अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


कस्मिंश्चित् चलचित्रे विदूषकत्वं कुर्वाण: चलचित्रस्य गीतानि च गायन् अध्यापक: किं बालकं प्रतिभाशालिनं विधातुं शक्नुयात् ? विशेषाभ्यासात् वा वयं किं बालं प्रतिभावन्तं कर्तुं शक्नुयाम ? जन्मत: एव किं बाल: प्रतिभाशाली भवति ? सप्ततिं वर्षाणि जीवित्वा विद्युद्दूरभाषाद्यनेकाविष्कारकर्ता थामस्-अल्वा-एडिसनाख्य: वैज्ञानिक: दरिद्रजनपुत्र: आसीत् । स: उक्तवान् आसीत् - ‘प्रतिभावत: बालकस्य निर्माणे प्रेरणाया: पात्रम् एकप्रतिशतमात्रं, परिश्रमशीलताया: पात्रं नवनवतिप्रतिशतम्’ इति । परिश्रमशीलता अस्ति चेत् तदनु एव बाल: ‘प्रतिभाशाली’ इति उपाधिं प्राप्तुम् अर्हेत् । सेनेकोऽभिध: रोमदेशीय: कश्चित् विद्वान् कथयति यत् बालके मानवताबिन्दु: आवश्यक:, स: बाल: अन्येभ्य: पृथग्लक्षणशाली अपि भवेत् इति ।

थामस् अल्वा एडिसन: वामेन कर्णेन पूर्णत:, दक्षिणेन कर्णेन 80% च बधिर: आसीत् । 121 वर्षेभ्य: प्राक् स: जन्म लब्धवान् (फेब्रवरीमासे एकादशे दिनाङ्के) । मध्यमवर्गीयस्य कस्यचित् जनस्य सप्तसु पुत्रेषु अन्यतम: आसीत् स: । जन्मानन्तरं चत्वारि वर्षाणि यावत् स वक्तुं न प्राभवत् ।

Cerebral lobes.png

अमीरखानतुल्य: विदूषकायमाण: कश्चन शिक्षक: तेन न लब्ध: आसीत् । 38 विद्यार्थिभि: सह अधीयान: द्वादशवर्षवया: स: अध्ययने दत्तचेता: न आसीत् । तस्य अध्यापक: तस्मात् उद्विग्न: । माता निर्णीतवती यत् विद्यालयात् आनीय स: गृहे एव अध्यापनीय: इति । विशेषत: तं सा पठनरसिकं विहितवती । काव्यानि अपि सा श्रावितवती । 11 वर्षवयसं तं सा कस्यचित् पुस्तकालयस्य सभ्यं कृत्वा कथितवती यत् इदानीं पुस्तकानि पाठं पाठम् एव त्वया शिक्षकेण भाव्यम् इति । पुस्तकालयस्य कस्यचित् विभागस्य समस्तानि पुस्तकानि तेन पठितानि । अत्र स्मर्तव्यं यत् चलचित्राणि शृण्वन् बाल: प्रतिभाशाली न भवति इति । द्वादशवर्षवया: एव स: ‘एनेटोमी आफ् मेलङ्कली’ ‘वर्ल्ड डिक्शनरी आफ् सायन्स्’ इत्यादीन् ग्रन्थान् सम्यक् पठितवान् । ते तेन प्राय: कण्ठस्थीकृता: एव । ‘प्राक्टिकल् केमेस्ट्रि’ इत्येतत् पुस्तकं पठित्वा स: स्वयमेव प्रयोगं कुर्वाण: आसीत् । रोमन्देशस्य इतिहासम् अपि स: पठति स्म । वयं सम्राजम् अकबरम् अपि न पूर्णरूपेण जानीम: । अकबर: स्वयमेव भक्तां मीरां द्रष्टुं गत: आसीत् इति कियन्त: हिन्दव: जानन्ति ?

एडिसन: पुस्तकेभ्य: मातु: वा एकप्रतिशतमितामेव प्रेरणां लब्धवान्, अवशिष्टं तेन स्वपरिश्रमेण एव लब्धम् इति वक्तुं शक्यते । आ बाल्यादेव स: न शारीरकश्रमात् उद्विग्न: । रेल्याने प्रतिविभागं भ्रामं भ्रामं स: वृत्तपत्राणि विक्रीणान: आसीत् । पेपर्मेण्ट-शाकफलादिकमपि स: विक्रीणीते स्म । अब्राहिम्लिङ्कन: तस्मै रोचते स्म । निर्वाचनावसरे स: तदर्थं कार्यमपि अकरोत् ।

इदं बोधयति यत् बालस्य प्रतिभादिनिर्माणे केवल: शिक्षक: किञ्चिदपि कर्तुं समर्थ: नास्ति, सर्वप्रथमं बाले एव नूतना तीव्रा जिज्ञासा आवश्यकी इति । ‘बकमीनस्टर् कुलर’नामक: कश्चित् अमेरिकीय: स्थपति: (आर्किटेक्ट्) कथयति यत् सर्व: अपि जन: जन्मना प्रतिभाशाली एव भवति, परं तस्य जीवनशैली तस्य प्रतिभां ह्रासयति इति । प्रतिभाहाने: इयं प्रक्रिया मृत्युं यावत् नैकरूपेण अनुवर्तते ।

भवान् अन्येभ्य: दक्ष: प्रतिभाशाली कुशल: सफल: भवेत् चेद् समाज:, संस्था वा काचित् भवन्तं पातयितुं सज्ज: भवेत् एव । एतस्या: प्रक्रियाया: विजेता एव सफल: भवति, प्रतिभा-शाली भवति । शिशुत्वे एव ‘मूर्खोऽयं, मन्दोऽयम् उद्धतोऽयं दुर्मदोऽयम्’ इत्यादिकं ये प्रतिभा-शालिन: प्रायेण शृण्वन्ति ते एव कदाचित् आक्रान्तार: दुर्मताश्च भवन्ति । शिशुत्वे अपेक्षितं प्रेमस्नेहादिकं ये न लभेरन् ते ज्येष्ठत्वं प्राप्य आक्रामका: भवन्ति । स्ववैर-निर्यातनाय प्रयतन्ते च । 103 वर्षेभ्य: प्राग् जातस्य बकमीनस्टर कुलरमहाशयस्य इदं कथनं समीचीनं प्रतीयते यत् पातनेच्छु: समाज: एव बालस्य प्रतिभानिर्माणनिरोधं करोति इति । पञ्चवर्षवया: मम अशिक्षिता पितृष्वसा शिक्षिका अध्यापिका वा न आसीत् । बकमिनिस्टर्कुलर्महाभागस्य अध्यापिका आसीत् तस्य पितृव्यभार्या (चाची) एव । द्विवारं स: हार्वडर्विश्वविद्यालयात् निष्कासित: आसीत् । परं नौसेनां गत्वा स: शोधक: जात: । यद्यपि स: स्वं कदापि शोधकरूपेण न प्रकाशितवान् । तस्य कथनम् आसीत् यत् मम समस्त: विकास: आकस्मिक: इति ।

अस्मिन् जगति सदा अल्पै: एव साधनै: महत्तमं साधनीयं भवति । (‘क्रियासिद्धि: सत्त्वे भवति महता नोपकरणे’ इति पङ्क्ति: अत्र सदा स्मरणीया ।) आनुकूल्यसाधनादिकं न याचनीयं, परं साधनाभावात्मके वातावरणे एव कर्म करणीयम् । बकमीनस्टर्-कुलरस्य एकं वाक्यं भित्तौ अङ्कनार्हम् अस्ति । तच्च इदम् - ‘कोऽयं मानव: ? स: पृथिव्या: प्रवासिमात्रम् अस्ति । मानवोऽयं ब्रह्माण्डस्य अवकाशयानयात्रिक: । तस्य सम्पत्ति: तु पठनात् सञ्चितं ज्ञानम् ऊर्जा चैव, नान्यत् किञ्चित् । पठनादेव स: स्वं समृद्धं कर्तुम् अर्हति’’ इति ।

द्वित्रा: माम् अकथयन् यत् अस्माभि: प्रतिभाशालिभि: कथं भाव्यम्, तद्विषये भवान् किञ्चित् लिखतु इति । तदर्थं मया द्वित्राणि पुस्तकानि क्रीतानि । तानि च इमानि -

1.‘जीनीयस् - ए मोझेक् ओफ् वन् हण्ड्रेड् एक्झेम्पलरी क्रियेटिव् मैण्ड्स्’ । लेखक: अस्ति -हेराल्ड ब्लूम् ।
2.‘द पावर् आफ् इण्टेन्शन्’ इत्यस्य लेखक: डा. वेयनी डायर् ।
3.‘डिस्कवर् युवर् जीनीयस्’ इत्यस्य लेखक: मैकल् जे. गोल्ब ।

प्रतिभानिर्माणविषयकेषु द्वित्रेषु पुस्तकेषु पठितेषु प्रतिभाशालिना न भूयते । नूतना जिज्ञासा वर्धमाना एव यथा स्यात् तथा कार्यम् । शिशून् प्रथमत: एव कस्यचित् पुस्तकालयस्य सभ्यान् विदधतु भवन्त: । विज्ञानी विक्रमसाराभायी, विख्यात: डा.एस्. चन्द्रशेखर:, सङ्गीतकार: मोझार्ट, चित्रकार: मैकल् एञ्जलो, वैज्ञानिक: ऐनस्टीन्, मेडम् क्यूरी, स्टीफन् होकिन्स् इत्यादय: विलक्षणप्रतिभाशालिन: आसन् इति न मन्तव्यम् । ‘द पावर् आफ् इन्टेन्शन्’ इत्यस्य लेखक: डा वेयनी डायर: कथयति यत् उपर्युक्तेषु समस्तेषु मानवेषु यत् चैतन्यम् आसीत् तदेव चैतन्यं सर्वेषु वर्तते, तेषां ये ये मनोरथा: आसन् तान् तान् मनोरथान् भवन्त: अपि धारयितुम् अर्हन्ति इति । सर्वाधिका न्यूनता नाम भवन्त: तादृशान् उच्चान् मनोरथान् न धरन्ति, धृतवन्त: स्यु: चेदपि तदर्थं तादृशं परिश्रमं कर्तुं (यथा एडिसन: अवदत् तथा) न सज्जा: भवन्ति । मातर: एव शिशून् विनाशयन्ति, तदीयं कार्यं स्वयं कृत्वा ।

न हि विज्ञानमासिकस्य प्रकाशक: नागेन्द्रविजय: कमपि विज्ञानोपाधिं धरति, केवलं वाणिज्यशास्त्रपदवीधर: स: । परं पुस्तकानि पाठं पाठं स: विद्वान् जात: । मुम्बय्या: एशियाटिक्पुस्तकालयं प्रति शताधिका:: मासिक्याद्या: आगच्छन्ति । तेभ्य: मासिकेभ्य: आ चत्वारिंशत: वर्षेभ्य: ‘न्यू सैण्टिस्ट्’नामकं साप्ताहिकम् अहं प्राप्नोमि । तस्मिन् 16.7.2006 दिनाङ्कस्य अङ्के एक: महत्त्वपूर्ण: लेख: विद्यते । तस्य शीर्षकम् अस्ति - आकाशे उड्डयनाय न काऽपि सीमामर्यादा । भवान् अपि मेधावी भवितुम् अर्हेत् एव इति । अस्मासु सर्वेषु प्रतिभानिर्माणस्य शक्ति: अन्तर्हिता अस्ति एव ।

शिक्षाशास्त्रिण: प्रमाणानि दत्तवन्त: यत् विद्यालये अध्ययन-सङ्गीत-क्रीडनादिकं यत् क्रियेत तत् मानवजीवने अत्यल्पमात्रेण एव उपयोगि भवेत्, बालके एव स्वारस्यपूर्वक: कश्चित् उत्साह: आवश्यक: इति । परम्परागतशिक्षकस्थाने अमीरखानसदृश: विदूषकायमाण: शिक्षक: किमपि कर्तुं न शक्नुयात् एव । स: चलचित्रे धनार्थम् अपूर्वम् अभिनयं कुर्यात्, परं जीवने निष्फल: एव स्यात् । ‘श्रेयस: मार्ग: प्रतिभां यावत् अवलम्बते ततोऽपि अधिक-तया अवलम्बते रक्तं स्वेदम् अश्रूणि च ।’

भवत्प्रतिनिधित्वेन अन्य: कोऽपि अश्रूणि न पातयेत्, रुधिरं न दद्यात्, परिश्रमं न कुर्यात्, भावत्कां मतिं प्रयुञ्जीत वा । भवता एव अश्रूणि पातनीयानि, प्रस्वेद: निर्गमनीय:, प्रतिभा वा निर्मेया । अधुनैव मया एकं पुस्तकं लब्धम् -‘द जीनियस् फेक्टरी अनरिवीलिंग् द मिस्टरीस् आफ् नोबल् प्रैस् स्पर्म बेंक्’नामकम् । तल्लेखक: अस्ति - डेविड् प्रीयोत्झमहाभाग: । अस्मिन् कश्चित् रसप्रद: प्रयोग: वर्णित: अस्ति । पञ्चदशभ्य: वर्षेभ्य: प्राक् फेब्रवरीमासे रोबर्ग्रेहाम्नामकेन केनचित् महाधनाढ्येन जीवतां नोबल्पारितोषिक-ग्राहकाणां वीर्यं सङ्गृहीतम् । तदनु तद्वीर्येण पञ्चदशसु वर्षेषु 215 बाला: उत्पादिता: । एते बाला: प्रतिभा-शालिन: भवेयु: इति तस्य आशा आसीत् । परं सा आशा वैफल्यं गता । बहवस्तु सामान्यबालेभ्योऽपि हीना: आसन् । वीर्यमात्रं न महत्त्वपूर्णम् । वीर्यमात्रमेव यदि महत्त्वपूर्णं स्यात् तर्हि गान्धे: पुत्र: रामदास: (हरिदास:) कथं दुस्सङ्गग्रस्त: जात: स्यात् ? प्रतिभा-निर्माणे संयोग-पालन-पोषण-पुरुषार्थादिकम् अपेक्षिपत् । (इदमेव जैनपरिभाषायां ‘कर्म’ इति कथ्यते ।)


आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - जुलै २००९
लेखकः – कान्तिभट्टः
अनुवादकौ – मुनी मुक्तिचन्द्रमुनिचन्द्रविजयौ