प्रश्नोपनिषत्/षष्ठः प्रश्नः
॥षष्ठः प्रश्नः॥
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्
हिरण्यनाभः
कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं
भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं
वेद ।
यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा
एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् ।
स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ
पुरुष इति ॥ १ ॥
तस्मै स होवाच । इहैवान्तःशरीरे सोभ्य स पुरुषो
यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ २ ॥
स ईक्षाञ्चक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः
पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म
लोका
लोकेषु च नाम च ॥ ४ ॥
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं
प्राप्यास्तं
गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः
पुरुषं
प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं
प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६ ॥
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातः
परमस्तीति ॥ ७ ॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः
परं परं तारयसीति । नमः परमऋषिभ्यो नमः
परमऋषिभ्यः ॥ ८ ॥
इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पष्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥