फिट् सूत्राणि
- अथ फिट् सूत्राणि
- फिषोऽन्त उदात्त १
- पाटलापालङ्काम्बासागरार्थानाम् २
- गेहार्थानामस्वियाम् ३
- गुदस्य च ४
- ध्यपूर्वस्य स्वीविषयस्य ५
- खान्तस्याश्मादेः ६
- बहिष्ठवत्सरतिशत्थान्तानाम् ७
- दक्षिणस्य साधौ ८
- स्वाङ्गाख्यायामादिर्वा ९
- छन्दसि च १०
- कृष्णस्यामृगाख्या चेत् ११
- वा नामधेयस्य १२
- शुक्लगौरयोरादिः १३
- अगुष्ठोदकबकवशानां छन्दस्यन्तः १४
- पृष्ठस्य च १५
- अर्जुनस्य तृणाख्या चेत् १६
- अर्यस्य स्वाम्याख्या चेत् १७
- आशाया अदिगाख्या चेत् १८
- नक्षत्राणामात्र्विषयाणाम् १९
- न कुपूर्वस्य कृतिकाख्या चेत् २०
- घृतादीनां च २१
- ज्येष्ठकनिष्ठयोर्वयसि २२
- विलवतिष्ययोः स्वरितो वा २३
- इति फिट्सूत्रेषु प्रथमः पादः
- द्वितीयः पादः
- अथादिः प्राक् शकटेः १
- ह्रस्वान्तस्य स्त्रीविषयस्य २
- नब्बिषयस्यानिसन्तस्य ३
- तृणधान्यानां च दव्यषाम् ४
- चः संख्यायाः ५
- स्वाङ्गशिटामदन्तानाम् ६
- प्राणिनां कुपूर्वम् ७
- खय्युवर्णं कृत्रिमाख्या चेत् ८
- उनर्वत्रन्तानाम् ९
- वर्णानां तणतिनितान्तानाम् १०
- ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये ११
- अक्षस्यादेवनस्य १२
- अर्धस्यासमद्यो त्रे १३
- पीतद्ब्रर्थानाम् १४
- ग्रामादीनां च १५
- लुवन्त स्योपमेयनामधेयस्य १६
- न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् १७
- राजविशेषस्य यमन्वा चेत् १८
- लघावन्ते द्वयौश्च बह्वषो गुरुः १९
- स्त्रीविषयवर्णाक्षुपूर्वाणाम् २०
- शकुनीनां च लघु पूर्वम् २१
- नर्त्तुप्राण्याख्यायाम् २२
- धान्यानां च वृद्धक्षान्तानाम् २३
- जनपदशब्दानामषान्तानाम् २४
- हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा २५
- इगन्तानां च द्व्यषाम् २६
- इति फिट्सूत्रेषु द्वितीय पादः
- तृतीयः पादः
- अथ द्वितीयं प्रागीषात् १
- त्र्यचां प्राङ्मकरात् २
- स्वाङ्गानामकुर्वादीनाम् ३
- मादीनां च ४
- शादीनां शाकानाम् ५
- पान्तानां गुर्वादीनाम् ६
- युतान्यण्यन्तानाम् ७
- मकरवरूढपारवेतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा ८
- छन्दसि च ९
- कर्दमादीनां च १०
- सुगन्धितेजनस्य ते वा ११
- नपः फलान्तानाम् १२
- यान्तस्यान्त्यात्पूर्वम् १३
- थान्तस्य च नालघुनी १४
- शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च १५
- सांकाश्यकाग्पिल्यनासिक्यदार्वाघाटानाम् १६
- ईषान्तस्य हयादेरादिर्वा १७
- उशीरदाशेरकपालपलालशैवालश्यामाकशारोरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् १८
- महिष्याषाढयोर्जायेष्टकाख्या चेत् १९
- इति फिट्सूत्रेषु तृतीयः पादः
- चतुर्थः पादः
- शकटिशकट्योरक्षरमक्षरं पर्यायेण १
- गोष्ठजस्य ब्राह्मणनामधेयस्य २
- पारावतस्योपोत्तमवर्जम् ३
- धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ४
- कपिकेशहरिकेशयोश्छन्दसि ५
- न्यङ्स्वरौ स्वरितौ ६
- न्यर्बुदव्यल्कशयोरादिः ७
- तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः ८
- विलवभक्ष्यवीर्याणि छन्दसि ९
- त्वत्त्वसमसिमेत्यनुच्चानि १०
- सिमस्याथर्वणेऽन्त उदात्तः ११
- निपाता आद्युदात्ताः १२
- उपसर्गाश्चाभिवर्जम् १३
- एवादीनामन्तः १४
- वाचादीनामुभावुदात्तौ १५
- चादयोऽनुदात्ताः १६
- यथेति पादान्ते १७
- प्रकारादिद्विरुक्तौ १८
- शेषं सर्वमनुदात्तं १९
- इति फिट्सूत्रेषु तुरीयः पादः