बुद्धचरितम्/द्वादशः सर्गः
← एकादशः सर्गः | बुद्धचरितम् द्वादशः सर्गः अश्घोषविरचितम् |
त्रयोदशः सर्गः → |
ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः
अराडस्याश्रमं भेजे वपुषा पूरयन्निव ।। १२.१ ।।
स कालामसगोत्रेण तेनालोक्यैव दूरतः
उच्चैः स्वागतं इत्युक्तः समीपं उपजग्मिवान् ।। १२.२ ।।
तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परं
दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे (निषेदतुः निषीदतुः ) ।। १२.३ ।।
तं आसीनं नृपसुतं सोऽब्रवीन्मुनिसत्तमः
बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव ।। १२.४ ।।
विदितं मे यथा स्ॐय निष्क्रान्तो भवनादसि
छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ।। १२.५ ।।
सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव
यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलां इव ।। १२.६ ।।
नाश्चर्यं जीर्णवयसो यज्जग्मुः पार्थिवा वनं
अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टां इव स्रजं ।। १२.७ ।।
इदं मे मतं आश्चर्यं नवे वयसि यद्भवान्
अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे ।। १२.८ ।।
तद्विज्ञातुं इमं धर्मं परमं भाजनं भवान्
ज्ञान(प्लवं पूर्वं )अधिष्ठाय शीघ्रं दुःखार्णवं तर ।। १२.९ ।।
शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन (वर्ण्यते वर्तते ) ।।
गाम्भीर्याद्व्यवसायाच्च (न परीक्ष्यो सुपरीक्ष्यो )भवान्मम ।। १२.१० ।।
इति वाक्यं अराडस्य विज्ञाय स (नरर्षभः नराधिपः ) ।।
बभूव परमप्रीतः प्रोवाचोत्तरं एव च ।। १२.११ ।।
विरक्तस्यापि यदिदं स्ॐउख्यं भवतः परं
अकृतार्थोऽप्यनेनास्मि कृतार्थ इव संप्रति ।। १२.१२ ।।
दिदृक्षुरिव हि ज्योतिर् यियासुरिव दैशिकं
त्वद्(दर्शनं दर्शनाद्)अहं मन्ये तितीर्षुरिव च प्लवं ।। १२.१३ ।।
तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे
जरामरणरोगेभ्यो यथायं परिमुच्यते ।। १२.१४ ।।
इत्यराडः कुमारस्य माहात्म्यादेव चोदितः
संक्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयं ।। १२.१५ ।।
श्रूयतां अयं अस्माकं सिद्धान्तः शृण्वतां वर
यथा भवति संसारो यथा (चैव निवर्तते वै परिवर्तते ) ।। १२.१६ ।।
प्रकृतिश्च विकारश्च जन्म मृत्युर्जरैव च
तत्तावत्सत्त्वं इत्युक्तं स्थिरसत्त्व परेहि (तत्नः ) ।। १२.१७ ।।
तत्र तु (प्रकृतिं प्रकृतिर्)नाम विद्धि प्रकृतिकोविद
पञ्च भूतान्यहंकारं बुद्धिं अव्यक्तं एव च ।। १२.१८ ।।
विकार इति (बुध्यस्व बुद्धिं तु विषयानिन्द्रियाणि च
पाणिपादं च वादं च पायूपस्थं तथा मनः ।। १२.१९ ।।
अस्य क्षेत्रस्य विज्ञानाथ् क्षेत्रज्ञ इति संज्ञि च
क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः ।। १२.२० ।।
सशिष्यः कपिलश्चेह (प्रतिबुद्धिर्प्रतिबुद्ध )इति स्मृतिः
स(पुत्रोऽप्रतिबुद्धस्तु पुत्रः प्रतिबुद्धश्च प्रजापतिरिहोच्यते ।। १२.२१ ।।
जायते जीर्यते चैव (बाध्यते बुध्यते )म्रियते च यथ्
तद्व्यक्तं इति विज्ञेयं अव्यक्तं तु विपर्ययाथ् ।। १२.२२ ।।
अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः
स्थितोऽस्मिंस्त्रितये (जन्तुस्यस्तु तत्सत्त्वं (नातिवर्तते नाभिवर्तते ) ।। १२.२३ ।।
विप्रत्ययादहंकाराथ् संदेहादभिसंप्लवाथ्
अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः ।। १२.२४ ।।
तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते
अन्यथा कुरुते कार्यं मन्तव्यं मन्यतेऽन्यथा ।। १२.२५ ।।
ब्रवीम्यहं अहं वेद्मि गच्छाम्यहं अहं स्थितः
इतीहैवं अहंकारस्त्व् अनहंकार वर्तते ।। १२.२६ ।।
यस्तु (भावानसंदिग्धान्भावेन संदिग्धान् एकीभावेन पश्यति
मृत्पिण्डवदसंदेह संदेहः स इहोच्यते ।। १२.२७ ।।
य एवाहं स एवेदं मनो बुद्धिश्च कर्म च
यश्(चैवैष चैवं स )गणः सोऽहं इति यः सोऽभिसंप्लवः ।। १२.२८ ।।
अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः
प्रकृतीनां च यो वेद सोऽविशेष इति स्मृतः ।। १२.२९ ।।
नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः
अनुपाय इति प्राज्ञैर् उपायज्ञ प्रवेदितः ।। १२.३० ।।
सज्जते येन दुर्मेधा मनो(वाग्बुद्धिकर्मभिः वाक्कर्मबुद्धिभिः ) ।।
विषयेष्वनभिष्वङ्ग सोऽभिष्वङ्ग इति स्मृतः ।। १२.३१ ।।
ममेदं अहं अस्येति यद्दुःखं अभिमन्यते
विज्ञेयोऽभ्यवपातः स संसारे येन पात्यते ।। १२.३२ ।।
इत्य(विद्यां विद्या )हि (विद्वान्स विद्वांसः [??] पञ्च(पर्वां पर्वा )समीहते
तमो मोहं महामोहं तामिस्रद्वयं एव च ।। १२.३३ ।।
तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च
महामोहस्त्वसंमोह काम इत्य्(एव गम्यतां अवगम्यतां ) ।। १२.३४ ।।
यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि
तस्मादेष महाबाहो महामोह इति स्मृतः ।। १२.३५ ।।
तामिस्रं इति चाक्रोध क्रोधं एवाधिकुर्वते
विषादं चान्धतामिस्रं अविषाद प्रचक्षते ।। १२.३६ ।।
अनयाविद्यया बालः संयुक्तः पञ्चपर्वया
संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते ।। १२.३७ ।।
द्रष्टा श्रोता च मन्ता च (कार्यकरणं कार्यं करणं )एव च
अहं इत्येवं आगम्य संसारे परिवर्तते ।। १२.३८ ।।
(इहैभिर्इत्येभिर्)हेतुभिर्धीमन् (जन्मतमः)स्रोतः प्रवर्तते
हेत्व(भावात्भावे )फलाभाव इति विज्ञातुं अर्हसि ।। १२.३९ ।।
तत्र (सम्यङ्सम्यग्)मतिर्विद्यान् मोक्षकाम चतुष्टयं
प्रतिबुद्धाप्रबुद्धौ च व्यक्तं अव्यक्तं एव च ।। १२.४० ।।
यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयं
(आजवंजवतां आर्जवं जवतां )हित्वा प्राप्नोति पदं अक्षरं ।। १२.४१ ।।
इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः
ब्रह्मचर्यं चरन्तीह ब्राह्मणान्वासयन्ति च ।। १२.४२ ।।
इति वाक्यं इदं श्रुत्वा मुनेस्तस्य नृपात्मजः
अभ्युपायं च पप्रच्छ पदं एव च नैष्ठिकं ।। १२.४३ ।।
ब्रह्मचर्यं इदं चर्यं यथा यावच्च यत्र च
धर्मस्यास्य च पर्यन्तं भवान्व्याख्यातुं अर्हति ।। १२.४४ ।।
इत्यराडो यथाशास्त्रं विस्पष्टार्थं समासतः
तं एवान्येन कल्पेन धर्मं अस्मै व्यभाषत ।। १२.४५ ।।
अयं आदौ गृहान्मुक्त्वा भैक्षाकं लिङ्गं आश्रितः
समुदाचारविस्तीर्णं शीलं आदाय वर्तते ।। १२.४६ ।।
संतोषं परं आस्थाय येन तेन यतस्ततः
विविक्तं सेवते वासं निर्द्वंद्वः शास्त्रवित्कृती ।। १२.४७ ।।
ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवं
निगृह्णन्निन्द्रियग्रामं यतते मनसः (शमे श्रमे ) ।। १२.४८ ।।
अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च
विवेकजं अवाप्नोति पूर्वध्यानं वितर्कवथ् ।। १२.४९ ।।
तच्च (ध्यानसुखं ध्यानं सुखं )प्राप्य तत्तदेव वितर्कयन्
अपूर्वसुखलाभेन ह्रियते बालिशो जनः ।। १२.५० ।।
शमेनैवंविधेनायं कामद्वेषविगर्हिणा
ब्रह्मलोकं अवाप्नोति परितोषेण वञ्चितः ।। १२.५१ ।।
ज्ञात्वा विद्वान्वितर्कांस्तु मनःसंक्षोभकारकान्
तद्वियुक्तं अवाप्नोति ध्यानं प्रीतिसुखान्वितं ।। १२.५२ ।।
ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति
स्थानं भास्वरं आप्नोति देवेष्व्(आभास्वरेषु सः आभासुरेष्वपि ) ।। १२.५३ ।।
यस्तु प्रीतिसुखात्तस्माद् विवेचयति मानसं
तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितं [Eद्. रेअद्स्१२.५७ अफ़्तेर्१२.५४.] ।। १२.५४ ।।
यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान्
शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ।। १२.५५ ।।
तादृशं सुखं आसाद्य यो न (रज्यत्युपेक्षकः रज्यन्नुपेक्षते ) ।।
चतुर्थं ध्यानं आप्नोति सुखदुःखविवर्जितं ।। १२.५६ ।।
तत्र केचिद्व्यवस्यन्ति मोक्ष इत्य्(अभिमानिनः अपि मानिनः ) ।।
सुखदुःखपरित्यागाद् अव्यापाराच्च चेतसः ।। १२.५७ ।।
अस्य ध्यानस्य तु फलं समं देवैर्बृहत्फलैः
कथयन्ति (बृहत्कालं बृहत्वृहत्फलं वृहत्)प्रज्ञापरीक्षकाः ।। १२.५८ ।।
समाधेर्व्युत्थितस्तस्माद् दृष्ट्वा दोषांश्छरीरिणां
ज्ञानं आरोहति प्राज्ञः शरीरविनिवृत्तये ।। १२.५९ ।।
ततस्तद्ध्यानं उत्सृज्य विशेषे कृतनिश्चयः
कामेभ्य इव (स प्राज्ञो सत्प्राज्ञो रूपादपि विरज्यते ।। १२.६० ।।
शरीरे खानि यान्यस्मिन् तान्यादौ परिकल्पयन्
घनेष्वपि ततो द्रव्येष्व् आकाशं अधिमुच्यते ।। १२.६१ ।।
आकाश(गतं समं )आत्मानं संक्षिप्य त्वपरो बुधः
(तदेवान्तदैवान्)अन्ततः पश्यन् विशेषं अधिगच्छति ।। १२.६२ ।।
अध्यात्म(कुशलस्त्व्कुशलेष्व्)अन्यो निवर्त्यात्मानं आत्मना
किंचिन्नास्तीति संपश्यन्न् आकिंचन्य इति स्मृतः ।। १२.६३ ।।
ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव
क्षेत्रज्ञो निःसृतो देहान् मुक्त इत्यभिधीयते ।। १२.६४ ।।
एतत्तत्परमं ब्रह्म निर्लिङ्गं ध्रुवं अक्षरं
यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ।। १२.६५ ।।
इत्युपायश्च मोक्षश्च मया संदर्शितस्तव
यदि ज्ञातं यदि (रुचिर्रुचि यथावत्प्रतिपद्यतां ।। १२.६६ ।।
जैगीषव्योऽथ जनको वृद्धश्चैव पराशरः
इमं पन्थानं आसाद्य मुक्ता ह्यन्ये च मोक्षिणः ।। १२.६७ ।।
इति तस्य स तद्वाक्यं गृहीत्वा (तु न )विचार्य च
पूर्वहेतुबलप्राप्तः प्रत्युत्तरं उवाच (ह सः ) ।। १२.६८ ।।
श्रुतं ज्ञानं इदं सूक्ष्मं परतः परतः शिवं
(क्षेत्रज्ञस्याक्षेत्रेष्वस्या)परित्यागाद् अवैम्येतदनैष्ठिकं ।। १२.६९ ।।
विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तं अप्यहं
मन्ये प्रसवधर्माणं (बीजवीज)धर्माणं एव च ।। १२.७० ।।
विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते
((भूयः प्रत्ययसद्भावाद् अमुक्तः स भविष्यति ) ।। १२.७१ ।।
((ऋतुभूम्यम्बुविरहाद् यथा बीजं न रोहति)
((रोहति प्रत्ययैस्तैस्तैस् तद्वत्सोऽपि मतो मम ) ।। १२.७२ ।।
((यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते)
अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते ।। १२.७३ ।।
हित्वा हित्वा त्रयं इदं विशेषस्तूपलभ्यते
आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्मं इदं त्रयं ।। १२.७४ ।।
सूक्ष्मत्वाच्चैव दोषाणां अव्यापाराच्च चेतसः
दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते ।। १२.७५ ।।
अहंकारपरित्यागो यश्चैष परिकल्प्यते
सत्यात्मनि परित्यागो नाहंकारस्य विद्यते ।। १२.७६ ।।
संख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययं
तस्मादसति नैर्गुण्ये नास्य मोक्षोऽभिधीयते ।। १२.७७ ।।
गुणिनो हि गुणानां च व्यतिरेको न विद्यते
रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते ।। १२.७८ ।।
प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी
(तस्माद्कस्माद्)आदौ विमुक्तः (सन्सञ् शरीरी बध्यते पुनः ।। १२.७९ ।।
क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा
यदि ज्ञो ज्ञेयं अस्यास्ति ज्ञेये सति न मुच्यते ।। १२.८० ।।
अथाज्ञ इति सिद्धो वः कल्पितेन किं आत्मना
विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवथ् ।। १२.८१ ।।
परतः परतस्त्यागो यस्मात्तु गुणवान्स्मृतः
तस्मात्सर्वपरित्यागान् मन्ये कृत्स्नां कृतार्थतां ।। १२.८२ ।।
इति धर्मं अराडस्य विदित्वा न तुतोष सः
अकृत्स्नं इति विज्ञाय ततः प्रतिजगाम ह ।। १२.८३ ।।
विशेषं अथ शुश्रूषुर् उद्रकस्याश्रमं ययौ
आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनं ।। १२.८४ ।।
संज्ञासंज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः
आकिंचिन्यात्परं लेभे (असंज्ञासंज्ञात्मिकां संज्ञासंज्ञात्मिकां )गतिं ।। १२.८५ ।।
यस्माच्चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परं
नासंज्ञी नैव संज्ञीति तस्मात्(तत्रगततत्र गत)स्पृहः ।। १२.८६ ।।
यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी
(सूक्ष्मापट्वी सूक्ष्मापादि )ततस्तत्र नासंज्ञित्वं न संज्ञिता ।। १२.८७ ।।
यस्माच्च (तद्तं )अपि प्राप्य पुनरावर्तते जगथ्
बोधिसत्त्वः परं प्रेप्सुस् तस्मादुद्रकं अत्यजथ् ।। १२.८८ ।।
ततो हित्वाश्रमं तस्य श्रेयोअर्थी कृतनिश्चयः
भेजे गयस्य राजर्षेर् नगरीसंज्ञं आश्रमं ।। १२.८९ ।।
अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः
चकार वासं एकान्त (विहाराभिरतिर्(विहाराभिव्रती )मुनिः ।। १२.९० ।।
((<> तत्पूर्वं पञ्चेन्द्रियवशोद्धतान्)
((तपः <> व्रतिनो भिक्षून्... पञ्च निरैक्षत ) ।। १२.९१ ।।
(ते चोपतस्थुर्पञ्चोपतस्थुर्)दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः
पुण्यार्जितधनारोग्यं इन्द्रियार्था इवेश्वरं ।। १२.९२ ।।
संपूज्यमानस्तैः प्रह्वैर् (विनयादनुवर्तिभिः विनयानतमूर्तिभिः ) ।।
तद्वशस्थायिभिः शिष्यैर् लोलैर्मन इवेन्द्रियैः ।। १२.९३ ।।
मृत्युजन्मान्तकरणे स्यादुपायोऽयं इत्यथ
दुष्कराणि समारेभे तपांस्यनशनेन सः ।। १२.९४ ।।
उपवासविधीन्नैकान् कुर्वन्नरदुराचरान्
वर्षाणि षट्(शमकर्म)प्रेप्सुर् अकरोत्कार्श्यं आत्मनः ।। १२.९५ ।।
अन्नकालेषु चैकैकैः (स कोलसकोल)तिलतण्डुलैः
अपारपारसंसार पारं प्रेप्सुरपारयथ् ।। १२.९६ ।।
देहादपचयस्तेन तपसा तस्य यः कृतः
स एवोपचयो भूयस् तेजसास्य कृतोऽभवथ् ।। १२.९७ ।।
कृशोऽप्यकृशकीर्तिश्रीर् ह्लादं चक्रेऽन्य(चक्षुषां चक्षुषं ) ।।
कुमुदानां इव शरछ् छुक्लपक्षादिचन्द्रमाः ।। १२.९८ ।।
त्वगस्थिशेषो निःशेषैर् मेदःपिशितशोणितैः
क्षीणोऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभाथ् ।। १२.९९ ।।
अथ कष्टतपःस्पष्ट व्यर्थक्लिष्टतनुर्मुनिः
भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया ।। १२.१०० ।।
नायं धर्मो विरागाय न बोधाय न मुक्तये
जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः ।। १२.१०१ ।।
न चासौ दुर्बलेनाप्तुं शक्यं इत्यागतादरः
शरीरबलवृद्ध्यर्थं इदं भूयोऽन्वचिन्तयथ् ।। १२.१०२ ।।
क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः
प्राप्नुयान्मनसावाप्यं फलं कथं अनिर्वृतः ।। १२.१०३ ।।
निर्वृतिः प्राप्यते सम्यक् सततेन्द्रियतर्पणाथ्
संतर्पितेन्द्रियतया मनःस्वास्थ्यं अवाप्यते ।। १२.१०४ ।।
स्वस्थप्रसन्नमनसः समाधिरुपपद्यते
समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ।। १२.१०५ ।।
ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते
दुर्लभं शान्तं अजरं परं तदमृतं पदं ।। १२.१०६ ।।
तस्मादाहारमूलोऽयं उपाय इतिनिश्चयः
(आहारअसूरि)करणे धीरः कृत्वामितमतिर्मतिं ।। १२.१०७ ।।
स्नातो नैरञ्जनातीराद् उत्ततार शनैः कृशः
भक्त्यावनतशाखाग्रैर् दत्तहस्तस्तटद्रुमैः ।। १२.१०८ ।।
अथ गोपाधिपसुता दैवतैरभिचोदिता
उद्भूतहृदयानन्दा तत्र नन्दबलागमथ् ।। १२.१०९ ।।
सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी
सफेनमालानीलाम्बुर् यमुनेव सरिद्वरा ।। १२.११० ।।
सा (श्राद्धावर्धितश्रद्धावर्धित)प्रीतिर् विकसल्लोचनोत्पला
शिरसा प्रणिपत्यैनं ग्राहयां आस पायसं ।। १२.१११ ।।
कृत्वा तदुपभोगेन प्राप्तजन्मफलां स तां
बोधिप्राप्तौ समर्थोऽभूथ् संतर्पितषडिन्द्रियः ।। १२.११२ ।।
पर्याप्ताप्यान(मूर्तिश्मूर्तश्)च (सार्थं स्वसार्धं सु)यशसा मुनिः
कान्ति(धैर्ये बभारैकः शशाङ्कार्णवयोर्द्वयोः धैर्यैकभारैकः शशाङ्कार्णववल्बभौ ) ।। १२.११३ ।।
आवृत्त इति विज्ञाय तं जहुः (पञ्च भिक्षवः पञ्चभिक्षवः ) ।।
मनीषिणं इवात्मानं निर्मुक्तं (पञ्च धातवः पञ्चधातवः ) ।। १२.११४ ।।
व्यवसायद्वितीयोऽथ शाद्वलास्तीर्णभूतलं
सोऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ।। १२.११५ ।।
ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः
महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिं ।। १२.११६ ।।
यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी
यथा च ते राजति सूर्यवत्प्रभा ध्रुवं त्वं इष्टं फलं अद्य भोक्ष्यसे ।। १२.११७ ।।
यथा भ्रमन्त्यो दिवि (चाषवाय)पङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते
यथा च स्ॐया दिवि वान्ति वायवस् त्वं अद्य बुद्धो नियतं भविष्यसि ।। १२.११८ ।।
ततो भुजंगप्रवरेण संस्तुतस् तृणान्युपादाय शुचीनि लावकाथ्
कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलं उपाश्रितः शुचेः ।। १२.११९ ।।
ततः स पर्यङ्कं अकम्प्यं उत्तमं बबन्ध सुप्तोरगभोगपिण्डितं
भिनद्मि तावद्भुवि नैतदासनं न यामि यावत्कृतकृत्यतां इति ।। १२.१२० ।।
ततो ययुर्मुदं अतुलां दिवौकसो (ववाशिरे ववासिरे )न मृग(गणाः गणा [Wरोन्ग्सन्धि इनेद्. EJः.])न पक्षिणः
न सस्वनुर्वनतरवोऽनिलाहताः कृतासने भगवति (निश्चितात्मनि निश्चलात्मनि ) ।। १२.१२१ ।।
इति (श्रीबुद्धचरिते महाकाव्ये (अश्वघोषकृते अराडदर्शनो नाम द्वादशः सर्गः -- १२ --