रामायणम्

रामायणम् अत्यन्तं प्रसिद्धं संस्कृतकाव्यम् ।

» भारतीयसाहित्ये अतिप्रमुखयोः काव्ययोः अन्यतमं इदं रामायणम् आदिकाव्यमिति प्रसिद्धम् ।
» आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः ।
» रामायणे २४००० श्लोकाः सन्ति । एते श्लोकाः अनुष्टुप्-छन्दसि निबद्धाः सन्ति ।
» रामयणे सप्तकाण्डानि (बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् उत्तरकाण्डं च) ५०० सर्गाश्च विद्यन्ते ।
» रामायणकथानायकः श्रीरामः हिन्दुभिः पूज्यमानेषु देवेषु अन्यतमः । अयं विष्णोः दश अवतारेषु सप्तमः अवतारः ।
» भारतीयकालगणनानुसारेण रामायणं त्रेतायुगे सम्पन्नम्ते । इदं क्रिस्तपूर्वपञ्चमे चतुर्थे शतके जातमिति पाश्चार्त्य इतिहासकारैः ऊह्यते भारतीया तु न् । ।
» वाल्मीकिरामायणे रामस्य जन्मनः आरभ्य तस्य अवतारसमाप्तिपर्यन्तमपि कथा भवति ।
» अस्मिन् मानवकर्तव्यानि प्रतिपाद्यन्ते । आदर्शपुत्रः आदर्शपिता आदर्शपतिः आदर्शपत्नी आदर्शभ्राता आदर्शसेवकः इत्यादयः अत्र चित्रिताः सन्ति ।
» रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते । पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना।

"https://sa.wikisource.org/w/index.php?title=फलकम्:ग्रन्थपरिचयः&oldid=316302" इत्यस्माद् प्रतिप्राप्तम्