्र कृन्त पिंश प्र पिंशौषसमोषो दह प्र दह ।
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह । ६ ।
१६-१४७ 16.147
यत्ते शीर्षणि दौर्भाग्यं शक्तं केशेषु निहितं ललाटे ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। १ ।।
यत्ते ध्रुवोर्दौर्भाग्यं कर्णयोरक्ष्णोर्हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।२ । ।
यत्ते मुखे नासिकायां दौर्भाग्यं वाच्योष्ठयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ३ ।।
यत्ते दत्सु दौर्भाग्यं जिह्वायां चुबुके हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ४ ।।
यत् ते मनसि संकल्पे दौर्भाग्यं प्राण आ हि तम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। १५ ।।
यत्ते हन्वोर्दौर्भाग्यं कण्ठे क्लोमसु विष्ठितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।६।।
यत्ते स्कन्धेषु ग्रीवासु दौर्भाग्यं कीकसास्वनूक्ये ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।७।।
यत्ते दोष्णो दौर्भाग्यं अंसयोरुप पक्षयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।८ ।।
यत्ते बाह्वोर्दौर्भाग्यमरत्न्यो: कल्मुषीरनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ९ ।।
यत्ते हस्तयोर्दौर्भाग्यं अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु । १० ।
16.148
यत्ते पृष्ठेषु दौर्भाग्यं जघने स्फिजोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। 1१ ।।
यते उरसि दौर्भाग्यं पार्श्वयो: स्तनयोर्हितम्।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु । ।२ ।।
यते हृदये दौर्भाग्यं नाभ्यां वक्षणा अनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ३ ।।
यते पिह्न दौर्भाग्यं यद् वा यकनि वृक्कयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।४।।
यत्ते गुदास्वन्त्रेषु दौर्भाग्यमुदरे हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ५ ।।
यत्ते वस्तौ दौर्भाग्यं वनिष्टौ प्लाशावाहितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।६ ।।
यत्ते भसदि दौर्भाग्यं यद् वायाशुषु मुष्कयोः ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ७ ।।
यत्ते श्रोण्योर्दौर्भाग्यमवचालूखयोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।८ ।।
यत्ते उसति दौर्भाग्यमूर्वोर्जानुनोर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।९।। , ।
यते जंघयोर्दौभाग्यं स्थूरयो पार्ष्ण्योर्हितम् । पाष्ण्यो
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। १० । ।
१ ६-१४९ 16.149
यत्ते गुल्फयोदौर्भाग्यं पादयोरङ्गुलीरनु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। १ ।।
यत्ते परुषु दौर्भाग्यं मांसे अस्थिषु मज्जसु ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। २ ।।
यत्ते किं च दौर्भाग्यमङ्गेष्वङ्गेषु प्रतिष्ठितम् ।
यद् वा लोमसु विष्ठितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ३ ।।
यते अक्षेषु दौर्भाग्यं प्राहायामधिदेवने ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।४।।
यते पशुषु दौर्भाग्यं कृष्यामशनेर्हितम् ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। ५ ।।
या ते लक्ष्मीर्भ्रूणहत्याथो या ते अपुत्रता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।६ ।।
यत्ते ऽदृष्टं पितृषद्यमथो या ते अपत्यता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।७।।
या ते का च पापी लक्ष्मीरथो या ते अपशुता ।
अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।।७।।
कण्ठदघ्ना महिमार्त्तिमृणां देवेभ्यः किल्विषं यद् बभूव । ।
इमास्तदापः प्र वहन्तु रिप्रं पुनातु मा शतधारं पवित्रम् ।।८ ।।
स्नाहि रिप्र शमलं च सर्वं कृष्णे चेले सादयित्वा पापम् ।
हित्वावर्तिं निर्ऋतिं मृत्युपाशान् सूर्यज्योतिरभ्येह्यग्निम् ।। ९ ।।
उद्यन्तो अस्मान्महत: समुद्रान् मुच्यमानो अंहसः पाप्मनश्च ।
पुनर्मन: पुनरायुर्न आगन् मा दभन् पणयो यातुधाना: ।। १० ।।
अवरिप्रमनिक्ष्ममह्यशस्तिमध्यात्मान: ।
वर्च आ धीयतां मयि तेज आ धीयतां मयि ।
प्राणापानौ मा मा हासिष्टं सर्वमायुरशीय ।।११।।
16.150
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि षीमतः सुरुचो वेन आवः । यज्ञा
स बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च वि व: । १ ।
ब्रह्मभ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् ।
ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मदपहन्तु शमलं तमश्च ।। २ ।।
प्रतीचीरायतास्थिता वितता: पश्यामहै ।
समुद्रे अप्सु या हिता: सुराणामयस्मयै ।। ३ ।।
हरिः सुपर्णो दिवोमारुहोर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।
अव तां जहि हरसा जातवेदोबिभ्यदुग्रोर्चिषा दिवमा रोह सूर्य ।।४।।
अयोजाला असुरा मायिनोयस्मयै: पाशैरङ्किनो ये चरन्ति ।
तां स्ते रन्धयामि हरसा जातवेद:
सहस्रभृष्टि: सपत्नान् प्रमृणन् याहि वज्र: !!५ ।।
देवानामधिपा एति घर्म ऋतेन भ्राजन्नमृतं वि चष्टे ।
हिरण्यवर्णो नभसो देव सूर्य
घर्मो भ्राजं दिवो अन्तां पर्येषु विद्युता ।।६।।
वि द्योतन्ते विद्युतो अग्निजिह्वा हिरण्यवर्णा अमृता अप्स्वन्तः समुद्रे ।
रुद्रस्य क्षिपण: स्तनयित्नोर्विद्युत्तस्य वैश्वानरस्य हेति: परि णो वृणोक्तु ।।७।।
विद्युता भ्राजन् ह्रदं यात्यग्निर्व्याघ्रा अप्सुषदो यत्र भीमाः ।
विष्णो: क्रमै: स्तनयन्नेति रुद्रो नुदञ्छत्रून् विमृधो वाधमानोसपत्ना: प्रदिशो मे कृणोतु ।।८ । ।
अपो वसानः समैत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।
वैश्वानर: शमय: शीतरूरे अपां सुपर्णो दिव एति पृष्ठे।९।
वैश्वानर: समुद्रं पर्येति शुक्रो घर्मो भ्राजन् तेजसा रोचमान: ।
नुदञ्छत्रून् प्रदहन् मे सपत्नानादित्यो द्यामध्यरुक्षद् विपश्चित्।। १० ।।
१ ६- १५ १ 16.151
वैश्वानर: संतप्यत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।
शिक्षन्त्यस्मा अभिषुण्वन्ति सोममृतेन भ्राजन्नमृतं वस्ते अत्की ।। १ । ।
रारह्येते नीलयते शीतरूरे तन्वावस्यभीमे ।
रूपाण्येति बहुधा वसानो ग्रहान् कृण्वानस्तन्वः पराची: ।।२ । ।
पञ्चारे चक्रे परिवर्तमाने समारोहन्ति भुवनानि विश्वा ।
तस्यनाक्षस्तप्यते भूरिभार: सनादेव न छिद्यते सनाभि: ।३।
पञ्चाभिस्तप्तस्तपत्येष एतत्सहस्र धामानि मनुतिष्ठन्त्येनम् ।
सप्त त्वा सूर्य हरितो वहन्ति ब्रह्मणादित्य स्त्रिवृता मुखेन ।।४।।
वि द्योतन्ते द्योतत आ च द्यतते अप्स्वन्तरमृतो घर्म उद्यन् ।
हन्ता वृत्रस्य हरितामनीकमनाधृष्टास्तन्वः सूर्यस्य ।। ५ । ।
घर्म: पश्चादुत घर्मः पुरस्तादयोदंष्ट्राय द्विषतोपि दध्म: ।
वैश्वानरः शीतरूरे वसान: सपत्नान् मे द्विषतो हन्तु सर्वान् ।।६।।
ऋतूनृतुभि: श्रपयति ब्रह्मणैकवीरो घर्मः शुचान: समिधा समिद्ध: ।
ब्रह्म त्वा तपति ब्रह्मणा तेजसा च ।।७।।
ब्रह्म जज्ञानं प्रथमं समाददे तज्जायमानं न विभिते न विद्यते । यज्ञा
तदङ्गमानं पितरं व्याहन्ति तस्य नाड्यातता विततास्तता उता: ।। ८ ।।
असयज्जान: स्वराजभारो य इं जजान स्वजासु भर्त्ता ।
प्रजापति: प्रजाभि: सम्विदान: स्त्रिणि ज्योतींषि दधते नपाक: ।।९।। तीषिं
प्रजापतिश्चरति गर्भे अन्त: स्वजायमानो बहुधा प्र जायते ।
तस्य पदमभि पश्यन्ति वेधसस्तस्मिन्नार्पिता भुवनानि विश्वा । । १० ।।
१ ६- १५२ 16.152
यस्मिन्देवः पितरो मनुष्या अरानाभाविव श्रिताः ।
अपां त्वा पुष्पं पृच्छामि यत्र तन्मायया हितम ।१।
यत्रापां पुष्पं निहितं मायया निहितं गुहा ।
यो वै तद्विद्यात् प्रत्यक्षं स विद्याद् ब्राह्मणं महत् । ।२ ।।
मणिस्त्रिसूत्रो निहित: स्वर्यदूर्ध्वस्त्रियङ् विश एति प्रजानन् ।
स पुमान् पुंसो जनयनृतेन सर्वानन्तान् गच्छति सद्य एव ।। ३ ।।
सर्वां रात्रिं सहोषत्वादित्यो जातवेदसा ।
अग्नेरधि दिवमारोहन्नायुषा समनक्तु मां वर्चसा सं सृजतु माम् ।।४।।
घर्म: साहस्र: समिधा समिद्धोसपत्नाः प्रदिशो मे कृणोतु ।
सपत्नान् सर्वान् मे सूर्यो हन्तु वैश्वानरो हरिः ।।५ ।।
घर्मस्तप्त प्र दहतु भ्रातृव्यान् द्विषतो वृका ।
आदत्ताञ्छत्रूनादित्य उद्यन्सूर्य: पृतन्यतः ।।६ ।।
वैश्वानर: प्र दहतु भ्रातृव्यान् द्विषतो वृषा ।
उद्यन् मे शुक्र आदित्यो विमृधो हन्तु सूर्य: ! ।।७ ।।
शुक्रं सुवर्णं हरिं ब्रह्मभ्राजदजस्रं ज्योतिर्दिवमाततान ।
हरि: सुवर्णः प्रमथिष्णुराशु: सपत्नान् हन्तु महता वधेन ।।८ ।।
हरि: सुवर्ण: सृजत्वभयंकरो हिरण्यवर्णो दुरितादाप आशुः ।
सपत्नान् सर्वान् मे सूर्य आदित्यं हन्तु रश्मिभि: ।।॥९ ।।
महान्तमर्थं परिसद्य एत्यहोरात्रे विततश्च्छुक्र उद्यन् ।
सपत्नान सर्वान मे सूर्यों हन्तु वैश्वानर दहन्।१०।।
उद्यन्नद्य चित्रमह: सपत्नान् मेव जहि ।
दिवैनान् रश्मिभिर्जहि रात्र्यैणांस्तमसा वधीस्ते यन्त्वधमं तम: ।। ११ ।।
तेजस्तपांसि मुखतो बिभर्ष्यानन्दं भूतं महसि: प्रतिष्ठाम् ।।
पर्यूहमाण: श्रियमेषि सर्वतो मोघं सत्यं यश उद्यतं ते ।।१२।।
16.153
ब्रह्मचारिष्णश्चरति रोदसी उभे यस्मिन् देवा: संमनसो भवन्ति ।
स दाधार पृथिवीं द्यामुतामुं स आचार्यं तपसा पिपर्तु ।१।
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्त: ।
तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवा: ।। २ ।।
ब्रह्मचारिणं पितरो मनुष्या देवजना गन्धर्वा एनमनुयन्ति सर्वे ।
त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वाङ् स देवांस्तपसा पिपर्त्ति ।।३।। त्रयस्त्रीं
इयं समित् पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलावी श्रमेण लोकांस्तपसा पिपर्ति ।४।।
पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम्।। ५ ।।
ब्रह्मचारी समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः । ।
स सद्य एति पूर्वादपरं समुद्रं लोकान् संगृभ्य मुहुराचरिक्रत्।६।
ब्रह्मचारी जनयन् ब्रह्मापो लोकान् प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो भूत्वा असुरांस्ततर्हि । । ७ । ।
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
ते ब्रह्म कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ।।८ ।।
आचार्यस्ततक्ष नभसी उभे उर्वी गम्भीरे पृथिवीं दिवं च ।
ते ब्रह्मचारी तपसाभि रक्षति तयोर्देवाः सदमादं मदन्ति । । ९ ।।
अर्वागन्य: परो अन्यो गुहा निधी निहितौ ब्राह्मणस्य ।
तौ ब्रह्मचारी तपसाभि रक्षति तत् केवलं कृणुते ब्रह्म विद्वान् ।।१०।।
16.154
अर्वागन्यो दिवस्पृष्ठादितो ऽन्य: पृथिव्याग्नी समेतो नभसी अन्तरेमे ।
तयो: श्रयन्ते रश्मयोधि दृढ़ास्ताना तिष्ठति तपसा ब्रह्मचारी।१।
अभिक्रन्दन्नरुणः शितिङ्गो बृहच्छेपोनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्र: ।।२ ।।
पर्जन्यो मृत्युर्वरुणः सोम ओषधय: पय: ॥
जीमूता आसन् सत्वानस्तैरिदं स्वराभरन् ।। ३ ।।
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
तेषामर्चींषि पृथगभ्रे चरन्ति तेषामाज्यं पुरुषो वर्षमश्वः ।।४।।
अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणो यद्यदैच्छत् प्रजापतौ।
तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रो अध्यात्मनः ।।५।।
आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापति: ।
प्रजापतिर्वि राजति विराडिन्द्रोभवद् वशी ।६।
ब्रह्मचर्यण तपसा राजा राष्ट्रं वि रक्षति ।
आचार्यो ब्रह्मचर्यण ब्रह्मचारिणमिच्छते ।।७।।
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीर्षति ।।८।।
ब्रह्मचर्येण तपसा देवा मृत्युमुपाजयन् ।
इन्द्रो ह ब्रह्मचर्येणामृतं स्वराभरत् ।। ९ ।।
ओषधयो भूतभव्यमहोरात्रे वनस्पतय: ।
संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिण: ।। १० ।।
16.155
पार्थिवा दिव्या: पश्व आरण्या ग्राम्याश्च ये ।
अपक्षा: पक्षिणश्च ये ते जाता ब्रह्मचारिण: ।। १ ।। रीणः
पृथक् सर्वे प्राजापत्याः प्राणाङ् आत्मसु बिभ्रति ।
सर्वास्तान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ।।२ ।।
ब्रह्मचारी ब्रह्मभ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोता: ।
स स्नातोः बभ्रुः पिङ्गल: पृथिव्यां बहु रोचते । । ३ ।।
देवानामेतत् परिपूतमनभ्यारूढं चरति रोचमानम् ।
तस्मिन् सर्वे पशवस्तत्र यज्ञस्तस्मिन्नन्नं सह देवताभिः ।। ४ । ।
प्राणापानौ जनयन्नाद्व्यानं चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् ।
वाचं श्रेष्ठां यशो अस्मासु धेहि ।।५।।
अन्ने रेतो लोहितमुदरं तानि कल्पम् ।
ब्रह्मचारी सलिलस्य पृष्ठे तपोतिष्ठत् तप्यमानः समुद्रे ।।६।।
(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वाविंशति अनुवाकः)
इत्यथर्ववेदे पैप्पलाद संहितायां क्षुद्रकाण्डनाम षोडशकाण्डः समाप्तः