बालनीतिकथामाला
काङ्गडि-गुरुकुल-पण्डिताः
१९२१

%.......... .. ()

  • ओ३म् *~*ईल प्रथा

+++++++++++++++++++++++++++++++++++***++++++++++++ गुरुकुलग्रन्थावलिः। DAMA NS * • ******* * *** ****

  1. बालनीति-कथामालों

ई., <8£ ख. (g" ल" 3. डी गुरुकुलमुख्याधिष्ठातृ-न्महदयानिदेशन गुरुकुलस्थ पण्डितैः संकलिता। ४. 3 <>= o. नन्दलालप्रबन्धन कन्नड़ी गुरुकुल यन्त्रलये 8 , मद्रित ।

$8> -- ¢y> ४. ४ <०३ ,, - १६७८ वैक्रमाब्दे ३८ दयानन्दब्दे ८९४ <Q°हैं। प्रथमाटत ” ई० सन् १८२१ ३ ५०० पुस्तकानि मूल्यम् ! ५५> > k" 4px€p•Q©oproposop०००+०*७p+p©b¢0©yes/- >

नीतिकथामाला।

बालनीतिकथामाला (नन्दलाल १९२१).pdf

धर्मयुद्धपापयुइयों

कथा ( १ )

१. कस्मिश्चिदधिष्ठाने, धर्मबुद्धिक्षपापबुद्धिश्च, दो मित्रे मति बसतः स्म । अथ कदाचित् पापबुद्धिना चिन्तितम्, “अहं तावत् | मूख दारिद्रयोपेतश्च । तदेनं धर्मबुद्धिमादाय, देशान्तरं गत्वा, अस्याश्रयेण अर्थोपार्जनं कृस्वा, एनमपि वञ्चयित्वा, सुखी भवामि ।

.२.अथान्यस्मिन् अहनि पापवृद्धिः धर्मबुद्धिं , "भो मित्र । वाद्वैकभा किं त्वमात्मविचेष्टितं स्मरसि, देशान्तरमदृष्ट्वा कां शिशुजनस्यवासं कथयिष्यसि ।

विद्यां, वित्तं, शिल्पं, ताबमोति मानवः सभ्यक् ।
यावद् व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ।

३. अथ तस्य तद्वचनमाकर्य भइष्टमनाः तेनैव सह गुरुज नानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः। तत्र च धर्मबुद्धिमभावेण भ्रमता पापबुद्धिना प्रभूततरं वितम् आसादितम् । ततश्च द्वावपि

तौ भइ सgई प्रति औत्सुक्येन निवृतौ ।
( २ )
नीति कथमाला

४. अथ स्वस्थानसमीपवर्तिना पापबुद्धिनां धर्मबुद्धिरभिहितः, "भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते, यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते तदत्र एव वनगहने कापि भूमौ निक्षिप्य किञ्चन्मात्रमादाय गृहं प्रविशावो, भूयोऽपि प्रयोजने सञ्जाते तन्मात्रं समेत्य अस्मात् स्थानात् नेष्यावः ।

५. तत् आकर्थं धर्मबुद्धिराह, "भद्र ! एवं क्रियताम् । तथा अनुष्ठिते द्वौ अपि तौ स्वगृहं गत्वा मुखेन संस्थितवन्तौ ।

६. अथ अन्यस्मिन् अहनि पापबुद्धिर्निशीथेष्टव्यां गत्वा, तत् सर्वं वित्तं समादाय गर्नु पूरयिख, स्वभवनं जगाम । अथ अन्येद्युः धर्मबुद्धिं समभ्येत्य प्रोवाच, “सखे ! बहुकुदुघा वयं, वित्ताभावात् सीदामः। तद्गत्वा तत्र स्थाने किञ्चिन्मात्र’ धन मानयावः । सोऽब्रवीत् , “भद्र ! एवं क्रियताम् ।

७. अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावत् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच, “भो धर्मयुद्ध ! यया हृतमेतद्धनं, न अन्येन, यतो भूयोऽपि गर्तापूरणं कृतं, तत् प्रयच्छ मे। तम्याट्सम्, अन्यथाहं राजकुले निवेदयिष्यामि । स आह ‘भो दुरात्मन् ! मैवं वद धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्म करोमि । उक्तञ्च,

मातृवत् परदाराणि, परद्रव्याणि लोष्टवत् ,
आत्मवत् सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ” ।
( ३ )
धर्मबुद्धि पापबुद्धयोः ।

८, एवं द्वावपि तौ विवदमानौ धर्माधिकारिणं गतौ प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित पुरुपैः दिव्यर्थे यावन्नियोजितौ तावत् पापयुद्धिरा, ‘‘अहो ! न । सम्यग्दृष्टोऽयं न्यायःतदत्र विषये मम वृक्षदेवतयः साक्षीनाः तिष्ठन्ति । ता अपि आवयोरेकतरं चौरं साधु वा करिष्यन्ति । अथ तैः सर्वैरभिहितम्, “भोः युक्तमुक्तं भवता ! तदस्माकमपि अत्र विषये महत् कौतूहलं वर्तते । प्रयूपसुप्रये,युवभ्यामप्यस् भिः सह तत्र वनोद्देशे गन्तव्यमिति ।

३. एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गवा स्वजनकमुवाच ‘तात ! प्रभूतोऽयं मयाऽथ धम्मंबुद्धेश्चोरिक्तः, स च तव वचनेन परिणतिं गच्छति, अन्यथा ऽस्माकं प्राणैः सह यास्यतिं” । स आह‘वत्स ! दु वद, येन प्रोच्य तदद्रव्यं स्थिरतां नयामि” पापबुद् िराह, “तात ! अस्ति तत्प्रदेशे महशमी, तस्यां मह- कोटरमस्ति, तत्र वं साम्प्रतमेव प्रविश, ततःप्रभाते यदाहं सत्यश्रवणं करोमि, तदा च या वाच्यंयद् धर्मबुद्धिश्चौर इति।

१०. तथा अनुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि पुरःसरो धर्माधिकरणिकैः सह तां शमीमभ्येत्य तारस्वरेणमोवाच ‘भगवति वनदेखने ! आवयोर्मध्ये यश्चौरः तं कथय । ॐ अथ । पापबुद्धिपिता शमीकोटरस्थः प्रोवाच, “‘भोः ! शृणुत, थर्मबुद्धिना हृतमेतद्धनम् तदाकर्यं सर्वे ते राजपुरुष

विस्मयोत्फुल्ललोचना यावद्धर्मयुद्ध विसहरणोचितं निग्री

( ४ )
वक नकुलयोः ।।

शास्त्रदृष्टचा अवलोकयन्ति तावद्धर्मबुद्धिना । तच्छमीकोटरं वह्नि भोज्यद्रव्यैः प्रविश्य बहिना सन्दीपितम् ।

११. अथर्जवलति तस्मिन् शमीकोटरेऽदं दग्धशरीरः स्फु टितेक्षणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः “भोः ! किमिदम्?’ इत्युक्ते स पापबुद्धिविचेष्टितं सर्वमिदं निवेद्योपरतः ।

अथ ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुदैि अशस्येदमूचुः, “अहो ! साध्विदमुच्यते -
‘उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्” ।

            
घर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम ।
पुण व्यर्थपाण्डित्यात् पिता पापेन घातितः ॥४॥

वक नकलयोः
कव ( २ )

१. अस्ति कस्मिंश्चिद्वनोद्देशे बहुवकसनाथो वटपादपः। तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म। स च वकबालकानजातप ज्ञानषि सदैव भक्षयन् कालं नयति ।

२. अथैको वकस्तेन भक्षितान्यपत्यानि दृष्ट्वा शिशुवैराग्यात् सरस्तीरमासाद्य बाष्पपूपूरितनयनः अधोमुरू स्तिष्ठति । तञ्च

तादृचेष्टितमचलोवय कुलीरकः प्रोवाच‘माम ! किमेवं रुद्यते

( ५ )
नीति कथा माला॥

भवताऽथ स आह, “भद्र ! किं करोमि, मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्षेण भक्षिताः तददुःखदुःखितोऽहं रोदिमि, तत् कथय मे यद्यस्ति कश्चिदुपायः तद्विनाशायः ।

  ३. तदाकर्यं कुलीरकः चिन्तयामास । “श्रयं तावत् अस्मञ्शतिसहजवैरी, तथोपदेशं प्रयच्छमि सत्यानृतं, यथान्येऽपि वकाः सर्वे संक्षयमायान्ति ।

  ४. आह च “‘माम ! यद्येवं तर्हि, मत्स्यमांसखण्डानि नकुलस्य विलद्वारात् सर्पकोटरं यावत् प्रक्षिप, यथा नकुलस्त- नमार्गेण गत्वा तं दुष्टसर्प विनाशयति ” ।

  ५. अथ तथा अनुष्ठिते मत्स्यमांसानुसारिणा नकुलेनतं कृष्णसर्प निहत्य, तेऽपि तदृक्षाश्रयाः सर्वे वकाश्च, शनैःशनै भेक्षिताः ।


ऋपवनरयः

कया (३)

 १. कस्यचित् राज्ञो नित्यं वनोऽतिभक्तिपरोऽङ्कसेवकोऽन्तः पुरेऽप्यप्रतिषिद्धप्रसरोऽतिविधासस्थानमभूत् । एकदा राज्ञोनिद्रां गतस्य, वानरे व्यजनं नीत्वा वारं विदधति, राज्ञो वक्षःस्थलोपरि मक्षिका उपविष्टा। व्यजनेन मुहुर्मुहुर्निषिध्यमानापि, पुनःपुनः

तत्रैव उपविशति ।

(६)
नृपवानरयोः ।।
२.ततः तेन स्वभावचपलेन मूर्वेण वानरेण क्रुद्धेन सता,

तीक्ष्णं खङ्गमादाय, तस्योपरि प्रहारो विहितः । ततो मक्षिका उड्डीय गता; तेन शितधारेण असिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्मात् चिरायुरिच्छता केनापि मूर्वो ऽनुचरो न रक्षणीयः ।

३. अषरमेकस्मिन्नगरे कोऽपि विप्रो महविद्वान्, परं पूर्व

जन्मयोगेन चरो वर्तते । स तस्मिन् पुरेश्यदेशादागतान् चतुरो विप्रान् बहूनि वस्तूनि विक्रणतो दृष्ट्वा चिन्तितवान्, “ अहो ! केनोपायेन एषां धनं लभे ,, इति विचिन्त्य तेषां पुरोऽनेकानि । शास्त्रोक्तानि सुभाषितानि, अतिप्रियमणि मधुराणि वचनानि च जल्पतों तेषां मनसि विधासमुत्पाद्य, सेवा कर्तुमारश्च ।

४. अथ तस्मिन् सेवां कुर्वति, तै र्विप्रैः सर्वोचस्तूनि विक्रीय

बहुमूल्यांनि रतानि क्रीतानि । ततः तानि जड्यामध्ये तत्समझे प्रतिष्य स्खदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलितमनाःसङ्गतः । ‘! धनमेतत् 'अहं न किञ्चित् मया टें । अथ ‘एभिः सह यामि, पथि =षि विषं दवा एतान्निहत्य सर्वरत्नानि गृह्वामि। इति विचिन्त्य तेषामग्रे सकरुणं विलष्य इदमाह, ‘‘भोः मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्ध, भवद्विरहनाम्नैव आ कुलं सञ्जातं; यथा धृतिं कापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत"

.

( ७ )
नीति कथा माला।
५. तद्वचः श्रुत्वा ते करुणार्द्रचित्ताः तेन सममेव स्खदेशं

प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये ब्रजतां ध्वांक्षाः कथयितुमारब्धाः'"रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य धनं नयत । ।

६. ततः किरातैः ध्वांक्षवचनमाकण्ये सत्वरं गत्वा, ते ।

विपा लगुडप्रहारैर्जर्जरीकृत्य, वस्त्राणि मोचयित्वा विलोकिताः परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम् । ‘भो पान्धाः ! पुरा कदापि ध्वांक्षवचनमनृतं नासीत् । ततो भवतां सनिर्धा कापि धनविद्यते । तदर्पयत, अन्यथा सर्वेषामपि वधं विधाय, चर्म विदार्यंप्रत्यङ्ग” प्रेक्ष्य, धनं नेष्यामः ।

७. तदतेषामीदृशं वचनमाकर्यं चौरविण मनसि चि

न्तितम् ‘यदा एषां विप्राणां वधं विधाय अङ्ग विलोक्य रानि नेष्यन्ति, तदाऽपि मां हनिष्यन्ति । ततोऽहं पूर्वमेवात्मानमरन समयं एतान् मुञ्चामि ।

उक्तञ्च,

मृत्योर्बिभेषि किं बाल ! न स भीतं विमुञ्चति ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुघः ।। "

इति निश्चित्य अभिहितम्, “भोः किराताः ! यदि एवं ततो
मां पूर्वं निहत्यविलोकयतः।

८. ततस्तैः यथानुष्ठिते तं धनरहितमवलोक्य अपरे च

त्वारोऽपि मुक्ताः । तदुक्तम्-

( ८ )
बुद्धिबलयोः

पण्डितोऽपि वरं शत्रुर्न मूख हितकारकः।
वानरेण हसराजा विमाश्चरेण रक्षिताः॥ ५॥

बुद्धि बलयोः
कथा ( ४ )

 १. कस्मिश्चिद्वने भेसुरको नाम सिंहः प्रतिवसतिस्म । अथासौ वीर्यातिरेकात् नित्यमेव अनेकान् मृगशशकादीन्व्य- पादयन् नोपरराम ।

 २. अथान्येद्युस्तद्नजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य नोचुः, “स्वामिन् ! किमनेन सकलमृगवधेन १ नित्यमेव यतस्तत्र एकेनापि मृगेण तृप्तिर्भवति । तत् क्रियता मस्पभिः सह समयधर्मः।

 ३. “अद्य प्रभृति तत्रत्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राणयात्रा, फेशं विनापि भविष्यति, अस्माकश्च पुनः सवच्छेदनं न स्यात् । तदेष राजधऽनुष्ठीयताम् ।

 लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः।
 लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ।

 ४. अथ तेषां तद्वचनमाकर्यं भासुरक आह, “अहो ! स त्यमभिहितं भवद्भिः। परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः पदः समागमिष्यति, तुझ्नं सर्वानपि भक्षयिष्यामि ।

( ६ )
नीति कथा माला ।।

 ५. अथ ते तथैव प्रतिज्ञाय निर्युतिभाजः तत्रैव वने निर्भयाः पद्भर्यटन्ति । एकध्र प्रतिदिनं क्रमेण याति; वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्नसमये उपतिष्ठते ।

 ६. अथ कदाचित् जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा, तस्य वधोपायं चिन्तयन् , वेलातिक्रमं कृत्वा, व्याकुलितहृदयो यावद् गच्छति, तावन् मार्गे गच्छता कूपः संदृष्टः। यावत् कूपोपरि याति, तावत् कूपप्रध्ये आत्मनः प्रतिविम्बं ददर्श, दृष्टा तेन हृदये चिचिन्तनं, यद्रव्य उपायोऽस्ति, अहं भासुरकं प्रकोष्य स्वबुद्धया अस्मिन् कूपे पातयिष्यामि ।

 ७. अथासौ दिनशेपे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्कणी परिलेलिहू व्यचिन्तयत् । "अहो ! प्रातराहाराय निःसवं वनं मया कर्तु व्यम्” । एवं चिन्तयतस्तस्य शशका मन्दं मन्द गधा श्रम्य तस्याग्रे स्थितः।

 ८. अथ तं प्रज्वलितारमा भासुरको भर्सयन), ‘रे शश काधम ! एकतस्तावत् त्वं लघुः प्राप्तोऽपरतश्च वेलफिश तदस्मादपराधात् त्वां निपात्य, प्रातः सकलान्यपि मृगकुलानि उच्छेदयिष्यामि ।

 ९. अथ शशकः सविनयं प्रोवाच स्वामिन् ! नापराधो

मम न चापरेषां सचानाम्, तत् श्रूयतां कारणम् । सिंह आह,

( १० )
बुद्धिवलयोः ।।

“सत्वरं निवेदय, यावत् मम दष्ट्रान्तर्गतो न भवान् भविष्यतीति”। शराक आह, “स्वामिन् ! समस्तमृगैरथ जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः ।

 १०. ततश्च अहमागच्छन् अन्तराले महतां केनचिदपरेण सिंहेन विचराभिर्गत्य अभिहितः । ‘रे ! क प्रस्थिता यूयम् ? अभीष्टदेवतांस्मरत’ । ततोमयाभिहितम्, ‘वयं स्वामिनो भासुरक- सिंहस्य सकाशे आहारार्थं समयधर्मेण गच्छामः । ततः तेना- भिहितम्, ‘यद्येवं तर्हि मदीयमेतद्वनं, मया सह समयधर्मेण समस्तैरपि श्वपदेनॉलीपेयम् । चौररूपी स भासुरकः । अथ यदि सत्र राजा ततो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय तितरभाषछयेन यः कश्चिदवयोर्मयात पराक्रमेण राजा भविष्यति रा सर्वानेतान भक्षयेितीति। ततोहं तेनादिष्टः स्वा- गिसकाशमभ्यागतः, एतत् वेलाव्यतिक्रमकारणम् , तदत्र स्वामी प्रमणम् ॥

 ११. तच्छुत्वा भासुरक आह‘भद्र ! यदि एवं, तत् सत्वरंदर्शय में तं चौरस इम्, येनाहं मृगकोपं तस्योपरि क्षित्वा २: ऑयभि ? शक आई, 4 मिन् सत्यमिदं, स्वभूमिहेतोः परिवार्य शुभः दक्षिथाः, परं ती दुर्गाश्रयःदुर्गान्निष्क्रम्य वयं ३२ विष् ः, दुर्गध दुराध्यो भवति रिपुः । भासुरक आह, “भोः ? iी तत्र अनेन व्यापारेण, दर्शय मे तं । दुर्गस्थ मपि । अथ शशक आह, ‘‘यथैव तर्हि आगच्छतु स्वामी ।

 १२. एवमुक्त्वा अग्रे प्रस्थितः । ततश्च तेन आगच्छता

( ११ )
नीति कथा मला ।।

यः कूपो दृष्टोऽभूत् तमेव कूपमासाद्य भासुरकमाह । “स्वामिन् ! कस्ते प्रतापं सोडु' समर्थः। त्वां दृष्ट्वा दूतोऽपि चौरसिंहः प्र बिष्टः स्वं दुर्गम्, तदागच्छ येन दर्शयामीति। भासुरक आह, ‘दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः। ततः सोऽपि मूर्वः सिंहः कूप मध्ये आत्मप्रतिविम्वं जलमध्यगतं दृष्टा सिंहनादं मु- मोच । ततः प्रतिशब्देन कूषमध्याद् द्विगुणतरो नादः समुत्थितः।

 १३. अथ तेन तं शत्रु' मया आत्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगान् आनन्द्य तैः सह मशस्यमानो यथासुखं तत्र वने निवसति स्म । अत ए वक्तम्

 यस्य बुद्धिर्बलं तस्य निर्युद्धस्तु कुतोवलम् ।
 पश्य सिंहो मदोन्मत्तः शशकेन त्रिनाशितः ।।

अनागतविधात्रादीनां ।
कथा ( ५ )

 १. कस्मिंश्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यदविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जला- शयं दृष्ट्वा गच्छद्भभिर्मत्स्यजीविभिरुक्तं, यदहो ! वहुमरयोऽयं

ह्रदःकदाचिदपि नास्माभिरन्वेषितः, तदद्य तावदाहाद्युतिः।

( १२ )
अनागतधित्रादीनाम् ॥


सञ्जाता, सन्ध्यासमयश्च संवृत्तः, ततः प्रभातेऽत्र आगन्तव्य मिति निश्चयः।

 २. अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ये अनागत विधाता सर्वान् मत्स्यान् आहूय इदमूचे, "अहो ! श्रुतं भवद्भिः यत् मत्यजीविभिरभिहितम् ? तन्यूनं प्रभातसमये मत्स्यजीवूिनो ऽत्र समागम्य मत्स्यसंशयं करिष्यन्ति, एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमपि अत्रावस्थातुम् । उक्तञ्च,

 विद्यमाना गतिर्येषामन्यत्रापि सुखावहा ।
 ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम् "।

 ३. तदाकए’ प्रत्युत्पन्नमतिः प्राह, ‘अहो ! सत्यमभिहितं भवता, ममापि अभीष्टमेतत् , तदन्यत्र गम्यतामिति । उक्तञ्च,

 परदेशभयाद्भीता वहुमाया नपुंसकाः ।
 स्खदेशे निधनं यान्ति काकाः कापुरुषा मृगाः" ।।

 ४. अथ तत् समाकर्यं मोच्च विंहस्य यद्भविष्यः प्रोवाच,- “अहो ! न भवद्द्या मन्त्रितं सम्यगेतदिति । यतः, किं वाङ्मात्रेणैव तेषां पितृपैतामहकमेतत्सरः त्यक्तुं युज्यते ? यदि आयुःक्षयोऽस्ति, तदन्यत्र गतानामपिमृत्युर्भविष्यत्येव । उक्तव

 अरक्षितं तिष्ठति दैवरक्षितं
 सुरक्षितं दैवहतं विनश्यति ।

तदरं न यास्यामि, भय यां च यद्रोचते तत् कर्तव्यम्" ।

( १३ )
नीति कथा माला॥

 ५. अथ तस्य तं निश्चयं ज्ञात्वा, अनागतविधातामत्यु त्पन्नमतिश्च, निष्क्रान्तौ सह परिजनेन । अथ मभाते तैर्मत्स्य जीविभिः जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम् । अतएवोक्तम्

 अनागतविधाताच प्रत्युत्पन्नमतिस्तथा ।
 द्वावेतौसुखमेधेते, यद्भविष्यो विनश्यति ॥


 १. कस्मिंश्चित् वनप्रदेशे चण्डरवो नाम श्रृंगाल:पतिवसति स्म । स कदाचित् तुधाविष्टो जिह्वालोल्यात् नगरान्तरं प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य, सत: शब्दायमानाःपरि धाव्य, तीक्ष्णदंष्ठागैर्भक्षितुमारब्धाः । सोऽपि तैः:भच्यमाणः प्राण भयात् प्रसन्नरजकगृहं प्रविष्टः ।तत्र च नीलीरसपरिपूर्णमहाभा एडं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः।

 २. अथयावत् निष्क्रान्तस्तावत् नीलीवर्णः सञ्जातः । तत्र अपरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः । चण डरवोणपि दूरतरं प्रदेशमासाद्य कांननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचित् निजरङ्गः त्यज्यते ।

 ३. अथ अपूर्वं तत् सत्वम् अवलोक्य, सर्वे सिंहव्याघ्रद्वी

( १४ )
चण्डरत्र*वापदानम् ॥


पितृकमभृतयः अरण्यनिवासिनः भयेन व्याकुलितचित्तः सम- न्तात् पलायनं कुर्वन्ति, कथयन्ति च, “न ज्ञायते अस्य कीदृक् विचेष्टितं पौरुषं च, तत् दूरतरं गच्छ|मः।

 न यस्य चेष्टितं विद्यात् , न कुलं, न पराक्रमम् ।
 न तस्य विश्वसेत् प्राज्ञो, यदीच्छेच्छूियमात्मनः” ॥

 ४. चण्डरत्रोऽपि तान् भयेन व्याकुलितान् विज्ञाय, इद माह“भोः भोः श्वापदाः ! किं यूयं मां दृष्ट्वा एव सन्त्रस्ताः ब्रजथ ? तत् न भेतव्यम् । अहं ब्रह्मणा अद्य स्वयमेव सृष्टा अभिहितः- श्वापदानां मध्ये कश्चित् राजा नास्ति तत् त्वं मया अद्य सर्वेषां पदानाम् प्रभुत्वे अभिषिक्तः ककुदङमाभिधः। तनः गवा क्षितितले तान् सर्वान् परिपालय)–ततः अहम् अत्र आगतः। तत् मम छत्रच्छायायां सर्वैः एव श्वापदैः वर्तितव्यम्। अह ककुदङमो नाम राजा त्रैलोक्येऽधषि सजातः ।

 ५. तत् । श्रुत्वा, सिंहव्याघ्रपुरःसराः श्वपदाः “स्वामिन् ! प्रभो ! समादिश” इति वदन्तः तं परिधनुः । अथ, तेन सिंहस्य अमात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यपालित्वं, द्वीपिनः ताम्बूलाधिकारःवृकस्य द्वारपालकत्वम् । ये च आन्मीयाः - गालाःतैः सह आलापमात्रम् अपि न करोति । सर्वे अपि शृगालाः अर्धचन्द्रं दवा निस्सारिताः !

 ६‘एवं तस्य राज्य क्रियायां वर्तमानस्य, ते सिंहादयः मृगान

व्यापाद्य, तस्य पुरतः प्रक्षिपन्ति । सोऽपि प्रश्वधर्मेण सर्वेषाम्,

( १५ )
नीति कथा माला।

तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले, कदाचित् तेने समीगतेन, दूरदेशे शब्दायमानस्य शृगालवृद्स्य कोलाहलः अश्रावि । तं शब्दं श्रुत्वा पुलकिततनुः, आनन्दाश्रुभिः परिपूर्ण- नयनः उत्थाय विरोतुम् आरब्धवान् ।

 ७° अथ ते सिंहादयः तं तास्वरं श्रुत्वा“शृगालोऽयम्’ इति मत्वा सलज्जम् अधोमुखः क्षणम् एकं स्थित्वा मिथः प्रोचुः “भोः ! वञ्चिताः वयम् अनेन क्षुद्रशृगालेन” तत् वध्यताम् । सीऽथि तत् अकर्थ पलायितुम् इच्छम्' तत्र स्थाने एव सिंहादि भिः खण्डशः कृतःमृतश्च।

 त्यक्ताकाश्चभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः
 स एव मृत्युमामोति, यथा राजा ककुटुमः ।


मित्रशम्मण धूर्तानाच ।

कया (७)

 १. कस्मश्चित् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृता- ग्निहोत्रपरिग्रहः प्रतिवसतिस्म । तेन कदाचित् माघमासेमघा च्यादिते गगने, मन्दं मन्दं प्रयति मेघे, पशुप्रार्थनाय किञ्चिद्ध ग्रामान्तरं गवा कश्चित् यजमानो याचितः । “भो यजमान !

आगामिन्याम् अमावास्यायाम् अहं यस्यामि यज्ञम् । तद् देहि

( १६ )
मित्र शर्मेण धूर्तानाच

ये पशुर्" । अथ तेन तत्य पीवरतनुरं पशुः दत्तः। सोपि त म् इतश्च इतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा स्वपुराभिमुखः .NS- ०.- ५ प्रतस्थे ।

 २: अथ तस्य गच्छतो मार्गे त्रयो धूताः सम्मुखाः बभूवुः। तैश्च तादृशं पीवरतनु पशुम् अवलोक्य मिथः अभिहितम्, “अहो ! अस्य पशोः भक्षणात् अद्यतनीयो हिमपातः अपनीयते । तत् एनं वंचयित्वा पशुर् आदाय शीतत्राणं कुर्मः ।

 ३. अथ तेषाम् एको वेशपरिवर्तनं विधाय सम्मुखं भूत्वा तम् आहिताग्निम् ऊचे, “भो भो बालाग्निहोत्रिन् ! किम् एव' जनविरुद्ध हास्यकार्यं क्रियते, यत् एष सारमेयः अपवित्रः स्कन्धेन नीयते । ततश्च तेन कोपाभिभूतेन अभिहितम्, “अहो ! किम् अंधो भवान्, यत्पशु' सारमेयं प्रतिपादयसि ? ५) सोऽब्र वीत् “ब्रह्मन् ! कोपस्त्वया न कर्तव्यः । यथेच्छं गम्यताम्।

 ४. अथ, यावत् किञ्चित् अवनोऽन्तरं गच्छति, तावत् द्वितीयो धूर्तः सम्मुखे समुपेत्य तम् उवाच, ‘भो ब्रह्मन् ! य- द्यपि वल्लभोऽयं ते मृतवत्सःतथापि स्कन्धम् आरोपयितुम् अयुक्तम् । अथ, असौ सकोपम् इदमाह, “भोः ! किम् अंधो भवान् , यत् पशु' मृतवत्सं वदसि” । सोऽब्रवीत्, “भगवन् ! मा कोपं कुरु । अज्ञानात् मया अभिहितम् । तत् त्वं यथेच्छम् आचर” ! V

 ५. अथ, यावत् स्तोकं वनांतरं गच्छति, तावत् तृतीयो

अन्यवेशधारी धूर्ताः सम्मुखे समुपेत्य तम् उवाच, “भोः । अ

( १७ )
नीति कथा माला।

युक्तम् एतत्, यत् खं रासभं स्कंधाधिरूढं नयसि; तत् त्यज्यताम् एषः । उक्तञ्च -

 ‘यः स्पृशेद्रासभ' मयं ज्ञानादज्ञानतोऽपि वा ।
 सचैलं स्नानमुद्दिष्टं, तस्य पापप्रशांतये ।।
 तत् त्यज एनम्, यावत् अन्यः कश्चित् न पश्यति ।

 ६. अथ, असौ तं पशु रासभं मन्यमानोभयात् भूमौ प्रक्षिप्य, स्वगृहम् द्दिश्य, प्रपलायितः । सतस्ते त्रयो मिलित्वा तं पशुम् आदाय यथेच्छया भक्षितुम् आरब्धाः।

 बहुबुद्धिसमायुक्ताः सुवूिना, बलोत्कटान्
 शला वञ्चयितु’ धूर्ताः; ब्राह्मणं छगलादिव ।

t¢ *


दधपुच्छखरनखरयः

कया ( ८ )

 १. कस्मिंश्चित् वने खरनखरो नाम सिंहः प्रतिवसतिस्म । स कदाचित् इतश्च इतश्च परिभ्रमन्, क्षुधया पीडितः नकिवि दषि सखम् आससाद । ततश्च अस्तमनसमये महतीं गिरिगुहाम् आसाद्य प्रविष्टः चिन्तयामास, `नूनम् एतस्यां गुहायां रात्रौ केनापि सस्येन । आगन्तव्यम् । तत् निस्तब्धो भूख तिष्ठामि ।
 २. एतस्मिन् अंतरे तस्याः स्वामी दधिपुच्छो नाम शृगालः

समायातः। स च यावत् पश्यति, तावत् सिंहस्य पदपद्धतिः

( १८ )
दधिपुच्छखरनखरयोः

गुहायां प्रविष्टा, नच निर्गता । ततश्च अचिंतयत्, अहो ? वि नष्टोऽस्मि । नूनम् अस्या अंतर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ?

 ३. एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरेभे, “ग्रहो बिल । अहो बिल !” इत्युक्त्वा तूष्णींभूय, भूयः अपि तुथा एव प्रत्य भाषत् “भोः किं न स्मरसि, यत् मया वया सह समयः कृतो- ऽस्ति, यत् मया वाह्यात् समागतेन त्वं वकव्यः, खया च अहं प्रतिवक्तव्यः । तत् यदि मां न आढ्यसि, ततोऽहं द्वितीयं बिलं यास्यामि ।

 ४. अथ तच्छ्रुत्वा सिंहः चिन्तितवान, ‘नूनम् एषा गुहा । अस्य समागतस्य सदा समाह्वानं करोति । परम्, अद्य मम भयात् । न किञ्चिद् व्र,ते । अथवा साधु इदमुच्यंत,

 ‘भयसन्त्रस्तमनस हस्तपादादिकाः क्रियाः।
 भवतन्ते न, वाणीच, वेपथुश्चाधिको भवेत् ।

 तत् अहम् अस्य आह्वानं करोमि, येन, तदनुसारेण प्रविष्टोऽय' भोज्यतां यास्यति ।» एवं सम्प्रधार्य, सिंहः तस्य आह्वानम् अकरोत् ।

 ५. अथ, सिंहस्य शब्देन सा गुहा पूतिरवसम्पूर्णा अन्यान् अपि स्थाम् अरण्यजीयान् त्रासयामास । शगालोऽपि

पलायमान इमं श्लोकम् अपठत् ।

( १६ )
नीति कथा माला।

 "अनागनं यः कुरुते स शोभते
  स शोच्यते यो न करोत्यनागतम् ।
 वनेऽत्र संस्थस्य समागता जरा
  बिलस्य वाणी न कदापि मे श्रुता ।"




सहसुतयोः ऋगलकस्य च
कया (३)


 १. कस्मिश्चित् वने सिंहदम्पती प्रतिवसतःस्म । अथ सिंही पुत्रद्वयं अजीजनत् । सिंहोऽपि नित्यम् । एव मृगान् व्यापाद्य सिवै ददाति । अथ, अन्यस्मिन्अहनि तेन किमपि न आसादितम् । वने भ्रमतोऽपि तस्य रविः अस्तं गतः।

 २, अथ, तेन स्वगृहम् आगच्छता शृगालशिशुः प्राप्तः । स च “बालकोऽयम्’ इति अभधायें, यत्रेनं दंष्ट्रमध्यगतं कृत्वा, सिह्याः जीवन्तम् एव समर्पितवान् । ततः सिंवा अभिहितम् , “भोः कान्त ! त्वया आनीत किञ्चित् अस्माकं भोजनम् ? ( सिंह आह‘षिये ! मया अद्य एनं शृगालशिशु' परित्यज्य न किञ्चित् सत्वम् आसादितम् । स च बालोऽयम्’ इति मत्वा । न व्यापादितः, विशेषात् स्त्रजातीयश्च । इदानीं त्यम् एनं भक्ष- यित्वा पथ्यं कुरुप्रभाते अन्यत् किञ्चित् उपार्जयिष्यामि ।

 ३. सा बाह, “भोः कान्त ! त्वया बालकोऽय' विचिन्त्य

( २०)
सिंहसुतयोः शृगालकस्य च।।

न इतः। तत् कथम् एनम् अहं स्वोदायें, विनाशयामि । उक्तश्च

 ‘प्रकृत्यं नैव कर्तव्यम् , प्राणत्यागेऽपि संस्थिते ।
 न च कृत्यं परित्याज्यभ् , एष धर्मः सनातनः ।

 तस्मात् मम अय' तृतीयः पुत्रो भविष्यति । ” इत्येवम् उक्तवा तमपि स्वस्तनीरेण पराम् पुष्टिम् अनयत् एवं ते त्रयोऽपि शिशवः परस्परं जातिम् अजानन्तः एकाचारविहारा बाल्यसमयं निर्वाहयन्ति ।

 ४. अथ, कदाचित् तत्र वने भ्रमन् अरण्यगजः समायातः। तं दृष्ट्वा तौ सिंहसुतौ द्वौ अपि कुपिताननौ तम् प्रति यावत् प्रच लितौ, तावत्, तेन शृगालसुतेन अभिहितम् , “अहो ! गजोऽयं युष्माकं कुलशत्रुःतन गन्तव्यम् एतस्य अभिमुखम् । एवम् उक्त्व यूहं प्रधावितः। तौ अपि ज्येष्ठान्धवस्य भङ्गात् निरु त्साहतां गतौ ।

 ५. अथ, तौ द्वौ अपि गृहं प्राप्य पित्रोः अग्रतो विहसन्तौ ज्येष्ठस्य भ्रातुः विचेष्टितम् ऊचतुः, यद "गजंदृष्ट्वा दूरतोऽपि नष्टः । सोऽपि । तत् आकएर्य कोपाविष्टमनां ताम्रलोचनः श्रुकुटीि बद्ध्वा, तौ भर्सयन् परुषतराणि वचनानि उवाच । ततः सिंवा एकान्ते नीला असौ प्रबोधितः, “वत्स ! मा एवं कदाचित् जल्प । एतौ भवदीय लघुभ्रातरौ ।

 ६. अथ असौ प्रभूतकोपाविष्टः ताम् उवाच, “किम् अङ्गम्

4b

( २१ )
नीति कथा माला॥

एताभ्यां शय्यैण, रूपेण, विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तत् मया अवश्यम् एतौ व्यापादनीयौं ।" तत् आकएर्थं तस्य जीवितम् इच्छन्ती अन्तर्विहत्य प्रह

 “शरोऽसि, कृतविद्योऽसि दर्शनीयोऽसि, पुत्रक ।
 यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥

 ७, तत् सम्यक् शृणु वत्स, खं शुगालीसुतः। कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः। तत् यावत् एतौ मम पुत्रौ शिशु वात् वां शृगालं न जानीतःतावत् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नोचेत् , आभ्यां हतो मृत्युपथं समेष्यसि ।

 ८. सोऽपि तस्या वचनं श्रुत्वा भयेन व्याकुलमनाशनैः शनैः अषसत्य स्वजात्या मिलितः।


घण्ठोष्टस्थ

कया (१०)

 १. कस्मिंश्चित् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव सतिस्म । स च अतीव दारिद्रयोपहतः चिन्तितवान्, अइ धिं , इयं दरिद्रता अस्माकं चूहे ! यतः, सर्वोऽपि जनः स्वकर्मणि रतः. तिष्ठति । अस्माकं पुनः व्यापारो न अत्र अधिष्ठाने

अर्हति । यत, सर्वेषां लोकानां चिरन्तनाः चतुभुमिकाः यदः

( २२ )
घण्टोष्ट्रस्य

सन्ति । मम च न अत्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम्? → इति चिन्तयित्वा देशात् निष्क्रान्तः ।  २. यावत् किञ्चित् वनं गच्छति, तावत् वनमध्ये सुर्यास्त मनवेलायां स्वयूथात् भ्रष्टाम् , प्रसववेदनया पीड्यमानाम् उद्दी- मपश्यत् । स च दासेरकेण युक्ताम् उ य्हीत्वा स्वस्थानाभि मूर्खः प्रस्थितः। गृहम् आसाद्य रज्जुकां हीत्वा ताम् उद्रिकां बबन्ध ।

 ३. ततश्च तीक्ष्णं परशुम् आदाय, तस्याः कृते पल्लवानाम् आनयनार्थं पर्वतस्य एकदेशे गतः । तत्र च नूतनानि, कोमला नि, बहूनि पल्लवानि छिचा शिरसि आरोप्य, तस्या अग्रे निचि तप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवानां भक्षणात् अहर्निशं पीवरतनुः उद्दीसञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः स नित्यम् एव दुग्धं य्हीत्वा स्वकुटुम्बं । पालयति ।

 ४. अथ रथकारेण, बल्लभत्वात् दासेरकस्य ग्रीवायां महतीघण्टा प्रतिवद्धा । पश्चात्र थकारो व्यचिन्तयत्, “अहो ! किम् अन्यैः दुष्कृत कर्मभिः, यावत् मम एतस्मात् एव उष्ट्रपरिपालनात् अस्य कुटु म्बस्य भव्यं सञ्जातम् तत् किम् अन्येन व्यापारेण । एव विचिन्त्य गृहम् आगत्य प्रिया आहे“‘भद्र ! समीचीनः अयं व्यापारः । तव सम्मतिः चेत्, कुतोऽपि धनिकात् किञ्चित् द्रव्य म् आदाय मया करभानां ग्रहणाय गुर्जरदेशे गन्तव्यम् । तावत् स्वया एतौ यत्नेन रक्षणीयौ, यावत् अहम् अपराम् उ नीत्वा समागच्छामि ।

CSS

( २३ )
नीति कथा माला॥

 ५. ततश्च गुर्जरदेशे गया, उ गृहीत्वा स्वगृहम् आगतः। किम् ( वहुना, तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततः तेन महत् | उष्ट्रयूथ कृत्वा रक्षापुरुषो धृतः। तस्य वर्षे प्रति वृत्या करभम् एकं प्रयच्छति । अन्यच अहर्निशं तस्य दुग्धपानं निरूपितम् । एवं रथकारोऽपि नित्यम् एत्र उष्त्री करभव्यापारं कुर्वन् मुखेन तिष्ठति ।

 ६. अथ, ते दासेरका अधिष्ठानोपवने आहारार्थं गच्छन्ति । कोमला यरुलोः यथेच्छया भक्षयित्व, महति / सरसि पानीयं टं सायंतनसमये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । सच पूर्वदासेरकः मदस्य अतिरेकात् पृष्ठे आगत्य मिलति । ततः तैः करभैः अभिहितम् , “श्र, मन्दमतिः अयं दासेरकःयथा यूथात् भ्रष्टः पृष्टे स्थित्वा घण्टां वादयन आगच्छति । यदि कस्यअपि दुष्टस्य सर्वस्य सुखे पतिष्यति, ततः. नूनं मृत्युः भविष्यति ।

 ७. तष तत् वनं गाहमाना कश्चित् सिंहः घण्टायाः रवम् आकर्यं समायातः । यावत् अवलोकयति, तावत् उदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीड़ां कुर्वन्, बलराः चरन् यावत् तिष्ठति तावत् अन्ये दासेरका; पानीयं पीत्वा स्वदृहे गताः । सोऽपि वनात् निष्क्रम्य यावत् दिशः अवलोकयति, तावत् न कञ्चित् मार्गं पश्यति, वेतिच । यूथात् भ्रष्टुः मन्दं मन्दं बृहत् शब्दं कुर्वन् यावत् कियत् दूरं गच्छति,

तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतः अने व्य

( २४ )
घण्टोष्ट ,स्य

स्थितः। ततःयावत उष्ट्रः समीपम् आगतः, तावत् सिंहेन । लम्फयिंत्वा ग्रीवायां गृहीतः ।

सतां वचनमादिष्टम् मदेन न करोति यः ।
स विनाशमवामोति; घण्टोष्ट्र इव सत्वरम् ॥


महचतुरकस्य मृगालय
कय ( ११ )

 १. कस्मिश्चित् वने महाचतुरको नाम शृगालः आसीत् । तेन कदाचित् अरण्ये स्वयंभुतः गजः समासादितः । स तस्य समन्तात परिभ्रमति परं, कठिनां त्वचं भेत्तु' न शक्नोति ।

 २. अथ, अत्र अवसरे इतश्च इतश्च विचरन् कश्चित् सिंहः तत्रैव प्रदेशे समाययौ । अथ तं सिंहं समागतं दृष्ट्वा स करयुगलं संयोज्य सविनयम् उवाच, ‘स्वामिन् ! अहं त्वदीयः लागुडिकः अत्र स्थितः स्वदर्थे गजम् इमं रक्षयामि । तत् एनं भक्षयतु स्वामी । ।

 ३. तं प्रणतं दृष्ट्वा सिंहः प्राह, “भोः ! न अहम् अन्येन हतं सर्वं कदाचित् अपि भक्षयामि । उक्तञ्च,

वनेऽपि सिंहा मृगमांसभुक्ताः
भुक्षिताः नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूताः
न नीतिमार्ग परिलङ्घयन्ति ।,

तत् तत्र एव अयं गजः मया प्रसादीकृतः । तत्

( २५ )
नीति कथा माला॥

श्रुत्वा शगालः सानन्दं प्राह, “युक्तम् इदं स्वामिनः नि ज.भत्यषु ( )

 ४. अथ सिंहे गते कश्चित् व्याघ्रः समाययौ । तम् अपि दृष्ट वा असौ व्यचिन्तयत् , “अहो ! एकस्तावत् दुरात्मा प्रणिपा- तेन अपवाहितः । तत् कथं इदानीम् एनम् अपवाहयिष्यामि । नूनम् , शरऽयं, न खलु भेदं विना साध्यः भविष्यति । ।

 ५. एवं सम्प्रधार्य तस्य अभिमुखो भूत्वा गवात् उनत - कन्धरः ससम्भ्रमम् उवाच, ‘मामकथम् अत्र भवान् मृत्योः सुखे प्रविष्टः । येन एष गजः सिंहंन व्यापादितःस च माम् एतस्य रत्तणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम् , “यदि कश्चित् इह व्याघ्रः समायाति तत् त्वया सुग्रतं मम आवेदनीयम् , येन वनम् इदं मया निर्यातुं कर्तव्यम् ; यतः पूर्वं व्यात्रेण एकेन, मया व्यापादितः गजः, भक्षयित्वा उच्छिष्टतां नीतः । तस्मात् दिनात् आरभ्य व्याघ्रान् प्रति अकुपितोऽस्मि” ।

 ६. तत् श्रुत्वा व्याघ्रः संत्रस्त आह, “भो भागिनेय ! देहि मे प्राणदक्षिणाम् , त्वया तस्य चिराय आयातस्य अपि मदीया काऽपिवार्ता न आख्येया” । एवम् अभिधय सत्वरं पलाया चक्र ।

 ७. अथ, गते व्याने कश्चित् द्वीपी समायातः। तम् अपि दृष्ट्या असौ व्यचिन्तयत् ‘अयं चित्रकः ह्द्दंष्ट्रः। तत्, अस्य पाश्र्वान् गजस्य यथा चर्मणः खेदो भवति, तथा करोमि । ॐ

एवं निश्चित्य तम् अपि उवाच, “भो भगिनीसुत ! किमिति

( २६ )
महाचतुरकस्य भृगलस्य

चिरात् दृष्टोऽसि ? कथश्च बुभुक्षितं इव लक्ष्यसे ? तत् अतिथिः असि मे ! एष गजः सिंहेन हतः तिष्ठति । अहं च अत्य, तेन आदिष्टः रक्षालः । परं वथापि यावत् सिंहः न समायाति, तावत् अय गजस्य मांसं भक्षयित्वा, तृप्तिं कृत्वा व्रतं व्रज ।

 ८. स आह ‘माम ! यदि एत्रं, तत् न कार्य मे मांसाशनेन । यसः “जीबेन् नरः भद्रशतानि पश्यति। तत् अहम् इतः अपयास्या मि “ । शुगल आह “भो अधीर ! विश्रब्धः भूत्वा भक्षय त्वम् | तस्य आगमनं दूरतोरपि तव अहं निवेदयिष्यामि’ । तथा अनु ष्ठिते, दीधिना भित्र स्वयं विज्ञाय जम्बूकेन अभिहितम्, ‘भगिनीसुत ! गम्यताम्, एष सिंहः समायाति ! १: तत् श्रुत्वा चित्रकः दुरं प्रनष्टः ।

 ९. अथ, यावत् असौ किञ्चित् मांसं भक्षयति, तावत् अतिसंक्रुद्धः अपरः शृगालः समाययौ । अथ तम् आत्मतुल्य पराक्रमं दृष्ट्वा एनं श्लोकम् अपठत् ।

‘उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्,
नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ।

सतः स्वदंष्ट्राभिः तं विदार्य स्वयं चिरकलं हस्तिनो मांसं बुभुजे।



( २७ )
नीति कथा माला॥

वककर्कटकयोः
कया (१२)

 १. अस्ति कस्मिश्चित् वने विविधैः जलचरैः अधिष्ठितं महत् सरः। तत्र च एको वकः, वृद्धभावम् उपागतःमत्स्यान् व्यापा दयितुम् असमर्थः प्रतिवसति । स कदाचित्, क्षुधया क्षामकण्ठः सरसः तीरे उपविष्टःअश्रुप्रवाहैः धरातलम् अभषिञ्चन् रुरोद ।

 २. एकः कुलीरकः, नानाजलचरैः सह समेत्य, तस्य दुःखेन दुःखितः सदरम् इदम् ऊचे,‘माम ! किम् अद्य त्वया न भोजनं क्रियते ? केवलम् अश्रुपूर्णा: नेत्राभ्यां सनिवासेन स्थीयते । स आह, ‘घत्स ! सत्यम् उतस्त्विं भवता । मया हि मत्स्यानाम् अद्नं प्रति वैराग्यतया प्रायोपवेशनं कृतम्, तेन अहं समीपम् आगतान् अपि मत्स्यान् न भतयामि !”

 ३ तंत् श्रुत्वा कुलीरकः प्राह, “किंतस्य वैराग्यस्य कार णम् ? ® माह, "वत्स ! अहम् अस्मिन् सरसि जातःवृद्धि गतश्च । तत् मया एतत् श्रुतं, ‘यत् द्वादशवार्षिकी अनावृष्टिः लमा सम्पद्यते । तत्, एतत् सरः स्खल्प्यं वर्तते । शीघ्र' शोषं यास्यति । अस्मिन् शुष्के, यैः सह अहं वृद्धिं गतः सदैव क्रीडि तश्च, ते सर्वे तोयस्य अभावात् नाशं यास्यन्ति । तत् तेषां वियोगम्' अहं द्रष्टुम् असमर्थः। तेन एतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्खल्पानां जलाशयानां जलक्राः गुरुषु जलाशः येषु स्वैः स्वैः जनैः नीयन्ते । अत्र पुनः सरसि ये जलचराः, ते निश्चिन्ताः सन्ति तेन अहं विशेषात् रोदिमि, यत् बीजशेषमात्रम्

अपि अत्र न उद्धरिष्यति ।

( २८ )
चककर्कटकयोः

 ४. ततः स तत् आकर्य, अन्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ, ते सर्वे भयेन संत्रस्ताः मत्स्यकच्छपसंभृतयः तम् अभ्युपेत्य पप्रच्छुः ‘‘माम ! अस्ति कश्चित् उपायःयेन अस्माकं रक्षा भवति ? * वक आह, “अस्ति अस्य जलाशयस्य समीपं, प्रभूतजलं, पश्चि नीभिः मण्डितं सरः, यत्। चतुविंशत्या अपि वर्षाणाम् अदृष्ट्या न शोपम् एष्यति । तत् , यदि कश्चित् मम पृष्ठम् आरोहति, तत् अहं तत्र नयामि ।

 ५. अथ, ते तत्र विधासम् : “तात, मातुलभ्रातः” इति ब्रुवाणाः ‘यहं पूर्वम् , अहं पूर्वम्” इति समन्दात् परितस्थुः । सोऽर्षेि दुष्टशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिक्षां समासाद्य, तस्याम् आक्षिष्य, स्वेच्छं भक्षयित्वा, भूयोऽपि जलाशयं समासाद्यजलचराणां मिथ्यावार्ताभिः मनांसि रञ्जः यन् नित्यम् एव आहारवृत्तिं करोति ।

 ६. अन्यस्मिन् दिने च कुलोरकेण उक्तम् ‘मया सह ते प्रथमः स्नेहसम्भापः सञ्जातः। तत् किं मां परित्यज्य अन्यान् नयसि ? तस्मात् अथ मे प्राणानां त्राणं कुरु ।” तत् आकर्य सोऽपि दुष्टाशयः चिन्तितवान्“निर्विण्णोऽहं मत्स्यानां मांसस्य अद नेन । तत् अत्र एनं कुलीरकं व्यञ्जनस्य स्थाने करोमि ।’ इति विचिन्त्य तं पृष्ठे समारोप्य, तां वध्यशिलाम् उद्दिश्य प्रस्थितः ।

 ७. कुलीरकोऽपि दुरात् एव अस्थिपर्वतं शिलायाः समीपम्

अवलोचय, मत्स्यानाम् अस्थीनि परिज्ञाय तम् अपृच्छत्, “मम !

( २६ )
नीति कथा माला ॥

कियद्दूरे स जलाशयः । मम भारेण अतिश्रान्तः स्वम् । तत् कथय । ॐ सोऽपि मुन्द्रीः ‘‘जलचरोऽयम्’ इति मत्वा “स्थले न प्रभवति इति सुप्रितम् इदम् आह, ‘कुलीरक ! कुत्र अन्यो जलाशयः ? मम प्राणयात्रा इयम्,तस्मात् स्मय्येताम् आत्मनः अभीष्टा देवता ,वाम् अपि अस्यां शिलयां निक्षिष्य भक्षयिष्या मि” इति उक्तवति तस्मिन् कुलीरकेण स्युवदनर्देशाभ्यां मृदुग्री वायां गृहीतः, मृतश्च ।

 ८. अथ स तां वकस्य ग्रीवां समांदाय शनैः शनैः तं जला शयम् आसवाद । ततः, सर्वैः एव जलचरैः पुट्, “भोः कुली रक ! किं खं निवृत्तः ? स मातुलोऽपि न । आयातः। तत् किं चिरयति । वयं सोत्सुकाः तिष्ठ(मः” एवं तैः अभिहिते कुलीरको ऽपि विहस्य उवाच, “सूखाः सर्वे जलचराःतेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तत् मया आयुषःशे षतया तस्य विश्वासघातकस्य अभिप्रायं ज्ञात्वा इयं ग्रीवा आनीता । तत्, अलं सभ्रमेण । अधुना सर्वेषां जलचराणां क्षेमं भविष्यति ।"

            
 भक्षयित्वा बहून् मत्स्यान्, उत्तमाधममध्यमान ।
 अतिलौल्याद् बकः ३ कश्चिन् मृतः कूर्कटकग्रहाव ॥

मर कुणस्य पूछयश्च
कथा [ १३ ]

 १. अस्ति, कस्यचित् महीपतेःकस्मिश्चित् स्थाने मनोरमं शयनस्य स्थानम् । तत्र शुक्रयोः पटयोः मध्ये संस्थिता, मंदविस

र्पिणी नाम श्वेता यूका प्रतिवसति । सा च, तस्य महीपतेः

( ३० )
मत्कुणस्य चूकायश्च ।।

रक्तम् आस्वादयन्ती मुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च, तत्र शयनस्थाने कुतश्चित् भ्राम्यन्, अभिमुखो नाम मत्कुणः समायतः ।

 २. अथ, तं दृष्ट्वा सा विषण्णवदना प्रोवच, “भोः अग्निसुख ! अत्र अनुचिते स्थाने स्वं कुतः समायातःतत्, यावत् न कश्चित् वेत्ति, तावत् शीघ्र' गम्यताम् । स आह, ‘‘भगवति ! इम् आगतस्य असाधोरपि न एतत् युज्यते वक्तुम्। उक्तव,

            

 ‘एह्यागच्छ, समाश्वसासनमिदम् ,,कस्मच्चिराद् दृश्यसे ?
 का वार्ता ? यति दुर्बलोऽसि, कुशम् १ प्रीतोऽस्मि ते दर्शनात् ।
 एवं नोच जनेऽपि युज्यलि गृहं प्राप्ते सता नर्वेद,
 धमयं गृहमेधिनंनिगदितःस्मार्तेर्लघुः सर्वदा ॥

 ३. “अपरं, मया अनेकेषां मानुषाणां विविधानि रुधिराणि आस्वादितानि, कटुतिक्तकषायाम्लरसास्वादनानि । तत् यदि । त्वं प्रसादं करोषि तर्हि, अस्य नृपतेः शरीरे विविधानां व्यञ्जना नाम् अन्नपानचोयलेह्यानाञ्च आहारवशात् यत् मिष्टं रक्तं सञ्जातं, तस्य आस्वादनेन जिह्वायाः सौख्यं सम्पादपि । तत् मया तव शृहम् आगतेन, बुभुक्षया पीड्यमानेन तव सकाशत् भोजनम् अर्थनीयम् । तत् ( न त्वया एकाकिन्या अस्य नृपतेः भोजनं कर्तुं युज्यते ।

 ४. तत् श्रुत्वा मन्दविसर्पिणी प्राह, “भो मत्कुण ! अहं निद्रावशं गतस्य अस्य नृपते रक्तम् आस्वादयामि ।

तत् त्वं पुनः , अग्निमुखः चपलश्च । तन् यदि मया सह।

( ३१ )
नीति कथा माला ॥

रक्तस्य पानं करोषि तत् तिष्ठ, अभीष्टतरं रक्तम् आस्वादय । सोऽब्रवीत् , "भगवति ! एवमेव करिष्यामि । यावत् त्वं प्रथमं नृपस्य सूक्त' न आस्वादयसि, तावत् मम देवगुरुकुतः शपथः स्यात् , यदि सत् आस्वादयामि” ।

 ५. एवं, तयोः परस्परं वदतोः, स राजा तत् शयनम् आ साथ प्रसुप्तः । अथ, असौ मत्कुणो जिह्वलोल्यात् जाग्रतम् अपि तं महीपतिम् अदशत् । अथवा साधु इदम् उच् ते

 ‘स्वभावो नोपदेशेन शक्यते कर्ता प्रस्था;
 सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ।

 ६ अथ, असौ नृपतिः सूच्यग्रेण विद्ध इव, तत् शयन त्यक्त्वा तत्क्षणादेव उत्थितः ।“अहो ! ज्ञायताम् । अत्र प्रच्छदन पटे मत्कुणो, यूका वा नूनं तिष्ठति, येन अहं दष्टः ॐ अथ ये क- चुकिनः तत्र स्थिताः ते सत्वरं प्रच्छदनपटं गृहीत्वा स्रवमया दृष्टया वीक्षांचक्रुः । अत्रतरे, स मत्कुणः चापल्यात् खट्वान्तं प्रविष्टःसा मंदविसर्पिणी तु वस्रसंधेः अंतर्गता तैः दृष्ट, व्यापा- दिता च ।

  नद्यविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः;
  मत्कुणस्य हि दोषेण हता मन्दविसर्पिणी ।

 


काकादीनां क्रथन कस्य च

( ३२ )
काकादीनां क्रथनकस्य च

कथा (१४)

 १. कस्प्रिंश्चित् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिबसतिस्म। तस्य च अनुच अन्ये -व्यसगोपायवः सन्ति । अथ, कदा चित् तैः इतस्ततः भ्रमद्भिः सार्थात् भ्रष्टः क्रथनको नाम उष्ट्रः इष्टः। अथसिंह आह"अहो ! अपूर्वम् इदं सवम्, तत् ज्ञायतां । किम् एतत् आरण्यकं ग्राम्यं वा । तत् श्रुत्वा वायस आह “भोः स्वामिन् ! ग्राम्यः अयम् उष्ट्रनामा जीवविशेषःतव भो ज्यः। तत् व्यापाद्यताम् । सिंह आह“नाहं गृहम् आगतं हन्मि ।” तत्, अभयमैदानं दत्वा मम सकाशम् आनीयताम्, येन, अस्य आगमनस्य कारणं पृच्छमि ।’

 २. अथ, असौ सर्वैरपि विधास्य, अभयप्रदानं दत्वा .मदो- कटस्य सकाशम् आनीतः प्रणम्य उपविष्टश्च । ततःतस्य पृच्छतःतेन सार्थभृशसमुद्भव आत्मनो वृत्तान्तो निवेदितः। ततः, सिंहेन उक्तम् “भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारस्य उद्वहनेन कष्टं प्राप्नुहि । तत् , अत्र एव अरण्ये निर्विशङ्क: मरकतसदृशानि शष्पाग्राणि भक्षयन्, मया सह सदैव वस ५ सोऽपि तथा इति उक्त्वा, तेषां मध्य विचरन्न कुतोऽपि भयम् इति सुखेन आस्ते ।

 ३. अन्येद्युःमदोत्कटस्य अरण्यचारिणा महागजेन सह युद्धम् अभवत् । ततः तस्य दन्तमुशलयोःप्रहारेण व्यथा सञ्जाता।

व्यथितः कथमपि प्रणैः न वियुक्तः। अथ, शरीरस्य असमर्थ

( ३३ )
नीति कथा माला ॥

त्वात् न कुत्रचित् पदात् पदम् अपि चलितु शक्नोति । ते अपि । सर्वे काकादयः अमथुत्वेन क्षुधाऽऽविष्टाः परं दुःखं भेजुः । अथ, तान् सिंह, आह“भोः ! अविष्णतां कुत्रचित् किञ्चित् सचम् । येन अहम् एताम् अपि दशां प्राप्तः, तत् | इत्वां युष्माकं भोजनं सम्पादयामि ।

 ४. अथ, ते चत्वारोऽपि भ्रमितुम् आरब्धाः । यावत् न कि- ञ्चित् सर्वं पश्यन्ति, तावत् वायसशृगालौ परस्परं मन्त्रयतः। शृगाल आह, भो वायस ! किम् प्रभूतेन भ्रान्तेन ? अयम्ऽस्मा कं प्रभोः विश्वस्तः क्रथनकः तिष्ठति । तत्, एनं हत्वा प्राणयात्रां कुर्मः ।" वायस आह “युक्तम् उक्तं भवता; परं, स्वामिना एतस्य अभयप्रदानं दत्तम् आस्ते । न बध्यः अयम् । शृगाल आइ, “भो वायस ! अहं स्वामिनं विज्ञाष्य तथा करिष्ये, यथा स्वामी वधं करिष्यति । तत्, तिष्ठन्तु भवन्तः अत्रैव, यावत् अहं यह गत्वा, प्रभोः आज्ञां र्हीत्वा च आगच्छामि ।’ एवम् अभिधाय सस्वरं सिंहम् उद्दिश्यं प्रस्थितः ।

 ५. अर्थ, सिंहम् आसाद्य इदम् आह, “स्वामिन् ! समस्तं वनं भ्रान्त् वयम् आगताःन किञ्चित् सवम् आसादितम् । तत्, किं कुर्मः वयम् । सम्प्रति, वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । यदि देवस्य आदेशः भवति, ततू क्रथनकस्य पिशितेन . अद्य पथ्यक्रिया क्रियते ।

 ६. अथ सिंहः, तत् दारुणं वचनम् आकर्यें सकोषम् इदम्

आह“थिकू पाधम ! यदि एवं भूयः वदसि, तत्, खां तत्

( ३४ )
काकादीनां क्रथनकस्य च॥

क्षणात् एव वधिष्यामि । मया तस्य अभयं प्रदत्तम्, तत् कथं व्यापादयामि । ,

 ७. तत् श्रुखा शृगालः प्राह“स्वामिन् ! यदि अभ- यप्रदानंदचा वधः क्रियते, तदा एष दोषो भवति, यदि तु स जीवि- तव्य' प्रयच्छति, तत् न दोषः । ततःयदि पुनः देवपादानां भचया स आत्मानं वधाय नियोजयति, तत् बध्यः; अन्यथा अस्माकं मध्यात् एकतमः बध्यः, यतः देवपादाः पथ्याशिनःतुधाया निरोधात् अन्यां दशां यास्यन्ति । अपरं, पश्चात् अपि अ स्माभिः बहु प्रवेशः कार्यःयदि स्वामिपादानां किंचित् अनिष्टं भविष्यति । उक्तञ्च,

 ‘यस्मिन् कुले यः पुरुषः प्रधानः
 स सर्वयनः परिरक्षणीयः । »

तत्श्रुत्वा मदोत्कटः माह, “यदि एवं, तत् कुरुष्व यत् । रोचते ।

 ८. तत् श्रुत्वा स सत्वरं गवा तान् आह, “भोः ! स्वा मिनः महती अवस्था वर्तते तत् किं पर्यटितेन ! तेन विना कः अत्र अस्मान् रक्षयिष्यति ? तत् गत्वा तत्य क्षुद्भोगात् परलोकं प्रस्थितस्य आत्मशरीराणां दानं कुर्मः, येन स्वामिनः प्रसादत्य अनृणतां गच्छामः । तदनन्तर्ये ते सर्वे बाष्पपूरितदृशः मदोत्कटं प्रणम्य उपविष्टः । तान् दृष्ट्वा मदोत्कट आह, “भोः ! प्राप्त, दृष्टं वा किञ्चित् सवम् ?

)

( ३५ )
नीति कथा माला ॥

 ९. अथ, तेषां मध्यात् काकः प्रोवाच“स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः। परं, न किञ्चित् सखम् आसादितं दृष्टं वा । तत्, अद्य मां भक्षयिखा प्राणान् धारयतु स्वामी, येन देवस्य आग्धासनं भवति, मम पुनः स्वर्गप्राप्तिः,

 ‘स्वाम्यर्थे यस्यजेत् प्राणान् भृत्यो भूक्तिसमून्वितः ।
 परं स पद मानोति, जरामरणवर्जितम् ।”

 १०.तत् श्रुत्वा शृगाल आह“भोः ! स्खल्पकायः भवान्। तव भक्षणात् स्वामिनः तावत् प्रणयात्रा न भवति, अपरः दोषश्च समुत्पद्यते । उक्तं हि,

 ‘काकमांसं, शुनोच्छिष्टंस्वल्पं, तदपि दुर्लभम्,
 भक्षितेनापि किं तेन ? तृप्तिर्येन न जायते ।

 तत् दर्शािता स्वामिभक्तिः भवता, गतश्च आनृण्यं भर्तृपि एडस्य, प्राप्तश्च, उभयलोके साधुवादः । तत्, अपसर अग्रतः । अहं स्वामिनं विज्ञापयामि । ’ तथा अनुष्ठिते शृगालः प्रणम्य उपविष्टः“स्वामिन् ! मां भक्षयिवा अद्य प्राणयात्र विधाय, मम उभयलोकप्राप्तिं कुरु ।

 ११. अथ, तत् श्रुत्वा द्वीपी आह“भोः साधु उक्त भवता पुनः भवान् अपि स्वल्पकायःस्वजातिश्च । नखायुधत्खात् अभय एव । तत्, दर्शितं त्वया आत्मनः कौलीन्यम् । तत्, अपसर अग्रतः, येन अहं स्वामिनं विज्ञापयामि .तथा अनुष्ठिते

द्वीपी प्रणम्य मदोत्कट-आह ,स्वामिन् ! क्रियताम् अद्य मम ।

( ३६ )
काकादीनां क्रथनकस्य च॥

माणैः प्राणयात्रा । दीयताम् अक्षयः - वासः स्वर्गे । मम विस्तार्यतां क्षितितले अभूततरं यशः। तत्, अत्र विकल्पः न कायः ।

 १२• तत् श्रुत्वा क्रथनकः चिन्तयामास, “‘एतैः तावत् समस्तैः अपि शोभनानि वाक्यानि प्रोक्तानि, न च एकोऽपि स्वामिना विनाशितः । तावत् अहम् अपि प्राप्तकालः विज्ञाप यामि येन मम वचनम् एते त्रयोऽपि समर्थयन्ति । इति निरिचय प्रोवाच “भोः ! सत्यम् उक्त' भवता । परं, भवान् अपि नख युधः, तत् कथं स्वामी भवन्तं भक्षयति । तत् अपसर अग्रतः. येन अहं स्त्रमिनं विज्ञापयामि । तथा अनुष्ठिते क्रथनकः अग्रे स्थित्वा प्रणम्य उवाच, “स्वामिन् ! एते तावत् अभया भव ताम् । तत् मम प्राणैः प्राणयात्रा विधीयताम्, येन मम उभयलो कपूप्तिः भवति ।

 १३. एवम् अभिहिते, शृगालचिनकाभ्यां विदारितोभयः कुतिः क्रथनकः, प्राणान् अत्यासीत् ।

 बहवः पण्डिताः शुद्धः सर्वे मायोपजीविनः
 कुर्युः छत्यमकृत्यं वा; उष्णैकाकादयो यथा।

॥ इति॥

--:o:--

कटिनपदानां वाक्यानाञ्च विवरणम् ।

बालनीतिकथामाला (नन्दलाल १९२१).pdf

७ष्ठम् ऊर्भ

दारिद्रयोपेतः निर्धनः
" चाडैकभावे वृद्धावस्थायाम्
" आत्मविचेष्टितम् आत्मनः कृत्यम्
" स्मरसि अरिष्यसि
" आसादितम् प्राप्तम्
वनगहने वनस्य गहरे
" तन्मात्रम् यावदिष्यते, तावदेव
" स्त्रीदामः लवशं प्राप्नुमः
" भूयोपि ( खनित्रा ) पुनरपि
" राजकुले न्यायालये
धमधिकरणम् न्यायालयः
" भो ५०००० न्तौ चौर्यरूपं दोषं परस्परमारोप-

यन्तौ स्वकीयमभियोगं निवे दितवन्तौ ।

" धम•०००००षेः न्यायालयाध्यक्षः
" दिच्यार्थे शपथाय
" दृष्टः विचरितः

( २ )
" है परिण अस्माकं भविष्यति
" & प्रोड्य सात्यं द्वा
" सत्यश्रावणम् “किमेतत्सत्यम् ? इत्येवं भावः

यित्वा यदा पृच्छामि ।

" १० निग्रहं
शिशुवैराग्यान् शिशुहेतोरूद्भूताद् वैराग्यात्
" कुलीरकः “केकड़ा, इत्यार्यभाषायां प्र

सिद्धो जलचरः

सत्यानृतम् सत्येन युक्तमनृतम् ।
" अपि क्षिप, विस्तारय
" अन्तःपुरे यत्र राज्ञां स्त्रीजनो निघसति तत्र
" विधासस्थानम् विधासपात्रम्
" सुङ्गुर्मुहुः बारं वारम्
शितधारेण तीक्ष्णेन
" पूर्वन पूर्वजन्मनः संस्काराणां वशात्
" चेटितम् हुतम् ।
ध्वांक्षाः काकाः
" किराताः वनमिवासिनो जुएटकाः
" मोचयित्वा उत्तायै ।
" भुञ्चामि मोचयामि

( ३ )
वीर्यातिरेकात् बलस्योन्मादाहू
" सारस सारङ्गो हरिणः
" समयधर्मः नियमव्यवस्था
" प्रणयात्रा माणरक्षा
" श्वापदः पशुः
निवृतिभाजः निश्चिताः
" भव्यः उत्तमः
" जु "-" एठः क्षुधया शुष्यत्कण्ठः
" --"लिहत् ओष्ठभान्तौ दन्तैश्वर्यन्
" निपात्य निहत्य
१० मस्तावम् आगमनावसरम्
" ११ विकम्भिनाः अवरुद्धः
११ मत्स्यजीविभिः ये मत्स्यादीनेव चिक्रीय स्वकी

यामाजीविकां कुर्वन्ति, तैः, '

१२ कुलिभम् विद्युत्पातोपमम्
१३ पजिमेन परिवारेण
" सारमेयाः कुकुराः
" अपूवेम् विलक्षणम्
" सिंह"~:~~"तपः दोपी, चित्रकः( चीता) वृकः

कुकुराकारो हिंसकः पशुः ( भेड़िय )

( ४ )
१४ समन्तात् सर्वासु दिक्षु
" प्रभुत्वे स्वामिपेदे
" छत्रच्छायायाम् ममाधीनम्
" गलहस्तम्
१५ पुलकिततनुः प्रफुल्लशरीरः
" वाहिताः छलिताः
" कृत -ग्रहः यो नियमेनाग्निहोत्रं विदधाति, सः
" पशुम् गाम् ( इबनार्थं दुग्धाद् घृत- निष्पादनाय )
१६ हिम-“यते शैत्यं नाश्यते
" वल्लभ प्रियः
" स्तोकम्
१७ सचेलम् सवनम्
" निस्तब्धः
१८ समयः सतिश
" प्रवर्तते ..... च क्रिया न प्रवर्तन्तेघाणीचा - पि न प्रवर्तते
१६ पथ्यंकुरु भोजनेन हितं सम्पादय
२० ज्येष्ठ अगत् ज्येष्ठभ्रातुश्पलायनात्
" परुषतराणि कठोराणि
२१ स्व→→→→भव शृगालेष्वेव गत्वा निवस
" दारिद्रयोपहतः निर्धनतारूपेणदुःखेन दुःखितः
" अधिष्ठाने स्थान

( ५ )
२२ दासेरकेण उष्ट्रीशिशुना
" भव्यम्
" कलभानाम् दासेरकाणाम्
२३ अधिष्ठानोपवने समीपस्थे वने
" गाहमानानाम् भ्रमताम् ।
" निभृतः गुप्त
,, लम्फयित्वा कूर्दित्वा
२४ लागुडिकः लगुडधारी
, मृग":"भुक्ताः मृगमांसभोजिनः
२५ अपवाहितः दूरीकृतः
" भागिनेयः भगिनीसुतः
" दोषी चित्रकः
" रक्षपोलः लागुडिकःरदयंवस्तु पालयतीति)
२६ विश्रब्धः विश्वस्तः
" मनष्टः प्रधावितः
२७ फकटकः कुलीरकः
" अभिषिञ्चन् आर्द्धयन्
" माम मातुल ( सामान्यतः वयो वृद्धसम्बोधनम् )
" उपलक्षितम् अवबुद्धम्
" मायोपवेशनम् उपवासः
" उद्धरिष्यति बीजमात्रमपि नावशिष्टं स्थास्यति

( ६ )
२८ तात सामान्यतो वयोवृद्धसम्बोधनम्
,, नित्या। –ति नित्यं तथैवाहारवृत्या जीवति
,, ‘स्नेहसंभाषः स्नेहांलाषः
, निर्विण्णः खिनः
३० गृहमेधिनाम् गृहस्थानाम्
, अन’ नाच अन्नं गोधूमादि, पानंदुग्धादि,

चोध्यमाम्रादि, लेह्य' चटनी यदि प्रसिद्धम्

३१ देवगुरुकुतः ईश्वरगुरुकुतः
, कञ्चुकिनः राज्ञामन्तःपुरसेवकाः
३२ साथे "- "द्भवः स्वयूथाद नष्टत्योत्पन्नः ।
, मरकतसदृशानि हरितानि
,, दन्तमुशलयोः शुशलसदृशयोर्दन्तयोः
३३ पथ्याशीः क्षुधाविष्टः ?
,, पथ्यक्रिया द्वानिवृत्तिः
३४ अन्त्यां दशाम् मृत्युम्
, महती अवस्था अतिदुर्दशा
, स्वामिनः प्रसादस्य अद्य यावत् स्वामिना कृतायाः छुपायाः
३६ १३ मायोपजीविनः कपटिनः

॥ इति ।।

बालनीतिकथामाला

"https://sa.wikisource.org/w/index.php?title=बालनीतिकथामाला&oldid=155766" इत्यस्माद् पुनः प्राप्तिः