बिल्हणकाव्यम्
बिल्हणः
१९१६

बिहणकाव्यम् । काश्मीरकबिलणकविराजविरचित बिहणकाव्यम्। ध्यात्वा गणेशमखिलागमसारभूतं. श्रीशारदा सुरनमस्कृतपादपद्माम् । किंचित्स्वकीयमतिसंस्फुरितेन नव्यं काव्यं करोमि विदुषां सुखबोधनार्थम् ॥ १ ॥ स्वर्गावनी विमलमण्डलखण्डतुल्ये भूमण्डले महिलपत्तननामधेये बाराङ्गगुर्जरजनैः परिसेव्यमाने भोगी बभूव नृपतिः किल वीरसिंहः ॥ २ ॥ चत्वार एव निजधर्मरताः सदैव वर्णाश्च यस्य नगरे रजनीकरस्य । चञ्चद्गवाक्षपथि वीक्षणदृश्यवक्त्रै र्बिम्बोदयं प्रकटयन्ति दिनेऽपि नार्यः ॥ ३ ॥ यो वैरिवीरवरवारणदसिंहो विद्याविनोदविविधाभिरसः कलावान् । गाम्भीर्यधैर्यगुरुदानगुणैः स लोकं पाति स्म चीरनृपतिर्निजराजधर्मैः ॥ ४ ॥ इत्थं नृपेण रजनीकरवक्त्रबिम्बा राज्ञोऽप्यवन्तिनृपतेरतुलस्य पुत्री पाणिग्रहेण विधिना विहिता सुनारी मुख्या बभूव सकलासु वराङ्गनासु ।। ५ ।। कालक्रमेण विमला कमलासमाना चन्द्राननां नयननिर्जितपद्मपत्राम् । चन्द्रोदयेऽथ नृपतेः किल पट्टराज्ञी जज्ञे कलां शशिकलामिति सत्यनाम्नीम् ॥ ६ ॥ काव्यमाला। सा वर्धते शशिकला शशिनः कलेव राज्ञो विशिष्टतनया ह्यधिकैकमान्या अल्पैर्दिनैः कतिपयैरपि राजधानी मागत्य वाक्यसुधया जनकं तुतोष ॥ ७॥ तां वीक्ष्य चारुवदनां चतुराननस्य वाचामिव प्रचुरचञ्चुरबुद्धिशीलाम् । बालामबालगुरुरूपवतीं नरेश- श्चिन्तां चकार तनयाध्ययनाय नित्यम् ॥ ८॥ राजीवपत्रनयना नरराजकन्या यल्लीलयापि वचनं मधुरं बभाषे तद्वीरसिंहनृपतेरमृतोपमानं चित्ते बभूव सुखदायि दिवा निशायाम् ॥ ९ ॥ इत्थं नृवीरनृपवीरनरेशचित्ते नित्यं चकार कविराजपदानि कन्या तातस्तदीयगुणगौरवगाढचित्त- श्चिन्तां चकार सुतरां गुणिनं ददर्श ॥ १० ॥ श्रीराजहंसनमितेन पुरोहितेन राज्ञे निवेद्य विजिताखिलतत्कथेन । काश्मीरकः कविरसौ गुणिनं दिदृक्षु- स्त्वामागतः क्षितिप बिह्लणनामधेयः ।। ११ ।। मुक्तेन्दुकुन्दकुसुमस्फटिकावादाता सर्वामरेन्द्रभुजगेन्द्रनरेन्द्रवन्द्या मन्त्रार्थतन्त्रजननी जननी श्रुतीनां श्रीशारदास्ति विषयं तत आगतोऽयम् ॥ १२ ॥ कृत्वा नतिं विषयपूर्वमथाशिषं तां जग्राह वीरनृपतिः कविराजतोऽपि बिहण काव्यम् । १४५ मायाप्रपञ्चजगदर्णवभीतभीतः सिद्धोपदेशमिव धर्मपरश्च लोकः ॥ १३ ॥ पृष्ट्वा समस्तकुशलं कुलदेवताया आदिष्टवान्निजपुरोहितमस्य तृप्त्यै यद्रोचते सुकवये पुरतः प्रभूतं भोज्याम्बरादि विततार यथोपदिष्टम् ॥ १४ ॥ तस्मै विहस्य कविराजमथ क्षितीश- प्रीत्या सुताध्ययनकारककोविदार्थी । दत्त्वा निकाममुदिताय मनोरथश्रीः श्रीवीरसिंहनृपतिर्मुदमाससाद ॥ १५ ॥ स्नानानुलेपनमनोरमभोजनानि दिव्याम्बराणि बहुमानपुरःसराणि काश्मीरको कविवरोऽथ निशम्य रात्रौ प्रातः पुरोहितयुतो नृपतिं ददर्श ।। १६ ॥ सद्यः प्रबन्धविधिना गुरुणा कवित्वं यद्रम्यपद्यरचनामधुना कवीन्द्रः । विद्यापगागहनवासपयोनिधित्वं धीरं तुतोष स यथा न तथान्य एव ॥ १७ ॥ एवं विलोक्य लसितार्थपदं कवीन्द्र- मामन्त्र्य तत्र तनयां कवये निवेद्य । अध्यापय प्रमुदितो भगवन्निमां त्वं कृत्वा प्रसादमथ चन्द्रकलामुवाच ॥ १८॥ उन्निद्रबुद्धिकुसुमः कविशेखरोऽयं काश्मीरकः शशिकले कुरु पादपूजाम् । क्रीडां विहाय शुकसारिगता सखीनां शास्त्रं गृहाण वचनं कविबिह्लणस्य ॥ १९ ॥ १. कवये द्रविणं कवीश' इत्यपरपुस्तकस्थः पाठः, काव्यमाला राज्ञा विमृश्य गुणिनो गुरुभावभक्तिं व्यक्ताक्षरक्रमवतीमपि राजपुत्रिम् । दृष्ट्वा व्यपाठयदतिप्रयतः कवीन्द्रः स्तोकैर्दिनैः शशिकला विदुषी बभूव ॥२०॥ सा प्राकृतानि विमलानि च संस्कृतानि शास्त्राण्यधीत्य किल चन्द्रकला सुशीला श्रीविह्लणं निजगुरुं प्रणिपत्य साक्षा- त्तं हर्षयां नृपतिमास सरस्वतीं च ।॥२१ तस्या गृहे प्रवरकुङ्कुमपुष्पवासि- कर्पूरगौरसरसागरुचन्दनाढ्ये । शृङ्गारसारगहनं किल कामशास्त्र- मध्यापयत्यमलचन्द्रकला कदाचित् ॥ २२ विज्ञातमन्मथकला सरमाणविद्धा तस्यान्यजन्मरमणी नरनाथपुत्री। भाव्यर्थभावितमनोभवतुल्यकान्ता कान्ते रसान्विदधति स्म दृशोर्विकारान् ॥ २३ ॥ प्रेमादरात्तरलितेन विलोचनेन वक्रेण चारुहसितेन सुधाधरेण । १., एतत्पूर्वमियापाठोऽपरपुस्तकेऽधिक उपलभ्यते----- 'सेनापतिः स्वयमभाषत वीरसिंह हे नार्यक त्वरय सांप्रतमेव रम्यम् । सप्तावनि सितगृहं सपरिच्छदं वै अध्यापनाय च शशाङ्ककलार्थमस्ति । श्रुत्वा तदेति सुकृतं किल तत्कृतेन भोज्यानि तत्र वसनानि तथासनानि । यानानि कानि विविधा वरमुख्यसख्यो यत्प्रार्थितं स्वभुजसंनिहितं च चक्रे ज्ञात्वेति वीरनृपतिः स्वमुतां करेण धृत्वा कवेरथ समर्प्य शिरो ननाम । भूयः पुरोहितमथ स्वजनो न वा सर्वे भवन्तु सुखिनो हिमवाससश्च ।' २. एतत्पूर्व मियान्पाठोऽपरपुस्तकेऽधिक उपलभ्यते-- 'इत्थं विलोक्य सुकविः पटती सुबालामन्तःपुरे जवनिकान्तरसंस्थितां ताम् । भारज्वराकुलितमानस एक्सूचे मत्वात्मनः सुसदृशी कविनां खभावः ।। बिह्वणकाव्यम् ईषद्विजृम्भितकुचद्वितयेन बालो विद्वांसमाशु वशिनं च वशीचकार ।। २४ श्रीपद्मपत्रनयनां वरपद्महस्तां पद्मप्रकृष्टचरणां शुचिपद्मगन्धां तां पद्मिनीमिव सुपद्मनिकेतनां च मेने कविः शशिकलामिव कामवल्लीम् ॥ २५ ॥ सा प्राह तं कविमवेक्ष्य मनोऽनुरागं खामिन्द्वयं भवति सर्वजनानुशान्त्यै । तत्त्वं शिवस्य शिवदायि च कामतत्त्वं त्वं संप्रति स्मरगुरुः स्मरयोग्यमत्र ॥ २६ ॥ इत्युक्त एव विजने स विचार्य सर्वं गान्धर्वराजविधिना जगृहेऽथ पाणिम् । कामी युवा स्मरकलाकुशला च बाला दैवात्तयोरघटितं घटितं बभूव ॥ २७ ॥ सा कामशास्त्रविधिना किल कामकेली- लीलाविलासनिलयं चकमे कवीशम् । अन्योन्यनूतनसुयौवनमोहितां च वाक्यैः सुधारससमैः स ररञ्ज बालाम् ॥ २८ ॥ राजप्रियोऽपि विविधागमपारगोऽपि भुङ्क्ते स गूढचरितो नरराजपुत्रीम् । जातं सुजन्म विफलं भुवने नलिन्या दृष्टं यया न विसलं तुहिनांशुबिम्बम् । यावच्छ्रुतं सुवचनं सुकवेस्वयेत्थं किंचिद्विहस्य तुहिनांशुकला बभाषे ।। हृष्टानि कोकमिथुनानि भवन्ति यैश्च सूर्यांशुभिर्जगदिदं निखिलार्थमेति । संपूर्णतापि शेशिनश्च हि निष्फलैव दृष्टा यया न नलिनी परिपूर्णरूपा ।। इत्थं निशम्य सुकविः सुवचोऽबलायाः प्रोवाच कामवशगः शृणु चन्द्रलेखे मध्येऽत्र किं जवनिका कुरुषे तदा वा हारीकुरुष्व तदिदं दयितेन्तरे नौ ।। तस्याज्ञया जवनिकां शिथिलीविधाय वक्रं विलोक्य सुकनयनाभिरामम् । तस्थौ प्रणम्य शिरसा दधती कठाक्षस्नेहालसाद्रनयनैः कटिदत्तहस्ता ॥ काव्यमाला। शास्त्रोदितान्यनुदितानि च मोहनानि पश्यन्नहर्निशमतीव निगूढचेताः ॥ २९ ॥ प्राह प्रियां स कविरेव मम प्रियेति सा तं कविं कथयति स्म मम प्रियस्त्वम् । पृच्छाम्यहं यदि पुनः कथयोत्तरं मे त्वं चापि मे कथय नाथ कवीशमुख्य ॥ ३० अङ्गणं तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरेः । उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥ ३१ ॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ३२ ॥ पूर्णेन्दुबिम्बसदृशं च नृपात्मजास्य मानम्य विद्रुमलतामिव चुम्बनाय । कामप्रियव्रतनिवेदनयाभिधाना मालिङ्गनं सपुलकं प्रथमं चकार ॥ ३३ ॥ नीवीनिबन्धनविधानविमोचनाय नाभिप्रदेशनिहितः कविना प्रकोष्ठः कन्दर्पमन्दिरनिधानहरः करोऽस्य रुद्धः स तस्कर इव क्षितिराजपुत्र्या ।। ३४ ॥ आलिङ्ग्य गाढमबलामुपनीय शय्या- मारोप्य वक्षसि रदेन निपीड्य चोष्ठम् सोऽङ्गुष्ठकेन चरणाप्रभवेन वस्त्र- माकृष्य चाकुलतया सुरतं चकार ॥ ३५ ॥ चन्द्रानना सुरतकेलिगृहीतवस्त्रा नेत्रे निरुध्य च करद्वितयेन तस्य आरोप्य मञ्जुशयने पुरुषायमाना सानन्दयत्कविवरं गुणसर्जनेन ।। ३६ ।। बिहणकाव्यम् सुकोमला चन्द्रमुखी च बाला प्रियं वदन्ती मधुरा च वाणी ! कृशोदरी गौरविशालनेत्रा ददातु मे शं किल जन्मजन्मनि ।। ३७ ॥ पद्मानना चकितबालकुरङ्गनेत्रा मत्तेभकुम्भयुगलस्तनभारनम्रा । काश्मीरकेण किल संपुटित्ताभिधेन बोभुज्यते स्मररणे नरराजपुत्री ॥ ३८ ॥ चञ्चत्प्रवालरुचिरारुणदन्तवासा. दन्तप्रभाविजितहारकदम्बशोभा । संतुष्यते तदनु पीडितकेन नाम्ना कान्तेन कान्तिकरणेन नरेन्द्रपुत्री ॥ ३९ ॥ चूतप्रवालकरपल्लवकेलिरम्या. वामाङ्गना सुगतिनिर्जितराजहंसी। पद्मासनाद्यकरणैश्च मनोविनोदा संगम्यते सुकविना क्षितिपालपुत्री ॥ ४० ॥ उद्यन्मृगेन्द्रतनुमध्यरुषा परागी सर्वाङ्गदत्तसुमना सुभगा सुशीला सा सिद्धतामुपगता नरराजपुत्री स्त्रीनैपुणं सुकविना यदि शिक्षितत्वात् ।। ४१ ।। दोलागतेन करणेन कवीश्वरस्य सा रम्यते रतिकलाकुशलाः निशीथे। सौन्दर्यरूपगुणगौरवमत्र सर्वं तस्मै समर्पितमहो गुरुदक्षिणार्थम् ॥ ४२ ॥ उन्निद्रचम्पकविशुद्धसुवर्णवर्णा कर्णान्तगस्मरसरोरुहचारुनेत्रा. रंरम्यते सुरतनागरिकेण नाना श्रीविह्लणेन कविना नरपालपुत्री ॥ १३ ॥ नक गु०-१४ काव्यमाला। तद्धामसूचितमनगरसप्रसाद- चाटूक्तितत्क्षणवियोगसुदुःसहं च । प्रेम प्रबद्धमितरेतरमप्रमेयं कामं तयोरतनुमेयतरं बभूव ॥ ४४ ॥ उत्तुङ्गपीवरघनस्तनमण्डनेन बिम्बाधरेण रमणद्विजखण्डितेन । अङ्गेन कान्तपरिदत्तनखव्रणेन शुद्धान्तरक्षिभिरलक्षि परोपमुक्ता ॥ ४५ ॥ आः कस्य सांप्रतमहो कुपितो विधाता कृत्वेति ते हृदि ततः प्रणिपत्य भूपम् । देवाभयं शशिकला पुरुषोपभुक्ता सत्याय ते स गुरुरीक्षित एव नूनम् ॥ ४६॥ रक्षाजनेन कविनामनिवेदितेन भूयो बभूव किल दोलितचित्तवृत्तिः । किं सत्यमस्ति कथितं वितथं तु किंवा जीवप्रियं द्वितयमेव कविः सुता मे ॥ ४७॥ विद्यानवप्रयतमन्मथचाटुवाक्यैः कन्दर्पकेलिकुपितां नरराजपुत्रीम् । पुष्पेषुबाणमधुरीकृतमानसोऽयं कामी प्रसादयति चन्द्रकलां यथेष्टम् ॥ ४८.।। यावत्प्रसादललितां नृप आहृताङ्क त्वं का प्रसादयसि दुष्टचरित्रभावैः. श्रुत्वेति लक्षचरितो नृप चौर्यगुत्यै कामी दृशं निजकरेण ममर्द शीघ्रम् ॥ ४९ ॥ उत्थाय संमुखगतोऽक्षिशिरोवगुप्तं तं प्राह धीरमनसा नृपतिः सचक्षुः । १५३ बिइणकाव्यम् । कान्तापि तापयति यः कुपितो जनोऽयं येन प्रसादयति देव विचारयार्थम् ॥ ५० ॥ वित्ता प्रिया च वचनं कथितं निशम्य वातोद्धतेक सहसा कदली चकम्प । तूष्णींचकार रममाणनिरीक्ष्यमाणां ताम्बूलशोभितकरापि वराङ्गनाभिः ॥ ५१ ।। श्रेयो वरं मयि न जीवितनाथ नाथ त्वं किं परित्यजसि मामकृतापराधान् सूक्ष्मा च धर्मगतिरस्ति विचारय त्वं जीवामि किं रमण ते विरहान्मुहूर्तम् ॥ ५२ ॥ सौदामिनी भवति किं जलदे प्रवाते चास्तं गते शशिनि तिष्ठति चन्द्रिका किम् । हे जीवितेश रतिदायक कामराज जीवामि न क्षणमदर्शनतस्तवाहम् ।। ५३ ।। बाले त्वमेव शरणं मरणेऽपि भूया- न्मृत्युर्भविष्यति जनस्य च मादृशस्त्र । भूयाद्विपत्तिरिह राजसुतानिमित्ते धर्मस्तदेति सुहृदं हृदयं चकार ।। ५४ ॥ निर्वासनं स्वनगरात्वरपृष्ठयानं नाशं करस्य वधबन्धनकं समस्तम् । अङ्गीचकार कुसुमेषुनिपीडिताङ्गः काश्मीरको नृपसुतारमणानुगूढः ।। ५५ ।। १. एतत्पूर्वमियान्याठोऽपरपुस्तकेऽधिकं उपलभ्यते - "काव्यं कवेरिति निशम्य निरीक्ष्य चक्षुरर्थे विचार्य.... परि प्रतीतः । श्रीभारतीविषयवासंबिलासलीलां कान्तिं जगाम स नृपः क्षमये तत्त्व ।। पुत्री नृपस्य नरनाथमथ प्रणम्य प्रोवाच गद्गदवचः शणु ...... तत्त्वम् । विद्याधिको मम गुरुगुणवत्सु भाति तं वीक्षितुं गुणवतामपि चित्तवृत्तिः । भूपे गतेऽथ वदतीन्दुकलां सुभीतां कान्ते ममाप्युभयथा कुशलं दुरापम् । मृत्युस्त्वदीयविरहाद्यदि यामि देशं नाशस्तवात्र यदि वक्ति पिता तथैव ॥ काव्यमाला। खेदं न याति दधति स्वजने न लज्जां ये स्त्रीरताः किल भवन्ति नरा विमूढाः । सत्यां सती परममूर्तिमतीव गङ्गां वामाङ्ग एव वहति त्वशिवः शिवोऽपि ।। ५६ ॥ अङ्गी विधाय स शिवं च शिवेवरं च काश्मीरकः शशिकला रमते तथैव । भूयः कविः कतिपयेषु दिनेषु दूती- वक्त्रेण तेन गदितश्च पुरोहितेन ॥ १७ ॥ अलमतिचपलत्वात्स्वममायोपमत्वा- त्परिणतिविरसत्वात्संगमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोकयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा के वा न सन्ति भुवि वारिधरावतंसा हंसावलीवलयिनो जलसंनिवेशाः। किं चातकः फलमवेक्ष्य स वज्रधारां पौरंदरीं कलयते नववारिधाराम् ॥ ५९ ॥ श्रुत्वा कवीन्द्रवचनं नृपपूज्यविप्रो राजान्तिकं पुनरगाच्छ्रुसर्ववृत्तः । संप्राप्य भूपमितरेषु जनेष्वसत्सु ह्यूचे मनोगतवचश्च पुरः पुरोधाः ॥ ६ ॥ श्रीवीरसिंह नृपवीर विपक्षवीर- मत्तेभसिंह नरसिंह नरेन्द्रसिंह । वैदेशिकः स्वकुललाञ्छनतां विधत्ते तद्वीक्ष्य किं क्षमसि किं श्रुतमेव नास्ति ।। ६१ ।। वंशार्चितेन कथिते वचने नृवीरो जज्वाल वह्निरिव वातविवृद्धवेगः आनीय तद्गृहसखीश्चरितं च पृष्ट्वा ताभ्यः समस्तमपि भूपतिराससाद ।। ६२ ।। बिहणकाव्यम् । ज्ञात्वा स्वयं सकलमर्थमनर्थमूलं प्रोवाच रोषवशगः शुभमन्त्रिणस्तान् । चौरस्य किं भवति मन्त्रिभिरेवमुक्तं शूलाधिरोहणमिति क्रियतां च तस्य ।। ६३ ।। भूपाज्ञया सपदि वर्षधरैर्विगाढं तं नीयमानमुपलक्ष्य जनस्त्ववोचत् । चौरः किमेष सुकविः प्रभुरत्नहारी लोकोक्तिरेवमभवन्नगरे समस्ते ।। ६४ ॥ द्वारस्थितामथ निरीक्ष्य नरेन्द्रपुत्री नेत्रच्छटा प्रदधतीं स उवाच कान्ताम् । बालेऽधुना सुरवधूरमणाय यामि तन्नागमिष्यति पुनः कविबिह्लणस्त्वाम् ॥ ६५ ॥ नार्यो नरेन्द्रतनयागुरुवीक्षणार्थं कुर्वन्त्यतीव गमने सविलासलीलाम् । काचित्करेण दधती परिधानवस्त्रं काचिद्विमुञ्चति करादपि कञ्चुकीं च ।। ६६ ।। योषिन्निजोष्ठगतरक्तिमवीक्षणार्थ- मादर्शमेव दधती स्वकरेण चान्या । काप्यङ्गनार्धगुफितां कबरीं करेण पीनोन्नतस्तनतटे त्वरितां विधाय ।। ६७ ॥ एकं विधायजतुरङ्गविरञ्जितं च पादं द्वितीयमपरा परिहाय यान्ती । आनञ्च नेत्रमपरा न सुकज्जलेन तदर्शने गतमना हि ययौ गवाक्षम् ॥ ६८ ॥ तद्दर्शनाय विविधा द्विजराजयस्ता नानाविधाश्च विबुधा अपि बाहुजाश्च । काव्यमाला वैश्याश्च सेवकजना नृपसेवकाश्चे- त्यन्ये प्रदुद्रुरिति गोविधिरेवमुक्त्वा ।। ६९ ।। ताम्बूलमेव द्धती खकरण कापि हारावलीमधृत तत्र परा कृशाङ्गी आलिज्य बाहुलतया स्वसखीं च कण्ठे योषित्प्रगच्छति गवाक्षपथं सलीलम् ॥ ७० ॥ कामी स चापि नरराजनिदेशतस्तै- र्वध्यावनीं प्रतिगुणैरभिनीयमानः । दृष्टो जनैः सकरुणं सुवराङ्गनाभि- रुक्तं तदा शिव शिवेति विमोचयैनम् ॥ ७१ ॥ वध्यावनीमथ निरोपितशूलरौद्रां नीत्वा कविं तु वधकाः कथयांबभूवुः । स्नानं विधेहि परिचिन्तय देवमाद्य- मन्ते मतिर्भवति या सुकवे गतिः सा ॥ ७२ ।। संसारदुस्तरपयोनिधितारणाय ध्यायन्ति यं विविधयोगरता मुनीन्द्राः । यः सर्वलोकहृदयाम्बुजकोशहंस- स्तं सर्वगं स्मर सदैव विमुक्तिहेतुम् ।। ७३ ।। लोकोक्तिषु स्थितवतीषु जनेषु सत्सु तामेव पश्यति पुरोऽपि च पृष्ठतोऽपि चित्ते स्थितामथ नरेशसुतां विचिन्त्य ह्यद्यापि तामिह हि वेद्मि न देवमाद्यम् ।। ७४॥ अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां नवरोमराजीम् । १. अस्माभिः प्राप्तेषु त्रिषु पुस्तकेषु एकस्मिन्पुस्तके 'इति बिह्लणकविविरचितं नव्यं स्वकथासंवलितं पूर्वचतुःसप्तत्यपरनामकं लघुकाव्यं समाप्तम् इत्युपलभ्यते, प्राचीनयोरित- रयोर्नेति. बिह्लणकाव्यम् सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्या प्रमादगलितामिव चिन्तयामि ।। ७५ ॥ अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकपाण्डुरमध्यदेशम् ईषन्मदालसविधूर्णितदृष्टिपातं कान्तामुखे पथि मया सह गच्छतीं च ।। ७६ ॥ अद्यापि तत्कनककुण्डलघृष्टगण्ड- मास्यं स्मरामि विपरीतरताभियोगे। आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥७७॥ अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनी पुनरहं यदि गौरकान्तिम् । पश्यामि मन्मथशरासनपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ।। ७८ अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या जीवेति मङ्गलवचः परिहृत्य कोपा- त्कर्णेकृतं कनकपत्रमनालपन्त्या ॥ ७९ ॥ अद्यापि तां मकरकेतुशरातुराङ्गी- मुत्तुङ्गपीवरपयोधरभारखिन्नाम् । संपीड्य बाहुयुगलेन पिबामि वक्त्रं प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ८० ।। अद्यापि तां कुटिलकोमलकालकेशी- मुन्निद्रतामरसपत्र विशालनेत्राम् । प्रोत्तुङ्गपीवरकठोरपयोधराव्या ध्यायामि चेतसि यथैव गुरूपदेशस् ॥ ८१ ।। काव्यमाला। अद्यापि तद्विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविलोलविलोचनान्तम् । तस्या मुखं मयि मनागपि विस्मरामि चित्तात्कृतज्ञ इव हन्त कृतोपकारम् ।। ८२ ॥ अद्यापि तत्सरलमञ्जुलतुङ्गभासं किंचित्स्मितोच्छ्वसितपाण्डुरगण्डभागम् । पश्यामि पूर्णशरदिन्दुसमानकान्ति कान्ताननं विकचपङ्कजपत्रनेत्रम् ।। ८३ ।। अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् । कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि ।। ८४ ।। अद्यापि तां झटिति वक्रितकन्धरायां न्यस्तैकपाणिकमलां स्वनितम्बबिम्बे । वामांसपृष्ठलुलदुज्ज्वलकेशपाशं पश्यामि मां प्रति दृशा बहुशः क्षिपन्तीम् ।। ८६ ॥ अद्यापि मामवगणथ्य कृतापराधं मां पादमूलपतितं सहसा चलन्तीम् । वस्त्राञ्चलं मम करानिजमाक्षिपन्ती मामेति रोषपरुषं वदतीं स्मरामि ॥ ८६ ।। अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागाम् । अम्लानकोमलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ।। ८७ ।। अद्यापि तल्लुलितनादनिमीलिताक्ष- मास्यं स्मरामि सुतरां सुरतावसाने । तत्कालनिःश्वसितनिह्नुतकान्तकान्ति स्वेदाम्बुविन्दु परिपाण्डुरितं प्रियायाः ।। ८८ ॥ बिल्हणकाव्यम् । अद्यापि तां मयि कृतागसि धृष्टभावं संभावयत्यपि मुहुर्निगृहीतवाचम् । अन्तर्निरुद्धगुरुकोपसबाष्पकण्ठी निःश्वासशुष्यदधरां रुदतीं स्मरामि ।। ८९ ।। अद्यापि तां समपनीतनितम्बवस्त्रा पश्यामि मन्मथशासनविह्वलाङ्गीम् । एकेन गुह्यनिहितेन करेण पाणि- मन्येन नाभिकुहरावतारयन्तीम् ।। ९० ॥ अद्यापि तां रहसि दर्पणमीक्षमाणां संक्रान्तमत्प्रतिनिधिं मयि पृष्टलीनाम् पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च दयितां च सविभ्रमां च ॥ ९१ ।। अद्यापि तां सुरभिदुर्धरगन्धलोलं धावन्तमास्यमनिशं गतिचञ्चरीकम् । किंचिच्चकोररुचिकुञ्चितचारुनेत्रां पश्यामि केलिकमलेन निवारयन्तीम् ।। ९२ ।। अद्यापि तामितरतश्च पुरश्च पश्चा- दन्तर्बहिः परित एव परिभ्रमन्तीम् । पश्यामि फुल्लकनकाम्बुजसंनिभेन वक्रेण चारुपरिवर्तितलोचनेन ॥ ९३ ॥ अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि । तस्याः स्मरत्तरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥ ९४ ॥ अद्यापि तां मयि कपाटसमीपलीने मन्मार्गमुक्तदृशमाननदत्तहस्ताम् । काव्यमाला। मद्भावचिह्नितपदं मृदुकाकलीभिः किंचिद्विमानमनिशं मनसि स्मरामि ।। ९५ ।। अद्यापि तत्तरलतास्तताक्षमास्य- मालिप्तचन्दनरसाहितपाण्डुकान्ति । कस्तूरिकाकुटिलपत्रलताभिरामं गण्डस्थलं हृदि गतं स्थिरयामि तस्याः ॥ ९६ ॥ अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्भया दशनवाससि खण्ड्यमाने तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्तवदनं स्मरामि ।। ९७ ॥ अद्यापि तानि ममचेतसि विस्फुरन्ति बिम्बोष्ठमष्टपरिकीर्णशुचिस्मितानि । पीयूषपूरमधुराणि त्त्वदुत्तराणि वाक्यानि मन्मथभवानि मृदूनि यस्याः ॥ २८ ॥ अद्यापि तो कनकपत्रसनाथकर्णा- मुत्तुङ्गकर्कशकुचार्षिततारहाराम् । काञ्चीनिपुञ्जितविशालनितम्बनिन्बा- मुद्दामनपुररणच्चरणां स्मरामि ।। ९९ ॥ अद्यापि तां भुजलतार्पितकण्ठमाशां वक्षस्थलं मम पिधाय पयोधराभ्याम् । ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मद्वनमुक्तमदं पिबन्तीम् ।। १०० ॥ अद्यापि तानि परिवर्तितकन्धराणि किंचित् क्षुतत्रुटितकञ्चुकजालकानि । तस्या भुजाग्रलुलदुद्बलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥ १०१ ॥ बिह्लणकाव्यम् । अद्यापि तत्परिवेषशशिप्रकाश- मास्यं स्मरामि जडगात्र विवर्तनेषु तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ दोःकन्दलीयुगलकं दयितं प्रियायाः ।। १०२ ।। अद्यापि तामनुनत्यपि मय्यसक्तां व्यावृत्तकेलिशयने शयतीं पराचीम् । निद्राकुलामिव ममाभिमुखीमवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥ १०३ ।। अद्यापि तां स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि । आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं वनिभृतं मुमुहुः शशाङ्गीम् (1) ॥ १०४ ॥ अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानाम् । ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रितवतीमधिकं स्मरामि॥ १०५॥ अद्यापि तामरुणयत्यरुणेन्तरिक्ष- मापृच्छमानमपि नाम विधारयन्तीम् उत्थाप्य निश्चदृशौ मम निःश्वसन्ती चिन्ताकुलां किमपि नम्रमुखीं स्मरामि।। १०६ ।। अद्यापि तां जघनदर्शनलालसेन क्रान्तं मया इव(१)समाञ्चलमेव पश्चात् । पूर्वोक्तितामपरतो बहुशः क्षिपन्तीं मन्दाक्षरं(१)कुचितसर्वतनुं स्मरामि ।। १०७ ।। अद्यापि तां सुनिभृतं पदमापतन्तं मां द्वारि वीक्ष्य सहसैव निषण्णसुप्ताम् । काव्यमाला । मन्दं मयि स्पृशति कण्टकिताङ्गयष्टि- मुत्फुल्लगण्डफलकां बहुशः स्मरामि ॥ १०८ ॥ अद्यापि तां प्रथममेव गतां विरामं निर्भर्त्स्य रोषपरुषैर्वचनैर्मुहुर्माम् । आन्दोलितोद्धतनितम्बसहायवृत्त्या संचिन्तयामि हृदयं सुदतीममीक्ष्णम् ।। १०९ ॥ अद्यापि तां विलुलिताकुलकेशपाशां किंचित्समुन्मिषितपूर्णितजिह्मनेत्राम् सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्गं पश्यामि चारुमधरं बहुशः स्मरन्तीम् ॥ ११० ॥ अद्यापि तां सुवदनां वलभीनिषण्णां तद्गेहसन्मुखमहो खलु दृष्टमत्र । मर्मोत्तरं प्रियसखीषु कृतस्मितासु लजां विलक्ष्य हसितां हृदि चिन्तयामि ॥ १११॥ अद्यापि तामनुनयत्यपि चाटु पूर्वं कोपात्पराकृतमुखीं मयि सापराधे । आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेति शेषपरुषे ब्रुवतीं स्मरामि ।। ११२ ॥ अद्यापि तामुषसि तत्क्षणविप्रबुद्धां निद्रालसां हृदि वहामि शताङ्गभङ्गाम् । जृम्भाविदीर्णमुखमारुतगन्धलब्ध- मुग्धश्रमद्भ्रमरविक्रमलोलपत्रम् ॥ ११३ ॥ अद्यापि तां प्रथमसंगमजातलज्जां नीव्यां स्पृशत्यपि करे मम मन्दमन्दे । फूत्कारकम्पितशिखातरलं प्रदीप कर्णोत्पलेन निजिघांसुमहं स्मरामि ॥ ११४ ।। बिह्लणकाव्यम् । अद्यापि तां समुपगम्य मयावृताक्षीं कोऽयं वदेत्यभिहिता बहुशः सखीभिः मातर्न विद्य इति ससितमुल्लपन्ती- मुत्पन्नगलपुलकाकुलितां स्मरामि ।। ११५ ॥\

अद्यापि तां गतिनिराकृतराजहंसी धम्मिल्लनिर्जितमयूरकलापमाराम् । चक्षुःश्रिया हसितमत्तचकोरनेत्रां संचिन्तयामि कलकण्ठसमानकण्ठीम् ।। ११६ ।। अद्यापि तो मदनमन्दिरवैजयन्ती- मन्तर्मुखे मद्धरोष्ठदलं विधाय । अङ्गैरनङ्गविकलैर्मम गाढमङ्ग- मालिङ्गय केलिशयितां दयितां स्मरामि ॥ ११७ ।। अद्यापि तामुपवने परिवारयुक्तां संचिन्तयाम्युपगतां च महोत्सवाय । मां पार्श्वसंनिहितलोकभवात्सराङ्क: व्यावर्तितेक्षणमनुक्षणमीक्षमाणाम् ॥ ११८ ॥ अद्यापि तांमुरसिजद्वयमात्रमध्ये नश्यद्वलिंत्रितयलक्षितरोमराजिम् । ध्यायामि बलिगतभुजां विहिताङ्गभङ्ग व्याजेन नाभिकुहरं मम दर्शयन्तीम् ॥ ११९ ॥ अद्यापि तानि मृदुसारसुभाषितानि तिर्यविवृत्तनयनान्तनिरीक्षितानि । लीलारसाञ्चितगतानि सुविसितानि तस्याः स्मरामि हृदि विभ्रमचेष्टितानि ।। १२० ॥ अद्यापि तामसममीलितसाचिनेत्रां लोलद्भुजां वलयझंकृतिशब्दहस्ताम् । काव्यमाला वल्गत्कठोरकुचमुन्नमितद्भ्रुकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि ॥ १२१ ॥ अद्यापि तां करिसमर्पितवामपाणि- माकुश्चितैकचरणाग्रनिरुद्धभूमिम् । स्कन्धावलम्बितभुजां पथि मां व्रजन्तं पश्यामि बन्धुरितकन्धरमीक्षमाणाम् ॥ १२२ ।। अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरा स्मरद्धरकरां मधुरां सुताराम् । अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमग्रमदप्रसादाम् ॥ १२३ ॥ अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिभर्ति धरणीं खल पृष्ठसंज्ञाम् । अम्भोनिधिर्वहति दुःसहवाडवामि- मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १२४ ॥ इत्थं कविः सुजनमध्यगतो बिलासै- र्नीन्तैर्विधैश्च रमयन्नृपसेवकाग्रे ते प्रोचुराः कविवरेन्द्र तथा तवेय- मसन्मनांसि हरतेऽन्यजनस्य नूनम् ॥ १२५ ॥ त्वं विद्वन्गुरुरेव बाडवजनैः पूज्यः सतां सर्वदा किं कुर्मः कथयाम संप्रति वयं लज्जान्विताधॊमुखाः । राजाज्ञां न करोति पण्डितवराधीनो यतः सेवकः का कोप सहते पराभवपदं प्राप्नोति को मानवः ॥ १२६ ॥ भूपादेशकरास्तथा पुरजनाः शृण्वन्तु ते मद्वचः पारत्रैहिकमेव यच्च तदहं जाने पदं निर्मलम् । तद्रूपा नृपवीरभूपतिसुता सा मे हृदन्तःस्थिता बिल्हणकाव्यम् । उक्तस्तदा नृपजनैः सुजनैस्तथान्यैः भूयः कविः शशिकला हृदि चिन्तयित्वा निश्वस्य तां प्रति ततान सुरस्य वाक्या- त्त्यक्तो घृणां भयमपीह भविष्यमेतत् ॥ १२८ ॥ वेलाञ्चलं न्यस्य कुचाञ्चले मामालोकयन्ती नयनाञ्चलेन । इतो गता साध्वगता न जाने गेहं गता वा हृदयं गता मे॥ १२९ ॥ येऽमी कूर्चकवासकङ्कणरणत्कर्णाष्टसीमन्तिनी- हस्ताकर्षणविभ्रमे च सुहृदः प्राप्ताः परामुन्नतिम् । तेऽमी संप्रति यान्ति नायतभुजा मान्यन्निशान्तक्षुर!)- क्षुण्णाः क्षोगितलेपनानि पुरतः प्राप्तापराधा इव ॥ १३० ॥ भवत्कृते चाञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति पातु । नीतानि नाशं जनकात्मजायै दशाननेनापि दशाननानि ॥ १३१ ।। प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि विदिशि सा चोर्ध्वतः सा ह्यधः सा । हृद्यन्तः सा बहिरपि च सा नास्ति दृश्यं द्वितीयं सा सा सा सा त्रिभुवनगता तन्मयं विश्वमेतत् ॥ १३२ ॥ संगमविरहवितर्के वरमिह विरहो न संगमस्तस्याः सङ्गे सैव तथैका जगदिदं तन्मयं विरहे ॥ १३३ ।। हरिहरविधिमुख्या लोकपालाः समेता वच इह मम सर्वैः श्रूयतां साक्षिभिर्यत् । निवसति यदि चेष्टं भावनायां सुतथ्यं भवतु शशिकला यज्जन्मजन्मेऽपि जाया ।। १३४ ॥ मम यदि सुकृतं स्यात्पूर्वजन्मार्जितं चे- द्यदि सकलसुराणामर्चनं मेऽस्ति किंचित् । यजनहवनवेदाध्यासनं यन्ममास्ति तदपि शशिकला मे प्राणनाध्या तदास्त ॥ १.३५ ॥ काव्यमाला यदि भवति मतिर्या स्वान्तकाले गतिः सा यदि भवति वचो मे सत्यमस्तीति धर्मम् । मनसि वचसि काये यद्यहं जीवितं सा तदिह मु':"रामे चन्द्रलेखा प्रियास्तु ॥ १३६ इत्थं विज्ञाप्य देवेभ्यस्तूष्णीं तस्थौ कवीश्वरः । अत्रान्तरे चन्द्रलेखा चिन्तां चक्रे तदोचिताम् ॥ १३७ ।। दृष्ट्वा का शशिकला दृढपाशबद्धं तन्नीयमानमनुगैरवनीश्वरस्य । कर्तव्यमस्ति मम किं करवाणि किं वा हा हा चकार मनसेति विचारयन्ती ॥१३८॥ पुत्रस्तदेव जनकं परितोषयेद्यो मित्रं तदेव न जहाति सुखेऽतिदुःखे । भर्तारमेव परिगच्छति या तु नारी ह्येतत्रयं निगदितं स्मृतिशास्त्रसारन् ॥ १३९ ।। विद्युत्प्रगच्छति समं सहसाम्बुदेन चन्द्रं यथा कुमुदिनी वरकौमुदी च । प्राणेश्वरं समनुगच्छति वंशजा स्त्री वेदा वदन्ति इति से दृढनिश्चयोऽस्ति ॥ १४ ॥ इत्थं विचार्य हृदये मरणाय बुद्धि मुक्त्वा सुहर्म्यमवरुह्य सुसप्तभूमिम् । बद्धा दृढं नृपसुता परिधानवस्त्रं तस्थौ मनो निजगुरोश्च निराशयन्ती ॥ १४१ ॥ एतस्मिन्नन्तरे नार्यस्तदा तद्भुवमागताः । पराक्षेपेण धावन्त्यो कुर्वन्त्यश्चाश्रुपातनम् ।। १४२ ॥ सुतारान्तःपुरे ताश्च प्रविष्टाः साश्रुलोचनाः । विह्वला विश्वसत्यश्च त्राहि त्राहि पुनः युनः ।। १४३ ॥ बिह्लणकाव्यम् । त्राहि त्वं मरणात्सुदेवि तनयामारुह्य हर्म्यं महा- नसमाकं ननु बिन्दुपातनमपि श्रोष्यत्ययं नैव सा । कृत्वा द्वारसुयन्त्रितं दृढतरं बद्धा च वाचः स्वकं प्रासादादवनौ पतिप्यति ध्रुवं दृष्ट्वा हतं सद्गुरुम् ॥ १४४ ॥ या नार्यः समुपागता द्विजवरं द्रष्टुं समेत्याथ ताः शोकादात्मभुवो यथा सुवचनैः संपीडिताः सत्कवेः संचिन्त्याशु गता नृवीरनृपतेरन्तःपुरं सुप्रभं विज्ञाता महिषी तदेव वचनं सख्याः समक्षं तदा ।। १४५ ।। स्त्रीणां वाक्यं तदा श्रुत्वा सत्यं सख्या उदाहृतम् । सुतारा विहलाङ्गी सा मूर्छिता पतिता भुवि ।। १४६ ॥ ततो भाजनवासेन श्वसिता स्त्रीजनैः समम् । उत्थाय बोधिता चेत्थं शीघ्रं विज्ञापयेश्वरम् ॥ १.४७ ।। ज्ञातं देवि यदद्य शोकयजनं विप्राय माधा भृशं भाव्यं तद्भविता स गोप्यवचनं धर्मस्तथा श्रूयताम् । पुत्री ब्रह्मवधे प्रणश्यति ध्रुवं लोकापवादं मह- ज्ज्ञात्वेत्थं नृपवीरसिंहनृपतिं विज्ञापयाशु स्फुटम् ॥ १४८ ॥ नरवर दुहिता ते मृत्युमेष्यत्यति दूरं कविवरनिहते सा सत्यमेतत्समक्षम् । द्वयमिह समुपेतं ब्रह्महत्या सुताया निगमजनविरुद्धं सर्वथा नैव कार्यम् ॥ १४९ ।। दुःखेन दीनवदना सुतायाश्चरितेन सा । मन्दं मन्दं तथोत्थाय निरुत्साहं गता नृपम् ॥ १५० ।। इत्थं निशम्य वचनं नृपपट्टराज्ञी क्षीणां वचः सुनयजं कलिकल्मषघ्नम् । गत्वा जगन्नृपवरं सहसाश्रुपूर्णा स्त्रीणां तदेव वचनं चरितं सुतायाः ॥ १५१ ।। १६ काव्यमाला। शृङ्गारिभिः सुगणिभिः सुरराजलोकै- रत्रान्तरे विनयमानपुरःसरं च । विज्ञप्तिरेव महती च पुनस्तदेव श्रीवीरसिंहनृपतेः कथयांबभूव ।। १५२ ।। तदामात्यादयः सर्वे पुरोहितसमं जनाः । श्रीनृवीर: नमस्कृत्य प्रोचुः प्राञ्जलयो वचः ।। १५३ ॥ स्त्रीहत्या ब्रह्महत्या द्वे त्याज्या सद्भिः सदा प्रभो । गर्हितं सर्वशास्त्रेषु जनाय वचनं महत् ॥ १५४ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगलमपि नश्यति यस्य हि भवितव्यता नास्ति ।। १५५ ।। अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्न बाधेरन्नलरामयुधिष्ठिराः ॥ १५६ ॥ तथा चोक्तं स्मृतौ- आततायिनमायान्तमपि वेदाङ्गपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १५७ ॥ पूर्वं कृतं सुकविना महता श्रुतं नः पाणिग्रहं वपुरविजते(?) पुरतः सखीनाम् । युक्तापराधमपि दैववशाच्च शङ्के राजन्निवारय मनो ह्यनयाच्च पापात् ।। १५८ ॥ एवं विचार्य बहुधा नृपवीरसिंहः पथ्यं वचस्तदनु धर्मवती च मेने । आदिष्टवान्वरकवेर्मरणे निषेधं तस्थौ तदागमनमेव निरीक्षमाणः ॥ १५९ ।। तं भूपतिः कविवरं च विमोचयित्वा दत्वा सतामपि वरिष्ठगणाय तसै ।

देशं तथा पुरशताधिकमेकरम्यं
 वासांसि हस्तितुरंगांश्च रथांश्च पत्तीन् ॥ १६० ॥
तां सुन्दरी च सकलाभरणान्वितां वै
 गावो महिष्यः(१) परिवारसमं सुदास्यः ।
यानानि भूपतिसमानसुखासनानि
 प्रादात्प्रभुः सुतनयां कवये मुदा यः ॥ १६१ ॥
इत्थं भूमिपतेः परात्परतरं लब्ध्वा प्रसादं परं
 काश्मीरः कविशेखरो मुदमगाच्छ्रीबिह्लणः सत्कविः
आदिष्टो नृपवीरसिंहप्रभुणा नेष्टं निजं मन्दिरं
 संप्राप्तो वरपञ्चशब्दनिनदैर्मार्गेऽतिथीन्पूजयन् ।। १६२ ॥
 तत्रैव रतः कविवरः सहजान्विकारा-
  न्नानाविधानभिमतान्सततं व्यनक्ति ।
   "शशाङ्ककञ्जया (१) च दिवा निशायां
  सापि प्रमोदमगमत्कविराजमेत्य ।। १६३ ॥
इति वरचरितं यः श्रीकवेर्बिह्लणस्य
 प्रपठति नियतं यः सावधानः शृणोति
भुवि अवनिपतीशैर्मान्यतां मानिनीभि-
 र्व्रजति हि परमन्ते शाश्वतं धाम मर्त्यः ॥ १६४ ॥
इति काश्मीरिकविबिह्लणविरचितं बिह्लणचरितापरनामके शचरितापरनामधेयं
  चन्द्रलेखासक्तिबिह्लणकाव्यम् ।



"https://sa.wikisource.org/w/index.php?title=बिल्हणकाव्यम्&oldid=309134" इत्यस्माद् प्रतिप्राप्तम्