फलदीपिका/चतुर्दशोऽध्यायः (रोगनिर्णयः)

(फलदीपिका/चतुर्दशोऽध्यायः - रोगनिर्णय इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १३ ज्योतिषम्
फलदीपिका
अध्यायः १५ →

             
रोगनिर्णय
रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः |
रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसम्वादवशाद्वदन्तु || १||
पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज-
व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् |
काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं
चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् || २||
निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः
शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः |
चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद्
दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् || ३||
तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान्
गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् |
भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते
रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् || ४||
भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं
पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान्
दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् |
गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः || ५||
गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान्
देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् |
रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं
जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् || ६||
पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान्
गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् |
दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी-
यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् || ७||
वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान्
भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् |
भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो
वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः || ८||
स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं
पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् |
ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत्
प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् || ९||
मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक्
शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् |
सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते
तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः || १०||
षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं
शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् |
राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं
क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् || ११||
जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं
रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः |
रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा
रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् || १२||
ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य
ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता || १३||
अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु-
ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः |
पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात्
स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि || १४||
कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः |
कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः || १५||
लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् |
निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा || १६||
पैत्त्यज्वरोष्णैर्जठराग्निनाजे
वृषे त्रिदोषैर्दनाच्च शस्त्रात् |
युग्मे तु कालश्चसनोष्णशूलै-
रुन्मादवातारुचिभिः कुलीरे || १७||
मृगज्वरस्फोटजशत्रुजं हरौ
स्त्रियां स्त्रियागुह्यजा प्रपातनात् |
तुलाधरे धीज्वरसंनिपातजं
प्लीहालिपाण्डुग्रहणीरुजालिनि || १८||
वृक्षाम्बुकाष्टायुधजं हयाङ्ग
मृगे तु शूलाचिधीभ्रमाद्यैः |
कुम्भे तु कासज्वरयक्ष्मरोगै-
र्जले विपद्वा जलरोगतोऽन्त्ये || १९||
पापर्क्षयुक्ते निधने सपापे
शस्त्रानलव्याध्रभुजङ्गपीडा |
अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ
कोपात्प्रभोः शस्त्रविषाग्निजैर्वा || २०||
सौम्यांशके सौम्यगृहेऽथ सौम्य-
सम्बन्धगे वा क्षयभे क्षयेशे |
अक्लेशजातं मरणं नराणां
व्यस्ते तदा क्रूरमृती वदन्ति || २१||
स्वोच्चे स्वमीत्रे सति सौम्यवर्गे
व्ययाधिपे चोर्ध्वगती ससौम्ये |
विपर्ययेऽधोगतिमेव केचित्-
उर्ध्वस्यशीर्षोदयराशिभेदात् || २२||
केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं
वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः |
द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः
सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः || २३||
धर्मेश्वरेणैव हि पूर्वजन्म
वृत्तं भविष्यज्जननं सुतेशात् |
तदीशजातीं तदधिष्ठितर्क्ष
दिशं हि तत्रैव तदीशदेशम् || २४||
स्वोच्चे तदीशे सति देवभूमी
द्वीपन्तरं नीचरिपुस्थ्नलस्थे |
स्वर्क्षे सुहृद्भे समभे स्थिते वा
सम्प्राप्नुयाद्भारतवर्षमेव || २५||
आर्यवर्तं गीष्पतेः शुयनद्यः
काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि |
पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः
सौलारण्यं कीकटं भूमिजस्य || २६||
स्थिरे स्थिरांशाधिगतः सपापः
पृष्ठोदयेऽधोमुखभे च संस्थः |
तदीश्वरो वृक्षलतादिजन्म
स्यादन्यथाजीवयुतः शरीरी || २७||
लग्नेशितुः स्वोच्चसुहृत्स्वगेहान्
तदीश्वरो याति मनुष्यजन्म |
समे मृगाः स्युवीहगाः परस्मिन्
द्रेक्काणरूपैरपि चिन्तनीयम् || २८ ||
ताधेकराशौ जननं स्वदेशे
तौ तुल्यवीर्यौ यदि तुल्यजातौ |
वर्णो गुणस्तस्य खगस्य तुल्यः
संज्ञोदितैरेव वदेत्समस्तम् || २९||