पृष्ठ ३/२९६

प्रवीणः, त्रि, (प्रकृष्टा संसाधिता वीणास्य । यद्वा,

प्रवीणयति वीणया प्रगायतीति । प्र + वीण +
णिच् + अच् । वीणया गायकस्य नैपुण्यप्रसिद्धे-
स्तत्तुल्यनैपुण्यात् तथात्वम् ।) प्रकृष्टं वेत्ति यः ।
तत्पर्य्यायः । निपुणः २ अभिज्ञः ३ विज्ञः ४
निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत-
मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ ।
१ । ४ ॥ (यथा, कुमारे । १ । ४८ ।
“विश्वावसुप्राग्रहरैः प्रवीणैः
सङ्गीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्य-
स्ततार ताराधिपखण्डधारी ॥”)

प्रवीरः, पुं, (प्रकृष्टो वीरः ।) सुभटः । (यथा,

कथासरित्सागरे । २५ । १४५ ।
“इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच
ताम् ॥”
भौत्यस्य मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । ८८ ।
“अभिमानी प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥”
अत्र क्वचित् प्रवीणोऽपि पाठः ॥ पुरुवंशीयस्य
प्रचिन्वतः पुत्त्रः । यथा, तत्रैव । ३१ । ५ ।
“प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ॥”
धर्म्मनेत्रस्य उपदानवीगर्भजातः पुत्त्रभेदः ।
यथा, तत्रैव । ३२ । ७ -- ८ ।
“तंसोः सुरोधो राजर्षिर्धर्म्मनेत्रः प्रतापवान् ।
ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी ॥
उपदानवी सुतान् लेभे चतुरस्तान् सुयोधतः ।
दुष्मन्तमथ सुष्मन्तं प्रवीरमनध तथा ॥”
चण्डालपुरुषविशेषः । यथा, मार्कण्डेये । ८ । ८६ ।
“चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे ।
विख्यातो वध्यवधको मृतकम्बलहारकः ॥”)
उत्तमे, त्रि । इति धरणिः ॥ (यथा, देवी-
भागवते । २ । ५ । २० ।
“कुरुप्रवीरं कुरु मां पतिं त्वं
वृथा न गच्छेन्ननु यौवनं ते ॥”)

प्रवृत्तः, त्रि, (प्रवर्त्तते स्मेति । प्र + वृत् + क्तः ।)

प्रवृत्तिविशिष्टः । यथा, --
“ववृत्त एव स्वयमुज्झितश्रमः
क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां
मिथस्त्वदाभाषणलोलुपं मनः ॥”
इति शिशुपालबधे । १ । ४० ॥
आरम्भः । यथा, --
“प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन ।
यतस्तदन्यथा भूतं तत एव समापयेत् ॥”
इति छन्दोगपरिशिष्टम् ॥
प्रकृष्टवर्त्तनविशिष्टश्च ॥ (यथा, रामायणे । ७ ।
८० । १ ।
“अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥”)

प्रवृत्तिः, स्त्री, (प्रवर्त्तते इति । प्र + वृत् + क्तिन् ।)

प्रवाहः । उदन्तः । (यथा, मेघदूते । ४ ।
“प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थां
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥”
प्रवर्त्तनमिति । प्र + वृत् + क्तिन् ।) प्रवर्त्तनम् ।
(यथा, महाभारते । १२ । ३० । १६ ।
“ववृधे हि ततस्तस्य हृदि कामो महात्मनः ।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥”
प्रवर्त्तते व्याप्नोति प्रसिद्धत्वेनेति । प्र + वृत् +
क्तिच् । यज्ञादिव्यापारः । यथा, महाभारते ।
१ । १ । २५५ ।
“असच्च सदसच्चैव यस्माद्विश्वं प्रवर्त्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥”
“सन्ततिर्ब्रह्मादिः । प्रवृत्तिर्यज्ञादिः ॥” इति
तट्टीकायां नीलकण्ठः ॥”) अवन्त्यादिदेशः ।
इति मेदिनी । ते, १३० ॥ हस्तिमदः । इति
हेमचन्द्रः । ४ । २९० ॥ न्यायमते यत्नविशेषः ।
अस्याः कारणम् । चिकीर्षा । कृतिसाध्यता-
ज्ञानम् । इष्टसाधनताज्ञानम् । उपादानप्रत्य-
क्षम् । यथा, --
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ।
एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥
चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥”
इति भाषापरिच्छदः ॥
(यथा, पञ्चदश्याम् । ६ । १७३ ।
“देहादिपञ्चरं यन्त्रं तदारोहोऽभिमानिता ।
विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥”
प्रयत्नसहितादन्तःकरणात् प्रवृत्तिर्जायते ।
यदुक्तं कामन्दकीये नीतिसारे । १ । ३३ -- ३५ ।
“आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते ।
आभ्यान्तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥
आत्माबुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते ।
सङ्कल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥
उभे एते हि करणे यत्नानन्तर्य्यके स्मृते ।
तस्मात् प्रवृत्तिसंरोधाद्भावयेन्निर्मनस्कताम् ॥”
“आत्ममनोबुद्धिकर्म्मेन्द्रियाणां लक्षणमभिधाय
बुद्धेरन्तःपरिकल्पनया कारणविभागमभिधातु-
माह । आत्मा मनश्चेति । अभिहितेन लक्ष-
णेनेति प्रतिपाद्यते यया विद्यया साऽन्वयविद्या
सा विद्यते येषां ते तद्विद्याः कणादाक्षपादा-
दयः तैः तद्विद्यैः आत्मा मनश्च अन्तःकरण-
मुच्यते । आभ्यां आत्ममनोभ्यां प्रयत्नसहिताभ्यां
सङ्कल्पः प्रवृत्तिः । इन्द्रियप्रवर्त्तनं उपजायते ।
बहिःकरणमभिधातुमाह । आत्मा बुद्धीति ।
आत्मा उक्तलक्षणः । बुद्धिः मनः । इन्द्रियाणि
बाह्यरूपाणि । अर्थाः शब्दादयः । कर्म्मे-
न्द्रियाणां हि उत्सर्गादिका अर्थाः प्रयोजनानि ।
एतत् सर्व्वं बहिःकरणम् । सङ्कल्पः सम्यग्-
भूतार्थकल्पनं अध्यवसायः प्रयत्नविशेषः ताभ्यां
अस्य आत्मनः सुखानुभवलक्षणा सिद्धिः प्रकी-
र्त्तिता । तदेवं अन्तःकरणप्रवृत्तिः प्रयत्नादेव
बहिःकरणप्रवृत्तिरपि अध्यवसायलक्षणात्
प्रयत्नादेवेति दर्शितं भवति एतदेव समर्थ-
यन्नाह । उभे एते हीति । उभे एते अनन्त-
रोक्ते हि स्फुटं करणे अन्तर्बहिःकरणसंज्ञके
यत्नानन्तर्यके प्रयत्नानन्तरं वर्त्तेते प्रयत्नप्रेर-
णादित्यर्थः । तस्मादिति । यस्मादेवं तस्मात्
प्रवृत्तिसंरोधात् उभयात्मकस्य प्रयत्नस्यैव संरोधं
कृत्वा निर्म्मनस्कतां भावयेत् निर्मनस्कभावं अभ्य-
स्येत् यावत् प्रयत्न एव निरुद्धो भवति ताव-
दात्मा मनसा न युज्यते ततश्च विद्यमानमपि
मनो नास्त्येव मनःकार्य्याकरणात् । अन्तः-
करणविश्लेषात् प्रवृत्तिर्नोपपद्यते । एवमन्तः-
करणप्रवृत्त्यभावात् बहिःकरणप्रवृत्तेरप्यभावः ।
तदभावात् इन्द्रियाणां विषयैः सम्बन्ध एव न
स्यात् इति भावः ।” इति तट्टीका ॥)

प्रवृत्तिज्ञः, पुं, (प्रवृत्तिं वृत्तान्तं जानातीति । ज्ञा +

कः ।) चारभेदः । तत्पर्य्यायः । वार्त्तिकः २
वार्त्तायनः ३ । इति त्रिकाण्डशेषः ॥

प्रवृद्धः, त्रि, (प्रवर्द्धते स्मेति । प्र + वृध् + क्तः ।)

वृद्धियुक्तः । तत्पर्य्यायः । प्रौढः २ एधितः ३ ।
प्रसारितः । तत्पर्य्यायः । प्रसृतः २ । इत्यमरः ।
३ । १ । ७६ ॥ (यथा, देवीभागवते । ३ । ८ । २९ ।
“सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् ।
वैराग्यं तत्फलं जातं तामसार्थेषु नारद ! ॥”)

प्रवेकः, त्रि, (प्रविच्यते पृथक् क्रियते इति ।

प्र + विच् + कर्म्मणि घञ् ।) उत्तमः । प्रधा-
नम् । इत्यमरः । ३ । १ । ५७ ॥ (यथा, भाग-
वते । २ । ९ । ११ ।
“श्यामावदाताः शतपत्रलोचनाः
पिशङ्गवस्त्राः सुवचः सुपेशसः ।
सर्व्वे चतुर्बाहव उन्मिषन्मणि-
प्रवेकनिष्काभरणा सुवर्च्चसः ॥”)

प्रवेटः, पुं, (प्रवीयते खाद्यते इति । प्र + वी +

बाहुलकात् टः ।) यवः । इति त्रिकाण्डशेषः ॥

प्रवेणिः, स्त्री, (प्रकर्षेण वीयते इति । प्र + वी गतौ

+ “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ ।
इति निः । णत्वम् । यद्वा, प्रवेणति सौन्दर्य्यं प्राप्नो-
तीति । प्र + वेण गतौ + इन् ।) कुथः । वेणी ।
इति मेदिनी । णे, ६३ ॥

प्रवेणी, स्त्री, (प्रकर्षेण वीयते इति । प्र + वी गतौ

+ “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ ।
इति निः । णत्वम् । कृदिकारादिति पाक्षिको
ङीष् ।) वेणी । (यथा, रघौ । १५ । ३० ।
“तत्र सौधगतः पश्यन् यमुना चक्रवाकिणीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥”)
गजपृष्ठस्थचित्रकम्बलम् । इत्यमरः । २ । ६ । ९८ ॥
(यथा, महाभारते । १५ । २७ । १३ ।
“अजितानि प्रवेणीश्च स्रुक् स्रुवञ्च महीपतिः ।
कमण्डलूंश्च स्थालीश्च पिठराणि च भारत ! ॥
नदीविशेषः । यथा, महाभारते । ३ । ८८ । ११ ।
“प्रवेण्युत्तरमार्गे तु पुण्ये कण्वाश्रमे तथा ।
तापसानामरण्यानि कीर्त्तितानि यथाश्रुति ॥”)
पृष्ठ ३/२९७

प्रवेलः, पुं, (प्र + वेल् + अच् ।) पीतमुद्गः । इति

हेमचन्द्रः । ४ । २३८ ॥

प्रवेशः, पुं, (प्र + विश् + “हलश्च ।” ३ । ३ ।

१२१ । इति भावे घञ् ।) अन्तर्विगाहनम् ।
इति हेमचन्द्रः । ६ । १०६ ॥ (यथा, काम-
न्दकीये नीतिसारे । ७ । ३९ ।
“निर्गमे च प्रवेशे च राजमार्गं समन्ततः ।
प्रोत्सारितजनं गच्छेत् सम्यगाविष्कृतो-
न्नतिः ॥”)

प्रवेशनं, क्ली, (प्रविश्यतेऽनेनेति । प्र + विश् +

करणे ल्युट् ।) सिंहद्वारम् । इति हेमचन्द्रः ।
४ । ५९ ॥ (प्र + विश् + भावे ल्युट् ।) प्रवेशः ।
(यथा, हरिवंशे । १७४ । ११२ ।
“तव योगप्रभावेन शक्यं तत्र प्रवेशनम् ।
किं मे बहुविलापेन श्रूयतां सखि ! कारणम् ॥”)

प्रवेष्टः, पुं, (प्रवेष्टते इति । वेष्ट् वेष्टने + अच् ।)

बाहुः । इत्यमरः । २ । ६ । ८० ॥ बाहुनीच-
भागः । इति शब्दचन्द्रिका ॥ हस्तिदन्तमांसम् ।
इति हारावली । ३० ॥ गजपृष्ठतल्पनम् । इति
त्रिकाण्डशेषः ॥

प्रव्यक्तं, त्रि, (प्रव्यज्यते स्मेति । प्र + वि + अन्ज्

+ क्तः ।) स्फुटम् । इत्यमरः । ३ । १ । ८१ ॥
(यथा, सुश्रुते निदानस्थाने द्वितीयाध्याये ।
“जातेष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति ॥”)

पव्रजितः, पुं, (प्र + व्रज् + क्तः ।) बुद्धभिक्षु-

शिष्यः । तत्पर्य्यायः । चेलुकः २ श्रामणेरः ३
महापाशकः ४ गोमी ५ । इति त्रिकाण्डशेषः ॥
त्रि प्रव्रज्याश्रमविशिष्टः ॥ (यथा, पराशर-
संहितायाम् । ४ । २६ ।
“नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥”
प्र + व्रज् + भावे क्तः । क्ली, सन्न्यासः । यथा,
महाभारते । ५ । १७६ । ५ ।
“अलं प्रव्रजितेनेह भद्रे ! शृणु हितं वचः ।
इतो गच्छस्व भद्रन्ते पितुरेव निवेशनम् ॥”)

प्रव्रजिता, स्त्री, (प्रव्रजितस्य लिङ्गमिव जटादिक-

मस्त्यस्या इति । अच् । टाप् ।) मांसी ।
मुण्डीरी । (प्रव्रजित + टाप् ।) तापसी । इति
मेदिनी । ते, २१० ॥

प्रव्रज्या, स्त्री, (प्र + व्रज + “व्रजयजोर्भावे क्यप् ।”

५ । ३ । ९८ । इति भावे क्यप्प्रत्ययः ।) सन्न्यासः ॥
(यथा, महाभारते । ३ । १७७ । ७ ।
“बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ॥”
यथा च कुमारे । ६ । ६ ।
“मुक्तायज्ञोपवीतानि विभ्रतो हैमवल्कलाः ।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥”
“अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वान-
प्रस्थाश्रमो लक्ष्यते ‘जहुः परिग्रहव्रीडां प्राजा-
पत्यास्तपस्विनः’ इति सपत्नीकत्वाभिधानात्
‘सुतविन्यस्तपत्नीकः तया वानुगतोऽपि सन्’
इति वानप्रस्थस्योभयथा स्मरणात् ॥” इति तत्र
मल्लिनाथः ॥ वृथाप्रव्रज्याश्रितानां निन्दनीयत्व-
मुक्तम् । यथा, मनौ । ५ । ८९ ।
“वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस्तागिनाञ्चैव निवर्त्तेतोदकक्रिया ॥”
क्ली, प्रव्रजनम् । यथा, महाभारते । ४ । १७ । ११ ।
“कोऽहि राज्यं परित्यज्य सर्व्वस्वं चात्मना सह ।
प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥”)

प्रव्रज्यावसितः, पुं, (प्रव्रज्याया अवसितो विच्युतः ।)

सन्न्यासभ्रष्टः । यथा, --
“तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥”
इति दायभागवचनव्याख्यायां क्रमसंग्रहः ॥
(यथा, कात्यायनवचनम् ।
“प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः ।
निर्वासं कारयेद्विप्रं दासत्वं क्षत्त्रवैश्ययोः ॥”)

प्रशंसा, स्त्री, (प्र + शन्स + भावे अः । स्त्रियां

टाप् ।) प्रशंसनम् । तत्पर्य्यायः । वर्णना २
ईडा ३ स्तवः ४ स्तोत्रम् ५ स्तुतिः ६ नुतिः ७
श्लाघा ८ अर्थवादः ९ । इति हेमचन्द्रः । २ ।
१८४ ॥ (यथा, मनुः । १० । १२७ ।
“धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः ।
मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥”)
आत्मप्रशंसानिषेधो यथा, --
“न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥

प्रशमः, पुं, (प्रशमनमिति । प्र + शम् + भावे

घञ् ।) शमता । उपशमः । यथा, --
“एतानि दशपापानि प्रशमं यान्तु जाह्नवि ! ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा च हरिवंशे । ९८ । ८१ ।
“स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ ॥”)

प्रशमनं, क्ली, (प्र + शम् + णिच् + ल्युट् ।) मार-

णम् । वधः । इति हेमचन्द्रः ॥ (प्र + शम् +
ल्युट् ।) शमता । प्रशान्तिः । यथा, --
“सर्व्वावाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ! ।
एवमेव त्वया कार्य्यमस्मद्वैरिविनाशनम् ॥”
इति मार्कण्डेयपुराणम् । ९१ । ३५ ॥
(प्रतिपादनम् । दानम् । इति कुल्लूकभट्टः ॥
यथा, मनुः । ७ । ५६ ।
“तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥”
स्थिरीकरणम् । प्रशमनेन स्थिरीकरणेन । यथा,
रघुः । ४ । १४ ।
“लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
पार्थिवश्रीर्द्बितीयेव शरत्पङ्कजलक्षणा ॥”)
इति मल्लिनाथः ॥

प्रशस्तं, त्रि, (प्रशस्यते स्मेति । प्र + शन्स +

क्तः ।) क्षेमम् । इति शब्दरत्नावली ॥ प्रशं-
सनीयम् । अतिश्रेष्ठम् । इति मतल्लिकादि-
शब्दटीकायां भरतः ॥ (यथा, रघुः । ५ । २५ ।
“स त्वं प्रशस्ते महिते मदीये
वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ॥”)

प्रशस्यः, त्रि, प्रशंसनीयः । प्रपूर्ब्बशन्सधातोः

कर्म्मणि क्यप्प्रत्ययेन निष्पन्नः ॥ (यथा, काम-
न्दकीयनीतिसारे । ११ । ५५ ।
“अपश्चात् तापकृत्सम्यगनुरक्तिफलप्रदः ।
अदीर्घकालोऽभीष्टश्च प्रशस्यो मन्त्र इष्यते ॥”)

प्रशान्, [म्] त्रि, प्रकर्षेण शाम्यति यः । (प्र +

शम् + क्विप् । “अनुनासिकस्य क्विझलोः
क्ङिति ।” ६ । ४ । १५ । इति दीर्घः ।)
शान्तः । इति मुग्धबोधव्याकरणम् ॥ (सामर्थ्ये
नान्तोऽव्ययोऽयम् ॥)

प्रशान्तः, त्रि, (प्रकर्षेण शान्तः ।) प्रकृष्टशमता-

विशिष्टः । यथा, --
“प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥”
इति मार्कण्डेयपुराणे । ८१ । ९ ।

प्रशास्ता, [ऋ] त्रि, (प्रशास्तीति । प्र + शास् +

तृच् । “ग्रसितस्कभितेति ।” ७ । २ । ३४ ।
इति निपातनादिडभावः । यद्वा, “तृन्तृचौ
शंसिक्षदादिभ्यः संज्ञायाञ्चानिटौ ।” उणा०
२ । ९४ । इति तृण् इट् च न ।) ऋत्विक् ।
मित्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥
शासनकर्त्ता ॥ (यथा, कामन्दकीयनीतिसारे ।
१३ । ४५ ।
“प्रशास्त्रध्यक्षसेनानां मन्त्र्यमात्यपुरोधसाम् ।
सम्यक्प्रचारविज्ञानं दुष्टानाञ्चावबोधनम् ॥”)

प्रश्नः, पुं, (प्रच्छनमिति । प्रच्छ + “यजयाच-

यतेति ।” ३ । ३ । ९० । इति नङ् । “च्छ्वोः
शूडिति ।” ६ । ४ । १९ । इति शः । “प्रश्ने
चेति ।” ३ । २ । ११७ । इति ज्ञापकात् न
सम्प्रसारणम् ।) जिज्ञासा । तत्पर्य्यायः । अनु-
योगः २ पृच्छा ३ । इत्यमरः । १ । ६ । १० ॥
(यथा, मनुः । १ । ११५ ।
“साक्षिप्रश्नविधानञ्च धर्म्मं स्त्रीपुंसयोरपि ॥”
“पृच्छा तन्त्रात्यथाम्नायं विधिना प्रश्न उच्यते ॥”
इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

प्रश्नदूती, स्त्री, (प्रश्नस्य दूतीव ।) प्रहेलिका ।

इति त्रिकाण्डशेषः ॥

प्रश्नी, स्त्री, (पृश्निः पृषोदरादित्वात् रः । वा

ङीष् ।) कुम्भिका । इति त्रिकाण्डशेषः ॥

प्रश्रयः, पुं, (प्रश्रयणमिति । प्र + श्रि + भावे

अच् ।) प्रणयः । इत्यमरः । ३ । २ । २५ ॥
(यथा, कामन्दकीयनीतिसारे । ८ । ८ ।
“अदीर्घसूत्रताक्षौद्रं प्रश्रयः स्वप्रधानता ।
प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥”)

प्रश्रितः, त्रि, (प्र + श्रि + क्तः ।) विनीतः । इत्य-

मरः । ३ । १ । २५ ॥ (यथा, रामायणे । १ ।
१३ । २ ।
“अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥”)

प्रश्लथः, त्रि, (प्रकृष्टः श्लथः ।) शिथिलः । इति

त्रिकाण्डशेषः ॥

प्रष्टा, [ऋ] त्रि, (पृच्छतीति । प्रच्छ + तृच् ।

“व्रश्चेति ।” ८ । २ । ३६ । इति षः ।) प्रश्न-
कर्त्ता । तत्पर्य्यायः । कथंकथिकः २ । इति
पृष्ठ ३/२९८
त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । ७५ । २९ ।
“विवेश वह्रिशालां वै प्रष्टारं प्राह हव्यभुक् ॥”)

प्रष्ठः, त्रि, (प्रतिष्ठते अग्रतो गच्छतीति । प्र +

स्था + “सुपि स्थः ।” ३ । २ । ४ । इति कः । “प्रष्ठो-
ऽग्रगामिनि ।” ८ । ३ । ९२ । इति षत्वम् ।)
अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (थथा,
रघुः । १५ । १० ।
“आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथप्रष्ठैर्बालखिल्यैरिवांशुमान् ॥”)

प्रष्ठवाट्, [ह्] पुं, (प्रष्ठः अग्रगामी सन् वह-

तीति । प्रष्ठ + वह् + “वहश्च ।” ३ । २ । ६४ ।
इति ण्विः ।) युगपार्श्वगः । इत्यमरः । २ । ९ ।
६३ ॥ शिक्षार्थं युगवाहिपार्श्वयोजितः । इति
भरतः ॥ योजितं युगपार्श्वे दमनार्थं यं हालिका
भ्रामयन्ति सः । इति मधुः ॥ युवा गौर्दमनाय
योजितः । इत्यन्ये ॥

प्रष्ठी, स्त्री, (प्रष्ठ + ङीष् ।) प्रष्ठभार्य्या । अग्र-

गामिपत्नी । इति जटाधरः ॥

प्रष्ठौही, स्त्री, (प्रष्ठवाह् + “वाहः ।” ४ । १ ।

६१ । इति ङीष् ।) बालगर्भिणी । प्रथमगर्भ-
वती गौः । प्रष्ठं प्रथमगर्भं वहति या सा ।
बाला सती गर्भिणी प्रथमगर्भेत्यर्थः । इति
भरतः ॥ (यथा, महाभारते । १३ । ९३ । ३३ ।
“प्रष्ठौहीनां पीवराणाञ्च तावद्
अग्र्या गृष्ठ्यो धेनवः सुव्रताश्च ॥”)

प्रस, म ष ङ प्रसवे । ततौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । म,
प्रसयति । ष, प्रसा । ङ, प्रसते कीर्त्तिं विद्या ।
प्रसते विस्तारयति वेत्यर्थः । इति दुर्गादासः ॥

प्रसक्तं, क्ली, (प्न + सन्ज + क्त ।) नित्यम् । इति

जटाधरः ॥ (यथा, माधवकृतरुग्विनिश्चयस्य
कासाधिकारे ।
“प्रसक्तवेगस्तु समीरणेन
भिन्नस्वरः कासति शुष्कमेव ॥”
“प्रसक्तवेगः स्रततकासवेगः ।” इति तट्टी-
कायां विजयरक्षितः ।) तद्वति, त्रि ॥ (आसक्तः ।
यथा, गीतायाम् । १६ । १६ ।
“अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥”)

प्रसक्तिः, स्त्री, (प्र + सन्ज + भाबे क्तिन् ।) प्रसङ्गः ।

(यथा, किराते । ५ । ५० ।
“मा भूवन्नपथहरास्तवेन्द्रियाश्वाः
सन्तापे दिशतु शिवः शिवां प्रसक्तिम् ॥”)
अनुमितिः । आपत्तिः । इति सव्यभिचार-
शिरोमणिः ॥

प्रसङ्गः, पुं, (प्र + सन्ज + घञ् ।) सङ्गतिविशेषः ।

यथा, --
“स प्रसङ्ग उपोद्धातो हेतुतावसरस्तथा ।
निर्व्वाहकैककार्य्यत्वे षोढासङ्गतिरिष्यते ॥”
तस्य लक्षणम् । स्मृतस्योपेक्षानर्हत्वम् । तद-
र्थस्तु स्मृतिविषयतापन्नत्वे सति द्वेषविषयता-
नापन्नत्वम् । इत्यनुमितिग्रन्थे गदाधरभट्टा-
चार्य्यः ॥ * ॥ (“प्रकरणान्तरेण समापनं प्रसङ्गः ।
यथा प्रकारान्तरितो योऽर्थोऽसकृदुक्तः समा-
प्यते स प्रसङ्गः । यथा । महाभूतशरीरिसम-
वायः पुरुषस्तस्मिन् सोऽधिष्ठानमिति वेदोत्-
पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभि-
हितं पञ्च महाभूतशरीरिसमवायः पुरुष इति
स खल्वेवं कर्म्म पुरुषश्चिकित्सायामधिकृतः ॥”
इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, --
“दृष्टा तु हरते पापं स्पृष्टा तु त्रिदिवं नयेत् ।
प्रसङ्गेनापि या गङ्गा मोक्षदा ह्यवगाहिता ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
(यथा च देवीभागवते । ३ । ९ । ४२ ।
“अस्पष्टमपि तन्नाम प्रसङ्गेनापि भाषितम् ।
ददाति वाञ्छितानर्थान् दुर्ल्लभानपि सर्व्वथा ॥”)
प्रसक्तिः । यथा, --
“आनीता भवता यदा पतिरता साध्वी धरत्रीसुता
स्फुर्ज्जद्राक्षस्रमायया न च कथं रामाङ्गमङ्गी-
कृतम् ।
कर्त्तुं चेतसि पुण्डरीकनयनं दूर्व्वादलश्यामलं
तुच्छं ब्रह्मपदं भवेत् परबधूसङ्गप्रसङ्गः कुतः ॥”
इति नाटकम् ॥ * ॥
प्रस्तावः । यथा, --
“तत्रैव गङ्गा यमुना च तत्र
गीदावरी तत्र सरस्वती च ।
सर्व्वाणि तीर्थानि वसन्ति तत्र
यत्राच्युतोदारकथाप्रसङ्गः ॥”
इति पौराणिकाः ॥ * ॥
मैथुनम् । यथा । प्रसङ्गनित्यद्रुतपृष्ठयानादिति
रुग्विनिश्चयवचनटीकायां विजयरक्षितः ॥
(यथा च देवीभागवते । १ । १२ । २० ।
“ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
परिवृत्त्य ययुस्तूर्णं नरनारायणाश्रमम् ॥”)

प्रसज्यप्रतिषेधः, पुं, (प्रसज्य प्रवृत्तिं सम्पाद्य प्रति-

षेधो निषेधः ।) निषेधविशेषः । तल्लक्षणं यथा,
“अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥”
अस्योदाहरणम् । भोजराजः ।
“पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः ।
भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥”
अत्र रोगीतिनिन्दाश्रवणात् प्रसज्यता । नोप-
तिष्ठते इति श्रषणात् पर्य्युदासता । इति मल-
मासतत्त्वम् ॥

प्रसत्तिः, स्त्री, (प्र + सद् + क्तिन् ।) प्रसन्नता ।

नैर्म्मल्यम् । इति जटाधरः ॥

प्रसत्वरी, स्त्री, (प्रसत्वन् + “वनो रच ।” ४ ।

१ । ७ । इति ङीब्रौ ।) प्रतिपत्तिः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

प्रसत्वा, [न्] पुं, (प्रसीदतीति । प्र + स्रद् +

क्वनिप् ।) धर्म्मः । प्रजापतिः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

प्रसन्नः, त्रि, (प्रसीदतीति । प्र + सद् + गत्यर्थेति

क्तः ।) निर्म्मलः । तत्पर्य्यायः । अच्छः २ ।
इत्यमरः । १ । १० । १४ ॥ (यथा, महाभारते ।
४ । २७ । २४ ।
“रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणा-
न्विताः ।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥”)
सन्तुष्टः । इति मेदिनी । ने, ८६ ॥ (यथा,
रघुः । ५ । १० ।
“अपि प्रसन्नेन महर्षिणा त्वं
सम्यग्विनीयानुमतो गृहाय ॥”)

प्रसन्नता, स्त्री, (प्रसन्न + तल् ।) प्रसन्नस्य भावः ।

तत्पर्य्यायः । प्रसादः २ । इत्यमरः । १ । ३ । १६ ॥
(यथा, हठयोगप्रदीपिकायाम् । २ । ७८ ।
“वपुः कृशत्वं वदने प्रसन्नता
नादस्फुटत्वं नयने सुनिर्म्मले ॥”)

प्रसन्ना, स्त्री, (प्रसन्न + टाप् ।) सुरा । इत्यमरः ।

२ । १० । ४० ॥ मद्यविशेषः । तस्य गुणाः ।
“प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी ।
शूलप्रवाहिकाटोपकफवातार्शसां हिता ॥”
इति राजवल्लभः ॥
प्रसादविशिष्टा । यथा, मार्कण्डेये । ८१ । ४३ ।
“सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥”

प्रसन्नेरा, स्त्री, (प्रसन्ना निर्म्मला इरा जलमिव ।

मदिरा । इत्यमरटीकायां भरतः । २ । १० । ४० ॥)

प्रसभः, पुं, (प्रगता सभा सभाधिकारो यस्मात् ।)

बलात्कारः । इत्यमरः । २ । ८ । १०८ ॥
(यथा, श्रीकण्ठचरिते । ५ । ४२ ।
“यस्मिन् विनिर्म्मितवति प्रसभं प्रकोपा-
दत्युग्रनिग्रहनवानुभवोपदेशम् ॥”)

प्रसरः, पुं, (प्र + सृ + भावादौ यथायथं अप् ।)

तन्तुव्रणविटपादेर्व्विसर्पणम् । प्रकर्षेण निकटे
सरणं सर्पणम् । तत्पर्य्यायः । विसर्पः २ । इत्य-
मरभरतौ । ३ । २ । २३ ॥ (यथा, रघुः । १६ । २० ।
“तिरस्क्रियन्ते कृमितन्तुजालै-
र्विच्छिन्नधूमप्रसरा गवाक्षाः ॥”)
प्रणयः । वेगः । इति मेदिनी । रे, १८२ ॥
(यथा, कलाविलासे । १ । २१ ।
“इति विनयनम्रशिरसा तेन घचो युक्तमुक्त-
मवधार्य्य ।
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौ-
ष्ठाग्रः ॥”)
समूहः । इति शब्दरत्नावली ॥ (यथा, आर्य्या-
सप्तशत्याम् । ५८९ ।
“स्तननूतननखलेखालम्बी तव घर्म्मविन्दु-
सन्दोहः ।
आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥”
प्रकृष्टसञ्चरणम् । यथा, --
“अत ऊर्द्ध्वं प्रसरं वक्ष्यामः । तेषामेभिरातङ्क-
विशेषैः प्रकुपितानां पर्य्युषितकिण्वोदकपिष्ट-
समवाय इवोद्रिक्तानां प्रसरो भवति तेषां वायु-
र्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि
पृष्ठ ३/२९९
रजोभूयिष्ठो रजश्च प्रवर्त्तकं सर्व्वभावानाम् ।
यथा महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्य्या-
परेणोदकेन व्यामिश्रः सर्व्वतः प्रधावत्येवं दोषाः
कदाचिदेकशो द्विशः समस्ताः शोणितसहिता
वानेकधा प्रसरन्ति ।” इति सुश्रुते सूत्रस्थाने
२१ अध्यायः ॥) युद्धम् । इति विश्वः । नाराचः ।
इति भूरिप्रयोगः ॥

प्रसरणं, क्ली, (प्र + सृ + भावे ल्युट् ।) सैन्यानां

सर्व्वतो व्याप्तिः । तत्पर्य्यायः । आसारः २ ।
इत्यमरः । २ । ८ । ९६ ॥ प्रसरणी ३ प्रस-
रणिः ४ प्रसारणी ५ । इति रामाश्रमः ॥
सैन्यानां तृणकाष्ठादिहेतवे इतस्ततो गमनम् ।
इति हेमचन्द्रः । ३ । ४५५ ॥ (गमनमात्रम् ।
यथा, मृच्छकटिके । ३ अङ्के ।
“मार्ज्जारः क्रमणे मृगः प्रसरणे श्येनो गृहा-
लुञ्चने
सुप्तासुप्तमनुष्यवीर्य्यतुलने श्वा सर्पणे पन्नगः ॥”
अभ्युत्थानादिकम् । यथा, भागवते । ५ । १ । २९ ।
“वर्हिष्यत्याश्चानुदिनमेधमानप्रमोदप्रसरण-
यौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वे-
ल्यादिभिरिति ॥”)

प्रसरणी, स्त्री, (प्र + सृ + “अर्त्तिसृघ्रित्यनिः ।”

इति अनिः । कृदिकादिति वा ङीष् ।) प्रस-
रणम् । इत्यमरटीकायां भरतः । २ । ८ । ९६ ॥

प्रसर्पणं, क्ली, (प्र + सृप् + ल्युट् ।) गमनम् । प्रस

रणम् । प्रपूर्ब्बसृपधातोर्भावेऽनट्प्रत्ययः ॥ (यथा,
महाभारते । ३ । १२९ । ६ ।
“प्रसर्पणं महीपाल ! रौप्यायाममितौजसः ॥”
गतिसाधने, त्रि । यथा, ऋग्वेदे । १० । ६० । ७ ।
“इद तव प्रसर्पणं सुबन्धवेहि निरिहि ॥”
“वर्त्तमानेदं तव शरीरं तव प्रसर्पणं प्रकर्षेण
सर्पणसाधनम् ॥” इति तद्भाष्ये सायनः ॥)

प्रसवः, पुं, (प्र + सू + “ऋदोरप् ।” ३ । ३ । ५७ ।

इत्यप् ।) गर्भमोचनम् । तत्पर्य्यायः । प्रसूतिः २ ।
इत्यमरः । ३ । २ । १० ॥ (यथा, रघुः । ३ । १२ ।
“पतिः प्रतीतः प्रसवोन्मुखीं प्रियां
ददर्श काले दिवमभ्रितामिव ॥”
गर्भग्रहणम् । यथा, मनुः । ९ । ७० ।
“यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत्सकृदृतावृतौ ॥”)
उत्पादः । (जन्म । यथा, रघुः । १ । २२ ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः ।
गुणागुणानुबन्धित्वात्तस्य सप्रसवा इव ॥”
“सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा
इव ।” इति तट्टीकायां मल्लिनाथः ॥) अप-
त्यम् । (यथा, रघुः । ८ । ३० ।
“ऋषिदेवगणस्वधाभुजां
श्रुतयागप्रसवैः स पार्थिवः ।
अनृनत्वमुपेयियान् बभौ
परिधेर्मुक्त इवोष्णदीधितिः ॥”)
फलम् । कुसुमम् । इति मेदिनी । वे, ४२ ॥
(यथा, रघुः । ४ । २३ ।
“प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥”
आज्ञा । यथा, वाजसनेयसंहितायाम् । १० । २१ ।
“मरुतां प्रसवेन जय ।” “हे धुर्य्य मरुतां देवानां
प्रसवेनाज्ञया त्वं जय शत्रूनिति शेषः ॥” इति
तद्भाष्ये महीधरः ॥) प्रसवस्य मासनियमो
यथा, --
“नवमे दशमे मासि नारी गर्भं प्रसूयते ।
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥”
इति भावप्रकाशः ॥ * ॥
प्रसूतिकारकौषधादि यथा, --
“पीतन्तु काञ्जिकं रुद्र ! क्वथितं शरपुङ्खया ।
हिङ्गुसैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ॥
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ।
अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
गर्भशूलं विनश्येत नात्र कार्य्या विचारणा ॥”
इति गारुडे १९६ अध्यायः ॥ * ॥
अपि च ।
“पाठालाङ्गलिसिंहास्यमयूरकजटैः पृथक् ।
नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते ॥
पाठायास्तु शिफा योनौ या नारी संप्रधारयेत् ।
उषः प्रसवकाले तु सा सुखेन प्रसूयते ॥
तुषाम्बुपरिपिष्टेन मूलेन परिलेपयेत् ।
लाङ्गल्याश्चरणौ सूते क्षिप्रमेतेन गर्भिणी ॥
मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ।
घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥”
इति चक्रपाणिदत्तः ॥ * ॥
सुखप्रसवमन्त्रो यथा, --
“अस्ति गोदावरीतीरे जन्भला नाम राक्षसी ।
तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत् ॥”
सुखप्रसवचक्रं यथा, --
“पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि ।
पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम् ॥
नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा ।
द्वितीयेऽष्टावष्टमे षट्दिशि द्वौ षोडशे श्रुतिः ॥
एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके ।
तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः ॥
दर्शनाद्धारणात्तासां शुमं स्यादेषु कर्म्मसु ।
द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम् ॥
भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।
द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि ॥
विषे विंशो धान्यकीटेष्वधाविंशतिरेव च ।
चतुरष्टौ च बालानां रोदने परिकीर्त्तिताः ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तस्य वैकृतं यथा, --
गर्ग उवाच ।
“अकालप्रसवा नार्य्यः कालातीतप्रजास्तथा ।
विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा ॥
अमानुषा अवण्डाश्च न जातव्यञ्जनास्तथा ।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा
स्त्रियः ॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
विनाशं तस्य देशस्य कुलस्य च विनिर्द्दिशेत् ॥
निर्व्वासयेत्तां नृपतिः स्वराष्ट्रात्
स्त्रियञ्च पूज्याश्च ततो द्विजेन्द्राः ।
किमिच्छकैर्ब्राह्मणतर्पणञ्च
लोके ततः शान्तिमुपैति पापम् ॥”
इति मात्स्ये अद्भुतशान्तिस्त्रीप्रसवविकृतो नाम
२०९ अध्यायः ॥ * ॥
प्रसवाद्भुतत्वं यथा, --
“एको वृषस्त्रयो गावः सप्ताश्वा नवदन्तिनः ।
सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातकाः ॥”
तिस्र इति वक्तव्ये छान्दसत्वात् त्रय इत्युक्तम् ।
सिंहप्रसूताश्च स्त्रियो बोध्याः ।
“भानौ सिंहगते चैव यस्य गौः संप्रसूयते ।
मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ * ॥
अत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥
ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः ।
आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥”
व्याहृतिभिश्चायं होमः ।
“सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ॥”
अपि च ।
“सिंहराशौ गते सूर्य्ये गोप्रसूतिर्यदा भवेत् ।
पौषे च महिषी सूते दिवैवाश्वतरी तथा ॥
तदानिष्टम्भवेत् किञ्चित् तच्छान्त्यै शान्तिकञ्चरेत् ।
अस्य वामेतिसूक्तेन तद्विष्णोरितिमन्त्रतः ॥
जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ।
मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् ।
श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥”
इत्यद्भुतसागरे नारदः ॥

प्रसवकः, पुं, (प्रसवेन पुष्पादिना कायति शोभते

इति । कै + कः ।) पियालवृक्षः । इति शब्द-
माला ॥ (विवृतिविशेषोऽस्य पियालशब्दे
ज्ञातव्यः ॥)

प्रसवबन्धनं, क्ली, (प्रसवानां पुष्पफलानां बन्धनं

यत्र ।) वृन्तम् । इत्यमरः । २ । ४ । १५ ॥

प्रसवस्थली, स्त्री, (प्रसवस्य स्थलीव ।) माता ।

यथा, महानाटके ।
“इयमियं मयदानवनन्दिनी
त्रिदशनाथजितः प्रसवस्थली ॥”

प्रसविता, [ऋ] पुं, (प्रसूते जनयतीति । प्र +

सू + तृच् ।) पिता । इति शब्दरत्नावली ॥
(अनुज्ञाकर्त्तरि, त्रि । यथा, ऋग्वेदे । ७ । ६३ । २ ।
“उद्वेति प्रसविता जनानां महान् केतुरर्णवः
सूर्य्यस्य ।”
“जनानां सर्व्वेषां प्रसविता सर्व्वेषु कर्म्मसु अनु-
ज्ञाता ॥” इति तद्भाष्ये सायनः ॥)

प्रसवित्री, स्त्री, (प्रसूते इति । प्र + सू + तृच् +

ङीप् ।) जनयित्रौ । (यथा, महाभारते ।
१२ । २६३ । ८ ॥
पृष्ठ ३/३००
“सावित्री प्रसवित्री च बहिर्वाक् मनसी ततः ॥”)
माता । प्रपूर्ब्बकसूधातोः कर्त्तरि तृण् ईप् च ॥

प्रसव्यं, त्रि, (प्रगतं सव्यादिति ।) प्रतिकूलम् ।

इत्यमरः । ३ । १ । ८४ ॥ (प्रदक्षिणम् । यथा,
रामायणे । २ । ७३ । २० ।
“प्रसव्यञ्चापि तञ्चक्रुरृ त्विजोऽग्निचितं नृपम् ॥”
प्र + सू + कर्म्मणि यत् । प्रसवनीये च ॥)

प्रसहः, पुं, (प्रसहतीति । प्र + सह् + अच् ।)

बलात्कारेण भक्षकपक्षी । स च कुरर-
श्येनादिः । यथा, --
“प्रसह्य भक्षयन्त्येते प्रसहास्तेन कीर्त्तिताः ॥”
अस्य मांसगुणाः ।
“गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः ।”
इति राजवल्लभः ।
अपि च भावप्रकाशे ।
“काको गृध्र उलूकश्च चिल्लश्च शशघातकः ।
चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः ॥
शशघातकः वाज इति लोके ।
प्रसहाः कीर्त्तिता एते प्रसह्य छिद्य भक्षणात् ।
प्रसहाः खलु वीर्य्योष्णास्तन्मांसं भक्षयन्ति ये ॥
ते शोषभस्मकोन्मादैः शुक्रक्षीणा भवन्ति हि ॥”

प्रसहनः, पुं, (प्रगतं सहनं सह्यगुणो यस्मात् ।)

हिंस्रपशुः । यथा, --
“शाद्र्दूलसिंहशरभर्क्षतरक्षुमुख्या
येऽन्यान् प्रसह्य विनिहत्य निवर्त्तयन्ते ।
ते कीर्त्तिताः प्रसहनाः पललं तदीय-
मर्शःप्रमेहजठरामयजाड्यहारि ॥”
इति राजनिर्घण्टः ॥
आलिङ्गने, क्ली । यथा, --
“परस्परप्रसहनचुम्बनादिकाः
शुचौ सुखे बहुलविधा भिदा मताः ॥”
इति काव्यप्रकाशटीकाधृतकाव्यकौमुदी ॥
(प्र + सह् + भावे ल्युट् ।) सहने, क्ली ।
तद्वति, त्रि ॥

प्रसहा, स्त्री, (प्र + सह् + अच् । टाप् ।) बृह-

तिका । इति रत्नमाला ॥ (गुणादयोऽस्या
बृहतीशब्दे ज्ञातव्याः ॥)

प्रसह्य, व्य, (प्रकर्षेण सोढ्वा इति । प्र + सह् +

क्त्वाचो ल्यप् ।) हठार्थकम् । बलात्कारार्थम् ।
इत्यमरः । ३ । ४ । १० ॥ (यथा, माघे । १ । २७ ।
“प्रसह्य तेजोभिरसङ्ख्यताङ्गतै-
रदस्त्वया नुन्नमनुत्तमं तमः ॥”
प्रसोढुं शक्य इति । प्र + सह् + यत् । प्रकर्षेण
सोढुं शक्ये, त्रि । यथा, रघुः । १४ । ६२ ।
“ममैव जन्मान्तरपातकानां
विपाकविस्फूर्ज्जथुरप्रसह्यः ॥”)

प्रसह्यचौरः, पुं, (प्रसह्य बलात्कारेण चौरः ।)

हठात् चौर्य्यकारी । डाकाइत इति लुटेरा
इति च भाषा ॥ तत्पर्य्यायः । वन्दीकारः २
माचलः ३ चिल्लाभः ४ । इति त्रिकाण्डशेषः ॥

प्रसातिका, स्त्री, (सो नाशे + भावे क्तिन् । प्रगता

सातिर्नाशो यस्याः । कप् ।) अणुव्रीहिः ।
सूक्ष्मधान्यम् । इति रत्नमाला ॥ (यथा, मार्क-
ण्डेये । ३२ । ९ ।
“श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः ।
नीवाराः पौष्कलाश्चैव धान्यानां पितृतृप्तये ॥”)

प्रसादः, पुं, (प्र + सद् + घञ् ।) प्रसन्नता ।

नैर्म्मल्यम् । इत्यमरः । १ । ३ । १६ ॥ (यथा,
प्रबोधचन्द्रोदये प्रस्तावनायाम् ।
“कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः ।
स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदघेः ॥”)
अनुग्रहः । (यथा, रघुः । २ । ६८ ।
“तस्याः प्रसन्नेन्दुमुखः प्रसादं
गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै
शशंस वाचा पुनरुक्तयेव ॥”)
काव्यप्राणः । स्वास्थ्यम् । प्रसक्तिः । इति
मेदिनी । दे, ३५ ॥ वैदर्भीरीतियुक्तकाव्यगुणः ।
तस्य लक्षणम् । ग्राम्यशब्दभिन्नव्यक्तार्थपद-
वत्त्वम् । यथा, --
“ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः ।
गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः ।
व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥”
इति काव्यचन्द्रिका ॥ * ॥
(तथा च साहित्यदर्पणे ८ परिच्छेदे ।
“चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ।
स प्रसादः समस्तेषु रसेषु रचनासु च ॥”)
देवनिवेदितद्रव्यं गुरूणां भुक्तावशेषश्च । यथा,
“आसीद्वंशध्वजो राजा प्रजापालनतत्परः ।
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥”
इति स्कान्दे रेवाखण्डे सत्यनारायणव्रतकथा ॥

प्रसादनं, क्ली, (प्रसादयतीति । प्र + सद् + णिच्

+ ल्युः ।) अन्नम् । इति त्रिकाण्डशेषः ॥ (प्र +
सद् + णिच् + ल्युट् ।) प्रसन्नताकारकम् । यथा,
बलवर्णप्रसादनमिति राजवल्लभः ॥ (यथा च
महाभारते । ४ । ६९ । २२ ।
“प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये ॥”)

प्रसादना, स्त्री, (प्र + सद् + णिच् + युच् + टाप् ।)

सेवा । परिचर्य्या । इति हेमचन्द्रः । ३ । १६० ॥

प्रसाधनं, क्ली, (प्रसाध्यतेऽनेनेति । प्र + साध् +

ल्युट् ।) वेशः । इत्यमरः । २ । ६ । ९९ ॥
(यथा, मनुः । २ । २११ ।
“अभ्यञ्जनं स्थापनञ्च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥”)
कङ्कतिका । इति भरतधृतामरमाला ॥ प्रकृष्ट-
निष्पत्तिश्च ॥ (प्र + साध् + णिच् + ल्युः । प्रसा
धयितरि, त्रि । यथा, ऋग्वेदे । १० । ५७ । २ ।
“यो यज्ञस्य प्रसाधनस्तंतुर्देवेष्वाततः ॥”)

प्रसाधनी, स्त्री, (प्रसाध्यतेऽनयेति । प्र + साध् +

ल्युट् । ङीप् ।) सिद्धिः । इति मेदिनी । ने, १९५ ॥
कङ्कतिका । इत्यमरः । २ । ६ । १३९ ॥ (यथा,
सुश्रुते चिकित्सितस्थाने । २४ ।
“केशप्रसाधनी केश्या रजोजन्तुमलापहा ॥”)
तद्युक्तिर्यथा, --
“प्रसाधनी दिङ्नवनागसप्त-
सङ्ख्याभिरुक्ताङ्गुलिभिः क्रमेण ।
चतुर्व्विधानां पृथिवीपतीनां
सम्पत्तिसौभाग्ययशःसमृद्धिदा ॥”
काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् ॥
जाङ्गलानूपसामान्यदेशजानां महीभुजाम् ॥
छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः ।
कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥
लौहं सर्व्वञ्च सर्व्वार्द्धमादित्यादिदशाभुवाम् ।
राज्ञामेवोपयुज्येत कालकीर्त्तिप्रसाधनी ॥
मृगाणां महिषाणाञ्च सिंहजाता प्रसाधनी ।
गजदन्तसमुद्भूता राज्ञामेवोपयुज्यते ॥
अत्रापि रत्नविन्यासो ज्ञेयश्चामरदण्डवत् ॥”
इति युक्तिकल्पतरुः ॥

प्रसाधिका, स्त्री, (प्रसाध्यति निष्पादयतीति ।

प्र + साध् + ण्वुल् । टापि अत इत्वम् ।)
नीवारः । यथा, --
“प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् ॥”
अस्या गुणाः ।
“नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥”
इति भावप्रकाशः ॥
(प्रसाधयति अलङ्करोर्ताति । प्र + साध् + णिच्
+ ण्वुल् ।) वेशकारिणी । यथा, --
“प्रसाधिकालम्बितमग्रपाद-
माक्षिप्य काचित् द्रवरागमेव ॥”
इति कुमारसम्भवे सप्तमः सर्गः ॥
(धान्यविशेषः यथा । “अग्रव्रीहिः प्रसा-
धिका ।” इति वैद्यकरत्नमायाम् ॥)

प्रसाधितः, त्रि, (प्र + साधि + क्तः । अलङ्कृतः ।

इत्यमरः । २ । ६ । १०० ॥ प्रकृष्टनिष्पन्नः
निष्पादितः । यथा, सारसंग्रहे ।
“ततः प्रस्थमितं कल्कं दत्त्वा तोयचतुर्गुणे ।
क्षीरे प्रसाधितं तैलं ग्रहघ्नो बलवर्णकृत् ॥”

प्रसारः, पुं, (प्र + सृ + घञ् ।) प्रसरणम् । इति

हेमचन्द्रः ३ । ४९९ ॥ (यथा, सुश्रुते । १ । २६ ।
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्द्दिशेत् ॥”)

प्रसारणं, क्ली, (प्र + सृ + णिच् + ल्युट् ।) पञ्च-

विधकर्म्मान्तर्गतकर्म्मविशेषः । स तु विस्तार-
रूपः । यथा, भाषापरिच्छेदे ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चन्न्तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥”
(परिवर्द्धनम् । यथा, कामन्दकीयनीतिसारे ।
१३ । ३५ ।
“मित्रामित्रहिरण्यानां भूमीनाञ्च प्रसारणम् ॥”)

प्रसारणी, स्त्री, (प्रसार्य्यते इति । प्र + सारि +

ल्युट् । ङीप् ।) लताविशेषः । गन्धभादालिया
इति भाषा ॥ अस्य गुणाः । वातपित्तनाशि-
त्वम् । उष्णत्वम् । बलशुक्रकारित्वञ्च । इति
राजवल्लभः ॥ सैन्यानां सर्व्वतो व्याप्तिः । इति
प्रसरणशब्दटीकायां भरतः ॥

प्रसारिणी, स्त्री, (प्रसरतीति । प्र + सृ + णिनिः

ङीप् ।) लज्जालुलता । प्रसारणी । गन्धभादा-
पृष्ठ ३/३०१
लिया इति भाषा ॥ तत्पर्य्यायः । सुप्रसरा २
सारिणी ३ प्रसरा ४ सरा ५ चारुपर्णी ६
राजबला ७ भद्रपर्णी ८ प्रतानिका ९ प्रबला १०
राजपर्णी ११ चन्द्रपर्णी १२ भद्रबला १३ चन्द्र-
वल्ली १४ प्रभद्रा १५ । अस्या गुणाः । गुरु-
त्वम् । उष्णत्वम् । तिक्तत्वम् । वातार्शःश्वयथु-
मलविष्टम्भनाशित्वञ्च । इति राजनिर्घण्टः ॥

प्रसारी, [न्] त्रि, (प्रसरतीति । प्र + सृ + णिनिः ।)

प्रसरणशीलः । तत्पर्य्यायः । विसृत्वरः २ विसृ-
मरः ३ विसारी ४ । इत्यमरः । ३ । १ । ३१ ॥
(यथा, शिशुपालवधे । १७ । ४४ ।
“प्रसारिणी सपदि नभस्तले ततः
समीरणभ्रमितपरागरूषिता ॥”)

प्रसितं, क्ली, (प्र + सो + क्तः ।) पूयम् । इति शब्द-

चन्द्रिका ॥ आसक्ते, त्रि । इत्यमरः । ३ । १ । ९ ॥
(यथा, रघौ । ८ । २३ ।
“इति शत्रुषु चेन्द्रियेषु च
प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापरवर्गयो-
रुभयीं सिद्धिमुभाववापतुः ॥”)

प्रसितिः, स्त्री, (प्रसिनोति बध्नात्यनयेति । प्र +

सि + करणे क्तिन् ।) बन्धनसाधनरज्जुनिग-
डादिः । इत्यमरः । ३ । २ । १४ ॥ (ज्वाला ।
यथा, ऋग्वेदे । २ । २५ । ३ ।
“अग्नेरिव प्रसितिर्नाह वर्त्तवे ।”
“प्रसीयते बध्यतेऽनयेति । प्रसितिर्ज्वाला ।”
इति तद्भाष्ये सायनः ॥ * ॥ भावे क्तिन् । प्रबन्ध-
नम् । यथा, ऋग्वेदे । ६ । ६ । ५ ।
“शूरस्येव प्रसितिः क्षातिरग्नेः ॥”)

प्रसिद्धः, त्रि, (प्रसिध्यतीति । प्र + सिध् + गत्य-

र्थेति क्तः ।) भूषितः । ख्यातः । इति मेदिनी ।
धे, ३४ ॥ (यथा, पञ्चदश्याम् । ४ । ५७ ।
“काम्यादिदोषदृष्ट्याद्याः कामादित्यागहेतवः ।
प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥”)

प्रसिद्धिः, स्त्री, (प्र + सिध् + क्तिन् ।) टङ्कारः ।

ख्यातिः । इति त्रिकाण्डशेषः ॥ (यथा, काम-
न्दकीयनीतिसारे । २ । ६ ।
“विद्याश्चतस्र एवैता इति नो गुरुदर्शनम् ।
पृथक् पृथक् प्रसिद्ध्यर्थं यासु लोको व्यव-
स्थितः ॥”)
भूषा । इति प्रसिद्धशब्दार्थदर्शनात् ॥

प्रसूः, स्त्री, (प्रसूते इति । प्र + सू + “सत्सू-

द्विषेति ।” ३ । २ । ६१ । इति क्विप् ।) माता ।
इत्यमरः । २ । ६ । २९ ॥ (यथा, ब्रह्मवैवर्त्ते ।
२ । १ । १२८ ।
“पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ॥”)
घोटकी । इत्यमरः । ३ । ३ । २२८ ॥ कदली ।
वीरुत् । इति मेदिनी । से, ४ ॥ (प्रसवकर्त्ती ।
यथा, सुश्रुते उत्तरतन्त्रे ३८ अध्याये ।
“प्रस्रंसिनी स्पन्दते तु क्षोभिता दुःप्रसूश्च या ॥”)

प्रसूका, स्त्री, (प्रसूरेव । प्रसू + स्वार्थे कन् ।)

वाजिनी । इति राजनिर्घण्टः ॥

प्रसूतं, क्ली, (प्रसूयते इति । प्र + सू + क्त ।)

कुसुमम् । इति मेदिनी । ते, १२४ ॥

प्रसूतः, त्रि, (प्र + सू + क्तः ।) सञ्जातः । (यथा,

रघुः । १ । १२ ।
“तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
द्विलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥”)
सूतः । इति मेदिनी । ते, १२४ ॥

प्रसूता, स्त्री, (प्रसूते स्म इति । प्र + सू + कर्त्तरि

क्तः ।) जातसन्ताना । तत्पर्य्यायः । जाता-
पत्या २ प्रजाता ३ प्रसूतिका ४ । इत्यमरः ।
२ । ६ । १६ ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने । ३१ ।
“अकाले च प्रसूता स्त्री स्नेहपानं विवर्ज्जयेत् ॥”
यथा च हरिवंशे । ८४ । १०१ ।
“श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान् पुत्त्रानमितविक्रमान् ॥”)

प्रसूतिः, स्त्री, (प्रसूयते इति । प्र + सू + क्तिन् ।)

प्रसवः । इत्यमरः । ३ । २ । १० ॥ (यथा, --
“कृष्णा वचा चापि जलेन पिष्टा
सैरण्डतैला खलु नाभिलेपात् ।
सुखं प्रसूतिं कुरुतेऽङ्गनानां
निपीडितानां बहुभिः प्रमादैः ॥”
इति भावप्रकाशस्य मध्यखण्ड चतुर्थे भागे ॥
प्र + सू + भावे क्तिन् ।) उद्भवः । (यथा,
शकुन्तलायाम् ४ अङ्के ।
“आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्व्वैरनु-
ज्ञायताम् ॥”)
तनयः । दुहिता । इति मेदिनी । ते, १२९ ॥
(सन्ततिः । यथा, रघुः । ५ । ७ ।
“कच्चिन्मृगीणामनघा प्रसूतिः ॥”
कारणम् । यथा, रघुः । २ । ६३ ।
“न केवलानां पयसां प्रसूति-
मवेहि मां कामदुषां प्रसन्नाम् ॥”
उत्पत्तिस्थानम् । यथा, महाभारते । १ ।
२३३ । १४ ।
“त्वं सर्व्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्ने ! भवसि प्रतिष्ठा ॥”
दक्षपत्नी । सा तु सतीजननी । यथा, ब्रह्म-
वैवर्त्ते । २ । १ । १२८ ।
“देवहूतिः कर्द्दमस्य प्रसूतिदक्षकामिनी ॥”)

प्रसूतिका, स्त्री, (प्रसूतः सूतोऽस्या अस्तीति ।

ठन् ।) प्रसूता । इत्यमरः । २ । ६ । १६ ॥

प्रसूतिजं, क्ली, (प्रसूतेरुद्भवमारभ्येत्यर्थः जायते

इति । जन् + डः ।) दुःखम् । इत्यमरः । १ । ९ । ३ ॥

प्रसूनं, क्ली, (प्रसूयते स्मेति । प्र + सू + क्तः । ओदि-

त्त्वात् निष्ठातस्य नः ।) पुष्पम् । (यथा,
रघुः । २ । १० ।
“अवाकिरन् बाललताः प्रसूनै-
राचारलाजैरिव पौरकन्याः ॥”)
फलम् । इत्यमरः । ३ । ४ । १७ ॥ जाते, त्रि ।
इति मेदिनी । ने, ८७ ॥

प्रसूनेषुः, पुं, (प्रसूनं पुष्पं इषुर्वाणो यस्य ।) काम-

देवः । इति त्रिकाण्डशेषः ॥

प्रसृतं, क्ली, (प्र + सृ + क्तः ।) पलद्बयम् । इति

शब्दमाला ॥ (यथा, सुश्रुते चिकित्सितस्थाने । ६ ।
“कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरनुसेवेत
शीतोदकानुपानम् ॥”
“पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

प्रसृतः, पुं, (प्र + सृ + क्तः ।) निकुब्जपाणिः ।

अर्द्धाञ्जलिः । इत्यमरः । २ । ६ । ८५ ॥ (यथा,
शतपथब्राह्मणे । ४ । ५ । १० । ७ ।
“यद्यनुलभेरन् प्रसृतमात्रं वाञ्जलिमात्रं वा ॥”)

प्रसृतः, त्रि, (प्र + सृ + क्तः ।) प्रवृद्धः । प्रसा-

रितः । इत्यमरः । ३ । १ । ८८ ॥ (यथा, देवी-
भागवते । १ । १४ । ५ ।
“न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥”)
विनीतः । वेगितः । इति मेदिनी । ते, १२३ ॥
गतः । इति त्रिकाण्डशेषः ॥ नियुक्तः । इति
हलायुधः । २ । ३६० ॥

प्रसृता, स्त्री, (प्र + सृ + क्तः । टाप् ।) जङ्घा ।

इति मेदिनी । ते, १२३ ॥ (विवरणमस्या जङ्घा-
शब्दे ज्ञातव्यम् ॥)

प्रसृतिः, स्त्री, (प्र + सृ + क्तिन् ।) प्रसृतः । आ-

कुञ्चितपाणिः । इति रायमुकुटः राज-
निर्घण्टश्च ॥ (यथा, याज्ञवल्क्ये । २ । ११२ ।
“देवानुग्रान् समभ्यर्च्च्य तत्स्नानोदकमाहरेत् ।
संश्राव्य पाययेत्तस्माज्जलात्स प्रसृतित्रयम् ॥”
सन्ततिः । यथा, महाभारते । ५ । १०१ । ३ ।
“वर्द्धितानि प्रसृत्या वै विनताकुलकर्त्तृभिः ॥”
प्रसूत्या इति वा पाठः ॥ पलद्बयम् । तद्यथा,
“पलाभ्यां प्रसृतिर्ज्ञेया -- ॥”
इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

प्रसेकः, पुं, (प्रसेचनमिति । प्र + सिच् + घञ् ।)

सेचनम् । च्युतिः । इति मेदिनी । के, १११ ॥
(यथा, ऋतुसंहारे । ३ । ६ ।
“मत्तद्बिरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः ॥”
रागविशेषः । यथा, सुश्रुते । १ । ४६ ।
“श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ।
हन्ति मूलकयूषस्तु कफमेदोगलामयान् ॥”)

प्रसेदिका, स्त्री, क्षुद्रारामः । इति हेमचन्द्रः ।

४ । १७९ ॥ (प्रसीदिका इति क्वचित्पाठः ॥)

प्रसेदिवान्, [स्] त्रि, प्रसन्नः । प्रपूर्ब्बसदधातोः

कर्त्तरि क्वसुप्रत्ययनिष्पन्नः ॥

प्रसेवः, पुं, (प्रसीव्यते स्मेति । प्र + सिव + “अ-

कर्त्तरि चेति ।” ३ । ३ । १९ । इति घञ् ।)
वीणाङ्गम् । स्यूतः । इति मेदिनी । वे, ४३ ॥

प्रसेवकः, पुं, (प्र + सिव + ण्वुल् । यद्वा, प्रसेव

एव । स्वार्थे कन् ।) वीणाप्रान्तवक्रकाष्ठम् ।
दण्डाधः शब्दगाम्भीर्य्यार्थं दारुमयं भाण्डं यच्च-
र्म्मणा आच्छाद्य दीयते सः । इत्यन्ये । वीणा-
स्थितालावूफलम् । इत्यपरे । इति भरतः ॥
पृष्ठ ३/३०२
तत्पर्य्यायः । ककुभः २ । इत्यमरः । १ । ७ । ७ ॥
सूत्ररचितभाण्डम् । धोकडा इति ख्यातः ।
तत्पर्य्यायः । स्यूनः २ स्योनः ३ धौतकटः ४
स्योतः ५ स्यूतः ६ । इति भरतः ॥ (यथा,
सुश्रुते । १ । ९ ।
“दृतिवस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्य-
योग्याम् ॥”) प्रकृष्टतन्तुसन्तानकर्त्ता च ॥

प्रस्कण्वः, पुं, (प्रगतं कण्वं पापं यस्मादिति । “प्रस्कण्व-

हरिश्चन्द्रावृषी ।” ६ । १ । १५३ । इति सुट् ।)
ऋषिविशेषः । स च वैदिकसन्ध्यान्तर्गतसूर्य्योप-
स्थानमन्त्रस्य ऋषिः । (यथा, ऋग्वेदे । १ ।
४४ । ६ ।
“प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं
जनम् ॥”)

प्रस्कन्दनं, क्ली, (प्र + स्कन्द + ल्युट् ।) विरेकः ।

इति रत्नमाला ॥ (यथा, महाभारते । १ ।
८४ । २६ ।
“अग्निप्रस्कन्दनपरस्त्वञ्चाप्येवं भविष्यसि ॥”)

प्रस्कन्नः, त्रि, (प्रकर्षेण स्कन्नः ।) पतिते, त्रि ।

इति हेमचन्द्रः ॥

प्रस्तरः, पुं, (प्रस्तृणाति आच्छादयति यः । (प्र +

स्तॄ + पचाद्यच् ।) शिला । पातर इति भाषा ।
तत्पर्य्यायः । ग्रावा २ पाषाणः ३ उपलः ४
अश्मा ५ दृशत् ६ दृषत् ७ पारारुकः ८
पारटीटः ९ मृन्मरुः १० काचकः ११ शिला
१२ ॥ पल्लवादिरचितशय्या । यथा, --
“पल्लवाद्यैर्विरचिते शयनीये तु संस्तरः ।
प्रस्तरः प्रस्तिरश्चेति प्रस्तारोऽपि च कुत्रचित् ॥”
इति शब्दरत्नावली ॥
(यथा, मनुः । २ । २०४ ।
“गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”)
मणिः । इति मेदिनी । रे, १८१ ॥

प्रस्तरिणी, स्त्री, (प्रस्तरस्तदाकारोऽस्त्यस्या इति ।

प्रस्तर + इनिः । ङीप् ।) गोलोमिका । इति
राजनिर्घण्टः ॥ (विषयोऽस्या गोलोमिकाशब्दे
ज्ञेयः ॥)

प्रस्तारः, पुं, (प्र + स्तॄ + घञ् ।) तृणवनम् । तत्-

पर्य्यायः । तृणाटवी २ ऋषः ३ । इति हेम-
चन्द्रः । ४ । १७७ ॥ पल्लवादिविरचितशय-
नीयम् । इति शब्दरत्नावली ॥ शय्या । इति
हारावली ॥ छन्दःप्रभृतीनां प्रभेदज्ञापकसङ्केत-
विशेषः । यथा, --
“पादे सर्व्वगुरावाद्यात् लघु न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्य्यादमुं विधिम् ॥
ऊने दद्याद्गुरूनेव यावत् सर्व्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥”
इति वृत्तरत्नावली ॥ * ॥
अपि च । अहपत्थार । पढम गुरु हेट्ट ठाणे
लहुआ परिठवौ अप्पबुद्धी ए । सरिसा
सरिसा पन्ती उव्वरिआ गुरुलहू देहु ॥ अस्य
टाका । एतद्भेदज्ञानं प्रस्तारज्ञानाधीनमिति
प्रस्तार दर्शयति । प्रथमं गुरोरधःस्थाने लघुकं
स्थापय आत्मबुद्ध्या सदृशी सदृशी पंक्तिरुद्-
वृत्तौ गुरुलघू देहि सदृशी पंक्तिर्दक्षिणे कार्य्या
वामे गुरुलघुभिः पूरणं कार्य्यं इदन्तु मात्रा-
प्रस्तारविषयं तत्रापि गुरोर्लिखनयोग्यत्वे गुरु-
र्लेख्यः अपरत्र लघुर्देयः । वर्णप्रस्तारे तु गुरुणैव
पूरणं कार्य्यं तत्रायं प्रकारः आदौ गुरुर्लेख्यः
तत्र प्रथमं गुरोरधःस्थाने लघुर्लेख्यः तद्दक्षिणे
चोपरिस्थितपंक्तेः सदृशी कार्य्या वामे च गुरु-
लघुभिः पूरणं कार्य्यं वामे चैक एकलघुः पतति
वर्णप्रस्तारे तु वामे लघुस्पर्शो नास्ति यथा
त्रिकलप्रस्तारे । ६६ । प्रथमगुरोरधो लघु-
र्वामतश्च कलार्द्धपूरणं गुरुणैव कार्य्यं दक्षिणे च
पंक्त्यभावः ततो गुरोरधो लघुर्लेख्यः दक्षिणे च
लघोरधो लघुर्लेख्यः वामे च कलापूरणं एकेन
लघुना कार्य्यं एवं चतुष्कला-६६ दावपि बोध्यं
यथा अक्षरच्छन्दसि ६६ एवमन्यत्रापि बोध्यम् ॥
अथ सकलप्रस्तारसंख्या । दव्वीसा सत्तस-
आतैं सत्तावह सहज्जाइ वाआलिसह
लक्खं तेरहकोडी समग्गाइं । अस्य टीका ।
अत्र चैकाक्षरमारभ्य षड्विंशत्यवधिवर्ण-
वृत्तानां प्रस्तारे कियती संख्येत्यत आह ।
१३४, २१७, ७२६ षड्विंशतिः सप्त तानि तथा
सप्तदशसहस्राणि द्विचत्वांशल्लक्षास्त्रयोदश-
कोट्यः समग्राणि अङ्कस्य वामा गतिरित्यङ्काः
स्थाप्याः । इति पिङ्गलः शीघ्रबोधभूषणश्च ॥

प्रस्तार्य्यर्म्म, [न्] क्ली, नेत्ररोगभेदः । तस्य

लक्षणम् ।
“प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावं रक्तनिभं सिते ॥”
इति माधवकरः ॥
अपि च ।
“समन्ताद्बिस्तृतः श्यावो रक्तो वा मांससञ्चयः ।
सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते ॥”
इति रक्षितधृतनिमिः ॥
तस्यौषधम् ।
“कतकस्य फलं शङ्खं त्र्यूषणं सैन्धवान्वितम् ।
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥
कुक्कटाण्डकपालानि वर्त्तिरेषा व्यपोहति ।
तिमिरं पटलं काचमर्म्मशुक्रं तथव च ॥
कण्डूक्लेदावूदं हन्ति मलमाशु सुखावती ॥”
इति चक्रपाणिदत्तः ॥

प्रस्तावः, पुं, (प्र + स्तु + “प्रे द्रुस्तुस्रुवः ।” ३ । ३ ।

२७ । इति घञ् ।) अवसरः । इत्यमरः । ३ ।
२ । २४ ॥ प्रसङ्गस्तुतिः । इति भरतः ॥ प्रसङ्गः ।
इति भानुदीक्षितः ॥ (यथा, मृच्छकटिके ।
९ अङ्के । “प्रस्तावेनाधिकरणिकस्त्वां द्रष्टुमिच्छ-
तीति ॥”) प्रकरणम् । यथा, --
“प्रस्तावदेशकालादेर्वैशिष्टात् प्रतिभाजुषाम् ॥”
इत्यस्यार्थे काव्यप्रकाशः ॥

प्रस्तावना, स्त्री, (प्रस्तावयति विज्ञापयति कार्य्या-

दिकमिति । प्र + स्तु + णिच् + युच् । टाप् ।)
आरम्भः । इति जटाधरः ॥ सूत्रधारेण सह
नटीविदूषकादीनां परस्परविचित्रभाषणम्
तस्या लक्षणम् । यथा, --
“नटी विदूषको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥
चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्म्मिथः ।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥”
इति साहित्यदर्पणम् ॥

प्रस्तिरः, पुं, (प्रस्तरः । निपातनात् इत्वम् ।)

पल्लवादिरचितशय्या । इति शब्दरत्नावली ॥

प्रस्तीतः, त्रि, (प्र + स्त्यै + क्तः । “प्रस्त्योऽन्य-

तरस्याम् ।” ८ । २ । ५४ । इति
निष्ठातस्य मो वा ।) संहतः । ध्वनितः ।
प्रपूर्ब्बस्त्यैधातोः कर्म्मणि क्तप्रत्ययः । इति
मुग्धबोधव्याकरणम् ॥

प्रस्तीतः, त्रि, (प्र + स्त्यै + क्तः । “प्रस्त्योऽन्य-

तरस्याम् ।” ८ । २ । ५४ । इति
निष्ठातस्य मो वा ।) संहतः । ध्वनितः ।
प्रपूर्ब्बस्त्यैधातोः कर्म्मणि क्तप्रत्ययः । इति
मुग्धबोधव्याकरणम् ॥

प्रस्तुतः, त्रि, (प्रस्तूयते स्मेति । प्र + स्तु + क्तः ।)

प्रकरणप्राप्तः । यथा, --
“अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया ॥”
इति काव्यप्रकाशः ॥
प्राकरणिकः । प्रासङ्गिकः । इत्यलङ्कार-
कौस्तुभः ॥ निष्पन्नः । यथा । प्रस्तुतवृत्तेर्मयट् ।
अन्नं प्रस्तुतं अन्नमयम् । यवागूः प्रस्तुता यवागू-
मयी । इति कलापतद्धितः ॥ प्रकर्षस्तुति-
युक्तः । प्रपूर्ब्बस्तुधातोः कर्म्मणि क्तः । उप-
स्थितः । प्रतिपन्नः । उद्युक्तः । इति लोकव्यव-
हारदर्शनात् ॥

प्रस्तृतः, त्रि, (प्र + स्तृ + क्तः ।) अन्तरितः ।

इति त्रिकाण्डशेषः ॥

प्रस्थः, पुं, (प्रकर्षेण तिष्ठतीति । प्र + स्था +

“आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।
यद्बा, प्रतिष्ठतेऽस्मिन्ननेन वेति घञर्थे कः ।)
परिमाणविशेषः । स तु चतुःकुडवरूपः । इत्य-
मरभरतौ ॥ आढकचतुर्थांशः । इति लीला-
वती ॥ द्बिशरावपरिमाणम् । इति वैद्यक
परिभाषा ॥ (यथा, सुश्रुते शारीरस्थाने । ८ ।
अध्याये ।
“बलिनो बहुदोषश्च वयःस्थस्य शरीरिणः ।
परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥”)

प्रस्थः, पुं, क्ली, (प्र + स्था + कः ।) अद्रेः सम-

भूभागः । अद्रेरेकदेशः । इति भरतः ॥ तत्-
पर्य्यायः । स्नुः २ सानुः ३ । इत्यमरः । २ ।
३ । ५ ॥ (यथा, कुमारे । १ । ५४ ।
“प्रस्थं हिमाद्रेर्मृगणाभिगन्धि
किञ्चित् क्वणत्किन्नरमध्युवास ॥”)
उन्मितवस्तु । इति मेदिनी ॥ विस्तारः । यथा,
“दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डे १०३ अध्यायः ॥
प्रकृष्टस्थितिविशिष्टे, त्रि ॥

प्रस्थपुष्पः, पुं, (प्रस्थमितं पुष्पमस्य ।) मरुवक

इत्यमरः । २ । ४ । ७९ ॥ (तत्पर्य्यायो यथा, --
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः ।
फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥”)
पृष्ठ ३/३०३
स्वल्पपत्रतुलसी । जम्बीरभेदः । इति केचित् ॥
जम्बीरसामान्यम् । इति केचित् । इति तट्टी-
कायां भरतः ॥

प्रस्थानं, क्ली, (प्र + स्था + ल्युट् ।) विजिगीषोः

प्रयाणम् । इत्यमरः । २ । ८ । ९५ ॥ (यथा,
देवीभागवते । ५ । ४ । १२ ।
“सेनाभियोगं प्रस्थानं बलसंख्या यथार्थतः ।
धीराणाञ्च परिज्ञानं कृत्वा यान्तु त्वरान्वितः ॥”)
गमनमात्रम् । यथा, पदाङ्कदूते ।
“प्रस्थानन्ते कुलिशकलनान्निश्चितं पण्डिताग्र्यैः ॥”

प्रस्थानविघ्नः, पुं, (प्रस्थानस्य विघ्नः ।) गमन-

व्याघातः । यथा । यः पुनर्व्विवाहावसरे
मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौप-
यिकं कर्म्म प्रागङ्गीकृत्य तदानीं न करिष्या-
मीति प्रस्थानविघ्नमाचरति तदासौ द्विगुणां
भृतिं दाप्यः । इति मिताक्षरा ॥

प्रस्थापितः, त्रि, (प्र + स्था + णिच् + क्तः ।)

प्रेषितः । इति हेमचन्द्रः ॥ प्रकर्षेण स्थापितश्च ॥

प्रस्थिका, स्त्री, (प्रस्थस्तदाकारोऽस्त्यस्या इति ।

प्रस्थ + ठन् ।) अम्बष्ठा । इति भावप्रकाशः ॥

प्रस्फुटः, त्रि, (प्रस्फुटति विकशतीति । प्र +

स्फुट् + कः ।) प्रफुल्लः । इति शब्दरत्नावली ॥
(सुस्पष्टः । यथा, मार्कण्डेये । २७ । २१ ।
“निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥”)

प्रस्फोटनं, क्ली, (प्रस्फोट्यतेऽनेनेति । प्र + स्फुट् +

णिच् + करणे ल्युट् ।) सूर्पम् । इत्यमरः ।
२ । ९ । २६ ॥ (प्र + स्फुट् + भावे ल्युट् ।)
ताडनम् । विकाशनम् । इति मेदिनी । ने,
१९२ ॥ पवनम् । तुषादिशोधनम् । इति हेम-
चन्द्रः । ४ । ८३ ॥

प्रस्रवणं, क्ली, (प्रस्रवति जलमस्मादस्मिन्नितिवा ।

प्र + स्रु + अपादाने अधिकरणे वा ल्युट् ।) यत्र
स्थाने स्रुत्वा जलं गलति तत् । इति भरतः ॥
अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति यत्र
निपत्य च बहुलीभवति तत् । इति स्वाम्या-
दयः ॥ गिरेरुपरि निर्झरादिप्रभवजलसंघातः ।
इवि साञ्जः ॥ (यथा, हरिवंशे । ९ । ५४ । ११ ।
“पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ।
प्रभावञ्च सरस्वत्याः प्लक्षप्रस्रवणं बलः ॥”)
अजस्रं मन्दवेगेन स्रवज्जलम् । इति कोक्कटः ॥
तत्पर्य्यायः । उत्सः २ । इत्यमरः । २ । ३ । ५ ॥
जलप्रस्रावः ३ । (यथा, मनुः । ४ । २०३ ।
“स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”)
अस्य गुणाः । प्रस्रवणजलं स्वच्छं लघु मधुरं
रोचनञ्च दीपनकृत् ॥ इति राजनिर्घण्टः ॥
(प्र + स्रु + भावे ल्युट् ।) प्रकर्षेण क्षरणम् ॥

प्रस्रवणः, पुं, (प्रस्रवति जलमस्मादिति । प्र + स्रु +

अपादाने ल्युट् ।) माल्यवत्पर्व्वतः । इति हेम-
चन्द्रः । ४ । ९५ ॥ स्वेदः । इति त्रिकाण्डशेषः ॥

प्रस्रावः, पुं, (प्रस्रूयते इति । प्र + स्रु + “प्रेद्रुस्तु-

स्रुवः ।” ३ । ३ । २७ । इति घञ् ।) मूत्रम् ।
इत्यमरः । २ । ६ । ६७ ॥ गोप्रस्रावमाहात्म्यं
यथा, वराहपुराणे ।
“प्रस्रावेण तु यः स्नायात् रोहिण्यां मानवो
द्विज ! ।
सर्व्वपापकृतान्दोषान् दहत्याशु न संशयः ॥”
(गुणादयोऽस्य मूत्रशब्दे ज्ञातव्याः ॥)

प्रस्वानः, पुं, उच्चैःशब्दः । प्रपूर्ब्बस्वनधातोर्घञ्-

प्रत्ययेन निष्पन्नः ॥

प्रस्वेदः, पुं, (प्र + स्विद् घर्म्मच्युतौ + घञ् ।) अति-

शयघर्म्मः । (यथा, मार्कण्डेये । १२४ । १३ ।
“नरेन्द्रपुत्त्राः प्रस्वेदजलक्लिन्नाननाः समम् ॥”)
तस्यौषधं यथा, --
“चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।
जातीकक्कोलपूगानां लवङ्गस्य फलानि च ॥
अगुरूशीरकाश्मर्य्यः कुष्ठं तगरनालिका ।
गोरोचना प्रियङ्गुश्च चोलं मदनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।
कर्व्वूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ॥
प्रस्वेदमलदौर्गन्ध्यकण्डूकुष्ठहरं परम् ।
पुमान् युवा स्यात् शुक्राढ्यः स्त्रीणाञ्चात्यन्त-
वल्लभः ॥
स्त्रीशतं गच्छते रुद्र ! बन्ध्यापि लभते सुतम् ॥”
इति गारुडे १९८ अध्यायः ॥
(विषयोऽस्य यथा, --
“स्तैमित्यं मधुरास्यता च जडता निद्रा च
तन्द्रा भृशं
गात्राणां गुरुताऽरुचिर्विरमता रोमोद्गमः
शीतता ।
प्रस्वेदः श्रुतिबाधनञ्च कुरुते नेत्रे च पाण्डुच्छवि-
र्विष्टब्धामलवृत्तिका च वमनं श्लेष्मज्वरे वै विदुः ॥”
इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥)

प्रहतं, त्रि, (प्रहन्यते स्मेति । प्र + हन् + त्त ।)

विततम् । क्षुण्णम् । इति शब्दरत्नावली ॥ प्रक-
र्षेण हिंसितम् । (यथा, महाभारते । ८ । ३० । ६ ।
“प्रहतरथनराश्वकुञ्जरं
प्रतिभयदर्शनमुल्वणव्रणम् ।
तदहितहतमावभौ बलं
पितृपतिराष्ट्रमिव प्रजाक्षये ॥”)
प्रकर्षेण गतञ्च ॥ (विताडितम् । यथा, भाग-
वते । १० । ७२ । ३८ ।
“इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ
क्रुद्धौ स्वमुष्टिभिरयःस्पर्शैरपिष्टाम् ॥”
वादितम् । यथा, रघुः । १९ । १४ ।
“स स्वयं प्रहतपुष्करः कृती
लोलमाल्यबलयो हरन् मनः ।
नर्त्तकीरभिनयातिलङ्घिनीः
पार्श्ववर्त्तिषु गुरुष्वलज्जयत् ॥”)

प्रहनेमिः, पुं, (ग्रहाणां नेमिरिव । निपातनात्

ग्रस्य प्रः ।) चन्द्रः । इति त्रिकाण्डशेषः ॥
(ग्रहनेमिरिति वा पाठः ॥)

प्रहरः, पुं, (प्रह्रियते ढक्कादिरस्मिन्निति । प्र +

हृ + घः । अप् वा ।) वासरस्याष्टभागैक-
भागः । पहर इति हिन्दीभाषा । तत्पर्य्यायः ।
यामः २ । इत्यमरः । १ । ४ । ६ ॥ (यथा,
कथासरित्सागरे । ४ । ३७ ।
“सङ्केतकं द्वितीयेऽस्मिन् प्रहरे पर्य्यकल्प्यत ॥”)

प्रहरकुटुवी, स्त्री, (प्रहरस्य कुटुवी कुटुम्बिनीव ।)

कुटुम्बिनीक्षुपः । इति राजनिर्घण्टः ॥

प्रहरणं, क्ली, (प्रह्रियतेऽनेनेति । प्र + हृ +

करणे ल्युट् ।) अस्त्रम् । इत्यमरः । २ । ८ । ८२ ॥
(यथा, महाभारते । १२ । १६६ । २ ।
“धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह ! ॥”)
कर्णीरथः । इति तट्टीकासारसुन्दरी ॥ (यथा,
भागवते । ४ । २६ । २ ।
“पञ्चप्रहरणं सप्रवरूथं पञ्चविक्रमम् ॥”
प्रह्रियतेऽस्मिन्निति ।) युद्धम् । इति हलायुधः ।
२ । २९८ ॥ (प्र + हृ + भावे ल्युट् ।) प्रहारः ॥
(यथा, महाभारते । ४ । ४ । ७ ।
“याने प्रहरणे चेव तथैवाग्निषु भारत ! ॥”)

प्रहरी, [न्] त्रि, यामिकः । प्रहरो विद्यते

अस्येतिप्रहरशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

प्रहर्षणः, पुं, (प्रहर्षयतीति । प्र + हृष् + णिच् +

ल्युः ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥ हर्ष-
विशिष्टे, हर्षकारके च, त्रि ॥ (यथा, महा-
भारते । १ । २७ । ९ ।
“नानापक्षिरुतं रम्यं कद्रुपुत्त्रप्रहर्षणम् ॥”
प्र + हृष + भावे ल्युट् । आनन्दे, क्ली ।
यथा, महाभारते । १२ । ३३६ । २५ ।
“अथ व्रतस्यावभृते वागुवाचाशरीरिणी ।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ! ॥”)

प्रहर्षणी, स्त्री, (प्रहर्षयतीति । प्र + हृष् + णिच् +

ल्युः । ङीष् ।) हरिद्रा । इति हारावली ।
त्रयोदशाक्षरपादच्छन्दोभेदः । तस्या लक्षणं
यथा । छन्दोमञ्जर्य्याम् । “त्र्याशाभिर्मनजरगाः
प्रहर्षणीयम् ।” तस्या उदाहरणं यथा, --
“गोपीनामधरसुधारसस्य पानै-
रुत्तुङ्गस्तनकलसोपगूहनैश्च ।
आश्चर्य्यैरपि रतिविभ्रमैर्मुरारेः
संसारे मतिरभवत् प्रहर्षणीह ॥”

प्रहसनं, क्ली, (प्र + हस् + भावे ल्युट् ।) प्रहासः ।

(प्रहसत्यत्रानेन वा । प्र + हस् + आधारे
करणे वा ल्युट् ।) रूपकभेदः । परिहासः ।
इति मेदिनी । ने, १९० ॥ आक्षेपः । इति
हेमचन्द्रः ॥ रूपकभेदस्य लक्षणं यथा, --
“भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्म्मिते ।
भवेत् प्रहसने वृत्तं निन्द्यानां कविकल्पितम् ॥
तत्र नारभटीनापि विस्कम्भकप्रवेशकौ ।
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥
तपस्विभगवद्बिप्रप्रभृतिष्वत्र नायकः ।
एको यत्र भवेद्दृष्टो हास्यं तच्छद्धमुच्यते ॥”
इति साहित्यदर्पणम् ॥

प्रहसन्ती, स्त्री, (प्रहसति प्रकर्षेण विकशतीति ।

प्र + हस् + शतृ + ङीप् ।) यूथी । इति
त्रिकाण्डशेषः ॥ वासन्ती । इति राजनिर्घण्टः ॥
प्रकृष्टाङ्गारधानी च ॥
पृष्ठ ३/३०४

प्रहस्तः, पुं, (प्रततः प्रसृतो वा हस्तो यत्र ।)

विस्तृताङ्गुलिपाणिः । चपेटः । इत्यमरः । २ ।
६ । ८४ ॥ रावणसेनापतिविशेषः । यथा, --
“ततो नीलाम्बुदप्रख्यं प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर्व्वाक्यं शूरः सेनापतिस्तदा ॥”
इति रामायणे लङ्काकाण्डे ८ सर्गः ॥

प्रहारः, पुं, (प्रहरणमिति । प्र + हृ + घञ् ।)

आघातः । यथा, मार्कण्डेये ।
“करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥”

प्रहारणं, क्ली, (प्र + हृ + णिच् + ल्युट् ।) काम्य-

दानम् । इति प्रवारणशब्दटीकायां सार-
सुन्दरी ॥

प्रहारवल्ली, स्त्री, (प्रहारोपशमा आघातजन्य-

वेदनादिनाशिका वल्ली लता । शाकपार्थिवादि-
त्वात् मध्यपदलोपः ।) मांसरोहिणी । इति
भावप्रकाशः ॥ (पर्य्यायोऽस्या यथा, --
“मांसरोहिण्यतिरुहा वृत्ता चर्म्मकरी कृशा ।
प्रहारवल्ली विकशा वीरवत्यपि कथ्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

प्रहासः, पुं, (प्रकृष्टो हासो यस्य ।) शिवः ।

इति त्रिकाण्डशेषः ॥ (कार्त्तिकेयस्य अनुचर-
विशेषः । यथा, महाभारते । ९ । ४५ । ६६ ।
“रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः ॥”
नागविशेषः । यथा, तत्रैव । १ । ५७ । १५ ।
“पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ॥”
प्रकृष्टो हासो यस्मात् ।) नटः । इति धरणिः ॥
(प्रकृष्टो हासः प्रकाशो यस्य ।) सोमतीर्थम् ।
इति जटाधरः ॥ (प्रकृष्टो हास इति ।) अट्ट-
हासः । इति शब्दरत्नावली ॥ (यथा,
कामन्दकीये । ५ । २० ।
“न नर्म्मसचिवैः सार्द्धं किञ्चिदप्यप्रियं वदेत् ।
ते हि मर्म्माण्यभिघ्नन्ति प्रहासेनापि संसदि ॥”)

प्रहासी, [न्] पुं, प्रकृष्टं हासयति हसति च पः ।

(प्र + हस् + णिच् वा + णिनिः ।) हासकारकः ।
भाँड इति भाषा । तत्पर्य्यायः । वासन्तिकः २
केलिकिलः ३ वैहासिकः ४ विदूषकः ५ प्रीतिदः
६ । इति हेमचन्द्रः । २ । २४५ ॥ (हास-
कारिणि, त्रि । यथा, अथर्व्ववेदे । ८ । ६ । १४ ।
“आपाकेस्थाः प्रहासिनस्तम्बे ये कुर्व्वते ॥”)

प्रहिः, पुं, (प्रकर्षेण ह्रियतेऽत्रेति । प्र + हृ +

“प्रहरतेः कूपे ।” उणा० ४ । १३४ । इति
इण् । स च डित् ।) कूपः । इत्यमरः । १ । १० । २६ ॥

प्रहितं, क्ली, (प्रधीयते स्मेति । प्र + धा + क्तः ।)

मृपः । इति हेमचन्द्रः । ३ । ६१ ॥ (प्र + हि
प्रेरणे + क्त ।) क्षिप्ते, त्रि । इति निरस्तशब्द-
टीकायां भरतः ॥

प्रहीणः, त्रि, (प्र + ओ हा त्यागे + क्त । “घुमा-

स्थागेति ।” ६ । ४ । ६६ । इति आत ईत् ।
“ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य
नः । ततो णत्वम् ।) परित्यक्तः । प्रपूर्ब्बहा-
धातोः कर्म्मणि क्तः । इति मुग्धबोधव्याक-
रणम् ॥ यथा, --
“प्रहीणपूर्ब्बध्वनिनाधिरूढ-
स्तुलामधारेण शरद्घनेन ॥”
इति रघुकाव्यम् ॥

प्रहुतं, क्ली, (प्रहूयते स्मेति । प्र + हु + क्तः ।)

भूतयज्ञः । इति जटाधरः ॥ (यथा, मनुः ।
३ । ७३ -- ७४ ।
“अहुतञ्च हुतञ्चैव तथा प्रहुतमेव च ।
ब्राह्म्यं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते ॥
जपोऽहुतो हुतो होमः प्रहुतो भौतिको वलिः ।
ब्राह्म्यं हुतं द्बिजाग्र्यार्च्चा प्राशितं पितृतर्प-
णम् ॥”)

प्रहेणकं, क्ली, (प्रहेलकम् । पृषोदरादित्वात् लस्य

णः ।) पिष्टकविशेषः । तत्पर्य्यायः । वाचनम् २
व्रतोपायनम् ३ । इति त्रिकाण्डशेषः ॥ प्रहे-
लकम् ४ वाचनकम् ५ । इति हारावली । १५२ ॥

प्रहेलकं, क्ली, (प्रहिलति स्वादादिना अभिप्रायं

सूचयतीव । प्र + हिल भावसूचने + ण्वुल् ।
प्रहेलति वेष्टयतीति । प्र + हेल + ण्वुल् वा ।)
प्रहेणकम् । इति हारावली । १५२ ॥

प्रहेलिका, स्त्री, (प्रहिलति अभिप्रायं सूचय-

तीति । प्र + हिल अभिप्रायसूचने + क्वुन् ।
टापि अत इत्वम् ।) दुर्विज्ञानार्थप्रश्नः । कूटार्थ-
भाषिता कथा । हेयालि इति भाषा । तत्-
पर्य्यायः । प्रवल्हिका २ । इत्यमरः । १ । ६ । ६ ॥
प्रवह्लिका ३ प्रवह्लिः ४ प्रवह्ली ५ प्रहेलिः ६ ।
इति भरतः ॥ प्रश्नदूती ७ प्रवह्लीका ८ । इति
शब्दरत्नावली ॥ तस्य लक्षणम् ।
“व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका ॥
सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने ।
आर्थी स्यादर्थविज्ञानात् शाब्दी शब्दस्य
भङ्गतः ॥”
आर्थी । यथा, --
“तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।
गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥”
पानीयकुम्भ इति ॥ शाब्दी यथा, --
“सदारिमध्यापि न वैरियुक्ता
नितान्तरक्ताप्यसितैव नित्यम् ।
यथोक्तवादिन्यपि नैव दूती
का नाम कान्तेति निवेदयन्ति ॥”
सारिका । इति विदग्धमुखमण्डनम् ॥

प्रह्रादः, पुं, (प्रह्रादते इति । प्र + ह्राद शब्दे +

अच् । यद्बा, प्रह्लादयतीति । प्र + ह्लाद +
णिच् + अच् । रलयोरैक्यम् ।) प्रह्लादः । स
च हिरण्यकशिपोः पुत्त्रः परमवैष्णवः । (यथा,
हरिवंशे । ३ । ७१ ।
“हिरण्यकशिपोः पुत्त्राश्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ॥”)
तस्य चरित्रादिकं प्रह्लादशब्दे द्रष्टव्यम् ॥
(जनपदविशेषः । यथा, महाभारते । ६ । ९ । ४६ ।
“मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशिका-
स्तथा ॥”)

प्रह्लत्तिः, स्त्री, (प्र + ह्लाद् + क्तिन् । ह्रस्वः ।)

प्रीतिः । (“ह्लादेः स्वः क्तौ च ।”) इति मुग्ध-
बोधव्याकरणम् ॥

प्रह्लन्नः, त्रि, (प्र + ह्लाद + क्त । “ह्लादो निष्ठा-

याम् ।” ६ । ४ । ९५ । इति ह्रस्वः ।) प्रीतः ।
इत्यमरः । ३ । १ । १०३ ॥

प्रह्लादः, पुं, (प्रह्लादयतीति । प्र + ह्लाद् + णिच् +

अच् ।) प्रह्रादः । स च पूर्ब्बजन्मनि शिव-
शर्म्मणः पुत्त्रः सोमशर्म्मनामाभूत् ततो दैत्य-
भावनया मृतः अनन्तरं कमलायां हिरण्य-
कशिपोः सकाशाद्दैत्यभावेन जातः । यथा,
सूत उवाच ।
“स लोष्टेन समं मेने काञ्चनं भूषणं पुनः ।
जिताहारः स धर्म्मात्मा निद्रया परिवर्जितः ॥
विषयान् स परित्यज्य एकान्तमपि सेवते ।
योगासनसमारूढो निराशो निष्परिग्रहः ॥
तस्य वेलां सुसंप्राप्य मृत्युकालः समागतः ।
आगतान् दानवान् विप्रः सोमशर्म्मा व्यलो-
कयत् ॥
मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्त्तके ।
शालग्रामे महाक्षेत्रे ऋषीणामेव सन्निधौ ॥
केचिद्बदन्ति वै दैत्याः केचिद्बदन्ति दानवाः ।
एवंविधो महाशब्दः कर्णरन्ध्रगतस्तदा ॥
तस्यैव विप्रवर्य्यस्य सुविप्राः सोमशर्म्मणः ।
ज्ञानध्यानात् प्रचलतः प्रविष्टं दैत्यजं भयम् ॥
तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा ।
सत्वरं तस्य वै प्राणा गतास्तस्य महात्मनः ॥
दैत्यभावेन संयुक्तः स हि मृत्युवशं गतः ।
तस्माद्दैत्यगृहे जातो हिरण्यकशिपोस्तदा ॥
देवासुरे महायुद्धे निहतश्चक्रपाणिना ।
युध्यमानेन तेनापि प्रह्रादेन महात्मना ॥
सुभृशं वासुदेवं तद्बिश्वरूपं विचिन्तितम् ।
योगाभ्यासेन पूर्ब्बेण ज्ञानमासीन्महात्मनः ॥
सस्मार पौर्ब्बिकं सर्व्वं चरित्रं शिवशर्म्मणः ।
सोऽप्यहं सोमशर्म्मा वै प्रविष्टो दानवीं तनुम् ॥
कस्य कायं कदा पुण्यं केवलं ध्यानमुत्तमम् ।
प्रयामि च महापुण्यैर्ज्ञानाख्यैर्मोक्षदायिभिः ॥
समरे प्रीयमाणेन प्रह्रादेन महात्मना ।
एवं चिन्ता कृता पूर्ब्बं श्रूयतां द्विजसत्तम ! ॥
एतत्ते सर्व्वमाख्यातं सर्व्वसन्देहनाशनम् ॥”
सूत उवाच ।
“प्रह्रादे तु हते संख्ये देवदेवेन चक्रिणा ।
संह्रादे च महावीर्य्ये तस्मिंश्च कालनेमिनि ॥
प्रह्रादस्य तु या माता हिरण्यकशिपोः प्रिया ।
प्रह्रादस्य महाशोकैर्दिवा रात्रौ प्रशोचति ॥
पतिव्रता महाभागा कमला नाम दुःखिता ।
खिद्यमाना दिवा रात्रौ नारदस्तामुवाच ह ॥
मा शुचस्त्वं महाभागे पुत्त्रार्थं पुण्यभागिनि ! ।
निहतो वासुदेवेन तव पुत्त्रः समेष्यति ॥
तद्रूपलक्षणोपेतस्तवोदरे महामतिः ।
प्रह्रादेति च वै नाम पुनरस्य भविष्यति ॥
विहीन आसुरैर्भावैर्वैष्णवेन समन्वितः
पृष्ठ ३/३०५
इन्द्रत्वं भोक्ष्यते भद्रे ! सर्व्वदेवैर्नमस्कृतः ॥
सुखीभव महाभागे ! पुत्त्रेण तेन वै सदा ।
न प्रकाश्या त्वया देवि ! स्ववार्त्तेयञ्च कस्यचित् ॥
कर्त्तव्यमज्ञानभावैः सुगोप्यं त्वं सदा कुरु ।
एवमुक्त्वा गतो विप्र नारदो मुनिसत्तमः ॥
कमलायाश्चोदरे वै आसीत् तज्जन्म चोत्तमम् ।
पुनः प्रह्लादो वै नाम तस्यां जातो महात्मनः ॥
बाल्यभावं गतो विप्र कृष्ण एवं विचिन्त्य च ।
नरसिंहप्रसादेन देवराजोऽप्यभूत् स हि ॥”
इति पाद्मे भूमिखण्डे ५ अध्यायः ॥ * ॥
(अनेन सह नरनारायणयोर्युद्धमासीत् । एतद्-
विवरणन्तु देवीभागवते चतुर्थस्कन्धे नवमा-
ध्याये द्रष्टव्यम् ॥) प्रमोदः । इति विश्वः ॥
(यथा, महाभारते । १ । ७० । ३ ।
“मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥”)
शब्दः । इति धरणिः ॥ (नागविशेषः । यथा,
महाभारते । २ । ९ । १० ।
“प्रह्लादो मूषिकादश्च तथैव जनमेजयः ॥”)

प्रह्वः, त्रि, (प्रहूयते इति । प्र + ह्वे + “सर्व्वनि-

घृष्वरिष्वेति ।” उणा० १ । १५३ । इति वन् ।
आलोपश्च ।) नम्रः । इत्युणादिकोषः ॥ (यथा,
रघुः । १६ । ८० ।
“विभूषणप्रत्युपहारहस्त-
मुपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार
प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥”)
आसक्तिः । इति हेमचन्द्रः । ३ । ४९ ॥

प्रा, ल पूर्त्तौ । (अदा०-पर०-सक०-अनिट् ।)

ल, प्राति घटं जलेन लोकः । इति दुर्गा-
दासः ॥

प्राक्, व्य, पूर्ब्बदिग्देशकालाः । इत्यमरः । ३ ।

४ । २३ ॥ प्राची दिक् प्राङ् देशः काली वा
प्राक् । एवं प्राच्या दिशः प्राचो देशात्
कालाद्बा आगतः प्रागागतः । एवं प्राच्यां
दिशि प्राचि देशे वा वसति प्राग्वसति । दिक्-
शब्दाद्दिग्देशकाले इति प्रथमापञ्चमीसप्तमीनां
स्तात् अचो लुगिति स्तातो लुक् । इति तट्टी-
कायां भरतः ॥ (“दिक्छब्देभ्यः सप्तमीपञ्चमी-
प्रथमाभ्यो दिक्देशकालेष्वस्तातिः ।” ५ । ३ । २७ ।
इति अस्तातिः । “अञ्चेर्लुक् ।” ५ । ३ । ३० ।
अस्तातेर्लुक् । “लुक् तद्धितलुकि ।” १ । २ ।
४९ । इति स्त्रीप्रत्ययस्य लुक् ।) पूर्ब्बम् । (यथा,
मनुः । २ । २९ ।
“प्राक् नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”)
प्रभातम् । अवान्तरम् । अतीतम् । अग्रम् ।
इति हेमचन्द्रः मेदिनी च । चे, ७ ॥ क्रम-
प्राप्तिः । इति शब्दरत्नावली ॥

प्राकषिकः, पुं, (प्राकषति हिनस्तीति । प्र +

आ + कष हिंसायाम् + “प्राङि पनिकषः ।”
उणा० २ । १४ । इति किकन् ।) षिड्गः ।
मायानर्त्तकः । इत्युणादिकोषः ॥ (परदारोप-
जीवी । इत्युज्ज्वलदत्तः ॥)

प्राकाम्यं, क्ली, (प्रकामस्य भावः । प्रकाम +

ष्यञ् ।) शिवस्याष्टविधैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः ।
तच्च इच्छानभिघातः । इत्यमरटीकायां भरतो
हेमचन्द्रश्च । २ । ११६ ॥ (यथा, तत्त्वकौमुद्याम् ।
“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा
तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥”)
स्वाच्छन्द्यानुमतिः । तत्पर्य्यायः । अवसर्गः २
स्वाच्छन्द्यानुमननम् ३ । इति त्रिकाण्डशेषः ॥
(यथा, कुमारे । २ । ११ ।
“व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥”)

प्राकारः, पुं, (प्रक्रियते इति । प्र + कृ + घञ् ।

उपसर्गस्य घञीति दीर्घः ।) वप्रोपरि अन्यत्र
वा इष्टकादिरचितवेष्टनम् । (यथा, महा-
भारते । १ । २०८ । २९ ।
“प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥”)
तत्पर्य्यायः । वरणः २ सालः ३ । इत्यमरः । २ ।
२ । ३ ॥ शालः ४ । इति भरतः ॥ वप्रः ५ ।
यथा, --
“प्राकाररोधसोर्व्वप्रः पितृकेदारयोरपि ॥”
इति रत्नकोषः ॥
तस्य परिमाणं यथा, --
“ऊर्द्ध्वं षोडशहस्तेभ्यो नैव कुर्य्याद्गृहं गृही ।
ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥”
तस्य द्बारमानम् ।
“प्रस्थे हस्तद्बयात् पूर्ब्बं दीर्घे हस्तत्रयन्तथा ।
गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥
न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अध्यायः ॥

प्राकृतः, त्रि, (प्रकृष्टमकृतमकार्य्यं यस्य ।) नीचः ।

इत्यमरः ॥ (यथा, देवीभागवते । १ । १५ । ३१ ।
“अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ॥”
अविकारकः । यथा, भावप्रकाशे अजीर्ण-
रोगाधिकारे ।
“वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ॥
प्राकृतं अविकारकम् ॥” * ॥) प्रकृतिसम्बन्धी ।
यथा, --
“इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया ।
पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥”
इति श्रीभागवते दशमस्कन्धे ३ अध्यायः ॥
(यथाच मार्कण्डेये । ४५ । ७३ ।
“इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥”
यथा च मनौ । ११ । १५९ ।
“स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥”
“प्राकृतं प्राजापत्यं प्रकृतौ भवं प्राकृतं सर्व्व-
कृच्छ्राणां प्रकृतित्वादेवमुच्यते ।” इति तद्भाष्ये
मेधातिथिः ॥ * ॥ प्रकृतौ भवस्तत आगतो वा ।
प्रकृति + “तत्र भवः ।” ४ । ३ । ५३ । “तत
आगतः ।” ४ । ३ । ७४ । इति वा अण् ।)
भाषाभेदे, क्ली । स च संस्कृतप्रकृतिकः । यथा ।
अथ प्राकृतम् । अथशब्द आनन्तर्य्यार्थोऽधि-
कारार्थश्च । प्रकृतिः संस्कृतं तत्र भवं तत
आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृत-
मधिक्रियते । संस्कृतानन्तरं प्राकृतस्यानुशास-
नम् । सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य
लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृत-
समन्तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते
प्रकृतिप्रत्ययलिङ्गकारकसमाससं ज्ञादयः संस्कृत-
वद्वेदितव्याः । लोकादिति च वर्त्तते । तेन ऋ
ॠ ऌ ॡ ऐ औ ङ ञ श ष विसर्ज्जनीयप्लुतवर्जो
वर्णसमाम्नायो लोकादवगन्तव्यः । ङञौ स्ववर्ग्य-
संयुक्तौ भवत एव । ऐदौ तौ च केषाञ्चित् ।
कैतवं कैअवम् । सौदर्य्यं सौअरिअम् । कौरवाः
कौअवा । तथा स्वरव्यञ्जनं द्विवचनं चतुर्थी-
बहुवचनञ्च न तु भवति । अबहुलं बहुल-
मित्यधिकृतं वेदितव्यमाशास्त्रपरिसमाप्तेः ।
ततश्च क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्-
विभाषा क्वचिदन्यदेव भवति । इति हेमचन्द्र-
कृतशब्दानुशासनवृत्तौ अष्टमाध्यायस्य चतुर्थः
पादः ॥ * ॥ (यथा च प्राकृतचन्द्रिकायाम् ।
“प्रकृतिः संस्कृतं तत्र भवत्वात् प्राकृतं स्मृतम् ।
तद्भवं तत्समं देशीत्येवमेतत् त्रिधा मतम् ॥”
चण्डाचार्य्यादयस्तु आर्षप्राकृतभेदेन प्राकृतं
द्विविधं कल्पयन्ति । जैनबौद्धानां शास्त्रेषु
प्राचीनतमनाटकादिषु च आर्षप्राकृतप्रयोगः
प्रायशो दृश्यते ॥ कानिचित् विशेषलक्ष्याणि
प्राकृतचन्द्रिकायामुक्तानि । यथा, --
“तच्चार्षं मागधी शौरसेनी पैशाचिकी तथा ।
चूलिका पैशाचिकञ्चापभ्रंशश्चेति षड्विधम् ॥
महाराष्ट्रोद्भवां भाषां प्रकृष्टं प्राकृतं विदुः ।
आकरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥”
नाटकादौ उत्तमस्यापि नायकादेः कदाचितु
मत्तादिदोषोपहतस्य प्राकृतकथनं नैव दोषाय ।
यदुक्तं तत्रैव ।
“ऐश्वर्य्यादिप्रमत्तस्य दारिद्रोपप्लुतस्य च ।
उत्तमस्यापि पठतः प्राकृतं नैव दूष्यति ॥
क्रीडार्थं नृपतेरिष्टं प्राकृतञ्च द्बिजन्मनाम् ।
भरतेनोदितं प्राज्यमबाधितमिदं वचः ॥”
नाटकादौ बालस्त्रीवृद्धादीनामगुणान्वितानां
प्राकृतकथनमेव युक्ततरम् । यथाह भरद्वाजः ।
“गाथासु तु महाराष्ट्र्या अन्या नाट्याश्रया
मताः ।
बालस्त्रीवृद्धभिक्षूणां श्रावकव्याजलिङ्गिनाम् ।
ग्रहोपसृष्टमत्तानां प्राकृतं षण्डरूपिणाम् ॥” * ॥
प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ ।
३८ -- ३९ ।
“नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकी द्विज ! ।
नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥
ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः ।
प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥”)

प्राकृतज्वरः, पुं, (प्राकृतः प्रकृतिसम्बन्धी ज्वरः ।)

वर्षाशरद्बसन्तेषु त्रिषु ऋतुषु क्रमेण वातपित्त-
कफज्वरः । यथा, माधवकरः ।
“वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ॥”
पृष्ठ ३/३०६

प्राकृतदोषः, पुं, (प्राकृतो दोषः ।) वर्षाशरद्-

वसन्तेषु क्रमेण कुपितो वातः पित्तं कफश्च ।
यथा, रक्षितः ।
“चयप्रकोपप्रशमाः पित्तस्य प्रावृडादिषु ।
श्लेष्मणः शिशिराद्येषु वायोर्घर्म्मादिषु त्रिषु ॥”

प्राकृतप्रलयः, पुं, (प्राकृतः प्रकृतिसम्बन्धी प्रलयः ।)

प्रकृतेर्लयः । तस्य विवरणम् । यथा, --
“निर्गुणस्य च नित्यस्य चाद्यन्तरहितस्य च ।
निमेषाणां सहस्रेण प्रकृतेर्द्दण्ड उच्यते ॥
षष्टिदण्डात्मकस्तस्य वासरश्च प्रकीर्त्तितः ।
मासस्त्रिंशद्दिवारात्रैर्व्वर्षं द्वादशमासकैः ॥
एवं गते शताब्दे च श्रीकृष्णे प्रकृतेर्लयः ।
प्रकृत्याञ्च प्रलीनायां तदैवं प्राकृतो लयः ॥
सर्व्वाः संहृत्य सा चैका महाविष्णोः प्रसूश्च या ।
कृष्णवक्षसि लीना च मूलप्रकृतिरीश्वरी ॥
शाक्ता वदन्ति तां दुर्गां विष्णुमायां सनातनीम् ।
सर्व्वशक्तिस्वरूपाञ्च परां नारायणीं सतीम् ॥
बुद्ध्यधिष्ठातृदेवीञ्च कृष्णस्य त्रिगुणात्मिकाम् ।
यन्मायया मोहिताश्च ब्रह्मविष्णुशिवादयः ॥
वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते ।
यदर्द्धाङ्गा महालक्ष्मीः प्रिया नारायणस्य च ॥
प्राणाधिष्ठातृदेवीञ्च प्रेम्णा प्राणाधिकां वराम् ।
शश्वत् प्रेममयीं शक्तिं निर्गुणां निर्गुणस्य च ॥
नारायणश्च शम्भुश्च संहृत्य स्वगणान् बहून् ।
शुद्धसत्त्वस्वरूपी च कृष्णे लीनश्च निर्गुणे ॥
गोपा गोप्यश्च गावश्च सुरभ्यश्च नराधिप ! ।
सर्व्वे लीनाः प्रकृत्याञ्च प्रकृतिः प्रकृतीश्वरे ! ॥
महाविष्णौ विलीनाश्च सर्व्वे ते क्षुद्रविष्णवः ।
महाविष्णुः प्रकृत्याञ्च सा चैवं परमात्मनि ॥
प्रकृतिर्योगनिद्रा च श्रीकृष्णनेत्रपद्मयोः ।
अधिष्ठानं चकारैवं मायया चेश्वरेच्छया ॥
प्रकृतेर्व्वासरं यावन्मितं कालं प्रकीर्त्तितम् ।
तावद्वृन्दावने निद्रा कृष्णस्य परमात्मनः ॥
अमूल्यरत्नतल्पे च वह्निशुद्धांशुकार्च्चिते ।
गन्धचन्दनमाल्याढ्ये वायुना सुरभीकृते ॥
पुनः प्रजागरे तस्य सर्व्वसृष्टिर्भवेत् पुनः ।
एवं सर्व्वे प्राकृतिकाः श्रीकृष्णं निर्गुणं विना ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ * ॥
अपि च ।
“प्रकृतौ संस्थितो यस्मात् सर्व्वस्तन्मात्रसञ्चयः ।
अहङ्कारमहत्तत्त्वगतो यत् प्राकृतो लयः ॥
प्रकृतौ संस्थितो व्यक्तमतीतप्रलयस्तु यत् ।
तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः ॥
अयं यः कथितो विप्राः प्राकृताख्यो महालयः ॥”
इति कालिकापुराणे २४ अध्यायः ॥

प्राकृतमानुषः, पुं, (प्राकृतः सामान्यो मानुषः ।)

सामान्यमनुष्यः । यथा, महाभारते गदापर्व्वणि ।
“एकादशचमूनाथं भीम ! पादेन मा स्पृश ।
पञ्चानामपि यो भर्त्ता नासौ प्राकृतमानुषः ॥”

प्राकृतमित्रं, क्ली, (प्राकृतं स्वाभाविकं मित्रं

सुहृत् ।) स्वदेशव्यवहितदेशावस्थितराजादिः ।
यथा, माघे । २ । ३६ ।
“सखा गरोयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः ।
स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥”
अस्य टीका । “ननु क्षुद्रोऽयं चैद्यः किं नः
करिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रा-
मित्रबलाबलविवेकं तावत् करोति । सखेति ।
क्रियया उपकारापकारान्यतररूपया निर्वृत्तः
कृत्रिमः सखा सुहृत् गरीयान् बलवान् एवं
शत्रुश्च कृत्रिमो गरीयान् कुतः हि यस्मात्तौ
कृत्रिममित्रशत्रू च कार्य्यतः उपकारापकार-
रूपकार्य्यवशात् निर्वृत्ताविति शेषः । उक्तकार्य्यो-
पाधेर्यावज्जीवमनपायादनयोर्म्मित्रामित्रभावो-
ऽपि अनपायीति गरीयस्त्वमिति भावः । सहज-
प्राकृतौ तु नैवमित्याह । स्यातामिति । सह-
जातः सहजः एकशरीरावयवत्वात् तत्र सहजं
मित्रं मातृष्वसेयपितृष्वसेयादि सहजशत्रुस्तु
पितृव्यतत्पुत्त्रादिः प्रकृत्या सिद्धः प्राकृतः
पूर्ब्बोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र
विषयान्तरः प्राकृतः शत्रुः तदनन्तरः प्राकृतं
मित्रं अपि त्वर्थे तौ सहजप्राकृतौ शत्रुमित्रे च
स्यातां न त्वात्मकार्य्यवशादनियमेनोभयरूपता-
मापद्येते न कृत्रिमशत्रुमित्रे कृत्रिमशत्रुः शत्रु-
रेव मित्रञ्च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ
गरीयांसौ न तु सहजौ नापि प्राकृतावित्यर्थः ।
अनेन कृत्रिमत्वं सर्व्वापवादीति सिद्धम् ।” इति
मल्लिनाथः ॥

प्राकृतशत्रुः, पुं, (प्राकृतः स्वाभाविकः शत्रुः ।)

स्वदेशाव्यवहितदेशावस्थितराजादिः । यथा ।
“विषयान्तरः प्राकृतः शत्रुः ।” इति माघ-
टीकायां मल्लिनाथः ॥

प्राकृतिकः, त्रि, (प्रकृति + ठञ् ।) प्रकृति-

विकारः । प्रकृतिसम्बन्धी । यथा, --
“एवं सर्व्वे प्राकृतिकाः श्रीकृष्णं निर्गुणं विना ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
(प्रलयविशेषे, पुं । यथा, विष्णुपुराणे । १ । ७ । ३८ ।
“नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्बिज ! ।
नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ॥”)

प्राक्तनः, त्रि, (प्राक् प्राचि काले देशे प्राच्यां

दिशि वा भवः । प्राक् + कालवाचिनोऽ-
व्ययात् ट्युट्युलौ ।) प्राग्भवः । यथा । “प्रपेदिरे
प्राक्तनजन्मविद्याः ॥” इति कुमारसम्भवम् ॥
अन्यच्च ।
“प्राक्तनेन शुभं सर्व्वं सुखञ्च विभवश्चिरम् ।
दुःखं शोकः प्राक्तनेन विपत् सम्पच्च साम्प्रतम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १४ अध्यायः ॥
अपि च । तत्रैव १२९ अध्याये ।
“विधाता लिखितं कर्म्म प्राक्तनं केन वार्य्यते ।
मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥”

प्राक्तनकर्म्म, क्ली, (प्राक्तनं पुराभवं कर्म्म अत्रास्य

तज्जनकत्वादपि तज्जन्यत्वारोपः ।) भाम्यम् ।
अदृष्टम् । इति जटाधरः ॥ पुराकृतकार्य्यञ्च ॥

प्राक्फलः, पुं, (प्राक् फलं यस्य ।) पनसः । इति

जटाधरः ॥

प्राक्फल्गुनी, स्त्री, (प्राची फल्गुनी ।) पूर्ब्ब-

फल्गुनी । यथा । प्राक्फल्गुन्यश्चेज्जन्मकाले च
यस्य । इति कोष्ठीप्रदीपः ॥

प्राक्फल्गुनीभवः, पुं, (प्राक्फल्गुन्यां भव उत्-

पत्तिर्यस्य ।) बृहस्पतिः । इति हारावली । ३६ ॥
पूर्ब्बफल्गुन्यां जाते, त्रि ॥

प्राक्फाल्गुनः, पुं, (प्राक्फल्गुन्यां भव इति ।

प्राक्फल्गुन + अण् ।) बृहस्पतिः । इति शब्द-
रत्नावली ॥

प्राक्फाल्गुनेयः, पुं, (प्राक्फल्गुन्यां भव इति ।

प्राक्फल्गुन + ढञ् ।) बृहस्पतिः । इति
त्रिकाण्डशेषः ॥

प्राखर्य्यं, (प्रखरस्य भावः । प्रखर + ष्यञ् ।) प्रखर-

त्वम् । तीक्ष्णता । प्रखरशब्दात् भावार्थे ष्ण्यप्र-
त्ययः ॥

प्रागभावः, पुं, (प्राग्वर्त्ती अभावः ।) संसर्गा-

भावविशेषः ॥ (यथा, भाषापरिच्छेदे । १२ -- १३ ।
“अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ।
प्रागभावस्तथाध्वंसोऽप्यत्यन्ताभाव एव च ॥
एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥”)
तस्य लक्षणम् । विनाश्यभावत्वम् । इति
सिद्धान्तमुक्तावली ॥

प्रागल्भ्यं, क्ली, (प्रगल्भस्य भावः । प्रगल्म +

ष्यञ् ।) प्रगल्भता । यथा, --
“प्रागल्भ्यहीनस्य नरस्य विद्या
शस्त्रं यथा कापुरुषस्य हस्ते ।
न तृप्तिमुत्पादयते शरीरे
वृद्धस्य दारा इव दर्शनीयाः ॥”
इति ज्योतिस्तत्त्वम् ॥
स्त्रीणामयत्नजभावविशेषः । यथा, --
“प्रागल्भ्यौदार्य्यमाधुर्य्यशोभाधीरत्वकान्तयः ।
दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः ॥”
इति हेमचन्द्रः । ३ । १७३ ॥
(यथा च साहित्यदर्पणे । ३ । १०२ ।
“निःसाध्वसत्वं प्रागल्भ्यम् ॥” यथा, --
“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।
दष्टाश्च दंशनैः कान्तं दासीकुर्व्वन्ति योषितः ॥”)

प्रागुदीची, स्त्री, (प्राची उदीची च दिगिति कर्म्म-

धारयः ।) पूर्ब्बोत्तरदिक् । ईशानकोणः । यथा,
“तत्रोत्कीर्णमृत्तिकाः प्रागुदीच्यां दिशि क्षिपेत् ॥”
इति भवदेवभट्टः ॥

प्राग्ज्योतिषः, पुं, (प्राक् ज्योतिषं नक्षत्रं यत्र ।

तदुक्तं कालिकापुराणे ।
“अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं ससर्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥”)
कामरूपदेशः । इति हेमचन्द्रः । ४ । २२ ॥
स तु नरकराजपुरम् । यथा, --
श्रीभगवानुवाच ।
“करतोया सत्यगङ्गा पूर्ब्बभागावधिश्रिता ।
यावल्ललितकान्तास्ति तावद्देशं पुरं तदा ॥
तत्र देवी महामाया योगनिद्रा जगत्प्रसूः ।
कामाख्यारूपमादाय सदा तिष्ठति शोभना ॥
पृष्ठ ३/३०७
अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।
अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ॥
अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा ।
चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक ! ॥
सर्व्वे क्रीडार्थमायाता रहस्यदेशमुत्तमम् ।
अत्र श्रीः सर्व्वतो भद्रा भोग्यमत्र सदा बहु ॥
अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥
अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् ।
ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः ।
पुत्त्रार्थे वरयामास नरकस्य समां गुणैः ॥”
इति कालिकापुराणे ३७ अध्यायः ॥
(इदानीं प्रसिद्धमासामप्रदेशकियदंशकुचविहार-
कामरूपं पुरा प्राग्ज्योतिषाख्ययाभिहितम् ॥”)

प्राग्भारः, पुं, (प्रकृष्टो भारो यत्र ।) पर्व्वताग्र-

भागः । इति त्रिकाण्डशेषः ॥ कुत्रचित् प्राग्-
भाव इति च पाठः ॥

प्राग्रहरः, त्रि, (प्राग्रं प्रकृष्टमग्रं ह्रियतेऽनेनेति ।

हृ + अप् ।) श्रेष्ठः । इत्यमरः । ३ । १ । ५८ ॥
(यथा, रघौ । १६ । २३ ।
“तथेति तस्याः प्रणयं प्रतीतः
प्रत्यग्रहीत्प्राग्रहरो रघूणाम् ।
पूरप्यभिव्यक्तमुखप्रसादा
शरीरबन्धेन तिरोबभूव ॥”)

प्राग्राटं, क्ली, (प्राग्रे अटतीति । अट् + अच् ।)

अघनदधि । इति त्रिकाण्डशेषः ॥

प्राग्र्यं, त्रि, (प्रकर्षेणाग्रे भव इति । प्राग्र + यत् ।)

श्रेष्ठः । इत्यमरः । ३ । १ । ५८ ॥ (यथा,
महाभारते । ९ । ५८ । ११ ।
“कृत्वा हि सुमहत् कर्म्म हत्वा भीष्ममुखान्
कुरून् ।
जयः प्राप्तो यशःप्राग्र्यं वैरञ्च प्रतियाचितम् ॥”)

प्राग्वंशः, पुं, (प्राञ्चतीति । प्र + अञ्च + क्विन् । प्राक् ।

प्राक् वंशः सपत्नीकयजमानादिसमूहोऽत्र ।)
हविषां होतव्यानां आधारो यद्गृहं ततः
प्राक् पूर्ब्बदेशे यजमानसदस्यादिस्थित्यर्थं गृहम् ।
इत्यमरभरतौ ॥ (यथा, हरिवंशे । ४१ । ७ ।
“यूपं समित्कुशं दर्व्वी चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिञ्च होतारं चयनञ्च यत् ॥”
प्राक्चासौ वंशश्चेति कर्म्मधारयः ॥) पूर्ब्ब-
कुलञ्च ॥

प्राघातः, पुं, (प्रकृष्ट आघातोऽस्मिन् । यद्बा, प्राह-

न्यतेऽस्मिन्निति । प्र + आ + हन् + आधारे
घञ् ।) युद्धम् । इति हेमचन्द्रः । ३ । ४६१ ॥

प्राघारः, पुं, (प्राघरणमिति । प्र + घृ प्रस्रवणे +

घञ् । “उपसर्गस्य घञ्यमनुष्ये बहुलम् ।”
६ । ३ । १२२ । इत्युपसर्गस्य दीर्घः ।) घृतादि-
क्षरणम् । तत्पर्य्यायः । श्च्योतः २ । इत्यमरः ।
३ । २ । १० ॥

प्राघुणः, पुं, (प्राघोणते भ्राम्यतीति । प्र + आ +

घुण + कः ।) अतिथिः । इति त्रिकाण्डशेषः ॥
(प्राघुण + स्वार्थे कन् । प्राघुणकस्तत्रार्थे ।
यथा, पञ्चतन्त्रे चतुर्थतन्त्रे ।
“तदागच्छ प्राघुणकन्यायेनास्मदावासम् ॥”)

प्राघुणिकः, पुं, (प्राघुण + स्वार्थे ठक् ।) अतिथिः ।

यथा, नैषधे । २ । ५६ ।
“अमितं मधु तत्कथा मम
श्रवणप्राघुणिकीकृता जनैः ।
मदनानलबोधनेऽभवत्
खग धाय्या धिगधैर्य्यधारिणः ॥”

प्राघूर्णिकः, पुं, (प्र + आ + घूर्ण + भावे घञ् ।

प्रार्घूणो भ्रमणम् । तत्र साधु इति ठञ् ।)
अतिथिः । इति हेमचन्द्रः । २ । ३३४ ॥

प्राङ्, त्रि, (प्रकर्षेण अञ्चतीति । प्र + अन्च् +

“ऋत्विग्दधृक्स्रगिति ।” ३ । २ । ६९ । इति
क्विन् । “अनिदितां हल उपधायाः क्ङिति ।”
६ । ४ । २४ । इति नलोपः । “उगिदचाम् ।”
इति नुम् । संयोगान्तस्य लोपः । नुमो नका-
रस्य । “क्विन् प्रत्ययस्य कुः ।” ८ । २ । ६२ ।
इति कुत्वेन ङकारः ।) पूर्ब्बदिक । पूर्ब्बदेशः ।
पूर्ब्बकालः । इति मेदिनी । चे, ७ ॥

प्राङ्गः, पुं, (प्रकृष्टमङ्गं यस्य ।) पणववाद्यम् । इति

शब्दरत्नावली ॥

प्राङ्गणं, क्ली, (प्रकृष्टमङ्गनमङ्गं यस्य ।) पणव-

वाद्यम् । इति शब्दरत्नावली ॥ (प्रकर्षेण
अङ्गनं गमनं यत्र । णत्वम् ।) गृहभूमिः ।
आङ्गिना इति उठान इति च भाषा । तत्-
पर्य्यायः । अजिरम् २ चत्वरम् ३ अङ्गनम् ४ ।
इति हेमचन्द्रः । ४ । ७० ॥ (यथा, भविष्यो-
त्तरे ।
“प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः ।
पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम् ॥”)
सूर्य्यविद्धस्य तस्य दोषो यथा, --
“अभद्रदं सूर्य्यवेधं प्राङ्गणञ्च तथैव च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अः ॥

प्राङ्न्यायः, पुं, (प्राक् न्यायः ।) चतुर्धोत्तरान्त-

र्गतोत्तरविशेषः । यत्राभियुक्त एवं ब्रूयादस्मि-
न्नर्थे अनेनाहमभियुक्तस्तु तत्र चायं व्यवहार-
मार्गेण पराजित इति । उक्तञ्च कात्यायनेन ।
“आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
सोऽभिधेयो जितः पूर्ब्बं प्राङ्न्यायश्च स उच्यते ॥”
इति मिताक्षरा ॥

प्राचिका, स्त्री, (प्राञ्चतीति । प्र + अञ्च + क्वुन् ।

टापि अत इत्वञ्च ।) वनमक्षिका । इत्यमर-
भरतौ । ३ । ५ । ८ ॥ डाश इति भाषा ॥

प्राची, स्त्री, (प्रथमं अञ्चति सूर्य्यं प्राप्नोतीति ।

प्र + अञ्च + “ऋत्विग्दधृक् स्रगिति ।” ३ । २ । ५९ ।
इत्यादिना क्विन् । “उगितश्च ।” ४ । १ । ६ ।
इति ङीप् ।) पूर्ब्बा दिक् । इत्यमरः । १ । ३ । १ ॥
(यथा, महाभारते । १ । ९५ । १२ ।
“जनमेजयः खल्बनन्तां नामोपयेमे माधवीं
तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं
जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचि-
न्वत्त्वम् ॥”) पूजकपूज्ययोरग्रम् । यथा, --
“देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः ॥”
इति ।
“यत्रैव भानुस्तु वियत्युदेति
प्राचीति तां वेदविदो धदन्ति ।
तथा पुरः पूजकपूज्ययोश्च
सदागमज्ञाः प्रवदन्ति तन्त्रे ॥”
इति तिथ्यादितत्त्वम् ॥

प्राचीनः, त्रि, (प्रागेवेति । प्राक् + “विभाषाञ्चेर-

दिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः खस्ये-
नादेशः ।) पूर्ब्बदिग्देशकालभवः । तत्पर्य्यायः ।
प्राक् २ । (यथा, आर्य्यासप्तशत्याम् । ३५१ ।
“प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधि-
वसति ।
त्वां सखि ! पश्यामि तथा छायामिव संकुचन्मा-
नाम् ॥”
यथा च भागवते । ४ । २४ । १० ।
“प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥”
प्रागग्रम् । यथा, ऋग्वेदे । १ । १८८ । ४ ।
“प्राचीनं वर्हिरोजसा सहस्रवीरमस्तृणन् ॥”
“प्राचीनं प्रागग्रम् ।” इति तद्भाष्ये सायनः ॥
प्रकृष्टगन्ता । अपराङ्मुखः । यथा, ऋग्वेदे ।
१ । ५४ । ५ ।
“प्राचीनेन मनसा बर्हणावता ।”
“प्राचीनेन प्रकर्षेण गन्त्रा अपराङ्मुखेनेत्यर्थः ॥”
इति तद्भाष्ये सायनः ॥)
पुं, प्राचीरम् । तत्पर्य्यायः । आवेष्टकः २ वृतिः ३ ।
इति हेमचन्द्रः । ४ । ४८ ॥

प्राचीनपनसः, पुं, (प्राचीनः पनस इति नित्यकर्म्म-

धारयः ।) विल्वम् । इति त्रिकाण्डशेषः ॥

प्राचीनवर्हिः, [स्] पुं, इन्द्रः । इति हेमचन्द्रः ।

२ । ८५ ॥ (यथा, रघौ । ४ । २८ ।
“स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा ।
अहिताननिलोद्धूतैस्तर्ज्जयन्निव केतुभिः ॥”)
राजविशेषः । (यथा, महाभारते । १२ । २०८ । ६ ।
“अत्रिवंशे समुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचीनवर्हिर्भगवांस्तस्मात् प्रचेतसो दश ॥”)
यथा च ।
“हविर्द्धानात् षडाग्नेयी पुत्त्रानजनयद्व्रतम् ।
प्राचीनवर्हिषं शुक्रं गयं कृष्णं प्रजाजिनौ ॥
प्राचीनवर्हिर्भगवान् महानासीत् प्रजापतिः ।
हविर्द्धानात् द्विजश्रेष्ठ ! येन संवर्द्धिताः प्रजाः ॥
प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ! ।
प्राचीनवर्हिर्भगवान् ख्यातो भुवि महाबलः ॥
समुद्रतनयायान्तु कृतदारो महीपतिः ।
महतस्तपसः पारे सुवर्णायां महीपतिः ॥
सुषुवे दश पुत्त्रांश्च शुष्मिणां वै प्रचेतसः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥”
इति वह्निपुराणे वरसर्गो नामाध्यायः ॥

प्राचीना, स्त्री, (प्राचीन + टाप् ।) वनतिक्तिका ।

इत्यमरः । २ । ४ । ८५ ॥ आकनादि इति भाषा ॥
रास्ना । इति शब्दचन्द्रिका ॥ (प्राचि भवेति ।
प्राच् + खः । टाप् ।) प्राग्भवा च ॥ (पाठा ।
पृष्ठ ३/३०८
तत्पर्य्यायो यथा, --
“पाठाम्बष्ठावष्ठकी च प्राचीना पाचचेलिका ।
एकष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

प्राचीनामलकं, क्ली, (प्राचीनमामलकमिति नित्य-

कर्म्मधारयः ।) पानीयामलकम् । पानी आमला
इति भाषा । तत्पर्य्यायः । वारिवदरम् २ ।
इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ ।
२०८ । ४१ ।
“प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥”)
अस्य गुणः । दोषत्रयगरनाशित्वम् । इति भाव-
प्रकाशः ॥ (यथा च ।
“गरदोषहरं नीपं प्राचीनामलकन्तथा ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

प्राचीनावीतं, क्ली, (प्राचीनं प्रदक्षिणं आवीयते

स्मेति । आ + वी गत्यादौ + क्तः । यद्बा,
प्राचीनं आवेतीति । “गत्यर्थेति ।” क्तः ।)
श्राद्धादौ वामकरे बहिष्कृते सति दक्षिणस्कन्धा-
र्पितयज्ञसूत्रम् । इत्यमरभरतौ । २ । ७ । ५० ॥
तथाहि कौर्म्मे उपविभागे १० अध्याये ।
“सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्बिजाः ।
प्राचीनावीतमित्युक्तं पित्रे कर्म्मणि योजयेत् ॥”

प्राचीनावीती, [न्] पुं, (प्राचीनावीतमस्त्यस्येति ।

प्राचीनावीत + इनिः ।) प्राचीनावीतविशिष्टः ।
यथा । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणे-
ऽशे प्रतिष्ठापयति सव्यं कक्षमवलम्बं भवति
एवं प्राचीनावीती भवतीति । इति गोभिलः ॥
प्रतिष्ठापयति यज्ञोपवीतमिति शेषः । इत्या-
ह्निकतत्त्वम् ॥

प्राचीपतिः, पुं, (प्राच्याः पूर्ब्बस्या दिशः पतिः ।)

इन्द्रः । इति त्रिकाण्डशेषः ॥

प्राचीरं, क्ली, (प्राचीयते इति । प्र + आ +

चि ञ्न चयने + “शुसिचिमिञां दीर्घश्च ।” उणा०
२ । २५ । इति क्रन् दीर्घश्च ।) प्रान्ततोवृतिः ।
इत्यमरः । २ । २ । ३ ॥ पाँचील इति भाषा ॥
दुर्गार्थं नगरादेः प्रान्तभागे वेणुकण्टकवेत्रादि-
मयी वृतिर्वेष्टनिका । इति भरतः ॥ मृण्मय्या-
मपि वृतौ प्राचीरमुपचारादिति स्वाम्यादयः ॥
तत्पर्य्यायः । वृतिः २ । इति भट्टः ॥ प्राची-
नम् ३ । इति मुकुटः ॥
“प्राचीरं प्रावरोऽपि ४ स्यात् प्रावृतिः ५ प्रान्ततो-
वृतिः ६ ।
इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥”
इति शब्दरत्नावली ॥ * ॥
अथ प्राचीरनिर्णयः ।
“गजैरभेद्या मनुजैरलङ्घ्याः
प्राचीरखण्डा नृपतेर्भवन्ति ॥
राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः ।
विशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च ॥
पञ्चात् पञ्च च विज्ञेयाः प्राचीराः पृथिवीभुजः ।
सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते ॥
प्रतिप्राकारनं स्थानं द्वारं नाभिमुखस्थितम् ॥ * ॥
तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ।
तद्यथा, --
“राजच्छत्रान्तरे पञ्च राजद्बारे महीपतेः ।
राजदण्डत्रये सार्द्धे जयद्वारे प्रतिष्ठिताः ॥
अद्वारे राजदण्डार्द्धे प्राचीराः पृथिवीपतेः ।
एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति ॥
राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि ।
परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः ॥
राजपट्टाभिधानेन स्थानमेतन्निगद्यते ।
अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥
अज्ञानाद्दम्भतो राजा योऽन्यत्र गृहमारभेत् ।
सोऽचिरान्मृत्युमाप्नोति रोगं शोकं भयन्तथा ॥
यमदण्डोदयदण्डौ कोणाहतिरुपप्लवः ॥
ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥
न स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा ।
द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु ॥
राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥”
इति युक्तिकल्पतरुः ॥

प्राचेतसः, पुं, (प्रत्तेतसोऽपत्यमिति । प्रचेतस् +

अण् ।) वाल्मीकिमुनिः । इति हेमचन्द्रः ।
३ । ५१० ॥ (यथा, रघुः । १५ । ६३ ।
“अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥”
प्रचेतसोऽपत्यमात्रम् । विष्णुः । यथा, हरिवंशे ।
२०३ । १४ ।
“प्रज्ञया तेजसा योगात्तस्मात् प्राचेतसः प्रभुः ।
विष्णुरेव महायोगी कर्म्मणामन्तरङ्गतः ॥”
दक्षः । यथा, महाभारते । १ । ७५ । ५ ।
“वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत् सहस्रं संशितव्रतान् ॥”)

प्राचेतसः, [स्] पुं, प्राचीनवर्हीराजपुत्त्राः ।

सान्तनित्यबहुवचनान्तोऽयम् । यथा, --
“एवमुक्तास्तु ते पुत्त्रास्ततः प्राचेतसो दश ।
पयोधिसलिले मग्नास्तपस्तेपे सुदारुणम् ॥
पतत्रिराजमारूढं नीलोत्पलदलच्छविम् ।
दृष्ट्वा प्राचेतसः सर्व्वे शिरोभिरवनीं गताः ॥”
इति वह्निपुराणम् ॥

प्राच्यः, पुं, (प्राचि भवः । प्राच् + “द्युप्रागपागु-

दक्प्रतीचो यत् ।” ४ । २ । १०१ । इति यत् ।)
शरावत्याः प्राग्दक्षिणदेशः । इत्यमरः । २ ।
१ । ७ ॥ (पूर्ब्बदिग्भवे, त्रि । यथा मार्कण्देये ।
५७ । ४२ -- ४४ ।
“--प्राच्यान् देशान् निबोध मे ।
अध्रारका सुदकरा अन्तर्गिर्य्या वहिर्गिराः ॥
यथा प्रवङ्गा वङ्गेया मालदा मालवर्त्तिकाः ।
ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥
प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
मल्ला मगधगीमन्ताः प्राच्या जनपदाः स्मृताः ॥”)
पूर्ब्बदेशीये च, त्रि ॥ (यथा, महाभारते ।
८ । ४५ । २८ ।
“प्राच्या दासा वृषला दाक्षिणात्याः
स्तेना वाहीकाः सङ्करा वै सुराष्ट्राः ॥”)

प्राजकः, पुं, (प्राजयति प्रकर्षेण गमयति घोट-

कादीनिति । प्र + अज् + णिच् + ण्वुल् ।)
सारथिः । यथा, मनुवचने । ८ । २९३ ।
“यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य च ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्बिशतं दमम् ॥”
“यत्र सारथेरकौशल्याद्यानमन्यथा गच्छति
तत्र हिंसायां अशिक्षितसारथिनियोगात्
स्वामी द्विशतं दण्डं दण्ड्यः स्यादिति कुल्लूक-
भट्टः ।” इति प्रायश्चित्ततत्त्वम् ॥

प्राजनं, क्ली, (प्रवीयतेऽनेनेति । प्र + अज् +

ल्युट् । “वा यौ ।” २ । ४ । ५७ । इति पक्षे
व्यभावः ।) तोदनम् । इत्यमरः । २ । ९ । १२ ॥
पाचनीवाडी इति भाषा ॥

प्राजापत्यं, क्ली, (प्रजापतिर्देवतास्येति । प्रजापति +

“दित्यदित्यादित्यपत्युत्तरपदात् ण्यः ।” ४ । १ ।
८५ । इति ण्यः ।) द्बादशाहसाध्यव्रतविशेषः ।
तत्र दिवसत्रयं रात्रिमात्रभोजनम् २२ ग्रासाः ।
दिवसत्रयं दिवामात्रभोजनम् २६ ग्रासाः ।
दिवसत्रयं अयाचितभोजनम् २४ ग्रासाः ।
दिवसत्रयं उपवासः । यथा, --
“त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचि-
तम् ।
त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥”
ग्राससंख्या पराशरेणोक्ता ।
“सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथा
अयाचिते चतुर्व्विंशः परञ्चानशनं स्मृतम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
तत्तु अगम्यागमनादिप्रायश्चित्तम् । यथा, --
“अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ।
शुध्येच्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः ।
वैश्यः शान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुध्यति ॥
प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् ॥”
इति गारुडे २२६ अध्यायः ॥ * ॥
रोहिणीनक्षत्रम् । यथा, --
“ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(प्रजापतेरपत्यमिति । ण्यः । प्रजपतिपुत्त्रः ।
यथा, कुमारे । ६ । ३४ ।
“तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे ।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥”
प्रजापतेरिदमिति । प्रजापतिसम्बन्धिनि, त्रि ।
यथा, मार्कण्डेये । ४९ । ७७ ।
“प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया-
वताम् ।
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥”)

प्राजापत्यः, पुं, (प्रजापतेरयमिति । प्रजापति +

ण्यः । “प्रजापतेर्यज्ञ आसीत् प्रयागे ।” इति
महाभारतीय-। १ । ५५ । १ । वचनात् तथा-
त्त्वम् ।) प्रयागः । इति त्रिकाण्डशेषः ॥ जैन-
राजभेदः । तत्पर्य्यायः । त्रिपृष्ठः २ । इति
हेमचन्द्रः । ३ । ५९ ॥ कायनामकविवाहः ।
पृष्ठ ३/३०९
सह धर्म्मं चरतां इति नियमं कृत्वा कन्या-
दानम् । यथा, --
“इत्युक्त्वा चरतां धर्म्मं सहजा दीयतेऽर्थिने ।
स कायः पावयेत्तज्जः षट् षड्वंश्यान् सहा-
त्मना ॥”
इति मिताक्षरा ॥
कायः कः प्रजापतिर्देवता अस्येति प्राजापत्य
इत्यर्थः । इत्युद्बाहतत्त्वम् ॥ (तथा च मनुः ।
३ । ३० ।
“सहोभौ चरतां धर्म्ममिति वाचानुभाष्य च ।
कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥”)

प्राजापत्या, स्त्री, (प्रजापतिर्देवतास्या इति ।

प्राजापति + ण्यः । स्त्रियां टाप् ।) प्रव्रज्या-
श्रमपूर्ब्बकर्त्तव्यप्रजापतिदेवताकसर्व्वस्वदक्षिणा
इष्टिः । यथा, मानवे ६ अध्याये ।
“प्राजापत्यां निरूप्येष्टिं सर्व्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्-
गृहात् ॥”

प्राजिता, [ऋ] पुं, (प्राजतीति । प्र + अज् +

तृच् । वीभावाभावः ।) सारथिः । इत्यमरः ।
२ । ८ । ५९ ॥ प्रकृष्टगन्तरि, त्रि ॥

प्राज्ञः, पुं, (प्रकर्षेण जानातीति । प्र + ज्ञा +

कः । ततः प्रज्ञ एव स्वार्थे अण् ।) कल्कि-
देवस्य ज्येष्ठभ्राता । यथा, --
“कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च शम्भले ।
कविं प्राज्ञं सुमन्तञ्च पुरस्कृत्य महाप्रभम् ॥”
इति कल्किपुराणे २ अध्यायः ॥
पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, --
“पण्डिते च गुणाः सर्व्वे मूर्खे दोषा हि केवलम् ।
तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥”
इत्युद्भटः ॥)
राजशुकः । इति राजनिर्घण्टः ॥ (प्रकर्षेण
अज्ञः इति विग्रहे मूर्खोऽपि ॥)

प्राज्ञः, त्रि, (प्रज्ञ + स्वार्थे अण् । यद्बा, प्रज्ञा-

स्त्यस्येति । अच् ।) पण्डितः । (यथा, महा-
भारते । १ । १४६ । १९ ।
“पौरेषु विनिवृत्तेषु विदुरः सर्व्वधर्म्मवित् ।
बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः ॥”)
दक्षः । इति शब्दरत्नावली ॥ (विज्ञः । यथा,
मनुः । २ । १२३ ।
“नामधेयस्य ये केचिदभिवादं न जानते ।
तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव
च ॥”)

प्राज्ञमानी, [न्] त्रि, (आत्मानं प्राज्ञं मन्यते

इति । प्राज्ञ + मन् + णिनिः ।) पण्डिताभि
मानी । यथा, चरके ।
“दुःखिताय शयानाय श्रद्दधानाय रोगिणे ।
यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति ॥”

प्राज्ञा, स्त्री, (प्रज्ञास्त्यस्या इति । अच् । टाप् ।)

बुद्धिमती । तत्पर्य्यायः । धीमती २ । इत्य-
मरः । २ । ६ । १२ ॥ बुद्धिः । यथा, --
“प्रज्ञा प्राज्ञा धरा ज्ञप्तिः पण्डा संवेदनं विदा ॥”
इति रायमुकुटघृतशब्दार्णवः ॥

प्राज्ञी, स्त्री, (प्रज्ञ + स्वार्थे अण् । ङीप् ।) स्वयं

ज्ञात्री । तत्पर्य्यायः । पज्ञा २ । इत्यमरः । २ ।
६ । १२ ॥ पण्डितपत्नी । इति प्राज्ञशब्दटीकायां
भानुदीक्षितः ॥

प्राज्यं, त्रि, (प्रवीयते इति । प्र + अज् + ण्यत् ।

वीभावाभावः ।) प्रचुरम् । इत्यमरः । ३ । १ । ६३ ॥
(यथा, कुमारे । २ । १८ ।
“स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥”
प्रभूतं आज्यं घृतं यस्येति विग्रहे प्रचुरघृत-
सम्पन्नः । प्रकृष्टमाज्यमिति विग्रहे प्रकृष्ट-
घृते, क्ली ॥)

प्राञ्जलः, त्रि, (प्र + अञ्ज + बाहुलकात् अलच् ।)

सरलः । यथा, --
“ऋजावजिह्मप्रगुणौ प्राञ्जलः सरलोऽपि च ।
इति जटाधरः ॥

प्राट्, [छ्] पुं, पृच्छति यः । (प्रच्छ + “क्विप्

वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप्
दीर्घः सम्प्रसारणाभावश्च ।) प्रश्नकर्त्ता । इति
मुग्धबोधव्याकरणम् ॥

प्राड्विवाकः, पुं, (पृच्छतीति प्राट् विविच्य वक्तीति

विवाकः । ततः कर्म्मधारयः ।) व्यवहारद्रष्टा ।
जज् इति इङ्गरेजी भाषा । तत्पर्य्यायः । अक्ष-
दर्शकः २ । इत्यमरः । २ । ८ । ५ ॥ व्यवहार-
दर्शी ३ । इति शब्दरत्नावली ॥ द्वे व्यव-
हाराणां ऋणादानादिविवादानां द्रष्टरि निर्णे-
तरि धर्म्माध्यक्षे इत्यर्थः । पृच्छति वादिप्रति-
वादिवाक्यं प्राट् ददृज्जुहूवाक् प्राडिति निपातः ।
विविच्य वक्ति विवाकः कभावेऽमी इति घञ्
प्राट् चासौ विवाकश्चेति प्राड्विवाकः ।
“विवादानुगतं पृष्ट्वा पूर्ब्बवाक्यं प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥”
इति स्मृतिः । इति भरतः ॥
अपि च । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्
तयोर्व्वचनं विरुद्धाविरुद्धञ्च सभ्यैः सह विवि-
नक्ति विवेचयति वेति विवाकः प्राट् चासौ
विवाकश्चेति प्राड्विवाकः । उक्तञ्च ।
“विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥”
इति मिताक्षरा ॥

प्राणः, पुं, (प्राणिति जीवति बहुकालमिति ।

प्र + अन + अच् । प्राणित्यनेनेति करणे घञ्
वा ।) ब्रह्मा । इति त्रिकाण्डशेषः ॥ हृन्मा-
रुतः । (यदुक्तम् ।
“हृदिप्राणो गुदेऽपानः समानो नाभिसंस्थितः ॥”)
वोलः । काव्यजीवः । अनिलः । बलम् । (यथा,
हरिवंशे । ८६ । ३६ ।
“बाहुप्राणेन शूराणां समाजोत्सवसन्निधौ ॥”)
पूरिते, त्रि । इति मेदिनी ॥ सूक्ष्मशरीरसम-
ष्ट्युपहितचैतन्यम् ॥ प्राग्गमनवान् नासाग्रस्थान
वर्त्ती वायुः । इति वेदान्तसारः ॥ तस्य
कर्म्मबहिर्गमनम् । इति श्रीधरस्वामी ॥ तस्य
रूपं स्थानानि च यथा, --
“इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् ।
आस्यनासिकयोर्म्मध्ये हृन्मध्ये नाभिमध्यगे ॥
प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन ॥”
इति योगार्णवः ॥
(यथा, महाभारते । १२ । ३२८ । ३५ ।
“प्राणिनां सर्व्वतो वायुश्चेष्टां वर्त्तयते पृथक् ।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥”)
पञ्चप्राणविवरणं बहुवचनान्तप्राणशब्दे द्रष्ट
व्यम् ॥ धातुः पुत्त्रः । यथा, --
“आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥
प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥”
इति मार्कण्डेये रुद्रसर्गाध्यायः ॥
(धरपुत्त्रविशेषः । यथा, मत्स्यपुराणे । ५ । २३-२४ ।
“द्रविणो हव्यवाहश्च नरपुत्त्रावुभौ स्मृतौ ।
कल्यानिन्यां ततः प्राणो रमणः शिशिरोऽपि च ॥
मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥”)

प्राणकः, पुं, (प्राणैः प्राणेन वा कायतीति । कै +

कः ।) सत्त्वजातीयः । प्राणिमात्रम् । जीवक-
द्रुमः । चोलः । इति मेदिनी । के, ११५ ॥

प्राणथः, पुं, (प्राणित्यनेनेति । प्र + अन प्राणने

+ “शीङ्शपिरुगमीति ।” उणा० ३ । ११३ ।
इति अथः ।) वायुः । (प्राणितीति । कर्त्तरि
अथः ।) बलवान् । इत्युणादिकोषः ॥ प्रजा-
पतिः । तीर्थम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

प्राणदं, क्ली, (प्राणं प्राणनं बलं वा ददातीति ।

प्राण + दा + “आतोऽनुपेति ।” ३ । २ । ३ ।
इति कः ।) जलम् । रक्तम् । इति हेमचन्द्रः ।
४ । १३६ ॥ (प्राणदातरि, त्रि । यथा, कथा-
सरित्सागरे । २८ । ९ ।
“अर्थप्रदानमेवाहुः संसारे सुमहत् तपः ।
अर्थदः प्राणदः प्रोक्तः प्राणा ह्यर्थेषु
कीलिताः ॥”)

प्राणदः, पुं, (प्राणं ददातीति । दा + कः ।)

जीवकवृक्षः । इति राजनिर्घण्टः ॥

प्राणदा, स्त्री, (प्राणं जीवनं बलं वा ददातीति ।

दा कः । टाप् ।) ऋद्धिबृक्षः । हरीतकी ।
इति राजनिर्घण्टः ॥ (प्राणदात्री । यदुक्तम् ।
“यशोहरे किमाश्चर्य्यं प्राणदा यमदूतिका ॥”)

प्राणनं, क्ली, (प्र + अन प्राणने + ल्युट् ।) जीव-

नम् । इति जटाधरः ॥ (यथा, भागवते । ३ ।
२६ । ४१ ।
“क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥”
चेष्टनम् । यथा, ऋग्वेदे । १ । ४८ । १० ।
“विश्वस्य हि प्राणनं जीवनं त्वे वियदुच्छसि
सूनरि ॥”
“हे सूनरि उषोदेवि विश्वस्य सर्व्वस्य प्राणि-
जातस्य प्राणनं चेष्टनं जीवनं प्राणधारणञ्च ।”
पृष्ठ ३/३१०
इति तद्भाष्ये सायनः ॥ प्राणित्यनेनेति । करणे
ल्युट् ।) गले, पुं । इति शब्दचन्द्रिका ॥

प्राणनाथः, पुं, (प्राणानां नाथः ।) पतिः । इति

शब्दरत्नावली ॥ (यथा, साहित्यदर्पणे ३
परिच्छेदे ।
“चाटुकारमपि प्राणनाथं रोषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥”
स्त्रियां टाप् । पत्नी । यथा, विष्णुस्तोत्रे । ९ ।
“धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्व-
शक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां
प्रणौमि ॥”)

प्राणन्तः, पुं, (प्राणित्यनेनेति । प्र + अन + “रुहि-

नन्दिजीविप्राणिभ्यः षिदाशिषि ।” उणा ० ३ ।
१२७ । इति झच् ।) वायुः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ रसाञ्जनम् । इत्युणादि-
कोषः ॥

प्राणन्ती, स्त्री, (प्र + अन् झच् । स च षित् ।

षित्त्वात् ङीष् ।) क्षुत् । हिक्का । इत्युणादि-
कोषः ॥

प्राणप्रदा, स्त्री, (प्राणं प्रददातीति । प्र + दा + कः ।)

ऋद्धिनामकौषधम् । इति रत्नमाला ॥ (प्राण-
दातरि, त्रि । यथा, कथासरित्सागरे । २२ । ८९ ।
“त्वाञ्च दृष्ट्वाधुनात्मीयो देवि ! प्राणप्रदः सुहृत् ।
सार्थवाहसुतः श्रीमान् वसुदत्तो मया स्मृतः ॥”)

प्राणभास्वान्, [त्] पुं, (प्राणेन वायुना जलेन

वा भास्वान् उद्दीप्तः ।) समुद्रः । इति शब्द-
रत्नावली ॥

प्राणमयकोषः, पुं, (प्राणमयः कोषः आच्छादकः ।)

कर्म्मेन्द्रियसहितप्राणादिपञ्चकम् । इति वेदान्त-
सारः ॥

प्राणसंयमः, पुं, (प्राणानां संयमः ।) प्राणा-

यामः । यथा, “तदशक्तौ तच्चतुर्थमेवं प्राणस्य
संयमः ॥” इति तन्त्रसारः ॥

प्राणसद्म, [न्] क्ली, (प्राणानां सद्म गृहम् ।)

शरीरम् । इति केचित् ॥

प्राणसमा, स्त्री, (प्राणानां समा ।) पत्नी । इति

हेमचन्द्रः । ३ । १८० ॥ (यथा, गीतगोविन्दे ।
१ । ३८ ।
“नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तपाणसमासमागमरसोल्लासैरमी वासराः ॥”
प्राणतुल्ये, त्रि । यथा, रामायणे । १ । १ । २६ ।
“रामस्य दयिता भार्य्या नित्यं पाणसमा
हिता ॥”
तथा च तत्रैव । २ । ३१ । १० ।
“प्रियः प्राणसमो वश्यो विधेयश्च सखा च मे ॥”
पत्यौ, पुं । इति हेमचन्द्रः । ३ । १८० ॥)

प्राणहारकं, क्ली, (प्राणान् हरतीति । हृ +

ण्वुल् ।) वत्मनाभः । इति राजनिर्घण्टः ॥
असुनाशके, त्रि ॥

प्राणाः, पुं, (प्राणित्येभिरिति । प्र + अन + करणे

घञ् ।) असवः । इत्यमरः । २ । ९ । ११९ ॥
“द्वे अङ्गसन्निहितेषु पञ्चवायुषु । अस्यन्ते असवः
नाम्नीति उः । प्राणिति एभिः प्राणाः घञ् ।
एवमिति असुवत् प्राणा अपि पुं बहुत्वे इत्यर्थः ।
असुप्राणशब्दाभ्यां बहुवचनान्ताभ्यां पञ्चप्राणा-
दय उच्यन्ते न पुनरेकैकाभिधाने बहुवचनम्
अतएव प्राणोऽपान इत्युक्तं हृदि प्राणो गुदे-
ऽपान इत्यादि च दृश्यते ।” इति तट्टीकायां
भरतः ॥ (यथा हितोपदेशे । १ । ७३ ।
“प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः ॥”
शरीरस्थपञ्चप्राणा यथा, --
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥”
शरीरस्था इमे -- ॥”
इत्यमरः । १ । १ । ६७ ॥
“इमे प्राणादयः पञ्च वायवः शरीरे तिष्ठन्ति ते
च नियतस्थानस्थाः ॥ यदाहुः ।
‘हृदि प्राणो गुदेऽपानः समानो नाभि-
संस्थितः ।
उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥’
एवं तद्व्यापाराश्च यथा, --
अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् ।
भाषणादिनिमेषादितद्ब्यापाराः क्रमादमी ॥”
इति च भरतः ॥
प्राणकराणि यथा, --
“सद्योमांसं नवान्नञ्च बालास्त्री क्षीरभोजनम् ।
घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥”
प्राणहराणि यथा, --
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥”
इति चाणक्यकर्म्मलोचने ॥
प्राणवियोगकालकर्त्तव्यं यथा, --
“कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः ।
ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥
कुशास्तरणशायी च दिशः सर्व्वा न पश्यति ।
लब्धस्मृतिर्मुहूर्त्तात्तु यावज्जीवो न नश्यति ॥
वाचयेत् स्नेहभावेन भूमे देवा द्विजातयः ।
सुवर्णञ्च हिरण्यञ्च यथोत्पन्नेन माधवि ॥
परलोकहितार्थाय गोप्रदानं विशिष्यते ।
सर्व्वदेवमया गाव ईश्वरेणावतारिताः ॥
अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले ।
एतासाञ्चैव दानेन शीघ्रं मुच्येत किल्विषात् ॥
पश्चात् श्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥
यावत्प्राणान् प्रमुच्येत कृत्वा कर्म्म सुदुष्करम् ॥
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम् ।
प्रयाणकाले तु नरो मन्त्रेण विधिपूर्ब्बकम् ॥
मन्त्रेणानेन कर्त्तव्यं सर्व्वसंसारमोक्षणम् ।
मधुपर्कं त्वरन् गृह्य इदं मन्त्रमुदाहरेत् ॥”
मन्त्रः ।
“गृहाण चेमं मधुपर्कमाद्यं
संसारनाशनकरं त्वमृतेन तुल्यम् ।
नारायणेन रचितं भगवत्-प्रियाणां
दाहे च शान्तिकरणं सुरलोकपूज्यम् ॥
तत एतेन मन्त्रेण दद्याद्बै मधुपर्ककम् ।
पुरुषो मृत्युकाले तु परलोकसुखावहम् ॥
एवं विनिःसृतात् प्राणात् संसारञ्च न गच्छति ।
नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् ॥
महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥
तेजोव्ययकरं वास्य तत्सर्व्वं परिकल्प्य च ।
दक्षिणायां शिरः कृत्वा सलिले तं निधाय च ॥
तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलो-
च्चयाः ।
कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्बरा ॥
कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनी ।
गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नववाराहं तीर्थं पिण्डारकं तथा ।
पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ।
सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् ॥
प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः ।
तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा ॥
देवानग्निमुखान् ध्यात्वा गृह्य हस्ते हुताशनम् ।
प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदाहरेत् ॥”
मन्त्रः ।
“कृत्वा तु दुष्करं कर्म्म जानता वाप्यजानता ।
मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ॥
धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः ।
दहेयं तस्य गात्राणि दैवलोकाय गच्छतु ॥
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ।
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥
चातुर्व्वर्ण्येषु संस्कारमेवम्भवति पुत्त्रक ! ।
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥
मृतनाम तथोद्दिश्य दद्यात् पिण्डं महीतले ।
तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥”
इति वराहपुराणे श्राद्धोत्पत्तिनामाध्यायः ॥

प्राणा, स्त्री, (प्राणिति बहुकालमिति । प्र + अन

+ अच् । टाप् ।) पक्षिणीविशेषः । सा
चारुणगरुडयोः श्वश्रूः । यथा, --
“पुलहस्त्यात्मजः सर्गः प्राणायास्तु निबोधत ।
कन्याः षडिति विख्याताः प्राणाया वै विजज्ञिरे ॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुनी शुकी ।
अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महाबलौ ॥
सम्पातिश्च जटायुश्च प्रसूतौ पक्षिसत्तमौ ।
सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥
भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी ॥”
इत्यग्निपुराणम् ॥

प्राणाधिनाथः, पुं, (प्राणानामधिनाथः ।) पतिः ।

इति हलायुधः । २ । ३४२ ॥

प्राणापानौ, पुं, (प्राणश्च अपानश्च तौ । तदा-

ख्यकौ वायू । यथा, विष्णुपुराणे । ६ । ७ । ४१ ।
“परस्परेणाभिभवं प्राणापानौ यदानिलौ ॥”)
अश्विनीकुमारौ । यथा, --
“प्राणापानौ कथं देवावश्विनौ संबभूवतुः ॥”
इति प्रजापालप्रश्ने ।
पृष्ठ ३/३११
महातपा उवाच ।
“तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसा ।
बीजं निर्व्वापयामास तज्जलं तद्द्विधापतत् ॥
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा ।
वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः ॥
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ ।
ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ ॥”
इति वाराहे अश्विनोत्पत्तिनामाध्यायः ॥

प्राणायामः, पुं, (प्राणस्य वायुविशेषस्य आयामो

रोधः । यद्वा, प्राण आयम्यतेऽनेनेति । आ +
यम् + करणे घञ् ।) योगाङ्गविशेषः । (यथा,
भागवते । ३ । २८ । ११ ।
“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्वि-
षान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्
गुणान् ॥”)
तत्राङ्गुलिनियमो ज्ञानार्णवे ।
“कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥”
स द्बिविधः । सगर्भो निर्गर्भश्च । तथा च ।
सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेदिति ।
मात्रा च ।
“वामजानुनि तद्धस्तभ्रामणं यावता भवेत् ।
कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः ॥”
अथ प्राणायामः । मूलमन्त्रस्य बीजस्य प्रणवस्य
वा षोडशवारजपेन वामनासापुटे वायुं पूरयेत् ।
तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्य
द्बात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्द्दक्षिणे-
नापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् ।
पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेन
रेचयेत् । तथा च कालीहृदये ।
“प्राणायामत्रयं कुर्य्यान्मूलेन प्रणवेन वा ।
अथवा मन्त्रबीजेन यथोक्तविधिना सुधीरिति ॥”
सारसमुच्चयेऽपि ।
“विपरीतमतो विदधीत बुधः
पुनरेव तु तद्बिपरीतकमिति ॥”
यौगिके पुनर्मात्रानियमः । तथा च गौतमीये ।
“मन्त्रः प्राणायामः प्रोक्तो यौगिकं कथयामि ते ।
पूरयेद्वामया विद्वान् मात्राषोडशसंख्ययेति ॥”
यद्बा, चतुःषोडशाष्टवारजपेन पूरकादिकं
कुर्य्यात् । अथवा एकचतुर्द्विवारेण । तथा च
तन्त्रान्तरे ।
“पूरयेत् षोडशभिर्व्वायुं धारयेत्तच्चतुर्गुणैः ।
रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः ॥”
तदशक्तौ तच्चतुर्थमेव प्राणस्य संयमः । अस्य
नित्यत्वमाह तत्रैव ।
“प्राणायामं विना मन्त्रपूजने नहि योग्यता ॥”
गोपाले तु विशेषो यथा, --
कामबीजस्यैकवारजपेन दक्षिणनासया वायुं
रेचयेत् । पुनः सप्तवारजपेन वामनासया वायुं
पूरयेत् । नासापुटौ धृत्वा विंशतिवारजपेन
वायुं कुम्भयेत् । पुनर्वामेन रेचयेत् । दक्षि-
णेन पूरयेत् । उभाभ्यां कुम्भयेत् । पुनर्द्दक्षिणेन
रेचयेत् । वामेनापूर्य्य उभाभ्यां कुम्भयेत् ।
तथा च ।
“एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् ।
पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत् ॥
सर्व्वेषु कृष्णमन्त्रेषु बीजेनानेन रेचयेत् ॥”
यद्वा मूलमन्त्रेणैव प्राणायामः । तथा च ।
“पवनसंयमनन्त्वमुनाचरेत्
यमिह जप्तुमसौ मनुमिच्छति ।”
यदि दशाक्षरं जपति तदा दशाक्षरेण चेत्तत्र
चाष्टाविंशतिवारं रेचयेत् ।
“पूरयेद्बामया तद्वद्धारयेत्तत्प्रमाणतः ।
प्राणायामो भवेदेको रेचपूरककुम्भकैः ॥
अष्टादशाक्षरेण चेत् द्वादशैवं समाचरेत् ॥”
अन्यमनुभिर्वर्णानुरूपमित्युक्तत्वात् ।
तत्तन्मन्त्रवर्णसंख्याकै रेचकादित्रयं कुर्य्यात् ।
क्रमदीपिकायाम् । रेचयेन्मारुतं दक्षया
दक्षिणः । पूरयेद्बामया मध्यनाड्या पुनर्धारये-
दित्यादि । एतत्तु श्रीकृष्णमन्त्रविषयं नान्यत्र ।
इति तन्त्रसारः ॥ * ॥ अपि च ।
“आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।
मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः ॥
अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः ।
एवं द्विधा त्रिधाप्युक्तः पूरणात् पूरकः स च ॥
कुम्भको निश्चलत्वात् स रेचनाद्रेचकस्त्रिधा ।
लघुर्द्वादशमात्रः स्याच्चतुर्व्विंशतिकः परः ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥”
इति गारुडे ४९ अध्यायः ॥ * ॥
तस्य फलं यथा, --
“प्रथमे जनयेत् स्वप्नं मध्यमेन च वेपथुम् ।
विपाकं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥”
इति तत्रैव २३० अध्यायः ॥ * ॥
अन्यच्च ।
“यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥
प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् ।
प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।
तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे ॥
लघुर्द्वादशमात्रस्तु द्विगुणः स तु मध्यमः ।
त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः ॥
निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः ।
प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रकः ॥
प्रथमे जनयेत् स्वेदं मध्यमेन तु वेपथुम् ।
विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥
मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः ।
यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥
वश्यं सन्तं यथेच्छातो नागं नयति हस्तिपः ।
तथैव योगी छन्देन प्राणं नयति साधितम् ॥
यथा हि साधितः सिंहो मृगान् हन्ति न
मानुषान् ।
तद्वन्निषिद्धः पवनः किल्विषं न नृणां तनुम् ॥
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।
श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥
ध्वस्तिः प्राप्तिस्तथा सम्बित्प्रसादश्च महीपते ! ।
स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥
कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥”
इष्टदुष्टानां पुण्यपापानाम् ।
“ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्च
यान् ।
निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व-
कामिकी ॥
अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।
विजानन्तीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा ॥
तुल्यप्रभावस्तु यदा योगी प्राप्नोति सम्बिदम् ।
तदा सम्बिदिति ख्याता प्राणायामस्य सा
स्थितिः ॥
यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।
इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥
शृणुष्व च महीपाल ! प्राणायामस्य लक्षणम् ।
युञ्जतश्च यथायोगं यादृग्विहितमानसम् ॥”
इति मार्कण्डेयपुराणे योगिचिकित्सानामा-
ध्यायः ॥ * ॥ अन्यच्च ।
“प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् ।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।
कुरुतः सद्विधानेन तृतीयः संयमात् तयोः ॥
तस्य चालम्बनवतः स्थूलरूपं द्बिजोत्तम ! ।
आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥”
एतेषां टीका । प्राणायाममाह प्राणाख्यमिति ।
सबीजः सालम्बनो भगवन्मूर्त्तिध्यानमन्त्रजप-
सहितः । द्विविधस्यापि तस्य पुनस्त्रैविध्यमाह
परस्परेणेति । उच्छ्वासेन मुखनासिकाभ्यां
बहिर्निर्गच्छति वायुः स प्राणः । निश्वासेनान्तः
प्रविशति यः सोऽपानः । तत्र प्राणवृत्त्यापान-
वृत्तेरभिभवो निरोधो रेचकाख्यः प्राणायामः ।
एवमपानवृत्त्या प्राणवृत्तेरभिभवः पूरकाख्यः ।
एवमनेन परस्पराभिभवप्रकारद्वयेन स प्राणा-
यामो द्विधा । तयोर्युगपत्संयमात् कुम्भकाख्य-
स्तृतीयः प्राणायामः । यद्बा । सद्बिधानेनेत्येक-
मेव पदम् । तत्र चायमर्थः । सद्विधानेन सद्-
गुरूपदिष्टमार्गेण रेचकपूरकाभ्यां यत् पर-
स्पराभिभूतं द्बयं यश्च कुम्भकेनोभयोः सहाभि-
भवः । एवमभिभवत्रयेणैव प्राणायाम इति ।
सबीजस्यालम्बनमाह । तस्य चेति । स्थूलं
वक्ष्यमाणं हिरण्यगर्भादिरूपम् ।” इति विष्णु-
पुराणे ६ अंशे ७ अध्यायः ॥ * ॥ गायत्त्री-
प्राणायामो यथा, --
“सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।
अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः ॥
सर्व्वपापहरं प्रोक्तं प्राणायामं द्विजन्मनाम् ।
पृष्ठ ३/३१२
ततस्त्वभ्यधिकं नास्ति तपः परमपावनम् ॥
प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना ।
यः कुर्य्यात् प्रयतो नित्यं प्राणायामस्तु तत्समः ॥
निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् ।
त्रिभिः शरीरं सकलं प्राणायामेन शुद्ध्यति ॥
आकेशादानखाग्राच्च तपस्तप्येत् सुदारुणम् ।
आत्मानं शोधयेद्यस्तु प्राणायामैः पुनः पुनः ॥
श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः ।
प्राणायामशतं कृत्वा मुच्यते सर्व्वकिल्विषैः ॥”
इत्यग्निपुराणम् ॥

प्राणिद्यूतं, क्ली, (प्राणिभिर्मेषादिभिः कृतं द्यूत-

मिति मध्यपदलोपी समासः ।) पणपूर्ब्बकमेष-
कुक्कुटादियुद्धम् । तत्पर्य्यायः । समाह्वयः २ ।
इत्यमरः । २ । १० । ४६ ॥ साह्वयः ३ । इति
शब्दरत्नावली ॥

प्राणिमाता, स्त्री, (प्राणिनां मातेव गर्भदातृ-

त्वात् ।) गर्भदात्रीक्षुपः । इति राजनिर्घण्टः ॥

प्राणिहिता, स्त्री, (प्राणिनां हिता ।) पादुका ।

इति त्रिकाण्डशेषः ॥ लोकहितकारिणी च ॥

प्राणी, [न्] त्रि, (प्राणाः सन्त्यस्येति । प्राण +

“अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
प्राणविशिष्टः । मनुष्यादिः । तत्पर्य्यायः । चेतनः
२ जन्मी ३ जन्तुः ४ जन्युः ५ शरीरी ६ । इत्य-
मरः । १ । ४ । ३० ॥ (यथा, मनौ । १ । २२ ।
“कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां
प्रभुः ।
साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् ॥”)

प्राणीत्यं, क्ली, (प्रणीतस्य प्रयोजितस्य भावः ।

प्रणीत + ष्यञ् ।) ऋणम् । यथा, त्रिकाण्डशेषः ।
“प्राणीत्यमृणमर्थानां प्रयोगः स्यात् कला-
म्बिका ॥”

प्राणेशः, पुं, (प्राणानामीशः ।) पतिः । इति

जटाधरः ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे ।
“स्वामिन् ! भङ्गुरयालकं सतिलकं भालं विला-
सिन् ! कुरु
प्राणेश ! त्रुटितं पयोधरतटे हारं पुन-
र्योजय ॥”)

प्राणेशा, स्त्री, (प्राणानामीशा ।) भार्य्या । इति

हेमचन्द्रः ॥

प्रातः, [र्] व्य, (प्राततीति । प्र + अत् + “प्रातते

ररन् ।” उणा० ५ । ५९ । इति अरन् ।)
प्रभातम् । तत्पर्य्यायः । प्रगे २ । इत्यमरः ।
३ । ४ । १९ ॥ सूर्य्योदयावधित्रिमुहूर्त्तकालः ।
यथा, --
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा, रघौ । १ । ९० ।
“प्रयता प्रातरन्वे तु सायं प्रत्युद्व्रजेदपि ॥”)

प्रातःकृत्यं, क्ली, (प्रातः प्रभातकालस्य कृत्यं कर्त्तव्या

क्रिया ।) प्रभातकर्त्तव्यकर्म्म । तदनुष्ठानं यथा,
“ब्राह्मे मुहूर्त्ते उत्थाय धर्म्ममर्थञ्च चिन्तयेत् ।
कायक्लेशन्तदुद्भूतं ध्यायेत्तु मनसेश्वरम् ॥
उषःकालेऽथ संप्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥
प्रातःस्नानेन शुध्यन्ति येऽपि पापकृतो जनाः ।
तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत् ॥
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणां शुचिता नित्यं प्रातःस्नानान्नं संशयः ॥
मुखे सुप्तस्य सततं लालाद्याः प्रस्रवन्ति हि ।
ततो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः ॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः ॥
न च स्नानं विना पुंसां पावनं प्रत्यहं स्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा चाथ मार्जनं कायिकं स्मृतम् ॥
अप्रायत्ये समुत्पन्ने स्नानमेव समाचरेत् ।
ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्म्मनीषिणः ॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत षोढास्नानं प्रकीर्त्तितम् ॥
ब्राह्मन्तु मार्ज्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकादिविधूननम् ॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानन्तद्दिव्यमुच्यते ॥
वारुणञ्चावगाह्यन्तु मानसन्त्वात्मवेदनम् ।
यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम् ॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ॥
मनःशुचिकरं पुंसां नित्यन्तत्स्नानमाचरेत् ।
शक्तश्चेव्वारुणं विद्वान् प्राजापत्यन्तथैव च ॥ * ॥
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ।
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ॥
मध्याङ्गुलसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ।
सत्वचं दन्तकाष्टं स्यात्तस्याग्रेण च धावयेत् ॥
क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गञ्च विल्वञ्च करवीरं विशेषतः ॥
वर्ज्जयित्वा निन्दितानि गृहीत्बैनं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयित्वा विधानतः ॥
नोत्पाटयेद्दन्तकाष्ठं नाङ्गुल्या धावयेत् क्वचित् ।
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ॥
स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ।
सम्मार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः ॥
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः
शुभैः ।
ॐकारयाहृतियुतां गायत्त्रीं देवमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्यामिति स्मृतिः ॥
या सन्ध्या सा जगत्सूतिर्मायातीता च
निष्कला ।
ऐश्वरी तु परा शक्तिस्तत्तन्मन्त्रसमुद्भवा ॥
ध्यात्वार्कमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु ।
यदन्यत् कुरुते किञ्चित् न तस्य फलमाप्नुयात् ॥
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिषत् सन्ध्यां प्राप्ताश्च परमां गतिम् ॥
योऽन्यत्र कुरुते यत्नाद्धर्म्मकार्य्यं द्विजोत्तमः ।
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥
तस्मात् सर्व्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।
उपासितो भवेत्तेन देवो योगतनुः परः ॥
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद्बिद्बान् प्राङ्मुखः प्रयतः स्थितः ॥
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः ॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्व्वीत प्रणतिं भूमौ मूर्द्ध्ना नित्यञ्च मन्त्रतः ॥ * ॥
ॐ खं खखोल्काय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥
नमस्ते घृणये तुभ्यं सूर्य्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥
भूर्भुवः स्वस्त्वमोङ्कारः सर्व्वे रुद्राः सनातनाः ।
पुरुषः सन्महोऽतस्त्वां प्रणमामि कपर्द्दिनम् ॥
त्वमेव विश्वं बहुधा सदसत् सूयसे च यत् ।
नमो रुद्राय सूर्य्याय त्वामहं शरणं गतः ॥
प्राचेतसे नमस्तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नम उमापतये तुभ्यमादित्याय नमोऽस्तु ते ॥
नमस्ते बहुहस्ताय त्र्यम्बकाय नमोऽस्तु ते ।
प्रपद्ये त्वां विरूपाक्ष ! महान्तं परमेश्वरम् ॥
हिरण्मये गृहे गुप्तमात्मानं सर्व्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परामृतम् ॥
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।
नमः सूर्य्याय रुद्राय भास्वते परमेष्ठिने ।
उग्राय सर्व्वभक्ष्याय त्वां प्रपद्ये सदैव हि ॥ * ॥
एतद्वै सूर्य्यहृदयं जप्त्वा स्तवमनुत्तमम् ।
प्रातःकालेऽथ मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ॥
इदं पुत्त्राय शिष्याय धार्म्मिकाय द्बिजातये ।
प्रदेयं सूर्य्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥
सर्व्वपापप्रशमनं वेदसारं समुद्धृतम् ।
ब्राह्मणानां हितं पुण्यं ऋषिसंघैर्निषेवितम् ॥
यस्तु नित्यं पठेद्धीमान् प्रेक्षन्नादित्यमण्डलम् ।
महापातकयुक्तोऽपि पूयते नात्र संशयः ॥
क्षयापस्मारकुष्ठाद्यैर्व्याधिभिः पीडितोऽपि सन् ।
जप्त्वा शतगुणं स्तोत्रं स श्लाघ्यो भवति द्रुतम् ॥
भूतग्रहपिशाचातिबीजव्यसनकर्षिभिः ।
स्तुवन् ध्यात्वा हरिं विप्रो मुच्यते महतो भयात् ॥
अथागत्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ॥
ऋत्विक्पुत्त्रोऽथ पत्नी वा शिष्यो वापि सहो-
दरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्व्वा यथाविधि ॥
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः ।
अनन्यमानसो भूत्वा जुहुयात् संयतेन्द्रियः ॥
विना दर्भेण यत् कर्म्म विना मन्त्रेण वा पुनः ।
राक्षसं तद्भवेत् सर्व्वं नामुत्रेह फलप्रदम् ॥ * ॥
पृष्ठ ३/३१३
दवतानि नमस्कुर्य्याद्देयमारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥
गुरुञ्चैवाभ्युपासीत हितञ्चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्य्यात् प्रयत्नाद्भक्तितो द्विजः ॥
जपेदध्यापयेच्छिष्यान् श्रावयेच्च विधारयेत् ।
अवेक्षेत च शास्त्राणि धर्म्मादीनि द्विजोत्तमः ॥
वैदिकांश्चैव नियमान् वेदाङ्गानि विशेषतः ।
उपेयादीश्वरञ्चाथ योगक्षेमप्रसिद्धये ॥
साधयेद्विविधानर्थान् कुटम्बार्थे ततो द्बिजः ॥”
इति कौर्म्मे उपविभागे १७ अध्यायः ॥ * ॥
अपि च ।
“प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्बिभुजं गुरुम् ।
प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्ब्बकम् ॥”
ॐ नमो गुरवे तस्मा इष्टदेवस्वरूपिणे ।
यस्य वाक्यामृतं हन्ति विषं संसारसंज्ञकम् ॥”
इति पठेत् ॥
“अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोक-
भाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥”
इति भावयेत् ।
“लोकेश ! चैतन्यमयादिदेव
श्रीकान्त विष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्त्तयिष्ये ॥
जानामि धर्म्मं न च मे प्रवृत्ति-
र्जानाम्यधर्म्मं न च मे निवृत्तिः ।
त्वया हृषीकेश ! हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥”
विष्णुपुराणे ।
“प्रबुद्धश्चिन्तयेद्धर्म्ममर्थञ्चास्याविरोधिनम् ।
अपीडया तयोः काममुभयोरपि चिन्तयेत् ॥”
धर्म्मलक्षणन्तु भविष्ये ।
“धर्म्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम् ॥”
अतएव जैमिनिः । चोदनालक्षणोऽर्थो धर्म्म
इति । तेन वैदिकलिङ्प्रतिपाद्योऽर्थो धर्म्मः ।
कोऽर्थो योऽभ्युदयाय इति तु भविष्ये ॥ * ॥
ततः ॐ प्रियदत्तायै भुवे नमः । इति नमस्कृत्य
दक्षिणं चरणं न्यसेत् । छन्दोगपरिशिष्टम् ।
“श्रोत्रियं सुभगामग्निं गाञ्चैवाग्निचितं तथा ।
प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥
पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम् ।
प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम् ॥”
अतएव व्यासः ।
“धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥”
महाभारते ।
“कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥”
मात्स्ये ।
“कार्त्तवीर्य्यार्ज्जुनो नाम राजा बाहुसहस्रभृत् ।
योऽस्य संकीर्त्तयेन्नाम कल्यमुत्थाय मानवः ॥
न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः ॥”
कल्यं प्रातः ॥ * ॥
अथ विण्मूत्रोत्सर्गः । विष्णुधर्म्मोत्तरे ।
“निद्रां जह्याद्गृही राम ! नित्यमेवारुणोदये ।
वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्ब्बकम् ॥
स्नानं समाचरेत् प्रातः सर्व्वकल्मषनाशनम् ॥”
अरुणोदयकालमाह स्कन्दपुराणम् ।
“उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः ।
तत्र स्नानं प्रशस्तं स्यात्तद्धि पुण्यतमं स्मृतम् ॥”
नाडिका दण्डः । विष्णुधर्म्मोत्तरे ।
“वेगरोधं न कर्त्तव्यमन्यत्र क्रोधवेगतः ।”
आयुर्व्वेदीयेऽपि । न वेगितोऽन्यकार्य्यसिद्धिः
स्यान्नाजित्वा साध्यमामयम् । अङ्गिराः ।
“उत्थाय पश्चिमे रात्रेस्तत आचम्य चोदकम् ।
अन्तर्द्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥
वाचं नियम्य यत्नेन ष्ठीवनोच्छासवर्ज्जितः ॥
कुर्य्यान्मूत्रपुरीषे तु शुचौ देशे समाहितः ॥”
विष्णुपुराणम् ।
“ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! ।
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥”
कल्यमुषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब-
न्धात् पुरीषोत्सर्गः । नैरृत्यामुत्थानदेशमारभ्य
उत्थायेत्यनेन उपस्थितेः इषुप्रक्षेपयोग्यदेशा-
द्बहिः । तद्देशपरिमाणमाह पितामहः ।
“मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् ।
हस्तानाञ्च शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥”
आपस्तम्बः ।
“मूत्रपुरीषोत्सर्गं कुर्य्याद्दक्षिणां दिशं दक्षिणा-
परां वेति ।” दक्षिणापरां नैरृतीम् । मनुः ।
“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥”
यत्तु यमवचनम् ।
“प्रत्यङ्मुखश्च पूर्ब्बाह्णे त्वपराह्णे च प्राङ्मुखः ।
उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः ॥”
इति तदिच्छाविकल्पार्थं सूर्य्याभिमुखनिरा-
सार्थञ्च न तु नियमार्थं देवलवचनविरोधात् ।
तथा च देवलः ।
“सदैवोदङ् मुखः प्रातः सायाह्ने दक्षिणामुखः ।
विण्मूत्रमाचरेन्नित्यं सन्ध्यायां परिवर्ज्जयेदिति ॥”
अत्र प्रातःसायाह्नशब्दौ दिवारात्रिपरौ
पूर्ब्बोक्तमनुवचनैकवाक्यत्वात् । सन्ध्यायां परि-
वर्ज्जयेदिति तु पीडितेतरपरम् ॥ * ॥ यमः ।
“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रे च गृही कुर्य्याद्यद्वा कर्णे समाहितः ॥”
पृष्ठतः पृष्ठे कण्ठलम्बितं निवीतं तत् पृष्ठ-
लम्बितं निवीतमापृष्ठदेशावलम्बं ग्राम्यधर्म्मेष्विति
निगमपरिशिष्टवचनात् ।
“नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥”
इति मनुवचनाच्च ॥
अत्र संवीतं निवीतं संवीतं मानुष इति तैत्ति-
रीयश्रुतेः । मानुषे सनकादिकृत्ये । पृष्ठलम्बितं
निवीती वेति वौधायनीयाच्च । ततश्च हारवत्
कृत्वा पृष्ठलम्बितं स्कन्धे इत्यर्थः । एकवस्त्रता-
पक्षे व्यवस्थामाह सांख्यायनः । यद्येकवस्त्रो
यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठित इति । कर्णे
दक्षिणे । पवित्रं दक्षिणे कर्णे विण्मूत्रमाचरे-
दिति स्मृतौ तथा दर्शनात् । अवगुण्ठितः कृत-
शिरोऽवगुण्ठनः । मनुः ।
“छायायामन्धकारे वा रात्रावहनि वा द्बिजः ।
यथासुखमुखः कुर्य्यात् प्राणवाधभयेषु च ॥”
महाभारते ।
“प्रत्यादित्यं प्रतिजलं प्रति गाञ्च प्रति द्विजम् ।
मेहन्ति ये च पथिषु ते भवन्ति गतायुषः ॥”
प्रतिः सांमुख्ये ॥ * ॥ मनुः ।
“न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ।
न फालकृष्टे न जले न चित्यां न च पर्व्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥
न नदीतीरमासाद्य न च पर्व्वतमस्तके ।
गवाग्निविप्रानादित्यमपः पश्यंस्तथैव च ॥
न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्ज्जनम् ।
ससत्त्वेषु प्राणिमत्सु । संस्थित उत्थितः
पर्व्वतनिषेधादेव मस्तकनिषेधे सिद्धे पुनर्निषेधं
यत्र पर्व्वतोऽशक्यपरीहारस्तत्रापि मस्तकवर्ज्ज
नार्थः । अथवा । पर्व्वतमस्तकनिषेधोऽधिक
दोषाय ॥ * ॥ वशिष्ठः ।
“आहारनिर्हारविहारयोगाः
सुसंवृता धर्म्मविदा तु कार्य्याः ।
वाग्बुद्धिगुप्ती च तपस्तथैव
धनायुषी गुप्ततमे तु कार्य्ये ॥”
निर्हारो मूत्रपुरीषोत्सगः । विहारः स्त्रीसं-
भोगः । योगः समाधिः । वाग्गुप्तिरशुभालाप-
त्यागः । बुद्धिगुप्तिरनिष्टचिन्तात्यागः । हारीतः ।
“आहारन्तु रहः कुर्य्यान्निर्हारञ्चैव सर्व्वदा ।
गुप्ताभ्यां लक्ष्म्यपेतः स्यात् प्रकाशे हीयते तथा ॥”
विष्णुपुराणम्
“सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च न संमुखम् ।
कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥”
आपस्तम्बः । “न च सोपानत्को मूत्रपुरीषे
कुर्य्यादिति ।” बृहन्मनुः ।
“करगृहीतपात्रेण कृत्वा मूत्रपुरीषके ।
मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत् ॥”
भरद्वाजः ।
“अथावकृष्यविण्मूत्रं लोष्टकाष्ठतृणाद्विना ।
उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः ॥” * ॥
उदस्तवासाः कटिदेशादूर्द्ध्वक्षिप्तवस्त्रः ।
अथ शौचम् । देवलः ।
“धर्म्मविद्दक्षिणं हस्तमधःशौचे न योजयेत् ।
तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत् ।
प्रकृतिस्थितिरेषा स्यात् कारणादुभयक्रिया ॥”
कारणाद्रोगादेः । ब्रह्माण्डपुराणम् ।
“उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः ।
उदङ्मुखो दिवा कुर्य्याद्रात्रौ चेद्दक्षिणारुखः ॥
सुनिर्निक्ते मृदं दद्यान्मृदन्ते त्वप एव च ॥”
पृष्ठ ३/३१४
कुर्य्याच्छौचमिति शेषः । सुनिर्निक्ते भरद्वाजोक्त-
लोष्टादिप्रमृष्टे गुदे । उदकपात्राभावे करेण
जलाशयात् उदकग्रहणमाह आदित्यपुराणम् ।
“रत्निमात्रं जलं-त्यक्त्वा कुर्य्याच्छौचमनुद्धृते ।
पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत् ॥”
तस्मिन् देशे शौचं कर्त्तव्यं यस्माद्रत्निमात्रव्यव-
हितं जलं तत्स्थलमेव तीर्थं जलसमीपत्वात् ॥ * ॥
विष्णुपुराणम् ।
“वल्मीकमूषिकोत्खातां मृदमन्तर्जलान्तथा ।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥
अन्तःप्राण्यवपन्नाञ्च हलोत्खातां सकर्द्दमाम् ॥”
मनुदक्षौ ।
“एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥”
उभयोः करयोः । वामहस्ते दशदानानन्तरं
तत्पृष्ठे षड्दानमाह हारीतः । दशमध्ये च
षट् पृष्ठे इति । शङ्खदक्षौ ।
“तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः ॥”
नखशोधनं तृणादिना नखान्तर्मलशोधनम् ।
तिस्र इति हस्तयोरिति शेषः ॥ * ॥
पादप्रक्षालनं न कांस्ये कर्त्तव्यमित्याह विष्णु-
धर्म्मोत्तरम् ।
“दर्भैर्न मार्ज्जयेत् पादौ न च कांस्ये प्रधावयेत् ॥”
दक्षः ।
“लिङ्गे तत्र समाख्याता त्रिपर्व्वी पूर्य्यते यया ।
अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥
द्बितीया च तृतीया च तदर्द्धं परिकीर्त्तितम् ॥”
यदा तु उक्तप्रमाणया मृदा गन्धलेपक्षयो न
भवति तदा अधिकयापि कर्त्तव्यम् ।
“गन्धलेपक्षयकरं शौचं कुर्य्यादतन्द्रितः ॥”
इति याज्ञवल्क्यवचनात् ॥
गुदादन्यत्र परिमाणमाह यमः ।
“मृत्तिका तु समुद्दिष्टा त्रिपर्व्वी पूर्य्यते यया ।”
त्रिपर्व्वी तर्ज्जनीमध्यमानामिकानामग्रपर्व्व-
त्रयम् ॥ * ॥ मूत्रमात्रे तु स्मृतिः ।
“एकां लिङ्गे मृदं दद्यात् वामहस्ते तु मृत्त्रयम् ।
उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्त्तितम् ॥”
ब्रह्मपुराणे ।
“पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिमान् ।
द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥”
पादयोर्द्वे एकैका । इदं मूत्रे पुरीषोत्सर्गे
तिसृणां विधानात् ॥ * ॥ दक्षः ।
“यथोदितं दिवा शौचमर्द्धं रात्रौ विधीयते ।
आतुरे च तदर्द्धं स्यात् तदर्द्धन्तु पथि स्मृतम् ॥”
यथोक्तकरणाशक्तावेवेदं न तु निशादिपुरस्कारे-
णैव वाक्यस्यादृष्टार्थतापत्तेः ॥ * ॥ आपस्तम्बः ।
“पथि पादस्तु विज्ञेय आर्त्तः कुर्य्याद्यथाबलम् ।”
एतयोर्व्विरोधस्तु आर्त्तानार्त्ताभ्यां परिहर-
णीयः । दक्षः ।
“देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिमवत्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत् ॥”
ब्रह्मपुराणे ।
“न यावदुपनीयेत द्विजः शूद्रस्तथाङ्गना ।
गन्धलेपक्षयकरं शौचं तेषां विधीयते ॥
प्रमाणं शौचसंख्या वा न शिष्टैरुपदिश्यते ।
यावच्च शुद्धिं मन्येत तावत शौचं समाचरेत् ॥”
दक्षः ।
“न्यूनाधिकं न कर्त्तव्यं शौचं शुद्धिमभीप्सता ।
प्रायश्चित्तं प्रसज्जेत विहितातिक्रमे कृते ॥
शौचाचारविहीनस्य समस्ता निष्फलाः
क्रियाः ॥”
गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं पूर्ब्बोक्तयाज्ञ-
वल्क्यविरोधात् । गन्धलेपाक्षये त्वधिकसंख्य-
यापि । याज्ञवल्क्यवचनमनुपनीतादिपरं वा
पूर्ब्बोक्तब्रह्मपुराणैकवाक्यत्वात् ॥ * ॥
“एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम् ॥”
इदन्तु द्बैमुण्यादिकं संख्यामात्रे तदनन्तराभि-
धानात् । व्याघ्रपादः ।
“शौचन्तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथापरम् ॥
गङ्गातोयेन कृत्स्नेन मृद्भारैश्च नगोपमैः ।
आमृत्योः स्नातकश्चैव भावदुष्टो न शुध्यति ॥”
स्मृतिः ।
“धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा ।
भुञ्जानमाचमानञ्च नास्तिकं नाभिवादयेत् ॥
जन्मप्रभृति यत्किञ्चित् चेतसा धर्म्ममाचरेत् ।
सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥”
ऋष्यशृङ्गः ।
“यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशो-
धयेत् ।
न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत् ॥”
शौचानन्तरं हारीतः । गोमयेन मृदा वा
कमण्डलुं प्रमृज्य पूर्ब्बवदुपस्पृश्य आदित्यं सोम-
मग्निं वा वीक्षेतेति । अत्र मार्जनानन्तरं
क्षलनं अन्यत्र तथादर्शनात् । आचमनान-
न्तरं आदित्यादिदर्शनं यथासम्भवम् । शौचं
कृत्वा मूत्रोच्चारं न पश्येत् दृष्ट्वादित्यमग्निं सोमं
वा पश्येदिति ॥ * ॥ अथाचमनविधिः । दक्षः ।
“प्रक्षाल्य पाणी पादौ च त्रिः पिबेदम्बु वीक्षि-
तम् ।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम् ॥
संहत्य तिसृभिः पूर्ब्बमास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ।
नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ॥
सर्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥”
पादप्रक्षालनं विशेषयति देवलः ।
“प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेत् शनैः ।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ॥”
शनैरत्वरः । दैवपैतृकेतरत्रापस्तम्बः । प्रत्यक्-
पादावसेचनमिति । प्रत्यक् पश्चिमाभिमुखः ।
क्रममाह गोभिलः । सव्यं पादमवनेनिज इति
सव्यं पादं प्रक्षालयेत् । दक्षिणं पादमवनेनिज
इति दक्षिणं पादं प्रक्षालयेदिति अर्हणीये
तथादर्शनात् सर्व्वत्र तथा कल्प्यते । पारस्करः ।
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयतीति सूत्रेण
प्राक् सव्यपादप्रक्षालने सिद्धे सव्यं प्रक्षाल्य
दक्षिणं प्रक्षालयतीत्यत्र सव्यग्रहणं सामान्यार्थं
तेनान्यस्यापि पादप्रक्षालने सव्यस्यैव प्राथम्यम्
अन्यार्थं पुनर्व्वचनमिति न्यायात् । अन्यार्थमधि-
कार्थम् । ब्राह्मणश्चेद्दक्षिणं प्रथममिति सूत्रं
तस्य पादौ यदि ब्राह्मणः प्रक्षालयति तदा
दक्षिणं प्रथममिति न सव्यम् । यथा प्रक्षाल-
यतीत्यनुवृत्तौ आश्वलायनः । दक्षिणमग्रे ब्राह्म-
णाय प्रयच्छेत् सव्यं शूद्रायेति । स्वयं प्रक्षालने
सव्यस्यैव प्राथम्यमिति एवं हरिशर्म्मापि ।
आचमने पाणिपादप्रक्षालनं मूत्राद्यत्मर्गे ।
यथा वृद्धपराशरः ।
“कृत्वाथ शौचं प्रक्षाल्य हस्तौ पादौ च
मृज्जलैः ।
निबद्धशिख आसीनो द्विज आचमनञ्चरेत् ॥
कृत्वोपवीतं सव्यांशे वाङ्मनःकायसंयतः ॥”
आपस्तम्बः ।
“इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।
हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः ॥”
आजानु आमणिबन्धाभ्यामित्यवध्युपादानं तत्-
पर्य्यन्ताशुचित्वशङ्कायां अध्वश्रमापनोदनाय
अतिशयशौचाय वा । अतएवोक्तं अङ्गप्रकर्षात्
फलप्रकर्ष इति ॥ * ॥ शिखाबन्धने विशेषमाह
ब्रह्मपुराणम् ।
“गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः ।
जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समाचरेत् ॥” * ॥
पिबेदित्यत्रान्तर्जान्वाह याज्ञवल्क्यः ।
“अन्तर्जानु शुचौ देशे उपविष्ट उदड्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥”
अन्तर्जानु जानुनोर्म्मध्ये हस्तौ कृत्वेति शेषः ।
वाशब्दादीशानाभिमुखः ।
“ईशानाभिमुखो भूत्वोपस्पृशेत्तु यथाविथि ॥”
इति मरीच्युक्तेः ॥
ब्राह्मेण तीर्थेन अङ्गुष्ठमूलेन ।
“कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥”
इति याज्ञवल्क्यात् ॥
देशिनी तर्ज्जनी । करस्य दक्षिणस्य । यथा
मार्कण्डेयपुराणम् ।
“अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च ।
एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥”
अत्र द्विजो न स्त्रीशूद्राविति मिताक्षरा ॥ अतएव ।
“स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च ।
सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः ॥”
ब्राह्मतीर्थावरोधे तु मनुः ।
“कायत्रैदशिकाभ्यां वा न पैत्र्येण कदाचन ।”
उक्ततीर्थत्रयस्य ब्रणादिनावरोधे करमध्यात्म-
पृष्ठ ३/३१५
काग्नेयेनापि । एवञ्च सर्व्वाविरोधे सुवर्णादि-
पात्रेणाप्याचमनं कार्य्यं स्वयमसामर्थेऽन्येनाच-
मनं कारयितव्यम् । याज्ञवल्क्यः ।
“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनवुद्वुदः ।
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्बिजातयः ॥
शुध्येरन् स्त्री च शूद्रश्च सकृत् स्पृष्ठाभिरन्ततः ॥”
अन्ततः ओष्ठोपान्ते । उत्तरोत्तरमुपकर्षात् ।
अतएव स्पृष्टाभिरित्युक्तं न तु भक्षिताभिरिति ।
स्त्री शूद्रो वाथ नित्याम्भः क्षालनाच्च करोष्ठयो-
रिति ब्रह्मपुराणाच्च । आचमनार्थे पाणिपाद-
प्रक्षालनमेवेत्येके । इति शूद्राधिकारे गोतमो-
क्तेश्च । आचमनार्हजलाभावे इदमित्याचारा-
ध्यायः । मनुः ।
“हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।
वैश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिर-
न्ततः ॥”
अत्र वश्यावधिप्राशनमुक्तम् । अनुपनीतानान्तु
स्त्रीशूद्रवदाचमनं न यावदुपनीयेत । इति
प्रागुक्तशौचे तथादर्शनात् मिताक्षरादयो-
ऽप्येवम् । अम्बु विशेषयति वौधायनः । पाद-
प्रक्षालनाच्छेषेण नाचामेत यद्याचामेत् भूमौ
स्रावयित्वाचामेदिति । उशनाः ।
“कांस्यायसेन पात्रेण त्रपुसीसकपित्तलः ।
आचान्तः शतकृत्वोऽपि न कदाचिच्छुचि-
र्भवेत् ॥”
कांस्यादिपात्रकरणकाचमनं कांस्यायसेनेत्या-
दिना निषिद्बमिति केचित् । हस्तेनाचमनेऽपि
कांस्यादिपात्रावर्ज्जितं तन्निषिद्धमित्यपरे ।
आचमनजलनिषेधे शङ्खलिखितौ । न शूद्रा
शुच्येकपाण्या वर्ज्जितेनेति अत्राशुचिपदम्
आचमनकर्त्तृभिन्नपरम् । शूद्रसाहचर्य्यात् एक
पाणिपदमपि आचमनकर्त्तृभिन्नपाणिपरम् ।
तेन स्वीयवामपाण्यावर्ज्जितमनिषिद्धम् । तथा
च कमण्डल्वधिकारे बौधायनः । मूत्रपुरीषे
कुर्व्वन् दक्षिणहस्तेन गृह्णाति सव्येनाचमनीय-
मिति । गृह्णाति जलपात्रमिति शेषः । आचा-
मेदित्यनुवृत्तौ देवलः ।
“शिखां बद्धा वसित्वा द्वे निर्निक्ते वाससी शुभे ।
तूष्णीं भूत्वा समादाय नोद्गच्छन्नविलोकयन् ॥”
एकवस्त्राः प्राचीनावीतिन इत्यादिपारस्कर-
दर्शनात् यत्र प्रेतस्नानतर्पणादौ एकवस्त्रत्वं
विहितं तत्र तदङ्गत्वादेकवासा एवाचमनं
कुर्य्यात् । प्रचेताः ।
“अनुष्णाभिरफेनाभिः पूताभिर्वीक्ष्य चक्षुषा ।
हृद्गताभिरशब्दाभिस्त्रिश्चतुर्व्वाद्भिराचमेत् ॥”
चतुर्व्वेति भावशुद्ध्यपेक्षया विकल्पः । न तु
फलभूयस्त्वार्थं कल्पनागौरवापत्तेः । वीक्षणा-
नुष्णयोर्भट्टभाष्यमाधवाचार्य्यकृतपराशरभाष्य-
योरपवादमाह यमः ।
“रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिभिः ।
उदके नातुराणाञ्च तथोष्णेनोष्णपायिनाम् ॥”
आचामेदित्यनुवृत्तौ वशिष्ठः । प्रदरादपि या
गोस्तर्पणाय स्युर्न वर्णरसदुष्टाभिर्याश्च स्युरशु-
भागमा इति । प्रदरो विदीर्णभूभागः । अशु-
भागमाः अशुचिदेशादागताः । यस्मिन् देशे
वर्णादिदुष्टमेव तोयं तत्र तदपि ग्राह्यम् । तथा
च मरीचिः ।
“येषु स्थानेषु यच्छौचं धर्म्माचारश्च यादृशः ।
तत्र तन्नावमन्येत धर्म्मस्तत्रैव तादृशः ॥
येषु स्थानेषु ये देवा येषु देशेषु ये द्बिजाः ।
येषु स्थानेषु यत्तोयं या च यत्रैव मृत्तिका ॥”
आचमने उदकग्रहणप्रकारं परिमाणञ्चाह
भरद्वाजः ।
“आयतं पर्व्वणां कृत्वा गोकर्णाकृतिवत् करम् ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनञ्चरेत् ।
माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः ॥”
पाणिना दक्षिणेन । त्रिः पिबेद्दक्षिणेनापि
इत्यादिपुराणोक्तेः । मार्कण्डेयः ।
“सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम् ।
नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्ज्जयेत् ॥”
मदनपारिजाते हारीतः ।
“ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनञ्चरेत् ॥”
ग्रन्थनाद्ग्रन्थिरिति समुद्रकरेऽपि । आचमना-
नुवृत्तौ देवलः ।
“न गच्छन्न शयानश्च न चलन्न परान् स्पृ शन् ।
न हसन्नैव संजल्पन्नात्मानञ्चैव वीक्षयन् ॥”
चलन् कम्पमान इति रत्नाकरः ॥ आत्मानं
आत्मस्थानं हृदयम् । वीक्षयन्निति स्वार्थे णिच् ।
“केशान्नीवीमधःकायं न स्पृशन् धरणीमपि ।
यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् ॥”
अधःकायं नाभेरधःप्रदेशम् । करं दक्षिणम् ।
आचमनानुवृत्तौ गोभिलः ।
“नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम् ॥”
अन्तरीयमधःपरीधानं तदेकदेशमुत्तरीयं कृत्वा
मरीचिः ।
“न बहिर्जानुस्त्वरया नासनस्थो न चोत्थितः ।
न पादुकास्थोऽन्यचित्तः शुचिः प्रयतमानसः ॥
उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः ।
भुक्त्रासनस्थो नाचामेन्नान्यकाले कदाचन ॥
जलस्थलोभयकर्म्मानुष्ठानार्थन्तु जलस्थलैकचर-
णेनाचमनं कर्त्तव्यमित्याह पैठीनसिः । अन्त-
रुदके आचान्तोऽन्तरेव शुद्धः स्यात् तस्मा-
दन्तरेकं बहिरेकञ्च कृत्वा पादमाचामेत् सर्व्वत्र
शुद्धो भवतीति । जले तूत्तिष्ठन्नाचामेत् । जानो-
रुर्द्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात् ।
अधस्तात् शतकृत्वोऽपि समाचान्तो न शुध्य-
तीति विष्णूक्तेः । हारीतः ।
“आर्द्रवासा जले कुर्य्यात्तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्य्यात्तर्पणाचमनं जपम् ॥”
कात्यायनः ।
“स्नानमाचमनं होमं भोजनं देवतार्च्चनम् ।
प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम् ॥
आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥”
आसनारूढपादः आसनारोपितपादतलः ।
जानुनोर्जङ्घयोः कृतावसक्थिको वस्त्रादिना
कृतपृष्ठजानुजङ्घाबन्धः । तुद्बयेन भेदप्रतीतेः
प्रौढपादस्य द्विविधत्वं प्रतीयते ॥ * ॥ अत्र च
अनेकोद्बाह्ये दारुशिले भूमिसमे इष्टकाश्च
सङ्कीर्णोभूता इति वौधायनवचनात्तथाविधे
आरूढपादोऽपि कुर्य्यात् । व्यासः ।
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि
वा ।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचि-
र्भवेत् ॥”
तथा ।
“अपः पाणिनखाग्रेण आचामेद्यस्तु ब्राह्मणः ।
सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत् ॥”
संवृत्येति मुखं संवृत्य अलोमकोष्ठस्पर्शो यथा
न भवतीति तात्पर्य्यम् । तथा च वशिष्ठः ।
“आचान्तः पुनराचामेद्बासो विपरिधाय च ।
ओष्ठौ च संस्पृश्य तथा यत्र स्यातामलोमकौ ॥”
एवञ्च प्रागुक्तहारीतवचने ओष्ठयोर्म्मार्जनमुक्तं
तत् सलोमकयोरेवेति । एतदनन्तरं वामहस्तं
पादौ शिरश्च दक्षिणेन पाणिनाभ्युक्षयेत् ।
तथा च कामधेनावापस्तम्बः । त्रिराचामेत्
हृद्गाभिस्त्रिरोष्ठौ परिमृजेत् द्विरित्येके दक्षिणेन
पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेति ।
गोभिलः । त्रिराचामेत् द्विः परिमृजीत पादा-
वभ्युक्ष्य शिरोऽभ्युक्षयेदिति इन्द्रियाण्यद्भिः
स्पृशेत् अक्षिणी नासिके कर्णाविति । इन्द्रि-
याणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् ।
तिसृभिरिति तर्ज्जनीमध्यमानामिकाभिः ॥ * ॥
सर्व्वत्राङ्गुष्ठयोगेन आचमनकारणमाह पैठी-
नसिः । अग्निरङ्गुष्ठस्तस्मात्तेनापि सर्व्वाणि
स्थानानि स्पृशेत् । निष्ठीवनादावाचमनं
यथा । वायुपुराणे ।
“निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने ।
उच्छिष्ठस्य च सम्भाषादशुच्युपहतस्य च ॥
सन्देहेषु च सर्व्वेषु शिखां मुक्त्वा तथैव च ।
विना यज्ञोपवीतेन नित्यमेव उपस्य शेत् ॥
उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनाम् ॥”
हारीतः ।
“स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरीषोत्मर्गदर्शने
देवमभिगन्तुकाम आचामेदिति ।” याज्ञवल्क्यः ।
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्बासो विपरिधाय च ॥”
ब्रह्मपुराणे ।
“होमे भोजनकाले च सन्ध्ययोरुभयोरपि ।
आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत् ॥
द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥”
स्मृतिः ।
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।
कर्म्मस्थ एषु नाचामेत् दक्षिणं श्रवणं
स्पृ शेत् ॥”
पृष्ठ ३/३१६
अत्र हेतुमाह पराशरः ।
“प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत् ॥”
सांख्यायनः ।
“आदित्या वसवो रुद्रा वायुरग्निश्च धर्म्मराट् ।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवतः ॥”
पुराणसारवायुपुराणयोः ।
“यः कर्म्म कुरुते मोहादनाचन्यैव नास्तिकः ।
भवन्ति हि वृथा तस्य क्रियाः सर्व्वा न
संशयः ॥” * ॥
अथ दन्तधावनम् । वृद्धशातातपः ।
“मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः ।
तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥”
श्राद्धदिनादौ तस्य वर्ज्यत्वं यथा । विष्णुः ।
“श्राद्धे जन्मदिने चैव विवाहेऽजीर्णसम्भवे ।
व्रते चैवोपवासे च वर्ज्जयेद्दन्तधावनम् ॥”
दन्तधावनमद्यादुदङ्मुखः प्राङ्मुखो वेति ॥ * ॥
दन्तलग्नस्य दन्ततुल्यत्वं यथा । गोतमः ।
दन्तश्लिष्टे दन्तवदन्यत्र जिह्वाभिधर्षणात् प्राक्
च्युतेरित्येके । च्युतेरास्राववद्विद्यान्निगरन्नेव
तच्छुचिरिति । जिह्वाभिघर्षणायोग्यं दन्तलग्नं
अशौचजनकं न भवतीत्यर्थः । इदञ्चानुलभ्य-
मानरसविषयम् । दन्तवद्दन्तलग्नेषु रसवर्ज-
मिति शङ्खवचनात् । जिह्वाभिघर्षणेऽपि अश-
क्योद्धरणे न दोषः ।
“भोजने दन्तलग्नानि निर्हत्याचमनञ्चरेत् ।
दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत् ॥
न तत्र कुर्य्याद्बहुशो यत्नमुद्धरणे पुनः ।
भवेदशौचमत्यर्थं तृणवेधाद्व्रणे कृते ॥”
इति देवलवचनात् ॥
च्युतेरित्युपलभ्यमानरसविषयम् । आस्रावो
लाला तद्वन्निगरन्नित्यर्थः । अतएव शोणितं
यथा न भवति तथा तृणादिना दन्तलग्न-
निःसारणाचरणम् ॥ * ॥ छन्दोगपरिशिष्टम् ।
“नारदाद्युक्तवार्क्षेयमष्टाङ्गुलमपाटितम् ।
सत्वचं दन्तकाष्ठं स्थात्तदग्रेण प्रधावयेत् ॥
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः ॥
परिजप्य तु मन्त्रेण भक्षयेद्दन्तधावनम् ॥
आयुर्बलं यशो वर्च्चः प्रजा पशुवसूनि च ।
ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वन्नो धेहि वनस्पते ॥”
शुचिर्भूत्वा द्विराचमनेनेति शेषः ॥ * ॥ नर-
सिंहपुराणम् ॥
“दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् ।
सर्व्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥”
प्रमाणं स्थौल्यञ्चाह विष्णुः ।
“कनीन्यग्रनिभस्थौल्यं सकूर्च्चं द्बादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम् ॥
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ॥”
सकूर्च्चं दलिताग्रम् । द्बादशाङ्गुलन्तु छन्दोगेत-
रेषाम् ।
“द्बादशाङ्गुलन्तु विप्राणां क्षत्त्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलन्तु वैश्यानां शूद्राणान्तु षडङ्गुलम् ।
भक्षयेत् शास्त्रदृष्टानि पर्व्वस्वपि च वर्जयेत् ॥”
तिथिविशेषे तस्य वर्ज्जनं यथा । नृसिंहपुरा-
णम् ।
“प्रतिपद्दर्शषष्ठीषु नवम्याञ्चैव सत्तमाः ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥
अलामे दन्तकाष्ठानां प्रतिषिद्धदिने तथा ।
अपां द्बादशगण्डूषैर्मुखशुद्धिर्विधीयते ॥”
गण्डूषस्य दन्तकाष्ठकार्य्यकारित्वेऽपि न तत्र
मन्त्रान्वयः । शातातपः ।
“प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पत्रैरन्यत्र काष्ठैश्च जिह्वोल्लेखः सदैव हि ॥”
गुवाकादिपत्रैर्द्दन्तधावनं निषिद्धं यथा । क्रिया-
कौमुद्यां वशिष्ठः ।
“गुवाकतालहिन्तालास्तथा ताडी च केतकी ।
खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥
तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तधावनम् ।
तावद्भवति चाण्डालो यावद्गां नैव पश्यति ॥”
पराशरभाष्ये याज्ञवल्क्यः ।
“नेष्टकालोष्टपाषाणैरितराङ्गुलिभिस्तथा ।
त्यक्त्वा अनामिकाङ्गुष्ठौ वर्ज्जयेद्दन्तधावनम् ॥”
प्रचेताः ।
“मध्याह्नस्नानकाले तु यः कुर्य्याद्दन्तधावनम् ।
निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥”
स्मृतिः ।
“वमन्तं जम्भमाणञ्च कुर्व्वन्तं दन्तधावनम् ।
अभ्यक्तशिरसञ्चैव स्नातं नैवाभिवादयेत् ॥”
हारीतः ।
“शुचिं देवाभिरक्षन्ति पितरः शुचिमन्वियुः ।
शुचेर्बिभ्यति रक्षांसि ये चान्ये दुष्टचारिणः ॥”
तथा ।
“स्नानं दानं तपस्त्यागो मन्त्रकर्म्मविधिक्रियाः ।
मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः ॥
शौचन्तु द्बिविधं प्रोक्तं बाह्यमाभ्यन्तरन्तथा ।
मृज्जलाभ्यां भवेत् बाह्यं भावशुद्धिस्तथापरम् ॥”
अथ प्रातःस्नानसन्ध्ये । ब्रह्मपुराणम् ।
“प्रातःस्नानं ततः कृत्वा संक्षेपेण यथोदितम् ।
सन्ध्याञ्चापि तथा कुर्य्यात् नित्यनैमित्तिके तथा ॥”
कात्यायनः ।
“यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ।
दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥”
दन्तान् प्रक्षाल्य प्रातरनातुरः स्नायात् ॥ * ॥
आतुरं विशेषयति आयुर्व्वेदीये ।
“स्नानमर्द्दितनेत्रास्यकर्णरोगातिसारिषु ।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ॥”
तत्कालमाह विष्णुः । प्रातःस्राय्यरुणकिरण-
ग्रस्तां प्राचीमवलोक्य स्नायात् । इति समुद्र-
करधृतम् ॥ * ॥
“मृत्तिकातिलकं कुर्य्यात् स्नात्वा हुत्वा च
भस्मना ।
दृष्टदोषविधातार्थं चाण्डालाद्यादिदर्शने ॥”
उशनाः ।
“अभावे तूदकेनापि पितृदैवतमर्च्चयेत् ॥”
ब्रह्माण्डपुराणे ।
“कर्म्मादौ तिलकं कुर्य्याद्रूपं तद्वैष्णवं परम् ।
गोप्रदानं जपो होमः स्वाध्यायः पितृतर्पणम्
भस्मीभवति तत्सर्व्वमूर्द्ध्वपुण्ड्रं विना कृतम् ॥”
ब्राह्मे ।
“अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत्
अनामिकार्थदा नित्यं मुक्तिदा च प्रदेशिनी ॥
व्यासः ।
“जाह्नवीतीरसम्भूतां मृदं मूर्द्ध्ना बिभर्त्ति यः ।
बिभर्त्ति रूपं सोऽर्कस्य तमोनाशाय केवलम् ॥”
गीपीचन्दनमाह शातातपः ।
“गोमतीतीरसम्भूतां गोपीदेहसमुद्भवाम् ।
मृदं मूर्द्ध्ना वहेद्यस्तु सर्व्वपापैः प्रमुच्यते ॥”
ब्रह्माण्डपुराणे ।
“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।
तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया ॥
ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् ।
अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः ॥” * ॥
आतुराणान्तु ।
“अशिरस्कं भवेत स्नानं स्नानाशक्तौ च कर्म्मि-
णाम् ।
आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः ॥”
इति जावालवचनात् शिरो विहाय गात्रप्रक्षा-
लनम् । तदशक्तावार्द्रवाससा गात्रमार्जनं
कुर्य्यात् तदनन्तरं सन्ध्यां कुर्य्यात् । एतत्परमेव
प्रातःसन्ध्यां ततः कुर्य्यात् दन्तधावनपूर्ब्बकमिति
याज्ञवल्क्यवचनम् । इत्याह्निकाचारतत्त्वम् ॥

प्रातःसन्ध्या, स्त्री, (सन्धौ भवा । यत् प्रत्ययः । टाप्

प्रातः प्रथमार्द्धीया सन्ध्या ।) सन्ध्यादेहपूर्ब्बार्द्धम् ।
तदुत्पत्तिर्यथा ।
“तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम्
सन्ध्यां दृष्ट्वाथ पप्रच्छ वशिष्ठः सादरन्तदा ॥
वशिष्ठ उवाच ।
किमर्थमागता भद्रे ! निर्जनं त्वं महीधरम् ।
कस्य वा तनया गौरि ! किं वा तव चिकीर्षितम् ॥
एतदिच्छाम्यहं श्रोतुं यदि गुह्यं न ते भवेत् ।
वदनं पूर्णचन्द्राभं निश्रीकं वा कथं तव ॥
श्रीमार्कण्डेय उवाच ।
तत् श्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।
दृष्ट्वा च तन्महात्मानं ज्वलन्तमिव पावकम् ॥
शरीरधृग्ब्रह्मचर्य्यसदृशं तं जटाधरम् ।
सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥
सन्ध्योवाच ।
यदर्थमागता शैलं सिद्धं तन्मे तपोधन ! ।
तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो ! ॥
तपः कर्त्तुमहं ब्रह्मन् ! निर्जनं शैलमागता ।
ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता ।
नोपदेशमहं जाने तपसो मुनिसत्तम ! ।
यदि ते युज्यते गुह्यं मां त्वं समुपदेशय ॥
एतच्चिकीर्षितं गुह्यं नान्यत् किञ्च न विद्यते
अज्ञात्वा तपसो भावं तपोवनमुपस्थिता ॥
चिन्तया परिशुष्येऽर्ह वेपते च मनः सदा ॥
पृष्ठ ३/३१७
श्रीमार्कण्डेय उवाच ।
आकर्ण्य तस्या वचनं वशिष्ठो ब्रह्मणः सुतः ।
स्वयं स सर्व्वकृत्यज्ञो नान्यत् किञ्चन पृष्टवान् ॥
अथ तां नियतात्मानं तपसेऽतिधृतोद्यमाम् ।
वशिष्ठो मन्त्रयाञ्चक्रे गुरुवत् शिष्यवत्तदा ॥
वशिष्ठ उवाच ।
परमं यो महत्तेजः परमं यो महत्तपः ।
परमः परमाराध्यो विष्णुर्मनसि धीयताम् ॥
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ! ।
ॐ नमो वासुदेवाय इत्यनेन च सन्ततम् ॥
मार्कण्डेय उवाच ।
उपदिश्य वशिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् ।
तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥
यथोक्तन्तु वशिष्ठेन मन्त्रं तपसि साधनम् ।
व्रतेन तेन गोविन्दं पूजयामास भक्तितः ॥
प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया ।
पुरः प्रत्यक्षतां यातस्तस्यां विष्णुर्जगत्पतिः ॥
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः ।
दिव्येङ्गितं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥
दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप्य सा ।
प्रत्यक्षं वीक्ष्य गोविन्दं तुष्ठाव जगतां पतिम् ॥
अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् ।
परिक्षीणं जटाव्रातैः पवित्रं मूर्द्ध्नि राजितम् ॥
निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् ॥
श्रीभगवानुवाच ।
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।
स सद्यः क्लीवतां प्राप्य दुर्ब्बलत्वं गमिष्यति ॥
पतिस्तव महाभागस्तपोरूपसमन्वितः ।
सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥
अन्यच्च ते वदिष्यामि पूर्ब्बं यन्मनसि स्थितम् ।
अग्नौ शरीरत्यागस्ते पूर्ब्बमेव प्रतिश्रुतः ॥
स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके ।
घृतप्रज्वलिते वह्नौ न चिरात् क्रियतां त्वया ॥
तत्र गत्वा स्वयं छन्नं मुनिभिर्नोपलक्षिता ।
मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥
यस्ते वा वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन ।
तन्निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥
नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्नपाणिना ।
ततः पुरोडाशमयं तत् शरीरमभूत् क्षणात् ॥
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।
तदा विष्णोः प्रसादेन सा विवेश विधेः सुता ॥
वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले ।
शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ॥
सूर्य्यो द्बिधा विभज्याथ तत् शरीरं तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥
यदूर्द्ध्वभागस्तस्यास्तु शरीरस्य द्बिजोत्तमाः ।
प्रातः सन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ॥
यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः ।
सा सायमभवत् सन्ध्या पितृप्रीतिप्रिया सदा ॥
सूर्य्योदयाञ्च प्रथमं यदा स्यादरुणोदयः ।
प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥
अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा ।
उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ॥”
इति कालिकापुराणे २२ अध्यायः ॥
प्रातःकालकर्त्तव्यवैदिकतान्त्रिकोपासनाविशेषः ।
वैदिके तदनुष्ठानानि यथा । मार्जनम् १ प्रार्थ-
नम २ प्राणायामः ३ आचमनम् ४ आपो-
मार्जनम् ५ अघमर्षणम् ६ सूर्य्योपस्थानम् ७
देवतर्पणम् ८ सावित्र्यावाहनम् ९ सावित्री-
ध्यानम् १० सावित्रीजपः ११ सावित्रीविस-
र्जनम् १२ आदित्यशुक्रप्रीणनम् १३ आत्मरक्ष-
णम् १४ रुद्रोपस्थानम् १५ ब्रह्मादिभ्यो जल-
दानम् १६ सूर्य्यार्घदानम् १७ सूर्य्यनतिः १८ ॥
तान्त्रिके तदनुष्ठानानि यथा । मन्त्राचमनम् १
जलशुद्धिः २ करन्यासः ३ अङ्गन्यासः ४ अघ-
मर्षणम् ५ हस्तक्षालनम् ६ आचमनम् ७
सूर्य्यार्घदानम् ८ गायत्त्र्या जलदानम् ९ तर्पणम्
१० गायत्त्रीध्यानम् ११ गायत्त्रीजपः १२ जल-
समर्पणम् १३ इष्टदेवध्यानम् १४ प्राणायामः
१५ मूलमन्त्रजपः १६ जलसमर्पणम् १७ प्राणा-
यामः १८ नमस्कारः १९ । इति स्मृतितन्त्रे ॥

प्रातःस्नानं, क्ली, (प्रातः प्रभातकाले यत् स्नानम् ।)

प्रभातकर्त्तव्यावगाहनादि । यथा, गारुडे ५० अः ।
“उषःकाले तु संप्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥
प्रातःस्नानेन पूयन्ते येऽपि पापकृतो जनाः ।
तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत् ॥
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ।
मुखे सुप्तस्य सततं लालाद्याः संस्रवन्ति हि ॥
अतो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः ।
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ॥
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः ।
न च स्नानं विना पुंसां प्राशस्त्यं कर्म्म संस्मृ-
तम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥
अशक्तावशिरस्कन्तु स्नानमस्य विधीयते ॥”
अपि च गारुडे २१५ अध्याये ।
“प्रातःसंक्षेपतः स्नानं मध्याह्ने विधिविस्तरम् ।
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ॥
यतेस्त्रिसवनं प्रोक्तं सकृत्तु ब्रह्मचारिणः ॥”
अपि च ।
“उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ ।
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥
यत् फलं द्बादशाब्दानि प्राजापत्यैः कृतैर्भवेत् ।
प्रातःस्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः ॥
य इच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् ।
प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ ॥
षट्तिली माघमासन्तु प्रातःस्नायी हविष्यभुक् ।
अतिपापं महाघोरं मासादेव व्यपोहति ॥
मातरं पितरञ्चापि भ्रातरं सुहृदं गुरुम् ।
समुद्दिश्य निमज्जेत द्वादशांशं लमेत्तु सः ॥”

प्रातराशः, पुं, (अशनमिति । अश् + भावे घञ् ।

आशः । प्रातः प्रातःकाले आशो भोजनम् ।)
प्रातःकालीनभोजनम् । तत्पर्य्यायः । कल्यवर्त्तः
२ । इति हेमचन्द्रः ॥ प्रातर्भोजनम् ३ । इति
त्रिकाण्डशेषः ॥ कल्यजग्धिः ४ । इति जटा-
धरः ॥ (यथा, भागवते । ३ । २ । २ ।
“यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।
तन्नेच्छद्रचयन् यस्य सपर्य्यां बाललीलया ॥”)

प्रातर्गेयः, पुं, प्रातःकाले गेय ईश्वरादिर्यैः । स्तुति-

पाठकः । तत्पर्य्यायः । स्तुतिव्रतः २ । इति
त्रिकाण्डशेषः ॥ प्रभातगातव्ये, त्रि ॥

प्रातर्भोक्ता, [ऋ] पुं, (प्रातर्भुङ्क्ते इति । भुज् +

तृच् ।) काकः । इति शब्दचन्द्रिका ॥ प्रभाते
भोजनकर्त्तरि, त्रि ॥

प्रातर्भोजनं, क्ली, (प्रातः प्रभातकाले भोजनम् ।)

प्रातराशः । इति जटाधरः ॥

प्रातिका, स्त्री, (प्राततीति । प्र + अत् + ण्वुल् +

टाप् । अत इत्वम् ।) जवा । इति राज-
निर्घण्टः ॥

प्रातिपदिकः, पुं, (प्रतिपदि तिथौ भव इति ।

प्रतिपद् + “कालात् ठञ् ।” ४ । ३ । ११ ।
इति ठञ् ।) अग्निः । यथा, --
“इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ॥
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम ! ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥
त्वत्पदात् प्रातिपदिकं सम्भविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥”
इति वराहपुराणम् ॥
(प्रतिपदे धातुभिन्नपदे भव इति । प्रति-
पद + ठक् ।) नाम्नि, क्ली । यथा । अधातुविभ-
क्त्यर्थवत् प्रातिपदिकम् । इति सुपद्मव्याकरणम् ॥

प्रातिभाव्यं, क्ली, (प्रतिभू + ष्यञ् । द्विपदवृद्धिः ।)

प्रतिभुवो भावः । जामिनी इति भाषा । यथा,
“साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्य्युर्नाविभक्ता परस्परम् ॥”
इति दायभागः ॥

प्रातिस्विकं, त्रि, (प्रतिस्वं भवः । प्रतिस्व + ठक् ।)

असाधारणम् । तत्पर्य्यायः । अन्यासाधार-
णम् २ आवेशिकम् ३ । इति त्रिकाण्डशेषः ॥

प्रातिहारः, पुं, (प्रतिहार एव । स्वार्थे अण् ।)

प्रातिहारिकः । इत्यमरटीकायां भरतः ॥

प्रातिहारकः, पुं, (प्रतिहारक एव । स्वार्थे

अण् ।) प्रातिहारिकः । इत्यमरटीकायां भरतः ॥

प्रातिहारिकः, पुं, (प्रतिहारः प्रतिहरणं व्याज

इत्यर्थः । स प्रयोजनमस्येति । प्रतिहार +
“प्रयोजनम् ।” ५ । १ । १०९ । इति ठञ् ।)
मायाकारः । इत्यमरः । २ । १० । ११ ॥

प्रातीपः, पुं, (प्रतीपस्यापत्यं प्रतीपस्यायमिति

वा । प्रतीप + अण् ।) प्रतीपपुत्त्रः । शान्तनु-
राजः । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । ५ । १४८ । २ ।
“प्रातीपः शान्तनुस्तात ! कुलस्यार्थं यथोत्थितः ॥”)
"https://sa.wikisource.org/w/index.php?title=प्रवीणः&oldid=201358" इत्यस्माद् प्रतिप्राप्तम्