प्रतिमानाटकम्
प्रथमोऽङ्कः
भासः
द्वितीयोऽङ्कः →

पात्राणि सम्पाद्यताम्

सूत्रधार:

नटी

विजया --- प्रतिहारी ।

काञ्चुकीय: ---

अवदातिका --- चेटी सीताया: ।

सीता --- रामपत्नी ।

राम: --- दशरथस्य ज्येष्ट: पुत्र: ।

लक्ष्मण: -- दशरथस्य पुत्र:

भरत: --- दशरथस्य पुत्र: ।

शत्रुघ्न: -- दशरथस्य पुत्र:

राजा दशरथ: --- कोसलाधिप: ।
 
नन्दिनिका --- अपरा चेटी सीताया: ।

चेटी

सुमन्त्र: --- दशरथस्य सारथि: ।

कौसल्या --- दशरथस्य पट्टमहिषी --- रामस्य जननी ।

सुमित्रा --- दशरथस्य महिषी --- माता लक्ष्मणस्य शत्रुघ्नस्य च ।

कैकेयी --- दशरथस्य महिषी ---- माता भरतस्य ।

सुधाकर: ---

भट: ---

देवकुलिक: --- प्रतिमागृहरक्षक:

सूत: --- भरतस्य

तापसी ---

रावण: --- राक्षसराजः--- लङ्केश्वर:
 
वृद्धतापसौ नन्दिलक: च --- जनस्थानवासिन:

प्रतिमानाटकम् - स्थापना। सम्पाद्यताम्

नान्द्यन्ते तत: प्रविशति सूत्रधार:।)

सूत्रधार:

सीताभव: पातु सुमन्त्रतुष्ट:
सुग्रीवराम: सहलक्ष्मणश्र्च।
यो रावणार्यप्रतिमश्र्च देव्या
विभीषणात्मा भरतोऽनुसर्गम्।।1।।
(नेपथ्याभिमुखमवलोक्य।)
आर्येें, इतस्तावत्।
(प्रविश्य)
नटी - अय्य इआम्हि। (आर्य, इयमस्मि।)
सूत्रधार: - आर्यें, इदमेवेदानीं शरत्कालमधिकृत्य गीयतां तावत्।
नटी - अय्य, तह। (गायति।)(आर्य, तथा)
सूत्रधार: - अस्मिन् हि काले
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा।
(नेपथ्ये)
अय्य, अय्य। (आर्य, आय।)
(आकण्र्य।)
सूत्रधार: - भवतु विज्ञातम्
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव।।2।।
(निष्क्रान्तौ।)

स्थापना।

प्रथमोऽङ्क: सम्पाद्यताम्

(प्रविश्य।)
प्रतिबारी - अय्य को इह कञ्चुईआणं संणिहिदो। (आर्य के इह काञ्चुकीयानां संनिहित:।)
काञ्चुकीय: - भवति, अयमस्मि। किं क्रियताम्।
प्रतिहारी - अय्य! महाराओ देवासुरसङ्गामेसु अप्पडिहदमारहो दसरहो आणवेदिसिग्धं भट्टिदारअस्स रामस्स रज्जप्पहाव,ञ्जोअकारआ अहिसेअसम्भारा
आणीअन्तु त्ति। (आर्य, महाराजो देवासुरसङ्ग्रामेष्वप्रतिहतमहारथो दशरथ आज्ञापयति। शीघ्रं भर्तृदारकस्य रामस्य राज्यप्रभावसंयोगकारका
अभिषेकसम्भारा आनीयन्तामिति।)
काञ्चुकीय: - भवति, यदाज्ञप्तं महाराजेन, तत् सर्वमुपस्थापितम्। पश्य।

छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं
न्यस्ता हेममया: सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटा:।
युक्त: पुष्यरथश्र्च मन्त्रिसहिता: पौरा: समभ्यागता:
सर्वस्यास्य हि मङ्गलं स भगवान् वेद्यां वसिष्ठ: स्थित:।। 3।।
प्रतिहारी - जइ एव्वं, सोहणं किदं। (यद्येवं, शोभनं कृतम्।)
काञ्चुकीय: - हन्त भो:
इदानीं भूमिपालेन
कृतकृत्या: कृता: प्रजा:।
रामाभिधानं मेदिन्यां
शशाङ्कमभिषिञ्चता।।4।।
प्रतिहारी - तुवरदु तुवरदु दाणि अय्यो। (त्वरतां त्वरतामिदानीमार्य:।)
काञ्चुकीय: - भवति! इदं त्वर्यते।
(निष्क्रान्त:)
प्रतिहारी - (परिक्रम्यावलोक्य)अय्य! संभवअ! संभवअ! गच्छ तुवं तुवं पि महाराअवअणेण अय्यपुरोहिदं जहोपआरेण तुवारेहि। (अन्यतो गत्वा।)
सारसिए! सरसिए! सङ्गीदयाळं गच्छिअ नाडईआणं विण्णेवेहि-काळसंवादिणा णाडएण सज्जा होह त्ति। जाव अहं वि सव्वं किदं त्ति
महाराअस्स णिवेदेमि। (निष्क्रान्ता।) (आर्य! सम्भवक! सम्भवक! गच्छ, त्वमपि महाराजवचनेनार्यपुरोहितं यथोपचारेण त्वरय। अन्यतो
गत्वा सारसिके! सारसिके! सङ्गीतशालां गत्वा नाटकीयानां विज्ञापयकालसंवादिना नाटकेन सज्जा भवतेति। यावदहमपि सर्वं
कृतमिति महाराजाय निवेदयामि।)
अवदातिका - अहो अच्चाहिदं। परिहामेण वि हमं वक्कळं उवणअन्तीए मम एतिअं आसी, किं पुण ळोभेण परधणं हरन्तस्स। हसिदुं विअ इच्छमि। ण
खु एआइणीए हसिदव्वं। (अहो अत्याहितम्। परिहासेनापीमं वल्कलमुपनयन्त्या ममैतावद् भयमासीत् किं पुनर्लोभेन परधनं हरत:।
हसितुमिवेच्छामि। न खल्वेकाकिन्या हसितव्यम्।)
सीता - हञ्जे, ओदादीअ परिसङ्किदवण्णा विअ दिस्सइ। किं णु हु विअ एदं। (हञ्जे, अवदातिका परिशङ्कितवर्णेव दृश्यते। किन्नु खल्विवैतत्।)
चेटी - भट्टिणि! सुळहावराहो परिअणे णाम। अवरज्झा भविस्सदि। (भट्टिनि, सुलभापराध:! परिजनो नाम। अपराद्धा भविष्यति।)
सीता - णहि णहि। हसिदुं विअ इच्छदि। (नहि नहि, हसितुमिवेच्छति।)
अवदातिका - (उपसृत्य।) जेदु भट्टिणी! भट्टिणि ण सु अहं अवरज्झा। (जयतु भट्टिनी, भट्टिनि! न खल्वहमपराद्धा।)
सीता - का तुमं पुच्छदि। ओदादिए! किं एदं वामहत्थपरिगहिदं । (का त्वां पृच्छति। अवदातिके! किमेतद् वामहस्तपरिगृहीतम्।)
अवदातिका - भट्टिणि! इदं वक्कळं। (भट्टिनि! इदं वल्कलम्।)
सीता - वक्कळं किस्स आणीदं। (वल्कलं कस्मादानीतम्।)
अवदातिका - सुणादु भट्टिणी। णेवच्छपाळिणी अय्यरेवा णिव्वुत्तरङ्गप्पओअणं असोअरुक्खस्स एक्कं किसळअं अम्हेहि जाइदा आसि। ण अ ताए
दिण्णं। तदो अरिहदि अवराहो त्ति इदं गाहिदं। (शृणोतु भट्टिनी। नोपथ्यपालिन्यार्यरेवा निवृत्तरङ्गप्रयोजनमशोकवृक्षस्यैकं
किसलयमस्माभिर्याचितासीत्। न च तया दत्तम्। ततोऽर्हत्यपराध इतीदं गृहीतम्।)
सूता - पावअं किदं। गच्छ, णिय्योदेहि। (पापकं कृतम्। गच्छ, निर्यातय।)
अवदातिका - भट्टिणि! परिहासणिमित्तं खु मए एदं आणीदं। (भट्टिनि! परिहासनिमित्तं खलु मयैतदानीतम्।)
 
सीता - उम्मत्तिए! एवं दोसो वड्ढइ। गच्छ णिय्यादेहि, णिय्यादेही। (उन्मत्तिके! एवं दोषो वर्धते। गच्छ, निर्यातय, निर्यातय।)
अवदातिका - जं भट्टिणी आणवेदि। (यद् भट्टिन्याज्ञापयति।) (प्रस्थातुमिच्छति।)
सीता - हळा! एहि दाव। (हला! एहि तावत्।)
अवदातिका - भट्टिणि! इअम्हि। (भट्टिनि! इयमस्मि।)
सीता - हळा! किं णु मम वि दाव सोहदि। (हला! किन्नु खलु ममापि तावत् शोभते।)
अवदातिका - भट्टिणि! सव्वसोवणीअं सुरूवं णाम। अळङ्करोदु भट्टिणी (भट्टिनि! सर्वशोभनीयं सुरूपं नाम! अलङ्करोतु भट्टिनी।)
सीता - अणोहि गाव। हला! पेक्ख, किं दाणिं सोहदि। (आनय तावत्। (गृहीत्वालंकृत्य।) हला! पश्य, किमिदानीं शोभते)?
अवदातिका - तव खु सोहदिणाम। सोवण्णिअं विअ वक्कळं संवुत्तं। (तव खलु शोभते नाम। सौवर्णिकमिव वल्कलं संवृत्तम्।)
सीता - हञ्जे! तुवं किञ्चि ण भणासि। (हञ्जे! त्वं किञ्चिन्न भणसि।)
चेटी - णत्थि वाआए पओअणं। इमे पहरिसिदा तणूरुहा मन्तेन्ति। (पुलकं दर्शयति।)(नास्ति वाचा प्रयोजनम्। इमानि प्रहर्षितानि तनूरुहाणि
मन्त्रयन्ते।)
सीता - हञ्जे आदंसअं दाव आणेहि!(हञ्जे! आदर्शं तावदानय।)
चेटी - जं भट्टिणी आणवेदि। (निष्क्रम्य प्रविश्य।)भट्टिणि! अअं आदंसओ। (यद् भट्टिन्याज्ञापयत्ति। भट्टिनि! अयमादर्श:।)
चेटी - (चेटीमुखं विलोक्य) चिठ्ठदु दाव आदंसओ। तुवं किं वि वत्तुकामा विअ। (तिष्ठतु तावदादर्श:। त्वं किमपि वक्तुकामेव।)
टेटी - भट्टिणि, एवं मए सुदं। अय्यबाळाई कञ्चुई भणादि - अहिसेओ अहिसेओ त्ति। (भट्टिनि!एवं मया श्रुतम्। आर्यबालाकि: कञ्चुकी
भणति - अभिषेकोऽभिषेक इति।)
सीता - कोनि भट्टा रज्जे भविस्सत्ति। (कोपि भर्ता राज्ये भविष्यति।)
(प्रविश्यापरा)
चेटी - भट्टिणि! पिअक्खाणिअं पिअक्खाणिअं। (भट्टिनि, प्रियाख्यानिकं प्रियाख्यानिकम्।)
सीता - किं किं पडिच्छिअ मन्तेसि। (किं किं प्रतीष्य मन्त्रयसे।)
चेटी - भट्टिदारओ किळ अहिसिञ्चीअदि। (भर्तृदारक: किलाभिषिच्यते।)
सीता - अवि तादो कुसळी। (अपि तात: कुशली।)
चेटी - महाराएण एव्व अहिसिञ्जीअदि। (महाराजेनैवाभिषिच्यते।)
सीता - जइ एवं दुदीअं मे पिअं सुदं। विसाळदरं उच्छङ्गंकारेहि। (यद्येवं, द्वितीयं मे प्रियं श्रुतम्। विशालतरमुत्सङ्गे कुरु।)
चेटी - भट्टिणि! तह। (तथा करोति।) (भट्टिनि! तथा।)
(सीता आभरणान्यवमुच्य ददाति।)
चेटी - भट्टिणि! पटहसद्दो विअ । (भट्टिनि! पटहशब्द इव।)
सीता - सो एव्वं (स एव)
 
चेटी - एक्कपदे ओद्यट्टीअ तुह्णीओ पटहसदो संवुत्तो। (एकपदे अवघट्टित तूष्णीक: पटहशब्द: संवृत्त:।)
सीता - को णु खु उग्धादो अहिसेअस्स। अहव बहुवुत्तन्ताणि राअउळाणि णाम। (को नु खलूद्घातोऽभिषेकस्य। अथवा बहुवृत्तान्तानि
राजकुलानि नाम।)
चेटी - भट्टिणि, एवं मए सुदं-भट्टिदारअं अहिसिञ्चिअ महाराओ वणं गमिस्सदि त्ति। (भट्टिनि! एवं मयाश्रुतं-भर्तृदारकमभिषिच्य महाराजो वनं
गमिष्यतीति।)
सीता - जइ एव्वं, ण सो अहिसेओदओ मुहोदअं णाम। (यद्येवं, न तदभिषेकोदकं, मुखोदकं नाम।)
(तत: प्रविशति राम:।)
राम: - हन्त भो:।
आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते
स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मित:
स्व: पुत्र: कुरुते पितुर्यदि वच: कस्तत्र भो:! विस्मय: ।। 5 ।।
अवदातिका - भट्टिणि! भट्टिदारओ खु आअच्छइ। णावणीदं वक्कलं। (भट्टिनि! भर्तृदारक: खल्वाहच्छति। नापनीतं वल्कलम्।)
राम: - मैथिलि! किमास्यते।
सीता - हं अय्यठत्तो। जेदु अय्यउत्तो। (हं आर्यपुत्र:। जयत्वार्यपुत्र:।)
राम: - मैथिलि! आस्यताम्। (उपविशति।)
सीता - जं अय्यउत्तो आणवेदि। (उपविशति।) (यद् आर्यपुत्र आज्ञापयति।)
अवदातिका - भट्टिणि! सो एव्व भट्टिदारअस्स वेसो। अळिअं विअ एदं भवे। (भट्टिनि! स एव भर्तृदारकस्य वेष:। अलीकमिवैतद् भवेत्।)
सीता - तादिसो जणो अळिअं ण मन्तेदि। अहव बहुवुत्तन्ताणि राअउळाणि णाम। (तादृशो जनोऽलीकं न मन्त्रयते। अथवा बहुवृत्तान्तानि
राजकुलानि नाम।)
राम: - मैथिलि! किमिदं कथ्यते।
सीता - ण खु किञ्चि। इअं दारिआ भणादि - अहिसेओ अहिसेओ त्ति।(न खलु किंचित्। इयं दारिका भणति-अभिषेकोऽभिषेक इति।)
राम: - अवगच्छमि ते कौतूहलम्। अस्त्यभिषेक:। श्रूयताम्। अद्यास्मि महाराजेनोपाध्याया- मात्यप्रकृतिजनसमक्षमेकप्रकारसंक्षिप्तं कोसलराज्यं
कृत्वा बाल्यस्तमङ्कामारोप्य मातृगोत्रं स्निग्धमाभाष्य पुत्र! प्रतिगृह्यता राज्यमित्युक्त:। राज्यम् इत्युक्त:।
सीता - तदाणीं अय्यउत्तेण किं भणिदं। (तदानीमार्यपुत्रेण किं भणितम्।)
राम: - मैथिलि! त्वं तावत् किं तर्कयसि।
सीता - तक्केमि अय्यउत्तेण अभणिअ किञ्चि दिग्धं णिस्ससिए महारा-अस्स पवादमूळेसु पडिअं त्ति। (तर्कयाम्यार्यपुत्रेणाभणित्वा किञ्चिद् दीर्घं
नि:श्वस्य महाराजस्य पादमूलयो: पतितमिति।)
राम: - सुष्ठु तर्कितम्। अल्पं तुल्यशीलानि द्वन्द्वनि सृज्यन्ते। तत्र हि पादयोरस्मि पतित:।
समं बाष्पेण पतता तस्योपरि ममाप्यध:।
पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिर:।।6।।
सीता - तदो तदो। (ततस्तत:।)
 
राम: - ततोऽप्रतिगृह्ममाणोष्वनुनयेषु आसन्नजरादोषै: स्वै प्राणैरस्मि शापित:।
सीता - तदो तदो। (ततस्तत:।)
राम: - ततस्तदानीं,
शत्रुघ्नलक्ष्मणगृहीतघटेऽभिषेके
छत्रे स्वयं नृपतिना रुदता गृहीते।
सम्भ्रान्तया किमपि मन्थरया च कर्णे
राज्ञ: शनैरभिहितं च न चास्मि राजा।।7।।
सीता - पिअं मे। महाराओ एव्व महाराओ, अय्यउत्तो एव्व अय्यउत्तो। (प्रियं मे। महाराज एव महाराज:, आर्यपुत्र एवार्यपुत्र:।)
राम: - मैथिलि, किमर्थं विमुक्तालङ्कारासि।
सीता - ण खु दाव, आवज्झामि। (न तावद्, आबध्नामि।)
राम: - न खलु। प्रत्यग्रावतारितैर्भूषणैर्भवितव्यम्। तथाहि -
कर्णौ त्वरापहृतभूषणभुग्नपाशौ
संस्रंसिताभंरणगौरतलौ च हस्तौ।
एतानि चाभरणभारनतानि गात्रे
स्थानानि नैव समतामुपयान्ति तावत् ।। 8 ।।
सीता - पारेदि अय्यउत्तो अळिअं पि सच्चं विअ मन्तेदुं। (पारयत्यार्यपुत्रोऽलीकमपि सत्यमिव मन्त्रयितुम्।)
राम: - तेन हि अलङ्क्रियताम्। अहमादर्शं धारयिष्ये। (तथा कृत्वा निर्वण्य।) तिष्ठ।
आदर्शे वल्कलानीव किमेते सूर्यरश्मय:।
हसितेन परिज्ञातं क्रीडेयं नियमस्पृहा ।। 9 ।।
अवदातिके, किमेतत्।
अवदातिका - भट्टा! किण्णु हु सोहदि ण सोहदित्ति कोदूहळेण आवज्झा। (भर्त:! किन्नु खलु शोभते न शोभत इति कौतूहलेनाबद्धानि।)
राम: - मैथिलि! किमिदम्। इश्वाकूणां वृद्धालङ्कारस्त्वया धार्यते।अस्त्यस्माकं प्रीति: । आनय।
सीता - मा खु मा खु अय्यउत्तो अमङ्गळं भणादु। (मा खलु मा खल्वार्यपुत्रोऽमङ्गलं भणतु।)
राम: - मैथिलि, किमर्थं वारयसि।
सीता - उज्झिदाहिसेअस्स अय्यउत्तस्स अमङ्गळं विअ मे पडिआदिं। (उज्झिताभिषेकस्यार्यपुत्रस्यामङ्गलमिव मे प्रतिभाति।)
राम: - मा स्वयं मन्युमुत्पाद्य परिहासे विशेषत: ।
शरीरार्धेन मे पूर्वमाबद्धा हि यदा त्वया ।। 10 ।।
(नेपथ्ये)
हा हा महाराज:।
सीता - अय्यउत्त! किं एदं। (आर्यपुत्र, किमेतत्।)
राम: - (आकण्र्य)
 
नारीणां पुरुषाणां च निर्मर्यादो यदा ध्वनि:।
सुव्यक्तं प्रभवामीति मूले दैवेन ताडितम् ।। 11 ।।
तूर्णं ज्ञायतां शब्द:।
(प्रविश्य)
काञ्चुकीय: - परित्रायतां परित्रायताम्।
राम: - आर्य! क: परित्रातव्य:।
काञ्चुकीय: - महाराज:।
राम: - महाराज इति। आर्य! ननु वक्तव्यम्, एकशरीरसंक्षिप्ता पृथिवी रक्षितव्येति। अथ कुत उत्पन्नोऽयं दोष:।
काञ्चुकीय: - स्वजनात्।
राम: -- स्वजनादिति। हन्त नास्ति प्रतीकार:।
काञ्चुकीय: - तत्रभवत्या: कैकेय्या:।
राम: - किमम्बाया:। तेन हि उदर्केण गुणेनात्र भवितव्यम्।
काञ्चुकीय: - कथमिव।
राम: - श्रूयतां,
यस्या: शक्रसमो भर्ता मया पुत्रवती च या ।
फले कस्मिन् स्पृहा तस्या येनाकार्यं करिष्यति ।। 13 ।।
काञ्चुकीय: - कुमार! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्। तस्या एव खलु वचनाद् भवदभिषेको निवृत्त:।
राम: - आर्य, गुणा: खल्वत्र।
काञ्चुकीय: - कथमिव।
राम:- श्रूयतां,
वनगमननिवृत्ति: पार्थिवस्यैव ताव-
न्मम पितृपरवत्ता बालभाव: स एव।
नवनृपतिविमर्शे नास्ति शङ्का प्रजाना-
मथ च न परिभोगैर्वञ्चिता भ्रातरो मे ।। 14 ।।
काञ्चुकीय: - अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य इत्युक्तम्। अत्राप्यलोभ:।
राम: - आर्यं! भवान् खल्वस्मत्पक्षपातादेव नार्थमवेक्षते। कुत:,
शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते।
तस्या: लोभोऽत्र नास्माकं भ्रातुराज्यापहरिणाम् ।। 15 ।।
काञ्चुकीय: - अथ-
राम:- अत: परं न मातु: परिवादं श्रोतुमिच्छमि। महाराजस्य वृत्तान्तस्तावदभिधीयताम्।
काञ्चुकीय: - ततस्तदानीं,
 
शोकादवचनाद् राज्ञा हस्तेनैव विसर्जित:
किमप्यभिमतं मन्ये मोहं च नृपतिर्गत: ।। 16 ।।
राम: - कथं मोहमुपगत:।
(नेपथ्ये)
कथं कथं मोहमुपगत इति।
यदि न सहसे राज्ञो मोहं धनु: स्पृश: मा दया।
राम: - (आकण्र्य पुरतो विलोक्य।)
अक्षोभ्य: क्षोभित: केन लक्ष्मणो धैर्यसागर:।
येन रुष्टेन पश्यामि शताकीर्णमिवाग्रत: ।। 17 ।।
(तत: प्रविश्ति धनुर्बाणपाणिर्लक्ष्मण:।)
लक्षमण: - (सक्रोधम्।) कथं कथं मोहमुपगत इति।
यदि न सहसे राज्ञो मोहं धनु: स्पृश मा दया
स्वजननिभृत: सर्वोऽप्येवं मृदु: परिभूयते।
अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्र्चयो
युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ।। 18 ।।
सीता - अय्यउत! रोदिदव्वे काळे सोमित्तिणा धणु गहीदं अपुव्वो खु से आआसो। (आर्यपुत्र! रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्। अपूर्व:
खल्वस्यायास:।)
राम: - सुमित्रामात:! किमिदम्।
लक्ष्मण: - कथं कथं किंमिदं नाम।
क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे।
इदानीमपि सन्देह: किं क्षमा निर्मनस्विता ।। 19 ।।
राम: - सुमित्रामात:! अस्मद्राज्यभ्रंशो भवत उद्योग जनयति। आ:, अपण्डित: खलु भवान्।
सुमित्रामात:! अस्मद्राज्यभ्रंशो भवत उद्योगं जनयति। आ:, अपण्डित: खलु भवान्।
भरतो वा भवेद् राजा वयं वा ननु तत् समम्।
यदि तेऽस्ति धनु:श्लाघा स राजा परीपाल्यताम् ।। 20 ।।
लक्ष्मण: - न शक्नोमि रोषं धारयितुम्। भवतु भवतु। गच्छामस्तावत् (प्रस्थित:।)
राम: - त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता।
भ्रकुटिर्लक्ष्मणस्यैषा नियतीव व्यवस्थिता ।। 21 ।।
सुमित्रामात: इतस्तावत्।
लक्ष्मण: - आर्य! अयमस्मि।
राम: - भवत: स्थैर्यमुत्पादयता मयैवमभिहितम्। उच्यतामिदानीम्।
ताते धनुर्नमयि सत्यमवेक्षमाणे
मुञ्चानि मातरि शरं स्वधनं हरन्त्याम्।
 
दोषेषु बाह्यमनुजं भरतं हनानि
किं रोषणाय रुचिरं त्रिषु पातकेषु ।। 22 ।।
लक्ष्मण: - (सबाण्पम्) हा धिक्। अस्मानविज्ञायोपालभसे।
यत्कृते महतिक्र्लेशे राज्ये मे न मनोरथ:।
वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ।। 23 ।।
राम: - अत्र मोहमुपहतस्तत्रभवान्। हन्त निवेदितमप्रभुत्वम्। मैथिलि!
मङ्गलार्थेऽनया दत्तान् वल्कलांस्तावदानय।
करोम्यन्यैर्नृपैर्धर्मं नैवाप्तं नोपपादितम् ।। 24 ।।
सीता - गह्णदु अय्यउत्तो। (गृह्णात्वार्यपुत्र:)
राम: - मैथिलि! किं व्यवसितम्।
सीता - णं सहधम्मआरिणी क्खु अहं। (ननु सहधर्मचारिणी खल्वहम्।)
राम: - मयैकाकिना किल गन्तव्यम्।
सीता - अदो णु खु अणुगच्छामि। (अतो नु खल्वनुगच्छामि।)
राम: - वने खलु वस्तव्यम्।
सीता - तं खु मे पासादो। (तत् खलु मे प्रासाद:।)
राम: - श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तयितव्या।
सीता - णं उद्दिसिअ देवदाणं पणामो कराअदि। (एनामुद्दिश्य देवतानां प्रणाम: क्रियते।)
राम: - लक्ष्मण! वार्यतामियम्।
लक्ष्मण: - आर्य नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम्। कुत:-
अनुचरति शशाङ्कं राहुदोषेऽपि तारा
पतति च वनवृक्षे याति भूमिं लता च ।
त्यजति न च करेणु: पङ्कलग्नं गजेन्द्रं
व्रजतु चरतु धर्मं भर्तृनाथा हि नार्य: ।। 25 ।।
चेटी - जेदु भट्टिणी। णेवच्छपाळिणी अय्यरेवा पणमिअ विण्णवेदि-ओदादिआए सङ्गीदसाळादो अच्छिन्दिअ वक्कळा आणीदा। इमा अवरा
अणणुहूदा वक्कळा। णिव्वत्तीअदु दाव किळ पओअणं त्ति। (जयतु भट्टिनी। नेपथ्यपालिन्यार्यरेवा प्रणम्य विज्ञापयति-अवदातिकया
सङ्गीतशालाया आच्छिद्य वल्कला आनीता:। अमेऽपरा अननुभूता वल्कला:। निर्वत्र्यतां तावत् किल प्रयोजनमिति।)
राम: - भद्रे! आनय, संतुष्टैषा। वयमर्थिन:।
चेटी - गह्णदु भटटा (तथा कृत्वा निष्क्रान्ता।) (गृह्णतु भर्ता।)
(रामो गृहीत्वा परिधते।)
लक्ष्मण: - प्रसीदत्वार्यं: ।
निर्योगाद् भूषणान्माल्यात् सर्वेभ्योऽर्धं प्रदाय मे ।
चीरमेकाकिना बद्धं चीरे खल्वसि मत्सरी ।। 26 ।।
 
राम: - मैथिलि! वार्यतामयम्।
सीता - सोमित्ते! णिवत्तीअदु किळ। (सौमित्रे! निवत्र्यतां किल।)
लक्ष्मण: - आर्ये!
गुरोर्मे पादशुश्रुषां त्वमेका कर्तुमिच्छसि।
तवैव दक्षिण: पादो मम सव्यो भविष्यति ।। 27 ।।
सीता: - दीअदु खु अरुय्यत्तो। सन्तप्पदि सोभित्ती। (दीयतां खल्वार्यपुत्र:। संतप्यते सौमित्रि:।)
राम: - सौमित्रे! श्रूयताम्। वल्कलानि नाम,
तप: सङ्ग्रामकवचं नियमद्विरदाङ्कुश:।
खलीनमिन्द्रियाश्वानां गृह्यतां धर्मसारथि: ।। 28 ।।
लक्ष्मण: - अनुगृहीतोऽस्मि। (गृहीत्वा परिधत्ते।)
राम: - श्रुतवृत्तान्तै: पौरै: संनिरुद्धो राजमार्ग:। उत्सार्यतामुत्सार्यतां तावत्।
लक्ष्मण: - आर्यं! अहमग्रते यास्यामि। उत्सार्यतामुत्सार्यताम्।
राम: - मैथीलि ! अपनीयतामवगुण्ठनम्।
सीता - जं अय्यउत्तो आणवेदि।। (अपनयति।) (यदार्यपुत्र आज्ञापयति।)
राम: - भो भो: पौरा:। शृण्वन्तु शृण्वन्तु भवन्त:।
स्वैरं हि पश्यन्तु कलत्रमेतद्
बाष्पकुलाक्षैर्वदनैर्भवन्त:।
निर्दोषद्दश्या हि भवन्ति नार्यो
यज्ञे विवाहे व्यसने वने च ।। 29 ।।
काञ्चुकीय: - कुमार! न खलु न खलु गन्तव्यम् । एष हि महाराज:,
श्रुत्वा ते वनगमनं वधूसहायं
सौभ्रात्रव्यवसितलक्षमणानुयात्रम्।
उत्थाय क्षितितलरेणुरूषिताङ्ग:
कान्तारद्विरद इवोपयाति जीर्ण: ।। 30 ।।
लक्ष्मण: - आर्य!
चीरमात्रोत्तरीयाणां किं दृश्य वनवासिनाम्।
राम:- गतेष्वस्मासु राजा न शिरस्थानानि पश्यतु ।। 31 ।।
(इति निष्क्रान्ता: सर्वे।)

प्रथमोऽङ्क: ।