प्रयोगमञ्जरी
रविः
एकादशशतकीयः केरलीयः शैवतन्त्रग्रन्थः ।


प्रयोगमञ्जरी

[शैवागमसिद्धान्तसारः]

प्रथमः पटलः सम्पाद्यताम्

बुद्धेरात्मभुवोप्यभूमिममलं यत्तत्वमाहुर्बुधाः
भेदो यस्य जगन्मयस्य बहुधाप्यौपाधिको लक्ष्यते ।
देहे स्वापचितिक्रमानभिदधे मन्त्रात्मभिः श्रेयसे
यो वा देहभृतां हिमाचलसुतानाथाय तुभ्यं नमः ।। 1 ।।
जनयतु हृदि सौख्यं वस्तुहिनकरकलाविभूषणो देवः ।
यस्य जगत्त्रयमखिलं धाम्ना कलया कयापि नियूढम् ।। 2 ।।
येभ्यः प्रणामविधिभिस्सकृदप्युपात्तै-
स्संसारसागरतरङ्गनिमज्जमानाः ।
ध्वस्तान्धकारमनसो मनुजास्तरन्ति
तेभ्यो नमोस्तु नियतं गुरुपादुकेभ्यः ।। 3 ।।
ज्ञानाग्निदग्धदुरितविषयप्रमुक्तै
मूर्ध्ना धृता सकलयोगिभिरादरेण ।
ये सर्वलोकमहिता मनसः प्रसादं
पुष्णन्तु ते गुरुपदाम्बुजपांसवो वः ।। 4 ।।
उद्दामता न वचसो न च कौशलं मे
बुद्धेः शिवस्य च न बोद्धुमलं हि तत्त्वम् ।

"https://sa.wikisource.org/w/index.php?title=प्रयोगमञ्जरी&oldid=270226" इत्यस्माद् प्रतिप्राप्तम्