प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः १

प्रकाशसंहिता
अध्यायः १
[[लेखकः :|]]
द्वितीयपरिच्छेदः, अध्यायः २ →

द्वितीयपरिच्छेदः

अथ प्रथमोऽध्यायः

श्रीहंस उवाच


कञ्जस्थितः स्वयं ब्रह्मा नापश्यत्सर्वगं हरिं ।
यत्नवानपि तत्पूर्वमनसीत्थमचिन्तयथ् ।। १.१ ।।

भावरूपाज्ञानमानिन्यपि दुर्गाजगद्गुरोः ।
नित्यानुग्रहपात्रत्वात्पुत्र(उच्च)त्वाच्च रमा मम ।। १.२ ।।

स्वोपासनारतत्वाच्च नाज्ञानं भावरूपकं ।
इच्छतिस्म सलिङ्गस्यानाद्यविद्यायुतस्य च ।। १.३ ।।

स्वकीयस्येन्दिरेषन्मे ह्यभिप्रायं शिवादयः ।
अविदित्वान्यथाब्रूयुः दुर्गाज्ञानप्रदैव सा ।। १.४ ।।

न समर्थाज्ञानदाने विधेरित्यसुराश्रयाः ।
इत्यज्ञावाक्यैर्मा(तुर्मेऽयशसः कारणं वचः ।। १.५ ।।
मेह्ययशः कारणं न च

तत्राहं संमतो मातुः कीर्त्यर्थं प्रार्थयामि तां ।
दुर्गामिति तथा चक्रे तेनादात्सस्य संशयं ।। १.६ ।।

दत्वाज्ञानं क्षणार्धन्तु स्वभर्तुर्भक्तिमातनोत् ।
भयशोकौ च तेनासावज्ञोभीतो बभूव हा ।। १.७ ।।

तदज्ञनं भावरूपं चतुर्वारं हरेर्भयं ।
शोको द्विवारं रमया प्रार्थितो जगदीश्वरः ।। १.८ ।।

ददावलोचनाभाव दशायां नियमः कृतः ।
वृत्यज्ञानस्य बहुशः सम्भवाद्ब्रह्मणोपि तु ।। १.९ ।।

संख्याविशेषस्योक्तत्वात्भावाज्ञानं वदन्ति तत् ।
ततस्त्वित्थं संशयोभूत्त्रिवारं पद्मजन्मनः ।। १.१० ।।

स्वतः पद्ममिदं जातं किंपुंसान्येन केनचित् ।
इति सञ्चिन्त्य पुंस्यैव जातं नैव जडस्य तथ् ।। १.११ ।।

स्वतः प्रवृत्तिर्घटते ज्ञानेच्छादेरभावतः ।
अहं पद्मेन वा जातः मत्सृष्टिः पुरुषेण वा ।। १.१२ ।।

इति संश्चित्य मत्सृष्टिः पुरुषेणै नो वा ।
इति निश्चित्य स पुमान्स्वतन्त्रो वास्वतन्त्रकः ।। १.१३ ।।

इति सञ्चिन्त्यास्वतन्त्रः कथं मां स्रष्टुमर्हति ।
तस्मात्स्वतन्त्राज्जातोहं तं पस्यां पुनरुत्थितः (पश्येयं) ।। १.१४ ।।

इति नालं प्रविश्यान्तः नापश्यत्पुनरुत्थितः ।
कञ्जस्थ आस तज्ज्ञानं विपरीतमजस्य हि ।। १.१५ ।।

बहिर्नदृष्टः स कथमन्तर्दृष्टि प(क)थं व्रजेत् ।
ततः प्रचण्डवातोत्थाद्भूमिर्मज्जलकम्पिताथ् ।। १.१६ ।।

पद्मात्पतन्निव महाभयग्रस्थो बभूव ह ।
तदा क्षणार्धं शोकोभूद्ब्रह्मणः परमेष्ठिनः ।। १.१७ ।।

सृष्ट्वा कालं महाकालं मानिनं विधिमातनोत् ।
कालावासाने त्वासन्ने तङ्ग्रनिष्यति चाददथ् ।। १.१८ ।।

आस्यं नृसिह्मस्तु तदा भयशोकान्वितो भवत् ।
अत्रैव तत्कारणेन भावाज्ञानयुतो भवेथ् ।। १.१९ ।।

नान्यत्र दुःखाज्ञानाद्यं य(म)दुक्तं तन्मृषैव हि ।
ततस्तपतप इति विष्णोरेव वचो शृणोथ् ।। १.२० ।।

ततो ध्यानं जगद्धातुः कृत्वा पश्यत्ससर्वगं ।
ब्रह्मा ददर्श वैकुण्ठं हरेर्लोकं महाद्भुतं ।। १.२१ ।।

पूर्वोक्ताशेषसुमहाविशेषार्थगुणोन्नतं ।
दृष्ट्वा तुष्टाव नत्वेशं कृतार्थोभूत्सकञ्जजः ।। १.२२ ।।

सर्वाधिपत्यं तस्यादात्सर्वज्ञत्वं विकुण्ठपः ।
तद्वशोभूत्स्वतन्त्रोपि भगवान्भक्तवत्सलः ।। १.२३ ।।

द्विसप्तमनुभोगार्हकालं धातुरहो व्यधात् ।
यथा तथा रात्रिकालं व्यभजद्भगवान्विभुः ।। १.२४ ।।

तत्राद्यरात्रिभागे तु साङ्गंब्रह्माण्डमातनोत् ।
तत्राण्डनामको विष्णुः प्रविश्यान्तः समेधयथ् ।। १.२५ ।।

रात्रिद्वितीयभागे तु पद्मनाभस्य नाभितः ।
संसृष्टस्यान्यभागेन लोकपद्मं व्यधाद्धरिः ।। १.२६ ।।

पद्माग्रगं च ब्रह्माणं तदज्ञानभयादिकं ।
तच्छान्तिं तस्य तद्भक्त्युद्रेकं तस्य तपस्थितिं ।। १.२७ ।।

तस्मिन्पूर्णानुग्रहं च कृतवान्हरिरूर्जितं ।
रात्रि तृतीयभागे तु वैकुण्ठमतिसुन्दरं ।। १.२८ ।।

ससर्ज तल्लोकपतिरजस्यादर्शयद्धरिः ।
स दृष्ट्वा तं विदध्यौ मुक्तामुक्तेश्वरं हरिं ।। १.२९ ।।

चतुर्थांशे निशायांश्च विराट्सृष्टिं ददर्श ह ।
दृष्ट्वा द्विसप्तलोकेषु विराट्देहस्थितान्सुरान् ।। १.३० ।।

सूक्ष्मदेहस्थान्पूर्वमनिरूद्धात्ससूक्ष्मकान् ।
तथाजस्तत्र तत्रैव स्थूलदेहयुतान्व्यधाथ् ।। १.३१ ।।

अण्डनिर्माणकाले तु ह्यसंसृष्टानि सर्वशः ।
तत्वान्यादाय संयोज्य तत्रिधाव्यभजद्धरिः ।। १.३२ ।।

अण्डं तदादितश्चक्रे द्वीतीयेनाब्जमातनोत् ।
तृतीयं तु त्रिधाभित्वा पुनरेकैकशास्त्रिधा ।। १.३३ ।।

देवोपदेवमर्त्यानां स्थूलान्यादैस्त्रिभिर्व्यधात् ।
द्वितीयांशैस्त्रिभिस्थूलान्यासुराणां श्री हरीच्छया ।। १.३४ ।।

इति श्री प्रकाशसंहितायां द्वतीयपरिच्छेदे प्रथमोऽध्यायः