प्रातःस्मरणस्तोत्रम्

प्रातःस्मरणस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ प्रातःस्मरणस्तोत्रम् ॥


प्रात स्मरामि हृदि संस्फुरदात्मतत्त्वं
 सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यस्तु प्रजागरसुषुप्तमवैति नित्यं
 तद्ब्रह्म निष्कलमह न च भूतसङ्घ ॥ १ ॥

प्रातभजामि मनसा वचसामगम्यं
 वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेति नेति वचनैर्निगमा अवोच
 स्त देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥

प्रातर्नमामि तमस परमर्कवर्णें
 पूर्णें सनातनपद पुरुषोत्तमारयम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
 रज्ज्वा भुजगम इव प्रतिभासित वै ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं
लोकत्रयविभूषणम् ।
प्रात काले पठेद्यस्तु
स गच्छेत्परम पदम् ।। ४ ।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ प्रात स्मरणस्तोत्र सपूर्णम् ।।