बुद्धचरितम्/नवमः सर्गः

← अष्ठमः सर्गः बुद्धचरितम्
नवमः सर्गः
अश्घोषविरचितम्
दशमः सर्गः →

ततस्तदा मन्त्रिपुरोहितौ तौ (बाष्पप्रतोदाभिहितौ वाष्पप्रतोदाभिहतौ )नृपेण
विद्धौ सदश्वाविव सर्वयत्नाथ् सौहार्दशीघ्रं ययतुर्वनं तथ् ।। ९.१ ।।

तं आश्रमं जातपरिश्रमौ ताव् उपेत्य काले सदृशानुयात्रौ
राजर्द्धिं उत्सृज्य विनीतचेष्टाव् उपेयतुर्भार्गवधिष्ण्यं एव ।। ९.२ ।।

तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपं
कृतासनौ भार्गवं आसनस्थं छित्त्वा कथां ऊचतुरात्मकृत्यं ।। ९.३ ।।

शुद्धौजसः शुद्धविशालकीर्तेर् इक्ष्वाकुवंशप्रभवस्य राज्ञः
इमं जनं वेत्तु भवान्(अधीतं अधीरं श्रुतग्रहे मन्त्रपरिग्रहे च ।। ९.४ ।।

तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः
इहाभ्युपेतः किल तस्य हेतोर् आवां उपेतौ भगवानवैतु ।। ९.५ ।।

तौ सोऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः
धर्मोऽयं आवर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः ।। ९.६ ।।

तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रं (आमन्त्र्य आमन्त्त्य )तदैव सद्यः
खिन्नावखिन्नाविव राज(भक्त्या पुत्रः प्रसस्रतुस्तेन यतः स यातः ।। ९.७ ।।

यान्तौ ततस्तौ (मृजया सृजया )विहीनं अपश्यतां तं (वपुषोज्ज्वलन्तं वपुषा ज्वलन्तं ) ।।
(उपोपविष्टं नृपोपविष्टं )पथि वृक्षमूले सूर्यं घनाभोगं इव प्रविष्टं ।। ९.८ ।।

यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धं
यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरौर्वशेयः ।। ९.९ ।।

तावर्चयां आसतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रं
प्रत्यर्चयां आस स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः ।। ९.१० ।।

कृताभ्यनुज्ञावभितस्ततस्तौ (निषेदतुः निषीदतुः )शाक्यकुलध्वजस्य
विरेजतुस्तस्य च संनिकर्षे पुनर्वसू योगगताविवेन्दोः ।। ९.११ ।।

तं वृक्षमूलस्थं अभिज्वलन्तं पुरोहितो राजसुतं बभाषे
यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तं ।। ९.१२ ।।

त्वच्छोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तं
कुमार राजा नयनाम्बुवर्षो यत्त्वां अवोचत्तदिदं निबोध ।। ९.१३ ।।

जानामि धर्मं प्रति निश्चयं ते परैमि ते (भाविनं अच्याविनं )एतं अर्थं
अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये ।। ९.१४ ।।

तदेहि धर्मप्रिय मत्प्रियार्थं धर्मार्थं एव त्यज बुद्धिं एतां
अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलं इवाभिहन्ति ।। ९.१५ ।।

मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनां
तां वृत्तिं अस्मासु करोति शोको विकर्षणोच्छोषणदाहभेदैः ।। ९.१६ ।।

तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे
अनिष्टबन्धौ कुरु (मय्यपेक्षां माप्युपेक्षां सर्वेषु भूतेषु दया हि धर्मः ।। ९.१७ ।।

न चैष धर्मो वनए एव सिद्धः पुरेऽपि सिद्धिर्नियता यतीनां
बुद्धिश्च यत्नश्च निमित्तं अत्र वनं च लिङ्गं च हि भीरुचिह्नं ।। ९.१८ ।।

मौलीधरैरंसविषक्तहारैः केयूरविष्टब्ध(भुजैर्स्रजैर्)नरेन्द्रैः
लक्ष्म्य्-अङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः ।। ९.१९ ।।

ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजं आषाढं अथान्तिदेवं
विदेहराजं जनकं तथैव (<> द्रुमं पाकद्रुमं )सेनजितश्च राज्ञः ।। ९.२० ।।

एतान्गृहस्थान्नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान्
(उभौ उभे )अपि तस्माद्युगपद्भजस्व (वित्ताधिपत्यं चित्ताधिपत्यं )च नृपश्रियं च ।। ९.२१ ।।

इच्छामि हि त्वां उपगुह्य गाढं कृताभिषेकं सलिलार्द्रं एव
(धृतातपत्त्रं धृतातपत्रं. )समुदीक्षमाणस् तेनैव हर्षेण वनं प्रवेष्टुं ।। ९.२२ ।।

इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन (बाष्पवाष्प)ग्रथिताक्षरेण
श्रुत्वा भवानर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहं अनुप्रयातुं ।। ९.२३ ।।

शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः
तस्मात्तं उत्तारय नाथहीनं निराश्रयं मग्नं इवार्णवे (नौः गां ) ।। ९.२४ ।।

भीष्मेण गङ्गोदरसंभवेन रामेण रामेण च भार्गवेण
श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस्त्वं अप्यर्हसि कर्तुं इष्टं ।। ९.२५ ।।

संवर्धयित्रीं (समवेहि च समेहि )देवीं अगस्त्यजुष्टां दिशं अप्रयातां
प्रनष्टवत्सां इव वत्सलां गां अजस्रं आर्तां करुणं रुदन्तीं ।। ९.२६ ।।

हंसेन हंसीं इव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुं
(आर्तां आर्त्तां )सनाथां अपि नाथहीनां त्रातुं वधूं अर्हसि दर्शनेन ।। ९.२७ ।।

एकं सुतं बालं अनर्हदुःखं (संतापं अन्तर्गतं उद्वहन्तं संतापसंतप्त < >) ।।
तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गादिव पूर्णचन्द्रं ।। ९.२८ ।।

शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन
त्वद्(दर्शनाम्ब्विच्छति दह्यमानं दर्शनायर्छति दह्यमानः (अन्तःसोऽन्तः)पुरं चैव पुरं च कृत्स्नं ।। ९.२९ ।।

स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य
ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितं इत्युवाच ।। ९.३० ।।

अवैमि भावं (तनये पित्éणां तनयप्रसक्तं विशेषतो यो मयि भूमिपस्य
जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि ।। ९.३१ ।।

द्रष्टुं प्रियं कः स्वजनं हि नेच्छेन् (नान्ते नासौ )यदि स्यात्प्रियविप्रयोगः
यदा तु भूत्वापि (चिरं भवेद्)वियोगस् ततो गुरुं स्निग्धं अपि त्यजामि ।। ९.३२ ।।

मद्धेतुकं यत्तु नराधिपस्य शोकं भवान्(आह न तत्अर्हति न )प्रियं मे
यत्स्वप्नभूतेषु समागमेषु संतप्यते भाविनि (विप्रयोगे विप्रयोगैः ) ।। ९.३३ ।।

एवं च ते निश्चयं एतु बुद्धिर् दृष्ट्वा विचित्रं (जगतः प्रचारं विविधप्रचारं ) ।।
संतापहेतुर्न सुतो न बन्धुर् अज्ञाननैमित्तिक एष तापः ।। ९.३४ ।।

(यथाध्वयदाध्व)गानां (इह इव )संगतानां काले वियोगो नियतः प्रजानां
प्राज्ञो जनः को नु भजेत शोकं बन्धु(प्रतिज्ञातजनैर्विहीनः प्रियः सन्नपि बन्धुहीनः ) ।। ९.३५ ।।

इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति
गत्वापि तत्राप्यपरत्र गच्छत्य् एवं (जने त्यागिनि जनो योगिनि )कोऽनुरोधः ।। ९.३६ ।।

यदा च गर्भात्प्रभृति (प्रवृत्तः प्रजानां (सर्वास्ववस्थासु वधाय <> नुबधाय )मृत्युः
कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्(तत्रभवान्तत्र भवान्)अवोचथ् ।। ९.३७ ।।

भवत्यकालो विषयाभिपत्तौ कालस्(तथैवार्थविधौ तथैवाभिविधौ )प्रदिष्टः
कालो जगत्कर्षति सर्वकालान् (निर्वाहके अर्चार्हके )श्रेयसि (नास्ति कालः सर्वकालः ) ।। ९.३८ ।।

राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च
प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नं इवातुरस्य ।। ९.३९ ।।

कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण
सोद्वेगता यत्र मदः श्रमश्च (परापचारेण परोपचारेण )च धर्मपीडा ।। ९.४० ।।

जाम्बूनदं हर्म्यं इव प्रदीप्तं विषेण संयुक्तं इवोत्तमान्नं
ग्राहाकुलं (चाम्ब्विव सारविन्दं च स्थितं <> ((राज्यं हि रम्यं व्यसनाश्रयं च ) ।। ९.४१ ।।

((इत्थं च राज्यं न सुखं न धर्मः ((पूर्वे यथा जातघृणा नरेन्द्राः
((वयःप्रकर्षेऽपरिहार्यदुःखे ((राज्यानि मुक्त्वा वनं एव जग्मुः ) ।। ९.४२ ।।

((वरं हि भुक्तानि तृणान्यरण्ये ((तोषं परं रत्नं इवोपगुह्य ) ।।
((सहोषितं श्रीसुलभैर्न चैव ((दोषैरदृश्यैरिव कृष्णसर्पैः ) ।। ९.४३ ।।

((श्लाघ्यं हि राज्यानि विहाय राज्ञां ((धर्माभिलाषेण वनं प्रवेष्टुं ) ।।
((भग्नप्रतिज्ञस्य न तूपपन्नं ((वनं परित्यज्य गृहं प्रवेष्टुं ) ।। ९.४४ ।।

((जातः कुले को हि नरः ससत्त्वो ((धर्माभिलाषेण वनं प्रविष्टः ) ।।
((काषायं उत्सृज्य विमुक्तलज्जः ((पुरंदरस्यापि पुरं श्रयेत ) ।। ९.४५ ।।

((लोभाद्धि मोहादथवा भयेन ((यो वान्तं अन्नं पुनराददीत ) ।।
((लोभात्स मोहादथवा भयेन ((संत्यज्य कामान्पुनराददीत ) ।। ९.४६ ।।

((यश्च प्रदीप्ताच्छरणात्कथंचिन् ((निष्क्रम्य भूयः प्रविशेत्तदेव ) ।।
((गार्हस्थ्यं उत्सृज्य स दृष्टदोषो ((मोहेन भूयोऽभिलषेद्ग्रहीतुं ) ।। ९.४७ ।।

((या च श्रुतिर्मोक्षं अवाप्तवन्तो ((नृपा गृहस्था इति नैतदस्ति ) ।।
((शमप्रधानः क्व च मोक्षधर्मो ((दण्डप्रधानः क्व च राजधर्मः ) ।। ९.४८ ।।

((शमे रतिश्चेच्छिथिलं च राज्यं ((राज्ये मतिश्चेच्छमविप्लवश्च ) ।।
((शमश्च तैक्ष्ण्यं च हि नोपपन्नं ((शीतोष्णयोरैक्यं इवोदकाग्न्योः ) ।। ९.४९ ।।

((तन्निश्चयाद्वा वसुधाधिपास्ते ((राज्यानि मुक्त्वा शमं आप्तवन्तः ) ।।
((राज्याङ्गिता वा निभृतेन्द्रियत्वाद् ((अनैष्ठिके मोक्षकृताभिमानाः ) ।। ९.५० ।।

((तेषां च राज्येऽस्तु शमो यथावत् ((प्राप्तो वनं नाहं अनिश्चयेन ) ।।
((छित्त्वा हि पाशं गृहबन्धुसंज्ञं ((मुक्तः पुनर्न प्रविविक्षुरस्मि ) ।। ९.५१ ।।

इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च
श्रुत्वा नरेन्द्रात्मजं उक्तवन्तं प्रत्युत्तरं मन्त्रधरोऽप्युवाच ।। ९.५२ ।।

यो निश्चयो (धर्मविधौ मन्त्रवरस्)तवायं नायं न युक्तो न तु कालयुक्तः
शोकाय (दत्त्वा छित्वा )पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः ।। ९.५३ ।।

नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा
हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षं अर्थं परिभूय यासि ।। ९.५४ ।।

पुनर्भवोऽस्तीति च केचिदाहुर् नास्तीति केचिन्नियतप्रतिज्ञाः
एवं यदा संशयितोऽयं अर्थस् तस्मात्क्षमं भोक्तुं उपस्थिता श्रीः ।। ९.५५ ।।

भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ
अथ प्रवृत्तिः परतो न काचिथ् सिद्धोऽप्रयत्नाज्जगतोऽस्य मोक्षः ।। ९.५६ ।।

अस्तीति केचित्परलोकं आहुर् मोक्षस्य योगं न तु वर्णयन्ति
अग्नेर्यथा ह्य्(औष्ण्यं उष्णं )अपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति ।। ९.५७ ।।

केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च
स्वाभाविकं सर्वं इदं च यस्माद् अतोऽपि मोघो भवति प्रयत्नः ।। ९.५८ ।।

यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव
संयुज्यते यज्(जरयार्तिभिश्जरयार्त्तिभिश्)च कस्तत्र यत्नो ननु स स्वभावः ।। ९.५९ ।।

अद्भिर्हुताशः शमं अभ्युपैति तेजांसि चापो गमयन्ति शोषं
भिन्नानि भूतानि शरीरसंस्थान्य् ऐक्यं च (गत्वा दत्त्वा )जगदुद्वहन्ति ।। ९.६० ।।

यत्पाणिपादोदरपृष्ठ(मूर्ध्नां मूर्ध्ना निर्वर्तते गर्भगतस्य भावः
यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ।। ९.६१ ।।

कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा
स्वभावतः सर्वं इदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः ।। ९.६२ ।।

सर्गं वदन्तीश्वरतस्तथान्ये तत्र प्रयत्ने पुरुषष्य कोऽर्थः
य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव ।। ९.६३ ।।

केचिद्वदन्त्यात्मनिमित्तं एव प्रादुर्भवं चैव भवक्षयं च
प्रादुर्भवं तु प्रवदन्त्ययत्नाद् यत्नेन मोक्षाधिगमं ब्रुवन्ति ।। ९.६४ ।।

नरः पित्éणां अनृणः प्रजाभिर् वेदैरृषीणां क्रतुभिः सुराणां
उत्पद्यते सार्धं ऋणैस्त्रिभिस्तैर् यस्यास्ति मोक्षः किल तस्य मोक्षः ।। ९.६५ ।।

इत्येवं एतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः
प्रयत्नवन्तोऽपि हि विक्रमेण मुमुक्षवः खेदं अवाप्नुवन्ति ।। ९.६६ ।।

तत्स्ॐय मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तं
एवं भविष्यत्युपपत्तिरस्य संतापनाशश्च नराधिपस्य ।। ९.६७ ।।

या च प्रवृत्ता (तव दोषभवदोष)बुद्धिस् तपोवनेभ्यो भवनं प्रवेष्टुं
तत्रापि चिन्ता तव तात मा भूथ् पूर्वेऽपि जग्मुः स्व(गृहान्गृहं )वनेभ्यः ।। ९.६८ ।।

तपोवनस्थोऽपि वृतः प्रजाभिर् जगाम राजा पुरं अम्बरीषः
तथा महीं विप्रकृतां अनार्यैस् तपोवनादेत्य ररक्ष रामः ।। ९.६९ ।।

तथैव शाल्वाधिपतिर्(द्रुमाख्यो द्रुमाक्षो वनात्ससूनुर्(नगरं विवेश स्वपुरं प्रविश्य ) ।।
ब्रह्मर्षिभूतश्च मुनेर्(वसिष्ठाद्वशिष्ठाध् दध्रे श्रियं सांकृतिरन्तिदेवः ।। ९.७० ।।

एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्य्(अतीयुः अभीयुः ) ।।
तस्मान्न दोषोऽस्ति गृहं (प्रयातुं प्रवेष्टुं तपोवनाद्धर्मनिमित्तं एव ।। ९.७१ ।।

ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः
अनूनं अव्यस्तं असक्तं अद्रुतं धृतौ स्थितो राजसुतोऽब्रवीद्वचः ।। ९.७२ ।।

इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः
अवेत्य तत्त्वं तपसा शमेन (च वा स्वयं ग्रहीष्यामि यदत्र निश्चितं ।। ९.७३ ।।

न मे क्षमं (संशयजं सङ्गशतं )हि दर्शनं ग्रहीतुं अव्यक्त(परस्पराहतं परं पराहतं ) ।।
(बुधः बुद्धः )परप्रत्ययतो हि को व्रजेज् जनोऽन्धकारेऽन्ध इवान्ध(देशिकः देशितः ) ।। ९.७४ ।।

अदृष्टतत्त्वस्य सतोऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः
वृथापि खेदो (हि अपि )वरं शुभात्मनः सुखं न तत्त्वेऽपि विगर्हितात्मनः ।। ९.७५ ।।

इमं तु दृष्ट्वागमं अव्यवस्थितं यदुक्तं आप्तैस्तदवेहि साध्विति
प्रहीणदोषत्वं अवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति ।। ९.७६ ।।

गृहप्रवेशं प्रति यच्च मे भवान् उवाच रामप्रभृतीन्निदर्शनं
न ते प्रमाणं न हि धर्मनिश्चयेष्व् अलं प्रमाणाय परिक्षतव्रताः ।। ९.७७ ।।

तदेवं अप्येव रविर्महीं पतेद् अपि स्थिरत्वं हिमवान्गिरिस्त्यजेथ्
अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान्पृथग्जनः ।। ९.७८ ।।

अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयं आलयं
इति प्रतिज्ञां स चकार गर्वितो यथेष्टं उत्थाय च निर्ममो ययौ ।। ९.७९ ।।

ततः स(बाष्पौ वाष्पौ )सचिवद्विजावुभौ निशम्य तस्य स्थिरं एव निश्चयं
विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरं एव जग्मतुः ।। ९.८० ।।

तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च
दुर्धर्षं रविं इव दीप्तं आत्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुं ।। ९.८१ ।।

तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्छन्नांश्चरपुरुषाञ्छुचीन्विधाय
राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथं इति जग्मतुः कथंचिथ् ।। ९.८२ ।।

इति (श्रीबुद्धचरिते महाकाव्ये कुमारान्वेषणो नाम नवमः सर्गः -- ९ --