प्रपञ्चसारः(प्रथमो भागः)

प्रपञ्चसारः (प्रथमो भागः)
शङ्कराचार्यः

द्वितीयः पटलः ॥



अथ व्यवस्थिते त्वेवं मासात् पक्षाद्दिनादपि ।
मुहूर्त्तान्नाड़िकायाश्च क्षणादपि च वर्धते ॥ १
जन्तुः षड़ङ्गो पूर्वं स्याच्छिरः पादौ करावपि ।
अन्तराधि [ दि] श्चेति पुनः षड़ङ्गेषु प्रवर्तते ॥ २
अक्षिनासास्य कर्णभ्रूकपोल चिबुकादिकम् ।
प्रकोष्ठकूर्परांसाद्यं कट्यूरुप्रपदादिकम् ॥ ३
उरःकुक्षिस्तनाद्यञ्च ततः सर्वाङ्गवान् विभुः ।
कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ ४
प्रसूतिसमये सोऽथ जननीं क्लेशयन् मुहुः ।
संवृतास्य सुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ ५
तस्या ग्रहण्यां शकृति मग्नवक्त्राक्षिनासिकः ।
पुरा कृतानां पापानामयुतं संस्मरन् मुहुः ॥ ६
तस्याः कायाग्निना दग्धः क्लेदै: क्लिन्नाङ्गबन्धनः ।
पू [ प्र ]त्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ ७

तदा प्रक्षुभितैः स्वीयवायुभिर्दशधा गतैः ।
सम्पिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ ८
प्राणाद्या वायवस्तस्मिन् पूर्वमेव कृतास्पदाः ।
परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ ९
प्रयात्यूर्ध्वं यदा प्राणस्तदाऽपानो नयत्यधः ।
यदा समान: कायाग्निं संधुक्षयति पाचितुम् ॥ १०
तदा तत्पक्वमुक्तन्तु रसमादाय धावति ।
व्यानो जन्तोस्तु तं देहमापादतलमस्तकम् ॥ ११
उदान: प्राणसहगो निमेषोन्मेषकारकः ।
उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ १२
क्षुत्कृत् कृकरको देवदत्तो जृम्भणकर्मकृत् ।
धनञ्जयाख्यो देहेऽस्मिन् कुर्याद्बहुविधान् रवान् ॥ १३
स च लौकिकवायुत्वान्मृतञ्च न विमुञ्चति ।
इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ १४
वह्नयश्च दशाऽन्ये स्युस्तेषां सप्त तु धातुगाः ।
त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥ १५

त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
ते दूष्याः कफपित्तेन दोषास्तत्प्रेरको मरुत् ॥ १६
समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत् ।
स दोषो वा स दूष्यो वा क्रियातः संप्रधार्यते ॥ १७
बुभुक्षा च पिपासा च शोकमोहौ जरामृती ।
षडूर्मयः प्राणबुद्धिदेहधर्मेषु संस्थिताः ॥ १८
मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वङ्मांसशोणितम् ।
इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥ १६
रसादितः क्रमात् पाकः शुक्रान्तेषु तु धातुषु ।
शुक्रपाकात् खयं भिद्येदोजो नामाऽष्टमी दशा ॥ २०
क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते ।
यथा स्नेहः प्रदीपस्य यथाऽभ्रमशनित्विषः ॥ २१
बहुद्वारेण कुम्भेन संवृतस्य हविभुजः ।
यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ २२
तथा देहावृतस्यापि क्षेत्रज्ञस्य महात्विषः ।
इन्द्रियैः सम्प्रवर्त्तन्ते खं खमर्थग्रहं प्रति ॥ २३

नभः श्रोत्रे ऽनिलश्चर्मण्यग्निश्चक्षुष्यथोदकम् ।
जिह्वायामवनिर्घ्राण इत्यमर्थ प्रवर्त्तनम् ॥ २४
यदा पित्त' मरुन्नुन्नम् विलीनं प्रविलापयेत् ।
धातूंस्तदा क्रमाद्रक्तं लसीकां द्रावयेत् क्षणात् ॥ २५
द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्त्तते ।
बहि: सर्वत्र कणशस्तदा खेदः प्रतीयते ॥ २६
यदा कफो मरुत्पित्तनुन्नो लीनः प्रवर्त्तते ।
ऊर्ध्वं द्रुतो द्रुतं वाष्पं प्रसेकञ्च प्रवर्त्तयेत् ॥ २७
कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्वकान् ।
गण्डमालादिकान् वापि कुर्याज्जन्तोस्तु कर्मजान् ॥ २८
ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा ।
अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ २६
तस्याऽधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् ।
विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ ३०
अथाहृतं षड्रसं वाऽप्याहारं कण्ठमार्गगम् ।
श्लेष्मणाऽनुगतं तस्य प्रभावान्मधुरीभवेत् ॥ ३१

तत्र स्वाद्वम्ललवण तिक्तोषण कषायकाः ।
षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ ३२
तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् ।
तदा तस्याऽनुगमनात् कटुकत्वं प्रपद्यते ॥ ३३
तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा ।
पच्यमानाद्रसं भिन्नं वायू रक्तादिकं नयेत् ॥ ३४
तत्र किट्टमसृग्भिन्नं ग्रहण्यां चिनुतेऽनिलः ।
तच्चीयमानं विस्माम ग्रहणीं पूरयेन्मुहुः ॥ ३५
सा तया शकृता पूर्णा वलिता प्रतिमुञ्चति ।
पुरीषं पायुमार्गेण तत्पाकेऽच्छाम्भसस्ततः ॥ ३६
अङ्गस्वेदवदभ्यन्तर्व्याप्तैः सूक्ष्मैः शिरामुखैः ।
वस्तिमापूरयेद्वायुः पूर्णो मुञ्चति धारया ॥ ३७
मूत्राशया धनुर्वक्रो वस्तिरित्यभिधीयते ।
मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ ३८
अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः ।
प्रमेहमूत्रकृच्छ्रादेर्ग्रहण्यादेश्च सम्भवः ॥ ३९

इत्थम्भूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् ।
अपत्यवर्त्म संगम्य सज्यते वायुना मुहुः ॥ ४०
अथ पापकृतां शरीरभाजामुदरान्निष्क्रमितुं महान् प्रयासः ।
नलिनोद्भव हे विचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् ॥ ४१ जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः ।
जूर्त्योल्वणं निःश्वसिति भीत्या च परिरोदिति ॥ ४२
मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः
पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ।
वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तो: सुषुम्नाबद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ ४३
स्रोतोमार्गस्याऽविभक्तत्वहेतोस्तत्राऽर्णानां जायते न प्रकाशः ।
तावत् यावत् कण्ठमूर्धादिभेदो वर्णव्यक्तिः स्थानसंस्था यतोऽतः ॥ ४४

ज्ञाताऽस्मीति यदा भावो मनोऽहङ्कारबुद्धिमान् ।
जातश्चित्पूर्वको जन्तो: स भावः क्रमवर्धितः ॥ ४५
बध्नाति मातापित्रोस्तु ततो बन्धुषु च क्रमात् ।
स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ ४६
इच्छन् रोदिति तां वीक्ष्य तत्र स्यादितरेतरम् ।
बन्धस्तदाऽधिकर्त्तारमतिस्निग्धमनन्यगम् ॥ ४७
पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च ।
पितृव्यमातुलादींश्च समुद्दीक्ष्य प्रमोदते ॥ ४८
एवं संबद्धसंसारबान्धवो विस्मरिष्यति ।
पूर्वकर्म च गर्भस्थमुद्भूतिक्लेशमेव च ॥ ४६
अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः ।
अवैशद्यान्मुखस्रोतोमार्गस्याऽविशदाक्षरम् ॥ ५०

अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा ।
मूलाधारे विसरति(मूलाधाराद्विसरति) सुषुम्नावेष्टनी मुहुः ॥ ५१
त्रिचतुःपञ्चषट्सप्त चाऽष्टशो दशशोऽपि च ।
अथ द्वादशपञ्चाशद्भेदेन गुणयेत् क्रमात् ॥ ५२
यदा त्रिशोऽथ गुणयेत्तदा त्रिगुणिता विभुः ।
शक्तिः कामाग्निनादात्मा गूढमूर्त्तिः प्रतीयते ॥ ५३
तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः ।
तामेव शक्तिं ब्रुवते हरेमात्मेति चापरे ॥ ५४
त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा ।
त्रिलोका सा त्रिमूर्त्तिः सा त्रिरेखा सा विशिष्यते ॥ ५५
एतेषां ताराणात्तारः शक्तिस्तद्धृतिशक्तितः ।
यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिकी ॥ ५६
वाचिका जाग्रदादीनां करणानाञ्च सा तदा ।
सा यदा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥ ५७
पञ्चानामक्षराणाञ्च वर्णानां मरुतां तथा ।
गुणिता सा यदा षोढ़ा कोशोर्मिरसभेदिनी ॥ ५८

तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी ।
यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ ५९
भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् ।
अकारश्चाऽप्युकारश्च मकारो बिन्दुरेव च ॥ ६०
नादश्च शक्ति: शान्तश्च तारभेदाः समीरिताः ।
हकारो रेफमाये च बिन्दुनादौ तथैव च ॥ ६१
शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा ।
अङ्गेभ्योऽस्याश्च सप्तभ्यः सप्तधा भिद्यते जगत् ॥६२
लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः ।
वात्वादिभिस्तथाऽन्यैश्च सप्तसंख्या प्रभेदकैः ॥ ६३
यदाऽष्टधा सा गुणिता तदा प्रकृतिभेदिनी ।
अष्टाक्षरा हि वस्वाशामातृमूर्ति विभेदिनी ॥ ६४
दशधा गुणिता नाड़ीमर्माशादिविभेदिनी ।
द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ ६५
मन्त्रञ्च द्वादशार्णाख्यमभिधत्ते स्वरानपि ।
तत्संख्यञ्च तथा यन्त्रं शक्तेस्तद्गुणितात्मकम् ।
पञ्चाशद्वा प्रगुणिता पञ्चाशद्वर्णभेदिनी ॥ ६६

पञ्चाशदंशगुणिताऽथ यदा भवेत् सा
देवी तदात्मविनिवेशितदिव्यभावा ।
सोषुम्नवर्त्मसुषिरोदरनादसङ्गात्
पञ्चाशदीरयति पंक्तिश एव वर्णान् ॥ ६७
इति श्रीप्रपञ्चसारे द्वितीय: पटलः ।

इति श्रीपरमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ

प्रपञ्चसारे द्वितीयः पटलः॥

तृतीयः पटलः ॥



अथोभयात्मका वर्णाः स्युरग्नीषोमात्मभेदतः ।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ ३.१॥
स्वराख्याः षोडश प्रोक्ताः स्पर्शाःः पञ्चविंशतिः ।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥२॥
एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः ।
पूर्वो ह्रस्वः परो दीर्घों बिन्दुसर्गान्तिकौ च तौ ॥ ३ ॥
आद्यन्तस्वरषट्कस्य मध्यर्ग यच्चतुष्टयम ।
वर्णानामागमघनैस्तन्नपुंसकमीरितम् ॥ १।।
तच्चतुष्कं सुषु्म्नास्थे कुर्यात्प्रााणेऽयनस्थितिम् ।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥५॥
दक्षसव्यस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च ।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ६
बिन्दुसर्गौ च यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् ।
तयोर्विकारविस्तारः पुरस्तात् संप्रवक्ष्यते ॥ ७

स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः ।
भवन्ति पञ्चवर्गास्तदन्त्यश्चात्मा रविः स्मृतः ॥ ८
चतुर्विंशतितत्त्वाख्यास्तस्मादर्णाः परे क्रमात् ।
तेन स्पर्शाक्षराः सौरा: प्राणाग्नीलाम्बुखात्मकाः ॥
व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः ।
शशीनाग्न्युत्थिता यस्मात् स्वरस्पृग्व्यापकाक्षराः ॥ १०
तत्त्रिभेदसमुद्भूता अष्टात्रिंशत्कला मताः ।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्याश्च वह्निजाः ॥ ११
षोड़श द्वादश दश संख्याः स्युः क्रमशः कलाः ।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ १२
सर्वगाश्च समुत्पन्नाः पञ्चाशत्संख्यकाः कलाः1 ।
तेभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ १३
तावत्यो मातृभिः सार्द्धं तेभ्यः स्यू रुद्रमूर्तयः ।
तेभ्य एव तु पञ्चाशत् स्युरोषधय ईरिताः ॥ १४
याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ १५

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः ॥ १६
तपि[प]नी ताप[ पि]नी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोध[धि]नी धार[रि]णी क्षमा ॥ १७
कभाद्या वसुदा: सौराष्ठडान्ता द्वादशेरिताः ।
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ १८
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
याद्यार्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥ १९
 सृष्टिर्ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा ।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ २०
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ।
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ २१
वरदा ह्लादिनी प्रीतिर्दीर्घाश्चोकारजाः कलाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ २२
तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया ।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ २३

मकारप्रभवा रुद्रजाताः संहृतये कलाः ।
बिन्दोरपि चतस्रः स्युः पीता श्वेताऽरुणाऽसिता ॥ २४
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ २५
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा स्यात् अनन्ता नादसम्भवा ॥ २६
नादजा: षोड़श प्रोक्ता भुक्तिमुक्तिप्रदायिकाः ।
केशव नारायण माधव गोविन्द विष्णवः ॥ २७
मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः ।
वामन: श्रीधराख्यश्च हृषीकेशस्त्वनन्तरः ॥ २८
पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक् ।
सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ २६
ततश्चक्री गदी शार्ङ्गी खड़्गी शङ्खी हली तथा ।
मुषली शूलिसंज्ञश्च भूयः पाशी तथाऽङ्कुशी ॥ ३०
मुकुन्दो 1नन्दजो नन्दी नरो नरकजिद्धरिः ।
कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ ३१

भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः ।
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥ ३२
हंसो [सिंहो] वराहो विमलो नृसिंहो मूर्तयो हलाम् ।
कीर्त्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥ ३३
मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती ।
प्रीती रतिश्च संप्रोक्ताः क्रमेण स्वरशक्तयः ॥ ३४
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विरजा विजया विश्वा विनदा सुतदा स्मृतिः ॥ ३५
ऋद्धिः समृद्धिः शुद्धिश्च भुक्तिर्मुक्तिर्मतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधाऽपरा ॥ ३६
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति शक्तयः सर्वकामदाः ॥ ३७
इमाः पञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः ।
सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ ३८
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अर्घीशो भावभूतिश्च 4स्थितीशः स्थाणुको हरः ॥ ३९

झिण्टीशो भौतिकः सद्योजातश्चाऽनुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ४०
ततः क्रोधीश चण्डेश पञ्चान्तक शिवोत्तमाः ।
तथैकरुद्र कूर्मैकनेत्राख्यचतुराननाः ॥ ४१
अजेश शर्व सोमेश्वराह्वा लाङ्गलिदारुकौ ।
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ ४२
अद्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरण्डौ च महाकालकपालिनौ ॥ ४३
भुजङ्गेश: पिनाकी च खड्गीशश्च वकस्तथा ।
श्वेतो भृगुश्च नकुली शिवः संवर्त्तकस्ततः ॥ ४४
पूर्णोदरी च विरजा तृतीया शाल्मली तथा ।
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा तथैव च ॥ ४५
सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेश्यौ च मुखी विकृतपूर्विका ॥ ४६
सज्वालोल्काश्रिया विद्यामुख्यः स्युः स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ४७

गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिके ।
भूतमाता लम्बोदरी द्राविणी नागरी तथा ॥ ४८
वैखरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोटरी पूतना भद्रकाली योगिन्य एव च ॥ ४६
शङ्खिनी गर्जिनी कालरात्रि कुर्दि (ब्जि)न्य एव च ।
कपर्दिनी महावज्रा जया च सुमुखेश्वरी ॥ ५०
रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षोपधारिणी चाऽन्या तथैव सहजाह्वया ॥ ५१
लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः ।
इत्युक्तस्त्रिविधो न्यासः क्रमात् सर्वसमृद्धिदः ॥ ५२
चन्दनकुचन्दनागुरुकर्पूरोशीररोगजलघुसृणाः ।
कक्कोलजातिमांसीमुराचोरग्रन्थिरोचनापत्राः ॥ ५३
पिप्पल बिल्व गुहारुणतृणकलवङ्गाह्वकुम्भिवन्दिन्यः ।
सोडुम्बरीकाश्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ ५४
प्लक्षाग्निमन्थसिंही कुशाह्वदर्भाश्च कृष्णहरपुष्पी ।
रोहिणलुण्डुकवृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ५५

शतमूलिलताद्विरेफा विष्णुक्रान्ता मुषल्यथाञ्जलिनी ।
दूर्वा श्रीदेवीसहे तथैव लक्ष्मीसदाभद्रे ॥ ५६
आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः ।
गुलिकाकषायभसितप्रभेदतो निखिलसिद्धिदायिन्यः ॥ ५७
यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः ।
येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ ५८
समीरिताः समीरेण सुषुम्नारन्ध्र निर्गताः ।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ ५९
उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् ।
नौचैर्गतोऽनुदात्तञ्च स्वरितं तिर्यगागतः ॥ ६०
अर्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् ।
सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ ६१
अकारेकारयोर्योगादेकारो वर्ण इष्यते ।
तस्यैवैकारयोगेन स्यादैकाराक्षरं तथा ॥ ६२

उकारयोगात्तस्यैव स्थादोकाराह्वयः स्वरः ।
तस्यैवौकारयोगेन स्यादौकाराह्वयः स्वरः ॥ ६३
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः ।
ऌवर्णर्वर्णयोर्व्यक्तिः लरोः सम्यक् प्रदृश्यते ॥ ६४
बिन्दु सर्गात्मनोर्व्यक्तिममसोरजपां वदेत् ।
कण्ठात्तु निःसरन् सर्ग: प्रायोऽचामेकतः परः ॥ ६५
नश्वर: सर्ग एव स्यात् सोष्मा सप्राणकस्तु हः ।
स सर्गः श्लेषितः कण्ठे वायुनाऽकादिमीरयेत् ॥ ६६
वर्गं(सर्ग) स्पर्शनमात्रेण कं स्वरस्पर्शनात् तु खम् ।
स्तोकगम्भीरसंस्पर्शात् गघौ ङश्च बहिर्गतः ॥ ६७
विसर्गस्तालुगः(ससर्गस्तालुगः) सोष्मेशं(सौष्म्यः) च वर्गञ्च यं तथा ।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ६८
ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् ।
दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समीरयेत् ॥ ६९

ह्रस्वाः पञ्च परे च सन्धिविकृताः पञ्चाथ विन्द्वन्तिका
काद्या: प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः ।
हान्ताः षक्षलसाः क्रमेण कथिता भूतात्मकास्ते पृथक्
तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः ॥ ७०
ऊद्गदादिललाः कोर्नसौ चतुर्थार्णका वसौ वारः ।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादियषाः ॥ ७१
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिद्ध्यै ॥ ७२
स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् ।
दाहशोषणसशून्यतादिकान् वह्निवायुवियदक्षरैश्चरेत् ॥ ७३
दशभिर्दशभिरमीभिर्नमोऽन्तिकै र्द्वन्द्वशश्च बिन्दुयुतैः ।
योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥ ७४

पूर्वोक्ताद्बिन्दुमात्रात् स्वयमथ रवतन्मात्रतामभ्युपेता-
कारादीन् द्व्यष्ट कादीनपि तदनुगतान् पञ्चविंशत्तथैव ।
यादीन् संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि-
स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ७५
इति श्रीप्रपञ्चसारे तृतीयः पटलः ॥


इति आमत्यर महतपरिवाजकाचार्यस्य
श्रीगौनिन्द्र भगा पूज्यपादसिप्यस्य<brपूर्वोक्ताद्बिन्दुमात्रात् स्वयमथ रवतन्मात्रतामभ्युपेता- कारादीन् द्व्यष्ट कादीनपि तदनुगतान् पञ्चविंशत्तथैव । यादीन् संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि- स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ७५ इति श्रीप्रपञ्चसारे तृतीयः पटलः ॥ /> अमरभगवतः कुतो
प्रचसारे तृतीयः पटलः ।

चतुर्थः पटलः ॥



चतुर्थ: पटलः ।
अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते ।
कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ १
प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः ।
षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ २
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह ।
करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ३
ईकारस्य गुणाः प्रोक्ताः षड़िति क्रमशो बुधैः ।
ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव च ॥ ४
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः ।
ऋकाराद्यास्तु चत्वारो रेफोत्था लॄपराः स्मृताः ॥ ५
एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् ।
ईकारस्य षड़ङ्गेभ्य इतीदं षोड़शाङ्गवत् ॥ ६
एभ्यः संजज्ञिरेऽङ्गेभ्यः स्वराः षोड़श सर्वगाः ।
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ७

गतो वो बीजतामेष प्राणिष्वेवं व्यवस्थितः ।
ब्रह्माण्डं ग्रस्तमेतेन व्याप्तं स्थावरजङ्गमम् ॥ ८
नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते ।
एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥
रेफो माया बीजमिति त्रिधा समभिधीयते ।
शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ १
क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः ।
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ११
तामेनां कुण्डलीत्येके सन्तो हृदयगां विदुः ।
सा रौति सततं देवी भृङ्गीसङ्गीतकध्वनिः ॥ १२
आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः ।
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ १३
चराचरस्य जगतो बीजत्वाद्बीजमेव तत् ।
मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ १४
रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः ।
हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ १५

हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च ।
अस्य बिन्दोः समुत्पत्त्या तदन्तोऽसौ हमुच्यते ॥ १६
स हंकारः पुमान् प्रोक्तः स इति प्रकृतिः स्मृता |
अजपेयं मता शक्तिस्तथा दक्षिणवामतः ॥ १७
बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः ।
तेन दक्षिणवामाख्यौ भागौ पुंस्त्रीविशेषितौ ॥ १८
बिन्दुः पुरुष इत्युक्तो विसर्ग: प्रकृतिर्मता ।
पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ १६
पुंरूपं सा विदित्वा स्वं सोहम्भावमुपागता ।
स एष परमात्माख्यो मनुरस्य महामनोः ॥ २
सकारञ्च हकारञ्च लोपयित्वा प्रयोजयेत् ।
सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ २१
ताराद्विभक्ताच्चरमांशतः स्युर्भूतानि खादीन्यथ मध्यमांशात् ।
इनादितेजांसि च पूर्वभागाच्छन्दाः समस्ताः प्रभवन्ति लोके ॥ २२

एवमेषा जगत्सूतिः सवितेत्यभिधीयते ।
यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥ २३
तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् ।
सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ २४
तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः ।
चवर्गप्रभवः काव्यष्टवर्गाद् बुधसम्भवः ॥ २५
तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः ।
यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ २६
यथा स्वरेभ्यो नाऽन्ये स्युर्वर्णाः षड्वर्गभेदिताः ।
तथा सवित्रनुस्यूतं ग्रहषट्कं न संशयः ॥ २७
इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणा ।
हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥ २८
सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी ।
स्वभासा क्रमते यत्र तत्राऽस्याः स्थितिरिष्यते ॥ २ε
अस्यास्तु रजसा चैव तमसा च दिवानिशम् ।
सत्त्वावष्टब्धबिन्द्वात्मा मेरुं पर्येति भास्करः ॥ ३०

अस्या विकाराद्वर्णेभ्यो जाता द्वादश राशयः ।
लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ३१
ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः ।
वक्ष्यामि चक्ररूपञ्च प्रबद्धं राशिभिर्यथा ॥ ३२
अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् ।
भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ३३
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते ।
ऋकारान्तैरुकाराद्यैर्वृषो युग्मं ततस्त्रिभिः ॥ ३४
एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः ।
अम:शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥ ३५
षड्भ्यः कचटतेभ्यश्च पयाभ्याञ्च प्रजज्ञिरे ।
वणिगाद्याश्च मीनान्ता राशयः शक्तिजृम्भणात् ॥ ३६
चतुर्भिर्यादिभिः सार्द्धं स्यात् क्षकारस्तु मीनगः ।
स्यातामर्धाधिकौ पञ्चनाड़िकौ चापकर्कटौ ॥ ३७
पादाधिका मकरयुक्सिंहवृश्चिक संज्ञकाः ।
पादोनौ कुम्भवृषभौ वणिक्कन्ये च पञ्चके ॥ ३८

त्रिपादोनौ मीनमेषौ संख्योक्ता राशिसंश्रिता ।
चापो नौरगयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ ३९
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ।
चरा वशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४०
स्युः कर्कटो वृश्चिकमीनराशी विप्रा नृपाः सिंहधनुश्च मेष: ।
तुला सकुम्भा मिथुनञ्च वैश्याः कन्यावृषौ द्वौ मकरश्च शूद्राः ॥ ४१
आङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके
बौधे कर्कटकाह्वयो हिमरुचेः सिंहस्तथा गोपतेः ।
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः
प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो दर्शितः ॥ ४२
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादश राशयः ॥ ४३
ततस्तदूर्ध्वभागस्थो भुवश्चक्रः समस्तथा ।
स तु सिंहादिको यस्मिन् पैतृकी नियता गतिः ॥ ४४

तदूर्ध्वभागसंस्थ: स्यात् स्वश्चक्रश्चाऽपि तादृशः ।
स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्तु सः ॥ ४५
धनुस्तु देवलग्नत्वात् समासाल्लग्नमुच्यते ।
विध्युर्धनुर्मेषसिंहा मकरर्षभकन्यकाः ॥ ४६
सकुम्भयुग्मवणिजो मीनवृश्चिककर्कटाः ।
अयन्तु राशिवेधः स्यादन्यो वेधस्तु भात्मकः ॥ ४७
मूलाश्विनीमघाज्येष्ठारेवत्यश्लेषकास्तथा ।
याम्यपूर्वानुपूर्वाहिर्ब्रध्नपुष्यानुराधकाः ॥ ४८
स्वाती शतभिषार्द्रा च श्रोणारोहिणहस्तकाः ।
पादं पादत्रयैर्विध्याद् योजयेदधमर्धकैः ॥ ४६
चरस्थिरोभयात्मानञ्चातुर्वर्ण्यगुणात्मकाः ।
राशिं राश्यधिपास्त्वेवं विध्युर्वेधविधानतः ॥ ५०
एभ्य एव तु राशिभ्यो नक्षत्राणाञ्च सम्भवः ।
स चाऽप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ ५१
आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः ।
लिपित्रयाद्रोहिणी च तत्पुरस्ताच्चतुष्टयात् ॥ ५२

एदैतोर्मृगशीर्षार्द्रे तदन्त्याभ्यां पुनर्वसुः ।
अमसोः केवलो योगो रेवत्यर्थं पृथङ्मतः ॥ ५३
कतस्तिष्यस्तथाऽश्लेषा खगयोर्घङयोर्मघा ।
चतः पूर्वाऽथ छजयोरुत्तरा झञयोस्तथा ॥ ५४
हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् ।
विशाखा तु ढणोद्भूता तथदेभ्योऽनुराधिका ॥ ५५
ज्येष्ठा धकारान्मूलाख्या नपफेभ्यो बतस्तथा ।
पूर्वाषाढ़ा भतोऽन्या च संजाता श्रवणा मतः ॥ ५६
श्रविष्ठाख्या च यरयोस्तथा शतभिषा लतः ।
वशयोः प्रोष्ठपत्संज्ञा षसहेभ्यः परा स्मृता ॥ ५७
ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते ।
तदेन्दुसूर्ययोर्योगादमावास्या प्रकीर्त्त्यते ॥ ५८
कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् ।
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥ ५९
स पुनः षसहैः सार्द्धं परप्रोष्ठपदं गतः ।
कारस्कराख्यामलकोदुम्बरा जम्बुसंज्ञकः ॥ ६०

खदिर: कृष्णवंशौ च पिप्पलो नागरोहिणौ ।
पलाशप्लक्षकाम्बष्ठ बिल्वार्जुनविकङ्कताः ॥ ६१
वकुलः सरलः सर्जो वञ्जुल: पनसार्ककौ ।
शमीकदम्बाम्म्रनिम्बमधूकान्ता दिनाङ्घ्रिपाः ॥ ६२
आयुष्कामः स्वर्क्षवृक्षं छेदयेन्न कदाचन ।
सेचयेद्वर्धयेच्चापि पूजयेत् प्रणमेत्तथा ॥ ६३
तिथिनक्षत्रवारेषु तेषु मन्त्रजपो वरः ।
तस्मादेषां दिनानाञ्च वक्ष्यन्ते देवतादयः ॥ ६४
अश्वियमानलधातृशशिरुद्रादितिमुरेज्यसर्पाश्च
पित्रर्यमभगदिनकृत्त्वष्टारो मरुतस्तथेन्द्राग्नी ।
मित्रेन्द्रौ निर्ऋतिजले विश्वेदेवा हरिस्तथा वसवः
वरुणोऽजैकपादहिर्ब्रध्नः पूषा च देवता भानाम् ॥ ६५
अश्वेभाजभुजङ्गसर्प सरमामार्जारकाजाकुली
मूषा मूषिकरुद्रयानमहिषीव्याघ्रा यमारोहणम् ।
व्याघ्र्येणी हरिणी श्ववानरपशुः शाखामृग: स्त्री हयो
मर्त्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ६६

एभ्योऽमावास्यान्ता वर्त्तन्ते प्रतिपदादिकास्तिथयः ।
राशिभ्योऽत्र तिथीनामध्यर्धयुगन्तु राशिरेकः स्यात् ॥ ६७
तेन त्रिंशत्तिथयो द्वादशधा वर्णभेदतो भिन्नाः ।
ता एव स्युर्द्वेधा पुनरपि पूर्वान्त्यपक्षभेदेन ॥ ६८
पक्षः पञ्चदशाहः स्यात् पूर्वः प्रतिपदादिकः शुक्लः ।
तद्वज्ज्ञेयोऽप्यपरः पक्षः कृष्णः प्रतिपदादिकः प्रोक्तः ॥ ६९
संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः ।
न समाः पक्षद्वितये त्रिंशद्भेदं तथाहि संप्राप्ताः(संप्रोक्ताः) ॥ ७०

अग्न्यश्व्युमाः सविघ्ना नागा गुहसवितृमातरो दुर्गा ।
ककुभो धनपतिविष्णुयमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ७१
राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थात् ।
अक्षरभेदविकारात् करणानि च सप्तभेदकान्यभवन् ॥ ७२
सिंहव्याघ्रवराहाः खरगजवृषकुक्कुराः प्रतिपदर्धात् ।
अन्त्यातिथ्यर्धाधं तिष्ठन्त्याकृष्णगोश्चतुर्दश्याः ॥ ७३
एवं सग्रहराशिकदिनतिथिकरणप्रभेदकाः कथिताः ।
अस्मात् पञ्चविभागाद्विज्ञेया पञ्चवर्णनिष्पत्तिः । ७४

वर्णाः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः ॥ ७४
इति मूलाक्षरविकृतं कथितमिदं वर्णविकृतिबाहुल्यम् ।
सचराचरस्य जगतो मूलत्वान्मूलताsस्य बीजस्य ॥ ७५
यां ज्ञात्वा सकलमपास्य कर्मबन्धं
तद्विष्णोः परमपदं प्रयाति लोकः ।
तामेतां त्रिजगति जन्तुजीवभूतां
हृल्लेखां जपत च नित्यमर्चयीत ॥ ७६
इति श्रीप्रपञ्चसारे चतुर्थः पटलः ।


इति आमत्यर महतपरिवाजकाचार्यस्य
श्रीगौनिन्द्र भगा पूज्यपादसिप्यस्य
अमरभगवतः कुतो
प्रपञ्चसारे चतुर्थः पटलः ।

अपि पश्यतु

सम्पाद्यताम्