महाखाता महाशाला पुर्यस्त्युज्जयिनीति या
महाम्भोधिमहाशैल मेखलैव महामही ॥ १.१
प्रासादान् यत्र पश्यन्तः संततान् हैमराजतान्
मेरुकैलासकूटेभ्यः स्पृहयन्ति न नागराः ॥ १.२
वेदमौर्वीविपञ्चीनाम् ध्वनयः प्रतिमन्दिरम्
यत्र संनिपतन्तोऽपि न बाधन्ते परस्परम् ॥ १.३
कृतं वर्णनया तस्या यस्यां सततमासते
महाकालप्रभृतयस्त्यक्त्वा शिवपुरं गणाः ॥ १.४
तस्यामासीन्महासेनो महासेनः क्षितीश्वरः
यस्य देवीसहस्राणि षोडश श्रीपतेरिव ॥ १.५
चिरं पालयतस्तस्य प्रजाः शास्तोक्तकारिणः
गोपालः पालकश्चेति सुतौ जातौ गुणाम्बुधी ॥ १.६
बृहस्पतिसमश्चास्य मन्त्री भरतरोहकः
रोहन्तकः सुरोहश्च तस्यास्तां तत्समौ सुतौ ॥ १.७
नरेन्द्रमन्त्रिपुत्राणाम् चतुर्विद्यार्थवेदिनाम्
प्रयोगेषु च दषाणाम् यान्ति स्म दिवसाः सुखम् ॥ १.८
अथ गां पालयामास गोपालः पितृपालिताम्
पालकोऽपि यवीयस्त्वाद् यौवराज्यमपालयत् ॥ १.९
मन्त्रिपुत्रौ तु मन्त्रित्वम् थ भूमिर्नवेश्वरा
नवमन्त्रिकृतारक्षा जायते स्म पुनर्वा ॥ १.१०
गजराजमथो राजा दानराजिविराजितम्
अधिष्ठाय जगत्सारम् निर्जगाम बहिः पुरः ॥ १.११
तद्दर्शनाशयायातम् नेकं नृकदम्बकम्
बिभ्यद्व्याडाद्गजात्तस्माद् ितश्चेतश्च विद्रुतम् ॥ १.१२
कन्यकान्यतमा तत्र गृह्यमाणाथ हस्तिना
प्रांशुप्राकारतः प्रांशोर् गम्यां परिखामगात् ॥ १.१३
खातपातव्यथाजात संज्ञानाशात्क्षणं ततः
तटस्था हस्तिपृष्ठस्थम् साभाषत रुषा नृपम् ॥ १.१४
अवध्यमवधीर्यस्त्वम् पितरं तस्य किं मया
अधीतवेदं यो हन्ति ब्राह्मणं तस्य के मृगाः ॥ १.१५
इति कन्यावचः श्रुत्वा दुःश्रवं श्वपचैरपि
चिन्तेषु भिन्नहृदयः प्रविवेश निवेशनम् ॥ १.१६
अतिवाह्य च दुःखेन दिनशेषं समासमम्
जनवादोपलम्भाय प्रदोषे निर्ययौ गृहात् ॥ १.१७
कालकम्बलसंवीतः सासिचर्मासिपुत्रिकः
समन्त्रागदसंनाहः संचचार शनैः शनैः ॥ १.१८
अथ शुश्राव कस्मिंश्चित् देवतायतने ध्वनिम्
अभिसारिकया सार्धम् भाषमाणस्य कामिनः ॥ १.१९
हतं मुष्टिभिराकाशम् तुषाणां कण्डनं कृतम्
मया येन त्वया सार्धम् बद्धा प्रीतिरबुद्धिना ॥ १.२०
इयमेतावती वेला खिद्यमानेन यापिता
मया त्वं तु गृहादेव न निर्यासि पतिव्रता ॥ १.२१
कौमारः सुभागो भर्ता यदि नाम प्रियस्तव
खलीकृतैः किमस्माभिर् वृथेव कुलपुत्रकैः ॥ १.२२
एवमादि ततः श्रुत्वा सा प्रगल्भाभिसारिका
विहस्य विटमाह स्म त्वादृशा हि हतत्रपाः ॥ १.२३
ननु चित्तं मयाराध्यम् तस्यापि भवतः कृते
न हि भर्तॄनविश्वास्य रमन्ते कुलटा विटैः ॥ १.२४
अथ निर्मक्षिकं भद्र मधु पातुं मनोरथः
जहि घातय बालं मे पतिं नित्यप्रमादिनम् ॥ १.२५
अथ पापादसि त्रस्तः स्फुटं नाहं तव प्रिया
ननु दुर्वाररागान्धः सुतां याति प्रजापतिः ॥ १.२६
अथवालं विवादेन वैधर्म्यं किं न पश्यसि
येन राज्यसुखान्धेन प्रजापालः पिता हतः ॥ १.२७
सुदुःश्रवमिदं श्रुत्वा गोपालो दुर्वचं वचः
गच्छन्नन्यत्र शुश्राव ध्वनिं विप्रस्य जल्पतः ॥ १.२८
अयि ब्राह्मणि जागर्षि नन्दिनि क्रन्दते शिशुः
त्वरितं याजते देहि स्तन्यं कण्ठोऽस्य मा शुषत् ॥ १.२९
इति श्रुत्वा गिरं भर्तुर् विनिद्रा ब्राह्मणी सुतम्
पितृघातिन्म्रियस्वेति निर्दयं निरभर्त्सयत् ॥ १.३०
आः पापे किमसंभद्धम् पितृघातिन्निति त्वया
बालोऽयमुक्तेत्येनम् ब्राह्मणः कुपितोऽब्रवीत् ॥ १.३१
किमार्यपुत्र पुत्रेण यदा राज्ञा पिता हतः
श्रुतिस्मृतिविदित्येतद् ुवाच ब्राह्मणी पतिम् ॥ १.३२
श्रुत्वैवमादि कौलीनम् प्रविश्यान्तःपुरं नृपः
अनयत्क्षणदाशेषम् संमीलितलोचनः ॥ १.३३
अथ गाढान्धकारायाम् वेलायां मंत्रिणौ रहः
अपृच्छत्कोऽयमस्मासु प्रवादः कथ्यतामिति ॥ १.३४
ततस्तावूचतुस्त्रस्तौ सत्रासं नृपचोदितौ
कौलीनहेतुश्रुतये चित्तं देवावधीयताम् ॥ १.३५
सुगृहीताभिधानस्य प्रद्योतस्य पितुस्तव
आसन्नव्यभिचारीण्य् रिष्टान्यष्टौ मुमूर्षतः ॥ १.३६
उद्धार्ये धवले केशे प्रमादात्कृष्णए उद्धृते
उद्धर्तारं महीपालः कर्तयामास नापितम् ॥ १.३७
भुञ्जानेन च पाषाणे दशनाग्रेण खण्डिते
कुलक्रमागतो वृद्धः सूपकारः प्रमापितः ॥ १.३८
प्रकृतेर्विपरीतत्वम् जानन्नप्येवमादिभिः
प्रभो विधेर्विधेयत्वाद् ब्राह्मणानप्यबाधत ॥ १.३९
भर्तुरीदृशि वृत्तान्ते मन्त्री तस्यावयोः पिता
अदृष्टभर्तृव्यसनः पूर्वमेवागमद्दिवम् ॥ १.४०
श्रुतमन्त्रिविनाशस्तु स राजा राजयक्ष्मणा
गुरुशोकसहायेन सहसैवाभ्यभूयत ॥ १.४१
ततस्ताते दिवं याते यातुकामे च भूपतौ
प्रजासु च विरक्तासु जातौ स्वः किंक्रियाकुलौ ॥ १.४२
प्राप्तकालमिदं श्रेय िति बुद्ध्वा प्रसारितम्
कौलीनमिदमावाभ्याम् सपर्यन्तेष्ववन्तिषु ॥ १.४३
क्रोधबाधितबोधत्वाद् बाधमानं निजाः प्रजाः
बन्धयामास राजानम् राजपुत्रः प्रियप्रजः ॥ १.४४
शृङ्खलातन्त्रचरणः स्वतन्त्राद्भ्रंशितः पदात्
सुखस्य महतो दध्यौ स राजेन्द्रो गजेन्द्रवत् ॥ १.४५
चिन्तामुषितनिद्रत्वाद् ाहारविरहेण च
स क्षपाः क्षपयन् क्षीणः संवत्सरशतायताः ॥ १.४६
पुत्रेणैवमवस्थोऽपि प्रजाप्रियचिकीर्षुणा
न मुक्त एव मुक्तश्च यावत्प्राणैः प्रियैरिति ॥ १.४७
निदानमिदमेतस्य कौलीनस्य विगर्हितम्
इतरद्वाधुना देवः प्रभुरित्यथ भूपतिः ॥ १.४८
अधोमुखः क्षणं स्थित्वा तलाहतमहीतलः
दृष्ट्वा च सास्रमाकाशम् नाथ इदमब्रवीत् ॥ १.४९
तुल्यौ शुक्रबृहस्पत्योर् युवां मुक्त्वा सुहृत्तमौ
अनपायमुपायं कः प्रयुञ्जीतैतमीदृशम् ॥ १.५०
किं तु सत्त्ववतामेष शङ्काशून्यधियां क्रमः
दृष्टादृष्टभयग्रस्त चेतसां न तु मादृशाम् ॥ १.५१
तस्मत्पालयतं भद्रौ पालकं पालकं बुवः
इदं त्वलीककौलीनम् शक्तोऽहमुपेक्षितुम् ॥ १.५२
तस्यैवं भाषमाणस्य व्रीडाधोमुखमन्त्रिणः
कूजन् प्रकाशयामास क्षीणां ताम्रशिखः क्षपाम् ॥ १.५३
अथ शुश्रुविरे वाचः सूतमागधबन्दिनाम्
यशोधवलितानन्त दिगन्तोद्बुध्यतामिति ॥ १.५४
दीनदीनं तदाकर्ण्य कर्णदारणमप्रियम्
पिधाय पार्थिवः कर्णाव् ुत्तमाङ्गमकम्पयत् ॥ १.५५
स चावोचत्प्रतीहारी निवार्यन्ताममी मम
क्षते क्षारावदेकेन किं फलं भवतामिति ॥ १.५६
आसीच्चास्याथ वा धिङ्माम् ेवमात्मापवादिनम्
ननु प्रशस्यमात्मानम् नाहमर्हामि निन्दितुम् ॥ १.५७
निर्यन्त्रणविहारेण चिरजीविनि राजनि
राजपुत्रेण लडितः केनान्येन यथा मया ॥ १.५८
समुच्छिन्नदुरुच्छेद बाह्याभ्यन्तरवैरिणा
वर्णाश्रमाः स्वधर्मेभ्यः किं वा विचलिता मया ॥ १.५९
अवन्तिवर्धनसमो निजाहार्यगुणाकरः
पुत्रः पुन्नरकात्त्राता कस्यान्यस्य यथा मम ॥ १.६०
अथवास्तामिदं सर्वम् ेकेनैवास्मि वर्धितः
नरवाहनदेवेन जामात्रा चक्रवर्तिना ॥ १.६१
एक एव तु मे नासीद् गुणः सोऽप्ययमागतः
प्रसादान्मन्त्रिवृषयोर् यत्तपोवनसेवनम् ॥ १.६२
इति निष्कम्पसंकल्पश् चोदयामास मन्त्रिणौ
ससिंहासनमास्थानम् मण्डपे दीयतामिति ॥ १.६३
तयोस्तु गतयोः केशान् वापयित्वा सवल्कलः
कमण्डलुसनाथश्च भूपालो निर्ययौ गृहात् ॥ १.६४
विषादविप्लुताक्षेण वक्षोनिक्षिप्तपाणिना
दृश्यमानोऽवरोधेन विवेशास्थानमण्डपम् ॥ १.६५
त्रासम्लानकपोलेन दृष्टः पृथुलचक्षुषा
पालकेनाब्रवीत्तं च स्थित एव स्थितं स्थितम् ॥ १.६६
प्रसादात्तात तातस्य वत्सराजस्य च त्वया
बुद्धेः स्वस्याश्च शुद्धायाः किं नाम न परीक्षितम् ॥ १.६७
अतोऽनुशासितारं त्वाम् नुशासति बालिशाः
येन लोके तए उच्यन्ते वियाताः पितृशिक्षकाः ॥ १.६८
एतावत्तु मया वाच्यम् पित्र्यं सिंहासनं त्वया
वर्णाश्रमपरित्रार्थम् िदमध्यास्यतामिति ॥ १.६९
तच्चावश्यमनुष्ठेयम् स्माकीनं वचस्त्वया
मादृशां हि न वाक्यानि विमृशन्ति भवादृशाः ॥ १.७०
इतीदं पालकः श्रुत्वा स्थित्वा चाधोमुखः क्षणम्
उत्तरं चिन्तयामास नासाग्राहितलोचनः ॥ १.७१
कृतकृत्रिमरोषस्तु राजा पालकमब्रवीत्
भोः सिंहासनमारोह किं तवोत्तरचिन्तया ॥ १.७२
किं चोत्तरशतेनापि त्वयाहं सोपपत्तिना
वेगः प्रावृषि शोणस्य चरणेनेव दुर्धरः ॥ १.७३
इति द्विजातयः श्रुत्वा पुरोहितपुरःसराः
विषादगद्गदगिरः प्रमृज्याश्रु बभाषिरे ॥ १.७४
पालकस्ते नियोज्यत्वाद् ाज्ञां मा स्म विचारयत्
त्वन्नियोगान्नियोक्तारः कस्माद्वयमुदास्महे ॥ १.७५
ध्रियमाणे प्रजापाले ज्येष्ठे भ्रातरि पालकः
मृगेन्द्रासनमारोहन् खट्वारूढो भवेन्ननु ॥ १.७६
राज्याग्निमादधद्वापि त्वयि वर्षशतायुषि
परिवेत्तारमात्मानम् यं मन्येत निन्दितम् ॥ १.७७
तस्मादस्मान्निवर्तस्व संकल्पदतिभीषणात्
शोकजान्यश्रुवारीणि भवन्त्वानन्दजानि नः ॥ १.७८
बद्धाञ्जलिरथोवाच किंचिन्नमितकंधरः
अलं वः पीडयित्वा माम् वचोभिरिति पार्थिवः ॥ १.७९
मयायमभ्यनुज्ञातो रक्षणे च क्षमः क्षितेः
खट्वारूढो न भविता निन्दितः शब्दवेदिभिः ॥ १.८०
असमर्थे च राज्याग्नेः पालने पतिते मयि
परिवेत्तापि नैवायम् भविष्यति नराधिपः ॥ १.८१
यच्चापि पिहिताः कर्णा ाकर्ण्य पतितध्वनिम्
प्रजाभिस्तच्च न मृषा मया हि निहतः पिता ॥ १.८२
तदिदं पातकं कृत्वा युष्मत्पीडाप्रशान्तये
प्रायश्चित्तं व्रजन् कर्तुम् न निवार्योऽस्मि केनचित् ॥ १.८३
मया चात्यक्तधर्मेण यत्प्रजानां कृते कृतम्
तस्य प्रत्युपकाराय पालकः पाल्यतामयम् ॥ १.८४
इतीदं प्रकृतीरुक्त्वा पालकं पुनरब्रवीत्
अवन्तिवर्धनं पुत्रम् मत्प्रीत्या पालयेरिति ॥ १.८५
विलक्षहसितं कृत्वा गोपालं पालकोऽब्रवीत्
अवन्तिवर्धनो राजा राजन् कस्मान्न जायताम् ॥ १.८६
सत्सु भार्तृषु भूपाल गुणवत्स्वपि भूभुजः
निक्षिप्तवन्तः श्रूयन्ते पुत्रेष्वेव गुरुं धुरम् ॥ १.८७
गोपालस्तमथोवाच भविष्यति युवा यदा
त्वं च वृद्धस्तदा युक्तम् स्वयमेव करिष्यसि ॥ १.८८
एवं निरुत्तराः कृत्वा प्रकृतीस्ताः सपालकाः
सर्वतीर्थाम्बुकलशैर् भ्यषिञ्चत्स पालकम् ॥ १.८९
आरोप्य चैनं त्वरितम् सिंहासनमुदङ्मुखः
निर्जगाम पुरात्स्वस्माद् ेकरात्रोषितो यथा ॥ १.९०
अथ राजनि काननावृते पुरमास्पन्दितलोकलोचनाम्
निभृतश्वसितामयध्वनिं मृतकल्पां प्रविवेश पालकः ॥ १.९१
अथ बिभ्रद्दुरुच्छेदम् शोकं भ्रातृवियोगजम्
उत्सृष्टपृथिवीचिन्तः पालकः कालमक्षिपत् ॥ २.१
तं पुरोधःप्रभृतयः कदाचिदवदन् प्रजाः
उत्सीदन्तीः प्रजा राजन् नार्हसि त्वमुपेक्षितुम् ॥ २.२
भ्रातुः पुरः प्रतिज्ञाय दूरक्षां रक्षितुं क्षितिम्
किं शोचसि न शोकोऽयम् ुपायः क्षितिरक्षणे ॥ २.३
षष्ठं पापांशमादत्ते रक्षन्नपि नृपः प्रजाः
निक्षिप्तक्षितिरक्षस्तु सर्वमेव न मुञ्चति ॥ २.४
तस्माज्जिघांसता पापम् पुण्यं चोपचिचीषता
राजन् धन्याः प्रजाः कार्याः सुखं चानुबुभूषता ॥ २.५
न चेदर्थयमानानाम् वचनं नः करिष्यसि
ध्रुवं द्रक्ष्यसि संक्रान्ता देशान् राजन्वतः प्रजाः ॥ २.६
अवृत्तपूर्वमस्माभिर् ुदासीने त्वयि श्रुतम्
बलादग्निगृहान्नीतः पुरोडाशः शुना किल ॥ २.७
बटोश्च भ्राम्यतो भिक्षाम् भिक्षापात्रादनावृतात्
बटुत्वात्क्षिप्तचित्तस्य हृतः काकेन मोदकः ॥ २.८
इति श्रुत्वा ससंत्रासो राजा ताडितदुन्दुभिः
मृगेन्द्रासनमध्यास्ते सुमेरुं मघवानिव ॥ २.९
तस्मिन्नारूढमात्रे च समं विकसिताः प्रजाः
उदयाचलकूटस्थे नलिन्य इव भास्करे ॥ २.१०
अथातीते क्वचित्काले विप्रान् पप्रच्छ पार्थिवः
धर्ममाचक्षतां पूज्याः शुद्धमित्यथ तेऽब्रुवन् ॥ २.११
सर्वविद्याविदा धर्मः कस्त्वया नावलोकितः
आचारोऽयमिति व्यक्तम् नुयुक्तास्त्वया वयम् ॥ २.१२
रागादिमन्तः पुरुषास्तैरुक्ता ह्यप्रमाणता
सांख्यादीनामकार्यत्वाद् वेदस्यैव प्रमाणता ॥ २.१३
तस्माद्वेदेषु विहितम् यत्तदासेव्यतामिति
श्रुत्वेदं नृपतिर्यज्ञैर् ीजे निःसंख्यदक्षिणैः ॥ २.१४
अथोत्सृष्टप्रजाकार्यम् दीक्षासन्तानसेवया
मन्त्रिनौ जातसंत्रासौ तं कदाचिदवोचताम् ॥ २.१५
उद्धृतः शोकपङ्कात्त्वम् बलिभिर्द्विजकुञ्जरैः
उद्धार्यः सांप्रतं केन दीक्षापङ्काद्दुरुत्तरात् ॥ २.१६
कामार्थौ यद्यपि त्यक्तौ सेव्यावेव तथापि तौ
दुर्लभो हि विना ताभ्याम् धर्मः सुद्धो नृपैरिति ॥ २.१७
उपपन्नमिदं श्रुत्वा प्रतिश्रुत्य तथेति च
देवतायाचनव्यग्र स्त्रीकमन्तःपुरं ययौ ॥ २.१८
पानाभरणवासः स्रक् प्रियवाग्दानमानिताः
अन्तःपुरचरीः प्रैश्याश् चचार परितोषिताः ॥ २.१९
अनन्तरमनुज्येष्ठम् देवीः संमान्य भूपतिः
वासुकिन्या महादेव्या निनाय सह यामिनीम् ॥ २.२०
स ताम्रचूडरुतिभिर् बन्दिवृन्दैर्विबोधितः
उपासिष्ट पुरःसंध्याम् ादिवाकरदर्शनात् ॥ २.२१
ततो धवलवासः स्रग् लंकारानुलेपनः
स्तूयमानो जयाशीर्भिर् ास्थानस्थानमागतः ॥ २.२२
पुरोधःप्रभृतीस्तत्र प्रकृतीः प्रकृतिप्रियः
मानयित्वा यथायोग्यम् सोपचारं व्यसर्जयत् ॥ २.२३
स्मयमानस्ततो राजा मन्त्रिणाविदमब्रवीत्
आपानभूमिरुद्याने रमणीया प्रकल्प्यताम् ॥ २.२४
को हि युष्मद्विधसुहृद् विहितापत्प्रतिक्रियः
विषयान्न निषेवेत दृष्टादृष्टाविरोधिनः ॥ २.२५
सोऽहं पौरजनं भृत्यान् न्तःपुरविचारिणः
आत्मानं च भवन्नाथम् योजयामि सुखैरिति ॥ २.२६
अथ तौ प्रह्वमूर्धानौ स्वाम्यभिप्रायवेदिनौ
पानोपकरणं सर्वम् सज्जमेवेत्यवोचताम् ॥ २.२७
व्याहार्य स ततस्तत्र सबालस्थविरां पुरीम्
वस्त्राभरणमाल्यान्न दानैः प्रीतामकारयत् ॥ २.२८
पद्मरागादिशुक्तिष्ठम् ुत्पलाद्यधिवासितम्
कृतजोत्कारमन्योऽन्यम् पीयते स्म ततो मधु ॥ २.२९
मधुपानान्तरालेषु सविपञ्चीस्वनं मुहुः
गीयते स्म मनोहारि नटाद्यैर्नृत्यते स्म च ॥ २.३०
विहृत्य दिनमेवं च शीतरश्मौ दिवाकरे
विसृज्य प्रकृती राजा विवेशान्तःपुरं ततः ॥ २.३१
तत्रापि श्रुतसंगीतो दृष्टस्त्रीपात्रनाटकः
पायिताशेषभार्यश्च पश्चान्निद्रामसेवत ॥ २.३२
एवमासेवमानस्य सार्तवं विषयान् गताः
विवृद्धसुखरागस्य बहवस्तस्य वासराः ॥ २.३३
स कदाचिद्द्विजादिभ्यः सविषादो न्यवेदयत्
स्वप्नो मयाद्य यो दृष्टः प्रशस्यैः श्रूयतामसौ ॥ २.३४
वाह्यावलोकनायाहम् निर्गतस्तत्र दृष्टवान्
मत्तं महान्तमायान्तम् मातङ्गं वनचारिणम् ॥ २.३५
तन्मदामोदमाघ्राय राज्यहस्त्यपि मामकः
क्रोधादुन्मूलितालानो यातः प्रति वनद्विपम् ॥ २.३६
वन्यस्तु हस्तमुत्क्षिप्य किंचिदाकुञ्चिताङ्गुलिः
आहूतवानिव युद्धम् सगर्वैः कण्ठगर्जितैः ॥ २.३७
मदीयेनाथ नागेन वेगेनापत्य दूरतः
संनिपातो महान् दत्तो दन्तयोर्वनदन्तिनः ॥ २.३८
स्फटिकस्तम्भशुभ्राभ्याम् दन्ताभ्यां तेन मामकः
दूरमुत्क्षिप्य निक्षिप्तस्ततो यातः पराङ्मुखः ॥ २.३९
पराजितं परेणाथ दृष्ट्वा स्वं राज्यहस्तिनम्
निवर्त्तयितुकामोऽहम् ासन्नानिदमुक्तवान् ॥ २.४०
निवर्तयामि राज्येभम् शीघ्रमानयताङ्कुशम्
शिक्षितो वत्सराजेन हस्तिशिक्षामहं ननु ॥ २.४१
इति मन्त्रयमाणोऽहम् लब्धप्रार्थिताङ्कुशः
प्रतिबुद्धः ससंत्रासः किमेतदिति चिन्तयन् ॥ २.४२
इति स्वप्नो मया दृष्टः क्षणदायाः परिक्षये
फलमिष्टमनिष्टं वा पूज्यैरत्रोच्यतामिति ॥ २.४३
अथानिष्टफलं स्वप्नम् जानन्तोऽपि द्विजातयः
राजोपचारचतुराः स्थापयामासुरन्यथा ॥ २.४४
यौऽसौ राजन् गजो वन्यस्तं बुध्यस्व विनायकम्
यश्चाभिषेकहस्ती तम् राज्यविघ्नं शरीरिणम् ॥ २.४५
तत्ते गणपतिः प्रीतः प्रसह्योद्धरति प्रभुः
त्वमप्युन्मूलितानर्थश् चिरं पाहि महीमिति ॥ २.४६
इति दुःश्लिष्टमाकर्ण्य फलं स्वप्नस्य कल्पितम्
सुखं नालभताथैनम् ब्रूतां मन्त्रिणाविदम् ॥ २.४७
श्रूयतां देव यद्वृत्तम् वृद्धस्य जगतीपतेः
आवाभ्यां श्रुतमेतच्च गृहे कथयतः पितुः ॥ २.४८
मृगेन्द्रासनमारोढुम् प्रद्योतेन किलेच्छता
यथाप्रधानमिलिताः पृष्टाः स्वप्नं द्विजातयः ॥ २.४९
मम सिंहासनस्थस्य स्थितो मूर्ध्नि विहंगमः
विचित्रैः सप्तभिः पक्षैः कोऽसौ व्याक्रियतामिति ॥ २.५०
तेषु निर्वचनेष्वेको द्विजः शाण्डिल्यनामकः
सकम्पवचनोऽवोचन् नीचै.श्चञ्चलभीरुकः ॥ २.५१
राज्ञा स्वप्नफलं पृष्टाः किं तूष्णीमास्थ कथ्यताम्
त्रस्यद्भिः परुषाद्वापि मादृक्कस्मान्न युज्यताम् ॥ २.५२
अनिष्टमपि वक्तव्यम् स्वनुष्ठानप्रतिक्रियम्
दुष्करप्रतिकारे तु युक्तमित्थमुदासितुम् ॥ २.५३
इति श्रुत्वा महासेनः संशयामृष्टमानसः
शाण्डिल्यमिदमप्राक्षीद् विवक्षुं स्फुरिताधरम् ॥ २.५४
ब्रह्मन् कथय विश्रब्धम् नुज्ञातो द्विजैरपि
यस्मात्व्याहर्तुमारब्धः प्रतिषिद्धो न केनचित् ॥ २.५५
इत्युक्तः क्षितिपालेन व्याहर्तुमुपचक्रमे
अहितादि हितान्तं च श्रूयतां देव मा कुपः ॥ २.५६
योऽसौ सप्तच्छदः पक्षी सोऽशनिर्दुःश्रवध्वनिः
सप्त पक्षास्तु ये तस्य सप्त पक्षान्निबोध तान् ॥ २.५७
सर्वथा विस्तरेणालम् लं सिंहासनेन ते
कश्चिदारोप्यतामेतद् यस्य नेच्छसि जीवितम् ॥ २.५८
कञ्चिदद्येदमारूढम् र्धमासेषु सप्तासु
अतीतेष्वशनिर्हन्ति पतित्वा मूर्धनि ध्रुवम् ॥ २.५९
इति श्रुत्वा स्फुरत्क्रोधः प्रभूर्भरतरोहकम्
अक्षिणी मुखरस्यास्य खन्येतामित्यचोदयत् ॥ २.६०
यथाज्ञापयसीत्युक्त्वा बध्नन् परिकरं द्विजान्
मन्त्री साक्षिनिकोचेन ग्राह्यवाक्यानसूचयत् ॥ २.६१
मृदुपूर्वं ततो विप्रा महीपालमबोधयन्
देव नोन्मत्तवाक्यानि गृह्यन्ते पटुबुद्धिभिः ॥ २.६२
न च केवलमुन्मत्तो ब्राह्मणश्चैष मूढकः
तेनापि नयनोद्धारम् नैव निग्रहमर्हति ॥ २.६३
किं तु तावदयं बद्धः स्थाप्यतां विधवासुतः
पक्षाः सप्त गता यावत् ततः प्राप्स्यति निग्रहम् ॥ २.६४
सिंहासनमपि क्षिप्रम् ारोहतु नराधिपः
लग्नेऽस्मिन्नेव सौवर्णः परीक्षार्थं द्विजन्मनः ॥ २.६५
यदि सत्यैव वागस्य ततः सत्कारमाप्स्यति
विपर्यये खलीकारम् मन्वादिपरिभाषितम् ॥ २.६६
देवोऽपि दिवसानेतान् विद्भिः ब्राह्मणैः सह
कुर्वद्भिः शान्तिकर्माणि महाकालं निषेवताम् ॥ २.६७
इति श्रुत्वा द्विजातिभ्यो युक्तमित्यवधार्य च
बन्धयित्वा च शाण्डिल्यम् महाकालं ययौ नृपः ॥ २.६८
तत्र सप्त स्थितः पक्षान् पश्यद्दिवसेऽन्तिमे
मध्यंदिने पयोदालीम् ुन्नमन्तीं रविं प्रति ॥ २.६९
अथ सा क्षणमात्रेण व्याप्तानन्तदिगन्तरा
नीलकण्ठगलच्छाया प्रवृष्टा वृष्टिमश्मनाम् ॥ २.७०
चण्डं चटचटाघोषम् ुद्घोष्याशनिरुत्कटः
राजप्रतिकृतिं पिष्ट्वा तत्रैवान्तर्दधे ततः ॥ २.७१
अथ शाण्डिल्यमाह्वाय्य कृत्वा विगतबन्धनम्
क्षमयित्वा च विपुलैः संप्रदानैरतोषयत् ॥ २.७२
राज्ञा चास्य कृतं नाम तच्च लोके प्रतिष्ठितम्
सोऽयं मुखरशाण्डिल्यः सिद्धादेशोऽनुयुज्यताम् ॥ २.७३
तेन चाहूय पृष्टेन निःशङ्केन निवेदितम्
शृणु राजन्न कोपं च पितृवत्कर्तुमर्हसि ॥ २.७४
योऽसौ वन्यो गजः सोऽन्यो राजा राजन्नुपागतः
भवदीयो भवानेव सर्वथा श्रूयतामिदम् ॥ २.७५
त्वमन्येन महीपाल महीपालेन राज्यतः
स्वतः प्रच्यावितस्तस्माद् युक्तमास्थीयतामिति ॥ २.७६
इति श्रुत्वा महीपाले विषादानतमूर्धनि
शनैर्मुखरशाण्डिल्य प्रमुखा निर्ययुर्द्विजाः ॥ २.७७
मन्त्रिमात्रसहायस्तु राजा कृत्वा अवगुण्ठनम्
कः स्याद्राजेति चिन्तावान् निषसाद नृपासने ॥ २.७८
सिद्धादेशस्य तु वचः श्रद्दधानः सुरोहकः
विषादाद्दीनया वाचा महीपालमभाषत ॥ २.७९
महासेनेन दुःस्वप्नः स यथा वञ्चितस्तथा
वञ्चय त्वमपि क्षिप्रम् त्यासन्नफलो ह्यसौ ॥ २.८०
तिर्यग्योनिगतः कश्चिद् ध्यास्तां पार्थिवासनम्
देवोऽपि दिवसान् कांचिद् वनवासी भवत्विति ॥ २.८१
तुष्णीभूतं तु राजानम् ेव ब्रुवति मन्त्रिणि
गोपालतनयस्तत्र विवेशावन्तिवर्धनः ॥ २.८२
तस्य संक्रीडमानस्य दूरमुत्पत्य कन्दुकः
निपत्योत्पत्य च पुनः सिंहासनतलं गतः ॥ २.८३
अवन्तिवर्धनयशा भगिनि तेन चोदिता
सिंहासनतलादेव कन्दुकः कृष्यतामिति ॥ २.८४
तयोक्तं स्वयमेव त्वम् किं न कर्षसि कन्दुकम्
किं चाहं भवतः प्रैष्या येनादिशसि मामिति ॥ २.८५
ततः पश्येति तामुक्त्वा तदुत्क्षिप्य नृपासनम्
अवन्तिवर्धनोऽन्यत्र स्थापयामास निर्व्यथः ॥ २.८६
स तु कन्दुकमादातुम् ारब्धश्च नृपेण तु
सिंहासनादवप्लुत्य परिष्वक्तस्त्रपानतः ॥ २.८७
अथानन्तरमाहूय राजा प्रकृतिमण्डलम्
उवाच राजपुत्रोऽयम् द्य रज्येऽभिषिच्यताम् ॥ २.८८
युष्मत्समक्षमुक्तो हं भ्रात्रा ज्येष्ठेन गच्छता
अवन्तिवर्धनं पुत्रम् मत्प्रीत्या पालयेरिति ॥ २.८९
तदादेशात्सुतत्वाच्च सोऽयं संवर्धितोऽधुना
पित्र्यमासनमध्यास्ताम् न्यासं प्रत्यर्पितं मया ॥ २.९०
अथास्मिन् संकटे कार्ये पालकेन प्रदर्शिते
सभायामानताङ्गायाम् न कश्चिद्किंचिदुक्तवान् ॥ २.९१
ततो धर्मार्थकामानाम् मात्रामाख्याय पालकः
पुत्रमारोपयामास सिंहासनमवन्तियम् ॥ २.९२
कृष्णाजिनाम्बरधरः कृतकेशनाशः स्कन्धावसक्तकरको नृपतिः पुराणः
अध्यासित मुनिवरैः सह काश्यपेन मन्दस्पृहोऽसितगिरिं तपसे जगाम ॥ २.९३
अथावन्तिषु जन्तूनाम् क्षुद्राणामपि केनचित्
जन्यते स्म न संतापः पार्थिवेऽवन्तिवर्धने ॥ ३.१
एवं बहुषु यातेषु वासरेषु महीपतिः
कदाचिद्वाहयित्वाश्वान् निवृत्तो दृष्टवान् क्वचित् ॥ ३.२
तमालालम्बिदोलान्तर् विलसन्तीं कुमारिकाम्
कालिन्दीह्रदसंक्रान्ताम् लोलामिन्दुकलामिव ॥ ३.३
उत्तरीयान्तसंसक्तम् ाकर्षन्तीं शिखण्डकम्
निर्मुच्यमाननिर्मोकम् भोगं भोगवधूमिव ॥ ३.४
दृश्यमानस्तया राजा तां च पश्यन् पुनः पुनः
आवृतो हयशालाभिः स्वं विवेश निवेशनम् ॥ ३.५
तत्र संक्षिप्तमासेव्य मज्जनादि रहोगतः
दोलायमानहृदयो दोलामेव व्यचिन्तयत् ॥ ३.६
मन्दाशनाभिलाषस्य मन्दनिद्रस्य भूपतेः
मन्दधर्मार्थचिन्तस्य दिवसाः कतिचिद्गताः ॥ ३.७
कदाचिदथ वेलायाम् मन्दरश्मौ दिवाकृति
क्षुभितानामिवाश्रौषीत् स निर्घोषमुदन्वताम् ॥ ३.८
दिदृक्षुः कारणं तस्य समुद्भूतकुतूहले
प्रासादतलमरोहद् न्तःपुरचरावृतः ॥ ३.९
नृमातङ्गतुरंगोष्ट्र गवाजैडकरासभान्
संप्रमर्दन्तमद्राक्षीन् मातङ्गं संघमर्दनम् ॥ ३.१०
उन्मूलितमहावृक्षश् चूर्णितप्रांशुमंदिरः
भृङ्गमालापरीवारः स ययौ प्रति पक्षणम् ॥ ३.११
पानप्रसक्तमातङ्ग मण्डलप्रहितेक्षणम्
मातङ्गराजमद्राक्षीन् मातङ्गग्रामणीस्ततः ॥ ३.१२
आदिदेश समीपस्थाम् कन्यकामविलम्बितम्
हस्तिकीटोऽयमुद्दामो दुर्दान्तो दम्यतामिति ॥ ३.१३
कराम्भोरुहसंस्पर्श सुभगेनाथ साम्भसा
आरात्सिषेच करिणम् करे कुञ्चितपुष्करे ॥ ३.१४
अथ संरम्भसंहारात् संवेल्लितकरः करी
ववन्दे चरणौ तस्याः संस्पृश्य शिरसा महीम् ॥ ३.१५
तामवन्तिपतिर्दृष्ट्वा दृष्टपूर्वां तथागताम्
चित्रीयमाणहृदयश् चिन्तयामास चेतसा ॥ ३.१६
किं चित्रं यदयं नागः सहरागः सचेतनः
वशीकृतः शरीरिण्या वशीकरणविद्यया ॥ ३.१७
इयं हि वीतरागादीन् मुनीनपि निरीक्षिता
वशीकुर्याद्विशन्ती च चलयेदचलानपि ॥ ३.१८
अथेन्द्रायुधरागेण सोत्तरीयेण दन्तयोः
बद्धां दोलामधिष्ठाय नागं याहीत्यचोदयत् ॥ ३.१९
ततो मन्दतराभ्यासैश् चरणैः संघमर्दनः
अभिस्तम्भमगाद्वीत भयपौरजनावृतः ॥ ३.२०
तयोक्तमातपश्चण्डः संतापयति मामिति
अशोकपल्लवैश्छायाम् थ तस्याश्चकार सः ॥ ३.२१
बन्धयित्वा गजं स्तम्भे प्रासादतलवर्तिनम्
वन्दित्वा च महीपालम् मातङ्गी पक्षणं ययौ ॥ ३.२२
मातङ्गीवन्दनापूतम् ात्मानं प्रेक्ष्य पार्थिवः
केयं कस्य कुतो वेति पृच्छति स्म सुरोहकम् ॥ ३.२३
स तस्मै कथयामास देव न ज्ञायते कुतः
सहसैवेदमायातम् परुन्मातङ्गपक्षणम् ॥ ३.२४
ऋद्धिमन्तोऽत्र मातङ्गास्तेषामुत्पलहस्तकः
ग्रामणीस्तस्य कन्येयम् सुता सुरसमञ्जरी ॥ ३.२५
इति श्रुत्वा प्रविश्यान्तर् ध्यायन् सुरसमञ्जरीम्
स्वदेहं यापयामास पित्तज्वरचिकित्सितैः ॥ ३.२६
सुरोहकस्तु तं दृष्ट्वा मातङ्गीदूषिताशयम्
आख्यदङ्गारवत्यै स तन्नप्तुर्वृत्तमीदृशम् ॥ ३.२७
सा तु स्थित्वा क्षणं तूष्णीम् विचारस्तिमितेक्षणा
स्मितापगमितत्रासम् सुरोहकमभाषत ॥ ३.२८
मातङ्गरूपधारिण्यो यथान्या दिव्ययोषितः
तथेयमपि केनापि निमित्तेनागता महीम् ॥ ३.२९
क्व संघमर्दनो व्यालः क्व च तद्दन्तलम्बनम्
व्यापारोऽयमदिव्यस्य प्रेक्षितः केन कस्यचित् ॥ ३.३०
अथ वालं विमर्शेन स्वयं सबन्धिनो गृहम्
कन्यां वरयितुं यामि नात्मतुल्यास्ति दूतिका ॥ ३.३१
साथ प्रवहणारूढा वृद्धविप्रपुरःसरा
गत्वा पक्कणमध्यस्थम् ददर्शोत्पलहस्तकम् ॥ ३.३२
दूरादेव स दृष्ट्वा ताम् ात्तकर्करवेणुकः
सह मातङ्गसंघेन ववन्दे दूरमुत्सृतः ॥ ३.३३
अथाङ्गारवती यानाद् वतीर्णा तमब्रवीत्
अहं त्वां द्रष्टुमायाता त्वमप्येष पलायसे ॥ ३.३४
कार्यं मे महदासन्नम् ाधीनं चापि तत्त्वयि
दूरोत्सरणमुत्सृज्य तेन ढौकस्व मामिति ॥ ३.३५
तमुत्सारितमातङ्गम् सासन्नासीनमब्रवीत्
मन्नप्त्रे दीयतां राज्ञे राज्ञी सुरसमञ्जरी ॥ ३.३६
चाण्डालीस्पर्शनं राजा नार्हतीत्येवमादिभिः
न च ग्रामेयकालापैस्त्वं मां बाधितुमर्हसि ॥ ३.३७
यश्च दिव्याभिमानस्ते तत्रापीदं ममोत्तरम्
ममापि भद्र दौहित्रश् चक्रवर्ती भवादृशाम् ॥ ३.३८
इत्यङ्गारवतीवाक्यम् ाकर्ण्योत्पलहस्तकः
अनुक्तोत्तर एवास्यै तथेति प्रतिपन्नवान् ॥ ३.३९
अथ प्रच्छन्नमारोप्य युग्यं सुरसमञ्जरीम्
मृतसंजीविनी नप्तूर् सावोषधिमानयत् ॥ ३.४०
परिणीय तु मातङ्गीम् न्तरन्तःपुराद्बहिः
स बुद्ध्यापि न याति स्म प्रत्यक्षमपि तां स्मरन् ॥ ३.४१
इयमेवास्ति तत्त्वेन मिथ्यान्यदिति चिन्तयन्
गन्धर्वनगराकारम् स संसारममन्यत ॥ ३.४२
गमयन् दिवसानेवम् ेकदा सह कान्तया
स प्रासादगतोऽपश्यत् पक्षणं निर्जनंगमम् ॥ ३.४३
तं च दृष्ट्वा त्रियामान्ते मन्दं सुरसमञ्जरी
क्रन्दन्ती परिमृज्याश्रुम् नुयुक्तेति भूभृता ॥ ३.४४
किं शून्यं पक्कणं दृष्ट्वा रुद्यते सुन्दरि त्वया
उतान्यदस्ति दुःखस्य कारणं कथ्यतामिति ॥ ३.४५
साब्रवीत्किं ममाद्यापि पक्कणेन बवद्गतेः
किं तु कारणमस्त्यन्यद् भीषणं तन्निशाम्यताम् ॥ ३.४६
सिद्धमातङ्गविद्योऽयम् पिता मम महर्द्धिकः
सप्तवर्णपुरे पूर्वम् वायुमुक्ते पुरेऽवसत् ॥ ३.४७
तत्र कालः श्वपाकोऽस्ति विद्याधरगणाधमः
इप्फको नाम तस्यैव पित्राहं च प्रतिश्रुता ॥ ३.४८
तातस्य वियतायातः कदाचिदथ मारुतः
रजःपिशङ्गभृङ्गालीम् हरत्कुसुमस्रजम् ॥ ३.४९
सा तु संध्यामुपासीनम् गङ्गारोधसि नारदम्
स्थाणुस्थिरं भुजंगीव विलोला पर्यवेष्टयत् ॥ ३.५०
व्युत्थितश्च समाधेस्तम् दृष्ट्वा लोहितलोचनः
नारदश्चण्डकोपत्वाद् ुच्चैरिदमभाषत ॥ ३.५१
शरीरोपहता माला येनेयं मालभारिणा
क्षिप्ता मयि मनुष्येषु चण्डालः स भवत्विति ॥ ३.५२
सोऽथ शापोपतप्तेन पित्रा विज्ञापितो मम
तीव्रस्य ब्रह्मशापस्य प्रतीकारो भवत्विति ॥ ३.५३
अथ कृपाम्बुशमित क्रोधज्वालाकदम्बकः
नारदाग्निरुवाचेदम् म्लानमुत्पलहस्तकम् ॥ ३.५४
न शक्यः प्रतिसंहर्तुम् शापवह्निर्मयाप्ययम्
उत्सृष्टः कृतपुङ्खेन धानुष्केणेव सायकः ॥ ३.५५
किं त्वनिच्छाशमाः शापाः प्राज्ञैरभिमुखा गताः
स्वल्पेनापि हि वञ्च्यन्ते तेन त्वमपि वञ्चय ॥ ३.५६
परिणेष्यति गौपालिर् भवतस्तनयां यदा
तदा त्वं दारुणादस्माद् स्मच्छापाद्विमोक्ष्यसे ॥ ३.५७
इति शापे वरं लब्ध्वा वयं त्वत्पादपालिताः
उषिता वर्जिता दुःकैर् होरात्रसमां समाम् ॥ ३.५८
साहं मुनेः प्रसादेन जाता त्वत्पादपालिका
तेनापि शान्तशापेन स्वर्गादस्मान्निराकृता ॥ ३.५९
स कदाचिदितो दृष्ट्वा गतमुत्पलहस्तकम्
मत्कृते त्वामपि क्रूर िप्फकः पीडयेदिति ॥ ३.६०
निर्मातङ्गमिदं दृष्ट्वा मया पितृनिवेशनम्
चण्डालभयशङ्किन्या रुदितं निःसहायया ॥ ३.६१
अस्ति चात्रापि सुकर ुपायः स तु दुष्करः
महाराजस्य साध्यत्वात् प्रतिकूलो हि पार्थिवः ॥ ३.६२
यदि विज्ञापयन्तीं मम् नान्यथा वक्तुमिष्यसि
ततो विज्ञापयिष्यामि कर्तव्ये तु भवान् प्रभुः ॥ ३.६३
अथोक्तं जनराजेन यदिच्छसि तदुच्यताम्
मुक्त्वान्यस्त्रीकथां भीरु सर्वं संपादयामि ते ॥ ३.६४
अथानन्दजनेत्राम्बु सिक्ताननपयोधरा
अतिप्रसाद इत्युक्त्वा ब्रवीत्सुरसमञ्जरी ॥ ३.६५
विद्याधरादिराजेन व्यवस्था स्थापिता यथा
हिंसितव्यः सदोषोऽपि न अन्तःपुरगतो नृपः ॥ ३.६६
इतीदं नृपतिः श्रुत्वा तामुवाच कृतस्मितः
अनुग्रहेऽपि याच्ञेति यदिदं तदिदं ननु ॥ ३.६७
ततश्चारभ्य दिवसाद् हर्निशमवन्तिपः
अमावास्यां शशीवासीज् जनदुर्लभदर्शनः ॥ ३.६८
कदाचिदथ निर्यान्तीम् पुरीमुदकदानकम्
श्रुत्वा हर्म्यावलीशेषाम् राजाप्यासीत्समुत्सुकः ॥ ३.६९
शैशवप्राप्तराज्यत्वाद् िन्द्रियानीतमानसः
तदाल्पदर्शी समयम् विसस्मार स तं ततः ॥ ३.७०
प्रसुप्तामेव दयिताम् ारोप्य शिबिकां निशि
तटं शिवतडागस्य चित्रवृत्तान्तमानयत् ॥ ३.७१
ततस्तन्मकराकीर्णम् पोतेनेव महार्णवम्
प्लवेन व्यचरत्सार्धम् भार्यया वीतनिद्रया ॥ ३.७२
अनुज्ञातावगाहांश्च पश्यन् पौरकुमारकान्
सोऽपश्यद्दयितां भीताम् मा भैषीरिति चाब्रवीत् ॥ ३.७३
सावदत्पालिता येन प्रजाः सर्वा न बिभ्यति
तस्यैवोरसि तिष्ठन्ती बिभेमीति न युज्यते ॥ ३.७४
किं तु यात्रानुभूतेयम् िदानीं निष्प्रयोजनम्
इहासितमहं मन्ये तस्मादावर्त्यतामिति ॥ ३.७५
यात्रापहृतचेतस्त्वात् तद्वाक्यमवकर्णयन्
सभार्यं बद्धमात्मानम् ैक्षतावन्तिवर्धनः ॥ ३.७६
क्रन्दतामथ पौराणाम् पश्यतां चोर्ध्वचक्षुषाम्
इप्फकः स्फुरितक्रोधः समुत्क्षिप्य जहार तम् ॥ ३.७७
अथाङ्गारवतीं मूढाम् पौत्रापहरणश्रवात्
ह्लादयामासतुर्वाक्यैः सचिवौ सजलानिलैः ॥ ३.७८
सा तावुवाच संभ्रान्ता गत्वासितगिरिं लघु
पालकः श्राव्यतां सूनोर् वृत्तान्तमिति तौ गतौ ॥ ३.७९
काश्यपप्रमुखांस्तत्र नमस्कृत्य च तापसान्
वन्दितायाचचक्षाते पालकाय हृतं सुतम् ॥ ३.८०
अथ कण्ठगतप्राणम् काश्यपः समजीवयत्
स्वन्तः खल्वेष वृत्तान्त िति वाक्यामृतेन तम् ॥ ३.८१
संदेहश्चेन्निरीक्षस्व नभःप्रस्थापितेक्षणः
आयान्तीमेव जानीहि पुत्रवार्त्तां शिवामिति ॥ ३.८२
अथागच्छन्तमैक्षन्त नभःप्रहितदृष्टयः
चकासदसिचर्माणम् दिवि दिव्यं तपस्विनः ॥ ३.८३
सोऽवतीर्य मरुन्मार्गाद् स्वतन्त्रीकृतेप्फकः
सह चावन्तिनाथेन काश्यपादीनवन्दत ॥ ३.८४
वधूवन्दितपादे च चेतनावति पालके
विद्याधरः कथितवान् वृत्तान्तं मुनिसंनिधौ ॥ ३.८५
नरवाहनदत्तस्य विद्याधरपतेः प्रियम्
मां दिवाकरदेवाख्यम् जानीत परिचारकम् ॥ ३.८६
सोऽहं हिमवतो गच्छन् नभसा मलयाचलम्
उपरिष्टादवन्तीनाम् चण्डालं दृष्टवानिमम् ॥ ३.८७
अपहृत्यापगच्छन्तम् सदारं मेदिनीपतिम्
इप्फकं नाम मातङ्गम् विद्याधरकुलाधमम् ॥ ३.८८
मुञ्चेति च मयोक्तः सन् यदायं न विमुक्तवान्
तदा युद्धेन निर्जित्य प्राप्तितश्चक्रवर्तिनम् ॥ ३.८९
अनुयुक्तश्च तेनायम् यं राजा हृतस्त्वया
किमित्यवोचदेतेन यन्मे दारा हृता इति ॥ ३.९०
अथ भर्त्राहमादिष्टः संयम्य प्राप्यतामयम्
सभासद्भिः सभां सद्भिः काश्यपाद्यैरधिष्ठिताम् ॥ ३.९१
व्यवहारे विनिर्जित्य लब्धा सुरसमञ्जरीम्
वर्धमानकमालां वा निर्जितोऽयं सरासभाम् ॥ ३.९२
अहमप्यार्युषं द्रष्टुम् काश्यपं स्वं च मातुलम्
आगन्ता स्वः प्रतिज्ञातम् तेषामागमनं मया ॥ ३.९३
ततः संमान्य राजानम् दिव्यैरम्बरभूषणैः
आलिङ्ग्य च ससौहार्दम् मया सह विसृष्टवान् ॥ ३.९४
स चायमिप्फको बद्धः सदारश्चैष भूपतिः
चक्रवर्ती च वो द्रष्टुम् ागन्ता सावरोधनः ॥ ३.९५
ते दिवाकरदेवस्य श्रुत्वेदमृषयो वचः
हर्षाश्रुसिक्ततनवः कृच्छ्रादक्षपयन् क्षपाम् ॥ ३.९६
अथ प्रातर्नभोव्यापि निरभ्रे व्योम्नि गर्जितम्
आकर्ण्य मुनयोऽपृच्छन् किमेतदिति खेचरम् ॥ ३.९७
सोऽब्रवीदेष निर्घोषो दुन्दुभीनां विमानिनाम्
विमानगर्भवर्तित्वात् श्रूयते गर्जिताकृतिः ॥ ३.९८
अयमायाति नः स्वामी विद्याधरपतीश्वरः
गर्जद्दुन्दुभिजीमूतो नभसा दृश्यतामिति ॥ ३.९९
रोहितेन्द्रधनुर्विद्युत् बलाकाद्युतिपिञ्जरम्
अम्भोदानामिव व्याप्त सकलाशानभस्तलम् ॥ ३.१००
नानारत्नप्रभाजाल करालमथ तापसैः
आरादायाद्विमानानाम् दिवो वृन्दमदृश्यत ॥ ३.१०१
अवतीर्याश्रमद्वारि विमानं चक्रवर्तिनः
स्थितमन्यानि शैलस्य कन्दरासानुमूर्धसु ॥ ३.१०२
विद्याधराधिराजस्य विमानं कमलाकृति
पद्मरागपलाशानाम् षड्विंशत्या परिष्कृतम् ॥ ३.१०३
स्वयं गरुडपाषाण कर्णिकामध्यमास्थितः
स्थितास्तस्य पलाशेषु भार्याश्चित्रविभूषणाः ॥ ३.१०४
सभार्याकरिणीयूथः स विद्याधरकुञ्जरः
सभां कमलिनीमागात् फुल्लाननसरोरुहाम् ॥ ३.१०५
अभिवाद्य ततस्तत्र काश्यपप्रमुखान्मुनीन्
हर्षातिशयनिश्चेष्टम् ववन्दे मातुलं मुनिम् ॥ ३.१०६
भर्तारमनुयान्तीभिर् नुज्येष्ठतपस्विनः
देवीभिर्वन्दितास्तस्य श्वशुरस्तदनन्तरम् ॥ ३.१०७
अनुज्ञातासनासीनम् काश्यपश्चक्रवर्तिनम्
प्रसृष्टानन्दनेत्राम्बुर् ब्रवीद्गद्गदाक्षरम् ॥ ३.१०८
अप्राप्तेष्टार्थसंपत्ति वाञ्छाशीरभिधीयते
आयुष्मता तु तत्प्राप्तम् ाशिषां यदगोचरम् ॥ ३.१०९
किं तु संभाषितैः कार्यम् प्रतिसंभाषणं यतः
आचारमनुगच्छद्भिर् स्माभिरिदमुच्यते ॥ ३.११०
अनिन्द्यमिदमैश्वर्यम् सभार्यासुहृदस्तव
महाकल्पावसानेऽपि कूटस्थं तिष्ठतामिति ॥ ३.१११
पालकेनानुयुक्तस्तु वधूनां गोत्रनामनी
गोमुखः कथयामास प्रेरितश्चक्रवर्तिना ॥ ३.११२
एवमादिकथान्ते च चक्रवर्ती तपस्विनः
अब्रवीदिप्फकः पूज्या मातङ्ग अनुयुज्यताम् ॥ ३.११३
कं दोषमयमुद्दिश्य यात्राव्यापृतमानसम्
सार्धं सुरसमञ्जर्या राजानं हृतवानिति ॥ ३.११४
स पृष्टः प्रत्युवाचेदम् मह्यमुत्पलहस्तकः
दत्त्वा दुहितरं पश्चाद् ेतस्मै दत्तवानिति ॥ ३.११५
अथ ब्रूहीति पृष्टः सन्न् ुवाचावन्तिवर्धनः
दत्त्वा न दत्तवान् योऽस्मै नन्वसौ पृच्छ्यतामिति ॥ ३.११६
अथोज्झितासनः सभ्यान् ुवाचोत्पलहस्तकः
यथाहायं तथैवेदम् विशेषं तु निबोधत ॥ ३.११७
नारदेन पुरा शप्तः क्रुद्धेनाहं यथा तथा
प्रत्यक्षमेव पूज्यानाम् दिव्यलोचनचक्षुषाम् ॥ ३.११८
तदा मयैष दीर्घायुर् बहुकृत्वः प्रबोधितः
सुता दत्ता मया तुभ्यम् ुपयच्छस्व तामिति ॥ ३.११९
उक्तश्चैवमुवाचायम् निन्दितां कः सचेतनः
कन्यकामुपयच्छेत शापदग्धात्कुलादिति ॥ ३.१२०
प्रत्याख्याता यदानेन चण्डसिंहादिसंनिधौ
अवन्तिपतये दत्ता तदा सुरसमञ्जरी ॥ ३.१२१
संदेहश्चेदमी सर्वे विद्याधरगणेश्वराः
पृच्छ्यन्तामिति पृष्टैश्च तत्तथेति निवेदितम् ॥ ३.१२२
काश्यपस्तमथावोचद् वसन्नोऽसि खेचर
चण्डसिंहादिभिर्यस्मात् प्रमाणैः प्रतिपादितः ॥ ३.१२३
अस्य चाविनयस्येदम् प्रायश्चित्तं समाचर
वाराणस्यां मृताङ्गानि गङ्गाम्भसि निमज्जय ॥ ३.१२४
प्रेतावासकृतावासो वसानः प्रेतचीवरम्
भैक्षाशनश्च वर्षान्ते मुक्तशापो भविष्यसि ॥ ३.१२५
अथोज्जयन्याः कथमप्युपागतैर् जरान्धजात्यन्धजडार्भकैऋ अपि
दिदृक्षुभिर्वत्सनरेन्द्रनन्दनम् तपोवनं सप्रमदैस्तदावृतम् ॥ ३.१२६
अथ विद्याधरपतिः काश्यपेनार्युषा पुरः
ऋषिमातुलमित्राणाम् पृष्टो भार्यागणस्य च ॥ ४.१
आयुष्मन् वयमेते च तपोवित्ताः सपालकाः
त्वत्कथाश्रवणोत्कण्ठ निष्कम्पमनसः स्थिताः ॥ ४.२
ऐश्वर्यं दुर्लभं लब्धम् िदमायुष्मता यथा
स्वीकृताश्च यथा वध्वस्तथा नः कथ्यतामिति ॥ ४.३
अथ विद्याधरेशस्य पृष्टस्येति तपस्विना
त्रासात्पृथुतराक्षस्य जातमच्छायमाननम् ॥ ४.४
अचिन्तयच्च कष्टेयम् ापदापतिता यतः
अत्यासन्नोऽतिचपलः को न दह्येत वह्निना ॥ ४.५
इयमपि भृशं रक्ता प्रीत्याहमनयाहृतः
इदं सचेतनः को नु कथयेद्गुरुसंनिधौ ॥ ४.६
शूरो मया हतः शत्रुर् मां शूरः शरणं गतः
इति शूरकथां शूरः कुर्यात्कः शूरसंनिधौ ॥ ४.७
अनाख्याने मुनेः शापो महापातकमन्यथा
सुलभान्तो वरं शापो दुस्तरं न तु पातकम् ॥ ४.८
कृत एव तु गौर्या मे प्रसादः संकटेषु माम्
स्मरेरिति न च न्याय्यम् तामपि स्मर्तुमीदृशि ॥ ४.९
इति चिन्तितमात्रैव पुरस्ताच्चक्रवर्तिनः
अभाषत महागौरी प्रभोपहतभास्करा ॥ ४.१०
ऋषिमातुलभार्याणाम् सुहृदां च सभूभुजाम्
श्रोतुं यदुचितं यस्य स तच्छ्रोष्यति नेतरः ॥ ४.११
इत्युक्त्वा वदने तस्य पटूभूत्वा सरस्वती
चरितं कथयामास सा चित्रं चक्रवर्तिनः ॥ ४.१२
मुनिमातुलमित्राणि राजानो दयिताश्च ये
आख्यायमानं चरितम् शृण्वन्त्वचलचेतसः ॥ ४.१३
अस्ति वत्सेषु नगरी कौशाम्बी हृदयं भुवः
संनिविष्टानुकालिन्दि तस्यामुदयनो नृपः ॥ ४.१४
मनाग्जनपदस्यास्य नगर्याः पार्थिवस्य च
कथयेयं यदि गुणान् न कथा कथिता भवेत् ॥ ४.१५
यो हि सप्तार्णवद्वीपाम् द्रष्टुमुच्चलितः क्षितिम्
रत्नानि गणयेन्मेरोः कदा द्रष्टा स मेदिनीम् ॥ ४.१६
तस्मादलं प्रसङ्गेन कथाव्यासङ्गकारिणा
कथ्यमानां कथामेव शृणुत प्रकृतां मया ॥ ४.१७
महावरोधनस्यापि भार्याबुद्धिर्द्वये स्थिता
तस्य वासवदत्तायाम् पद्मावत्यां च भूपतेः ॥ ४.१८
महाप्रभावा नृपतेः शार्ङ्गपाणेर्भुजा इव
सकाया इव चोपायाश् चत्वारो मित्रमन्त्रिणः ॥ ४.१९
ऋषभश्च रुमण्वांश्च तथा यौगन्धरायणः
वसन्तकश्चेति स तैः सह कालमयापयत् ॥ ४.२०
कदाचिदास्थानगतम् नृपं वाणिजदारकौ
जानुस्पृष्टमही पृष्टौ संविज्ञापयतामिदम् ॥ ४.२१
देवावयोः पिता यातः सभयं मकरालयम्
सह तेन स पोतेन नागलोकं प्रवेशितः ॥ ४.२२
ज्येष्ठश्च तनयस्तस्य पितृभक्त्यैव सागरम्
गतस्तत्रैव च गतः सोऽपि तातगतां गतिम् ॥ ४.२३
यच्च नो द्रविणं सारम् तद्गृहीत्वा प्रजावती
स्थिता न मृग्यमाणापि बहुकृत्वः प्रयच्छति ॥ ४.२४
तेन देव यदि न्याय्यम् पितृद्रविणमावयोः
भ्रातृजाया ततः सा नौ व्युत्थिता दाप्यतामिति ॥ ४.२५
अथ राजावदत्पह्वाम् प्रतीहारीं यशोधराम्
दुष्करं कुलनारीभी राजास्थानप्रवेशनम् ॥ ४.२६
तेन गत्वा गृहं तस्यास्त्वया वाणिजयोषितः
सा यदाह सभायास्तत् समक्षं कथ्यतामिति ॥ ४.२७
अथ विज्ञापयामास यातायाता यशोधरा
विज्ञापयति सा यत्तद् ाकर्णयितुमर्हथ ॥ ४.२८
सा दूरादेव मां दृष्ट्वा प्रत्युद्गम्य ससंभ्रमा
स्वाग्तं राजजिह्वाया ित्यवोचत्कृतस्मिता ॥ ४.२९
अथ वेत्रासनासीनाम् प्रयुक्तार्घादिसत्क्रियाम्
सा मामाहागमे कार्यम् ार्यया ज्ञाप्यतामिति ॥ ४.३०
देवादेशे तु कथिते तयोक्तं पटुलज्जया
आर्ये सर्वमिदं सत्यम् देवरौ मे यदाहतुः ॥ ४.३१
किं तु तस्यानयोर्भ्रातुर् विपन्नं वहनं श्रुतम्
वहनस्य पुनः स्वामी विपन्न इति न श्रुतम् ॥ ४.३२
सांयात्रिकाश्च बहवः श्रुतपोतविपत्तयः
अविपन्ना गृहानेव श्रूयन्ते पुनरागताः ॥ ४.३३
तथा कदाचिदनयोः स भ्राता वहनापदः
विमुक्तः पुनरायायान् ममावैधव्यलक्षणैः ॥ ४.३४
अन्यच्चापन्नसत्त्वाया मासोऽयं दशमो मम
वर्तते भ्रातृपुत्रोऽपि कदाचिदनयोर्भवेत् ॥ ४.३५
पुत्रो मे यदि जायेत जीवन् वा पतिरापतेत्
ततः स्वीकृतसर्वस्वौ देवरौ मे क्व यास्यतः ॥ ४.३६
एतन्मनसि कृत्वार्थम् द्रव्यं देवरयोरहम्
न निक्षिप्तवती शेषम् ार्यया ज्ञाप्यतामिति ॥ ४.३७
इति श्रुत्वा महीपालो वाणिजाविदमब्रवीत्
कुटुम्बाचारचतुरा युक्तमाह कुटुम्बिनी ॥ ४.३८
भ्रातृव्ये भवतोर्जाते भ्रातुरागमनेऽथ वा
उभयोर्नोभयोर्वापि युक्तं भोक्ष्यामहे तदा ॥ ४.३९
अथानिष्ठितए एवास्मिन्न् ालापे पूरिताम्बरः
तूर्यगर्जितसंभिन्नस्तारः कलकलोऽभवत् ॥ ४.४०
सहासया च सहसा वासोवासादिहस्तया
वणिग्गणिकया राजा व्यज्ञाप्यत वियातया ॥ ४.४१
वर्धतां नश्चिरं देवो दिष्ट्या प्रकृतिसंपदा
वणिजो भ्रातृजायाया जातः पुत्रोऽनयोरिति ॥ ४.४२
चित्रीयमाणचित्तेन चिन्तितं च महीभुजा
अहो पुत्रस्य माहात्म्यम् प्रत्यक्षमनुभूयते ॥ ४.४३
कुटुम्बिनः पुत्रनाम्नि जाते शोणितबिन्दुके
हर्षविभ्रान्तचित्तानाम् वणिजां पश्य डम्बरम् ॥ ४.४४
वणिजो द्रविणस्यायम् तः पालक इत्यमी
समं हर्षविषादाभ्याम् मित्रामित्रसमा गताः ॥ ४.४५
अस्माकं तु धनस्यास्य मेदिनीमण्डलस्य च
अवसाने विना पुत्रात् पालकः को भविष्यति ॥ ४.४६
इति पुत्रगतां चिन्ताम् ुपासीनस्य भूपतेः
दीर्घश्वाससहायस्य दिवसाः कतिचिद्ययुः ॥ ४.४७
तमेकदा सुखासीनम् सेनापतिरभाषत
यात्रा मृगाजिनोद्याने त्वद्दृष्ट्या मण्डतामिति ॥ ४.४८
गतश्च दृष्टवांस्तत्र तत्र तत्र निवेशिताः
विशालाश्चित्रशालाः स चित्रन्यस्तनराधिपाः ॥ ४.४९
अपृच्छच्च रुमण्वन्तम् यं कः कः क्षितीश्वरः
ये चैताननुतिष्ठन्ति ते के के पुरुषा इति ॥ ४.५०
सोऽब्रवीदेष सगरः कीर्तिलङ्घितसागरः
षष्त्या पुत्रसहस्राणाम् शूराणां परिवारितः ॥ ४.५१
अयं दशरथो राजा वृतो रामादिभिः सुतैः
अयं पाण्डुरमी चास्य तनयाः पञ्च पाण्डवाः ॥ ४.५२
एवमादीनसौ दृष्ट्वा स्वर्गिणः पुत्रिणो नृपान्
विचिन्तश्चिन्तयामास चित्रां यात्रामचिन्तयन् ॥ ४.५३
पुण्यवन्त इमे भूपाः पुत्रवन्तो दिवं गताः
मन्दपुण्येन यातव्यम् मन्ये पुंनरकं मया ॥ ४.५४
स मृगाजिनयात्रायाः परीतः पुत्रचिन्तया
निवृत्यापश्यदावन्त्याम् मन्दिरोद्यानसेविनीम् ॥ ४.५५
स्वकराम्बुरुहछाया संलोहितितपल्लवम्
ताम्राशोकलताप्रान्तम् वलम्ब्य व्यवस्थिताम् ॥ ४.५६
अनादरादनाहितैर् माल्यचन्दनभूषणैः
उद्वेगमिव शंसन्तीम् म्लानाननसरोरुहाम् ॥ ४.५७
उपगम्याब्रवीच्चैनाम् किमशोकः सशोकया
वन्द्येत लब्धविजयो रक्तो बालो निषेव्यते ॥ ४.५८
साब्रवीत्सहसायात भर्तृकारितसंभ्रमा
महाराज कुतः शोको नामापि तव गृह्यताम् ॥ ४.५९
किं तु पारावतीमेनाम् चञ्च्वा चञ्चुषु तण्डुलान्
आवपन्तीं स्वशावानाम् ीक्षे पुत्रवतीमिति ॥ ४.६०
आसिच्च नृपतेश्चिन्ता यथाहं पुत्रचिन्तया
अनन्तया संततया तथेयमपि खिद्यते ॥ ४.६१
अथ तत्र क्षणं स्थित्वा गत्वा पद्मावतीगृहम्
अदृष्ट्वा तत्र तां तस्याः पृष्टवान् परिचारिकाम् ॥ ४.६२
क्व देवीत्युक्तयाख्यातम् ुद्याने पुत्रकस्य सा
माधव्या सहकारस्य विवाहमनुतिष्ठति ॥ ४.६३
श्रुत्वेति वत्सराजस्य बुद्धिरासीदहो मम
भार्याणां दिवसा यान्ति सह पुत्रमनोरथैः ॥ ४.६४
लोकस्यानिच्छतः पुत्रैः कीर्णगृहकरोदिभिः
फलकेषु कृताक्रन्दैर् वकाशो न लभ्यते ॥ ४.६५
अस्माकमिच्छतामेकः कुलजीवितकारणम्
न लभ्यते सुतः पश्य वैपरीत्यं विधेरिति ॥ ४.६६
निर्याय स ततः स्वस्मिन् मन्दिरोद्यानमण्डपे
अनागतागतसुहृत् परिवार उपाविशत् ॥ ४.६७
अपृच्छत्सुहृदस्तत्र भवतां जीवितौषधम्
मूलं कुलतरोः कस्य कियन्तः पुत्रका इति ॥ ४.६८
तेषु निष्प्रतिवाक्येषु किंचिन्नमितमूर्धसु
वसन्तकः परिहसन् प्रणयित्वादभास्.अत ॥ ४.६९
स्वामिभक्ता वयं देव स्वामिवृत्तानुवर्तिनः
यावन्तः स्वामिनः पुत्रास्तावन्तोऽस्माकमप्यतः ॥ ४.७०
तमवोचत्समीपस्थः शनैर्यौगन्धरायणः
अप्रस्तावेऽपि भवतो मुखमेतदनावृतम् ॥ ४.७१
पुत्रचिन्तारुजार्तस्य कुर्वाणः शल्यघट्टनम्
नन्वनेकगुणां भर्तुर् ुत्पादयसि वेदनाम् ॥ ४.७२
तस्मादेवंविधे काले भृत्यवृत्तविदा त्वया
स्वामिचित्तानुकुलैव वृत्तिरास्थीयतामिति ॥ ४.७३
सोऽब्रवीत्पुत्रचिन्तैनम् यदि सत्येन पीडयेत्
ततः पिङ्गलिकैवेयम् देवमाराधयेदिति ॥ ४.७४
अथेदं नीयकैरुक्तम् युक्तं श्रुत्वा महीभुजा
यासौ पिङ्गलिका सा नः पुत्रिणी कथ्यतामिति ॥ ४.७५
अनन्तरं च ढौकित्वा जयशब्दपुरःसरम्
पुत्रवान् भव देवेति ब्राह्मणी तमवर्धयत् ॥ ४.७६
अभिवाद्य महीपलस्तामपृद्धदथार्यया
आगम्यते कुतः के वा तवामी बालका इति ॥ ४.७७
गृहाद्वासवदत्ताया राजन्नागम्यते मया
बालकाश्च सुता एते ममेति कथितं तया ॥ ४.७८
अथ तामब्रवीद्राजा चित्रमेतत्त्वयोदितम्
न हि भर्त्रा न च सुतैर् भवितव्यं तवेदृशैः ॥ ४.७९
त्वं लेखाभिः पतिघ्नीभिः सकलैव करालिता
चिरप्रोषितकान्ताया गृहभित्तिरिव स्त्रियः ॥ ४.८०
न च पत्या विना पुत्रैर् भवितव्यं यतः स्त्रियः
तस्मादिदं महच्चित्रम् स्फुटं नः कथ्यतामिति ॥ ४.८१
अथावोचदसौ देव यथात्थ न तदन्यथा
महती तु कथा श्रोतुम् िच्छा चेच्छ्रूयतामियम् ॥ ४.८२
अस्त्यवन्तिषु विप्राणाम् धिवासः कपिष्ठलः
अग्निकुण्डचितसीमा स्फीतगोधूमगोकुलः ॥ ४.८३
उवास ब्राह्मणस्तत्र सोमदत्तस्त्रयीधनः
यस्यान्तेवासिभिर्व्याप्ता वसुधा वेदवेदिभिः ॥ ४.८४
पत्नी वसिष्ठकल्पस्य वासिष्ठी तस्य सुव्रता
वसिष्ठपत्नीमपि या साधुवृत्तामलज्जयत् ॥ ४.८५
तस्य तस्यामपुत्रस्य काले महति गच्छति
उत्पन्नोल्केव संध्यायाम् सुता लोचनदुर्भगा ॥ ४.८६
सोमदत्तस्तु तां दृष्ट्वा स्त्रीलक्षणविशारदः
पतिपुत्रधनैर्हीनाम् ादिदेश भविष्यतीम् ॥ ४.८७
अनर्थानां बलीयस्त्वाद् चिरेणैव दुर्भगा
धूमकेतुशिखेवोच्चैः परुषा सा व्यवर्धत ॥ ४.८८
भिक्षामाच्छिद्य शिष्येभ्यो बुभुक्षाक्षपितत्रपा
अप्रक्षालितहस्तैव तत्समक्षमभक्षयत् ॥ ४.८९
दुर्भगत्वाद्विरूपत्वात् कलिकारितया च ताम्
न कश्चिद्वरयामास वरः प्राप्तवरामपि ॥ ४.९०
न च तां सोमदत्तोऽपि कस्मैचिदशुभामदात्
मा स्म युज्यत दुःखेन प्राप्यैनां निन्दितामिति ॥ ४.९१
ग्राम्याग्निनेव संकार कूटिका साप्यदह्यत
सर्वंकषप्रभावेन प्रबलेनाङ्गजन्मना ॥ ४.९२
कदाचित्कश्चिदागत्य वाचाटो बटुरुच्चकैः
मस्तकस्थो भयकरः सोमदत्तमभाषत ॥ ४.९३
उपाध्यायस्य दुहिता मामाक्रुध्य निरागसम्
इष्टकालोष्टकैर्हन्ति तेनासौ वार्यतामिति ॥ ४.९४
सोमदत्तस्ततः क्रुद्धः सुतां चण्डमभर्त्सयत्
उल्के पिशाचिके गच्छ शीघ्रं मम गृहदिति ॥ ४.९५
सा तु तत्परुषं श्रुत्वा मनस्विजनदुःश्रवम्
स्मरपीडासहत्वाच्च मरणाय मनो दधे ॥ ४.९६
अरण्यानिं ततो गत्वा मरणोपायकाङ्क्षया
अद्राक्षित्क्वचिदुद्देशे प्रासादं दैत्यघातिनः ॥ ४.९७
तस्यादूरे च सरसीम् कूजत्कुररसारसाम्
गुञ्जन्मधुकरश्रेणीम् नुमातव्यरोधसम् ॥ ४.९८
आसीच्चास्या मया तावन् मर्तव्यमिति निश्चितम्
उपायेषु तु संदेहस्तत्रोपायोऽयमुत्तमः ॥ ४.९९
देवं माधवमर्चन्ती कमलेन्दीवरादिभिः
पङ्कजावयवाहारात् क्षीणा त्यक्ष्यामि जीवितम् ॥ ४.१००
कृतपुण्या मृता स्वर्गम् यास्यामि निरुपद्रवम्
नरकं तु न यास्यामि स्त्रीमृत्युमृतसंकुलम् ॥ ४.१०१
साकरोदिति निश्चित्य यथासंकल्पमादृता
रात्रौ च बद्धपर्यङ्का देवं माधवमस्मरत् ॥ ४.१०२
मासमात्रे गतेऽपश्यत् स्वप्नान्ते मधुसूदनम्
वरं वरय पुत्रीति भाषमाणं मुदायुतम् ॥ ४.१०३
साथ व्यज्ञापयत्प्रह्वा देवं विरचिताञ्जलिः
मरणं मे जगन्नाथ प्रसादः क्रियतामिति ॥ ४.१०४
देवस्तामवदन्नेदम् देवताराधनात्फलम्
प्राणिहत्याविपाकोऽयम् ात्महत्या च निन्दिता ॥ ४.१०५
तस्मादन्यं वरं ब्रूहि पतिपुत्रधनाधिकम्
येन हीनासि वैराग्यान् निर्याता स्वगृहादिति ॥ ४.१०६
साब्रवीत्कृतपुण्याभिः पत्यादिः स्त्रीभिराप्यते
अहं त्वाचरितापुण्या दुःखैरेव विभाविता ॥ ४.१०७
तेनालं पतिपुत्रादि चिन्तया फलहीनया
मृत्युना शान्तिमिच्छामि सा मे संपाद्यतामिति ॥ ४.१०८
सोऽब्रवीत्सत्यमेवेदम् किं तु जन्मान्तरे त्वया
यवाढकः पितुर्गृहे ब्राह्मणायोपपादितः ॥ ४.१०९
स च जातश्चतुर्वेदः स्वपुण्यैरिह जन्मनि
सुरूपः साधुवृत्तश्च स ते भर्ता भविष्यति ॥ ४.११०
स च त्वामुर्वशीरूपाम् ेको द्रक्ष्यति नापरः
क्रीतो यवाढकेन त्वम् िति यावन्न वक्ष्यसि ॥ ४.१११
जन्मान्तरे च पूर्वस्मिन् भक्षयन्त्यास्तिलास्तव
अष्टौ निपतिता वह्नाव् ञ्जलेर्विरलाङ्गुलेः ॥ ४.११२
ते ते पुत्रा भविष्यन्ति पुत्रि चन्द्रनिभाननाः
मरणाद्दारुणात्तेन चित्तमावर्त्यतामिति ॥ ४.११३
इत्युक्त्वान्तर्हिते देवे प्रतिबुद्धा ददर्श सा
सशिष्यवर्गं पितरम् तद्गवेषिणमागतम् ॥ ४.११४
तपःकृशां सकरुणः पिता कारितपारणाम्
श्राम्यन्तीमनयद्गेहम् विश्राम्यन्तीं तरौ तरौ ॥ ४.११५
या सा पिङ्गलिका देव देवमाराध्य केशवम्
वरं लब्धवती तस्मात् तां मामेव निबोध ताम् ॥ ४.११६
एकदा तु चतुर्वेदः सान्तेवासी यदृच्छया
गृहमस्माकमायातः कृतातिथ्यो ददर्श माम् ॥ ४.११७
मम तातं तु सोऽपृच्छद् ब्रह्मन् कस्येयमात्मजा
कान्तिनिन्दितचन्द्राभा युक्तं चेत्कथ्यतामिति ॥ ४.११८
ममेति कथिते पित्रा मां प्रार्थयत स द्विजः
पित्रा दत्तं च विधिवन् मुदितः परिणीतवान् ॥ ४.११९
ततश्चारभ्य दिवसात् स सिद्ध इव किंकरः
न कांचिन्न करोति स्म ममाज्ञां निन्दितामपि ॥ ४.१२०
अमी चाष्टौ सुतास्तस्माद् चिरेणैव दुर्लभाः
लब्धा मया सुता येऽस्य प्रसादाल्लोकधारिणः ॥ ४.१२१
इति काले गते भर्ता मां कदाचिदभाषत
पृष्ठं दुःखायमानं मे चण्डि संवाह्यतामिति ॥ ४.१२२
अनुक्तपूर्ववचनम् ुक्तवन्तमथाब्रुवम्
किमहं भवता क्रीता पृष्ठसंवाहिकेति तम् ॥ ४.१२३
सोऽब्रविन्नीचकैस्त्रासाद् ङ्गुष्ठाग्रेण गां लिखन्
अहं वा किं त्वया क्रीतो येन प्रेष्यत्वमागतः ॥ ४.१२४
ततो विस्मृत्य समयम् भर्तारं रोषदूषिता
क्रीतो यवाढकेनासि मयेत्यप्रियमब्रुवम् ॥ ४.१२५
असावपि च मां दृष्ट्वा सहजाकारवञ्चिताम्
संनिकर्षादपक्रम्य संभ्रान्त इदमब्रवीत् ॥ ४.१२६
अपि कासि कुतश्चासि केनासि विकृता कृता
कच्चित्पिङ्गलिका नासि कश्च नाम यवाढकः ॥ ४.१२७
इति तेनानुयुक्ताहम् यथावृत्तमवर्णयम्
सोऽपि संजातनिर्वेदो न जाते क्व पलायितः ॥ ४.१२८
तस्मिन् देशान्तरं याते ताते च त्रिदशालयम्
पितृभर्तृविहीनाहम् ेनं देशमुपागता ॥ ४.१२९
स्वदेशप्रीतियोगाच्च देव्या वसवदत्तया
सपुत्रानुगृहीता अस्मि भक्ताच्छादनरक्षणैः ॥ ४.१३०
तेन देवेन यत्पृष्टम् कुतस्ते बालका इति
एवमेते मया लब्धास्तुष्टान्नारायणादिति ॥ ४.१३१
इति हृष्तमतिर्निशाम्य तस्याश् चरितं पुत्रसमूहलाभहेतुम्
सचिवैः सहितश्चकार राजा सुतसंप्राप्तिफलं क्रियाविचारम् ॥ ४.१३२
अथ संप्रेषितास्थानः सचिवानब्रवीन्नृपः
यद्ब्रवीमि निबोधन्तु भवन्तस्तत्सचेतसः ॥ ५.१
ऋणैः किल समाघ्रातः पुरुषो जायते त्रिभिः
ब्रह्मचर्येष्टिसंतानैर् ृषिदेवस्वधाभुजाम् ॥ ५.२
तत्राधिगतवेदोऽहम् िष्टाशेषमहाक्रतुः
अपुत्रत्वात्तु पितृभिर् गृहीतः पिण्डभोजिभिः ॥ ५.३
न च पुत्राङ्गसंस्पर्शात् सुखहेतुरनुत्तरः
सुखिभिः स हि निर्दिष्टश् चन्दनादपि शीतलः ॥ ५.४
अलं चातिप्रसङ्गेन सर्वथा गृहमेधिनाम्
दृष्टादृष्टसुखप्राप्तेः पुत्रादन्यन्न कारणम् ॥ ५.५
तदस्ति यदि वः काङ्क्षा निष्प्रजानां प्रजां प्रति
आरभध्वं मया सार्धम् देवताराधनं ततः ॥ ५.६
ते तु सप्रमदाः श्रुत्वा राज्ञः पुत्रार्थिनः कथाम्
सिद्धकल्पात्मसंकल्पाः प्रत्यूचुर्दर्शितस्मिताः ॥ ५.७
पुत्रजन्म वणिग्वध्वा यात्रायां चित्रदर्शनम्
पिङ्गलीदर्शनं चेति प्रयोगोऽयमनुष्ठितः ॥ ५.८
अस्माभिः स च देवेन तथैव सफलीकृतः
कृतः काले प्रयोगो हि नाफलो जातु जायते ॥ ५.९
तेन संकल्पसदृशीम् ारभध्वं क्रियामिति
सचिवैरभ्यनुज्ञातस्तथेति प्रतिपन्नवान् ॥ ५.१०
स पुण्येऽहनि संपूज्य देवताग्निद्विजन्मनः
ययौ नागवनोद्यानम् सदारः सह मन्त्रिभिः ॥ ५.११
मागधी तु कृतोत्साहा देव्या वासवदत्तया
अलमालि तवानेन खेदेनेति निवारिता ॥ ५.१२
उक्ता च ननु बालासि मृणालीतन्तुकोमला
अनुभूतसुखा चासि भ्रातुर्भर्तुश्च वेश्मनि ॥ ५.१३
दुःसहानि तु दुःखानि मया निन्दितभाग्यया
अनुभूतानि तेनाहम् शक्ता दुःखमुपासितुम् ॥ ५.१४
यश्च मे भविता पुत्रः स भवत्या भविष्यति
कृत्तिकागर्भसंभूतो भवान्या इव षण्मुखः ॥ ५.१५
इति तस्यां निवृत्तायाम् सह वासवदत्तया
तपोभिरचिराद्राजा राजराजमतोषयत् ॥ ५.१६
एकदा प्रतिभुद्धौ तु दंपती जातसंभ्रमौ
हा देवि हार्यपुत्रेति व्याहरन्तौ परस्परम् ॥ ५.१७
अथोपस्पृश्य नृपतिर् नमस्कृत्वा धनाधिपम्
पुरः पुरोहितादीनाम् ाचख्यौ स्वप्नमादृतः ॥ ५.१८
अद्य पश्याम्यहं स्वप्ने व्योम्नि कामपि देवताम्
प्रभाम्भःसंततिव्यस्त नभोमण्डलनीलताम् ॥ ५.१९
सा मामुक्तवती वाचा घम्भीरसुकुमारया
त्वामाह्वयति वित्तेशस्तदाशां गम्यतामतः ॥ ५.२०
मयौमिति प्रतिज्ञाते संध्यारक्ततरं करम्
आरोप्य प्रस्थिता व्योम्नि दिशं वित्तेशपालिताम् ॥ ५.२१
शर्वेणेह धृता गङ्गा परिणीतात्र पार्वती
इत्यादीन् दर्शयन्ती नौ प्रदेशं पार्वतीपितुः ॥ ५.२२
नीयमानः क्रमेणेत्थम् थाहं दृष्टवान् पुरः
चन्द्रपाषाणनिर्माण प्राकारामलकापुरीम् ॥ ५.२३
गणानां पार्वतीभर्तुर् गणैरगणितैर्युतम्
यस्या बाह्यमदृष्टान्तम् कल्पपादपकाननम् ॥ ५.२४
नानामणिप्रभाजाल कल्माषशिखराण्यपि
शुभ्रयत्येव हर्म्याणि यस्यां रुद्रेन्दुचन्द्रिका ॥ ५.२५
अवतार्य तु मां द्वारे गुह्यकेश्वरवेश्मनः
वदति क्षणमत्रैव स्थीयतामिति देवता ॥ ५.२६
सा प्रविश्य प्रतीहार्या सह निर्गम्य भाषते
अनुज्ञातप्रवेशोऽसि देवेनागम्यतामिति ॥ ५.२७
भवनानीव देवानाम् षडतिक्रम्य सप्तमे
कक्षान्तरे प्रकृष्टर्द्धौ पश्यामि द्रविणेश्वरम् ॥ ५.२८
अथ तत्राप्सराः काचित् कांचिदाह निरीक्ष्य माम्
सखि नूनमसावेष यस्यासौ भविता सुतः ॥ ५.२९
मया मन्त्रयमाणानाम् ृषीणामग्रतः श्रुतम्
भरतानामयं वंशे विशुद्धे जायतामिति ॥ ५.३०
न चैष केवलं धन्यस्तेन पुत्रेण पार्थिवः
सोऽपि साधूपमानस्य पुत्रः पात्रं भविष्यति ॥ ५.३१
तेन तत्तादृशं पुत्रम् लभतामेष भूपतिः
असावपि शचीशक्र चरितौ पितरावपि ॥ ५.३२
कार्ये गुरुणि सक्तत्वात् तृणीकृतसुराङ्गनः
सकिंकरगणं प्रह्वः प्रणमामि धनाधिपम् ॥ ५.३३
मनुष्यधर्मा तु भुजम् भुजगेश्वरपीवरम्
उद्यम्याह मनुष्येन्द्र स्वागतं स्थीयतामिति ॥ ५.३४
आसन्ने रत्नचरणे दापिते कनकासने
व्यवधाय तु मामास्ते देवी नीचैस्तरासना ॥ ५.३५
स्वनन्ति परिवादिन्यस्ताडिता नारदादिभिः
अनेकाकारकरणः श्रूयते पुष्करध्वनिः ॥ ५.३६
उर्वशीमेनकारम्भा चित्रलेखाक्रतुस्थलाः
गायन्त्यः कुट्टिततला नर्तयन्ते तिलोत्तमाम् ॥ ५.३७
एवंप्राये च वृत्तान्ते कुमारो नलकूबरः
राजराजसुतः क्रीडन्न् ायातः सह बालकैः ॥ ५.३८
मेरुसारमहारत्न संघातकृतसंहतिम्
क्रीडाशकटिकां कर्षन्न् ितश्चेतश्च गच्छति ॥ ५.३९
अथ स्खलितचक्रायास्तस्याः कुसुमसंचये
उत्प्लुत्य पतितं रत्नम् वैडूर्यक्षोदकुट्टिमे ॥ ५.४०
अथ प्रसारितकरः कुवेरो नलकूबरम्
मह्यमेतद्ददस्वेति तद्रत्नमुदयाचत ॥ ५.४१
न्यस्तं च राजपुत्रेण राजराजकरोदरे
रत्नं पङ्कजगर्भस्थ बन्धूकमिव राजते ॥ ५.४२
दुष्टलक्षणमुक्तानाम् मुक्तानां परिवारितम्
षड्विंशत्या पद्मरागम् ष्टाश्रि बहलप्रभम् ॥ ५.४३
वित्ताधिपतिना मह्यम् दत्तं देव्यै च तन्मया
स्तनयोरन्तरे न्यस्तम् नयापि स्फुरन्मुदा ॥ ५.४४
सिंहशावस्ततो भूत्वा चञ्चद्वालधिकेशरः
विदार्य दक्षिणं कुक्षिम् ेतस्याः प्रविशत्यसौ ॥ ५.४५
तदवस्थामिमां दृष्ट्वा हा देवीति वदन्नहम्
प्रतिबुद्ध इति स्वप्नम् ाचष्टे स्म नराधिपः ॥ ५.४६
अथ नक्षत्रशास्त्रज्ञः सिद्धादेशः ससंमदः
आदित्यशर्मा स्वप्नस्य द्विजः फलमवर्णयत् ॥ ५.४७
विजयस्व महाराज पुत्रेण द्विषतां गणम्
समाधिनेव बलिना रागादीनां बलीयसाम् ॥ ५.४८
विमानघनसंघात स्थगितेन्दुदिवाकरः
विद्याधरसमूहेन्द्रः पुत्रस्तव भविष्यति ॥ ५.४९
यास्ता मुक्तापरीवारास्तस्य षड्विंशति मणेः
महाकुला भविष्यन्ति भार्यास्तव सुतस्य ताः ॥ ५.५०
ये चाष्टावश्रयो रत्नम् परितो लक्षितास्त्वया
विद्यास्ता विद्धि पुत्रस्य भविष्यन्ती भविष्यतः ॥ ५.५१
एवं च स्थापिते स्वप्ने राजकीये द्विजन्मना
स्वस्वप्नः कथितस्तत्र देव्या वासवदत्तया ॥ ५.५२
आर्यपुत्रेण यो दृष्टः स एव सकलो मया
कुक्षौ विदार्यमाणे च हार्यपुत्रेति भाषितम् ॥ ५.५३
इति श्रुतवतः स्वप्नौ तुल्यावादित्यशर्मणः
भविष्यद्विषये ज्ञाने दृढतां निश्चयो गतः ॥ ५.५४
अथ विज्ञापयामास रुमण्वान्मेदिनीपतिम्
दृष्टः स्वप्नो मया यः स श्रवणेनानुगृह्यताम् ॥ ५.५५
देवे सनियमे जाते चेदिवत्सनिवेशिनः
देवस्यापत्यलाभाय सर्वे सनियमाः स्थिताः ॥ ५.५६
तत्राहमद्य पश्यामि स्वप्ने गरुडवाहनम्
मार्गितश्च मया देहि स्वामिने नः प्रजा इति ॥ ५.५७
स विहस्योक्तवान् पूर्णः स्वामिनस्ते मनोरथः
तवापि पूरयामीति मह्यं बाणं वितीर्णवान् ॥ ५.५८
सप्रणामं तमादाय हृदये निदधामि च
अकालकौमुदीं चेमाम् पश्यामि प्रतिबोधितः ॥ ५.५९
एषोऽपि स्थापितः स्वप्नः प्रीतेनादित्यशर्मणा
यादृशोऽस्य सुतो भवी तादृशः श्रूयतामिति ॥ ५.६०
सायको हि गुणेनार्थी तस्मादस्य भविष्यति
पुत्रः षाड्गुण्यतत्त्वज्ञो युक्तश्चायं गुणैर्गुणैः ॥ ५.६१
परतन्त्रगतिस्थानः खगामी च यतः शरः
तेन राजसुतप्रैष्यः खेचरश्च भविष्यति ॥ ५.६२
अथाकथयदात्मीयम् स्वप्नं यौगन्धरायणः
ममाद्यैकोनपञ्चाशन् मरुतो दर्शनं गताः ॥ ५.६३
तेषामेकः स्फुरद्द्योतः खद्योतनिकरद्युतिम्
स्वं विमुच्य मुदा मह्यम् संनाहं दत्तवानिति ॥ ५.६४
भर्तुः संनाहसदृशः शूरोऽध्यवसितः सुतः
भवतो भवितेत्येवम् स्वप्नमास्थापयद्द्विजः ॥ ५.६५
ऋषभेणेति कथितम् दृष्टवानस्मि गोगणम्
ब्रवीति तत्र मामेका प्रविशेमां गुहामिति ॥ ५.६६
तत्र प्रविशता दृष्टाश् चतुःषष्टिर्मया कलाः
चतस्रश्च महाविद्या विन्यस्ताश्चित्रकर्मणि ॥ ५.६७
तत्र चित्रीयमाणोऽहम् चित्रं चित्रं विलोकयन्
बोधितो जृम्भणैर्मन्द्रैर् भेरीणां गर्जितैरिति ॥ ५.६८
स्थपितोऽयमिति स्वप्नः पुत्रस्तव भविष्यति
अशेषचित्रविन्यस्त कलाकुशलधीरिति ॥ ५.६९
दृष्टं वसन्तकेनापि स्वप्नं कथितमित्यथ
दत्तवान् पावको मह्यम् कुण्डलं रुचिरोज्ज्वलम् ॥ ५.७०
[थे एxप्लनतिओनोf वसन्तकश्द्रेअमिस्मिस्सिन्ग्] ॥ ५.७१
इति व्याक्रियमाणेषु स्वप्नेषु रविसारथेः
भिन्नं भाभिस्तमो जातम् चकोरनयनारुणम् ॥ ५.७२
कोमलानिलविक्षिप्त नलिनस्पर्शबोधताः
रेसुर्विवादरसिताः सरसीषु शकुन्तयः ॥ ५.७३
गम्भीरप्रतिनिर्घोष भीषितेन्द्रावरोधनः
देवतागारभेरीणाम् ुच्चैर्ध्वनिरजृम्भत ॥ ५.७४
अवदन्त च वृन्दानि बन्दिनां मेदिनीपतिम्
पूरितार्थिसमूहाश तवाशा पूर्यतामिति ॥ ५.७५
युवा धीरः सभे योग्यो यजमानस्य जायताम्
इत्यादिभिर्द्विजाश्चैनम् मन्त्रवाद्यैरवर्धयन् ॥ ५.७६
निमित्तैरेवमाकारैः कार्यसंसिद्धिशंसिभिः
आदित्यशर्मणो जातम् ङ्गं रोमाञ्चकर्कशम् ॥ ५.७७
पद्मावत्या ततो हर्षाद् विवाहए इव नृत्यति
वसन्तके ध्वनत्ताले ननर्त गणिकागणः ॥ ५.७८
अलं चातिप्रसङ्गेन संक्षेपादवधार्यताम्
वधूवृन्दपरीवाराः प्रनृत्ताः श्वशुरा अपि ॥ ५.७९
अतिहर्षपरीतत्वाद् वितन्त्रीपरिवादिनीः
ताडयन्ति स्म गन्धर्वाः स्वराविस्मृतसारणाः ॥ ५.८०
एवमादौ तु वृत्तान्ते वर्तमाने महीपतिः
कृताभिषेकादिविधिः सुरविप्रानपूजयत् ॥ ५.८१
प्रविश्य स्तूयमानश्च वृन्दैर्ब्राह्मणबन्दिनाम्
पौरमन्तःपुरं चैव दानादिभिरमानयत् ॥ ५.८२
मासद्वयपरीमाणे ततः कालेऽतिगच्छति
देव्यां सत्त्वसमावेश वार्त्तां प्रावर्तयत्क्षितौ ॥ ५.८३
येन येन श्रुता वार्त्ता शबरेण शुकेन वा
गिरिष्ठः पञ्जरस्थो वा मुग्धस्तत्रैव तत्र सः ॥ ५.८४
स्त्रियः प्रसूतिकुशलाः कुमारादिचिकित्सकाः
गर्भकर्मविदश्चान्ये नित्यं तां पर्यचारयन् ॥ ५.८५
म्लायन्मधूकविच्छाय कपोलं जिह्मलोचनम्
श्वश्रूस्तस्या मुखं दृष्ट्वा बुबुधे दोहदव्यथाम् ॥ ५.८६
पृच्छति स्म च तां पुत्रि शीघ्रमाचक्ष्व दोहदम्
अनाख्याते हि गर्भस्य वैफल्यमपि दृश्यते ॥ ५.८७
लज्जमाना यदा नासौ कथयामास दोहदम्
तदा स्ववृत्तं सा वध्वै व्याहर्तुमुपचक्रमे ॥ ५.८८
अन्तर्वत्नीमपृच्छन्माम् ेकदा श्वशुरस्तव
बाधते दोहदो यस्त्वाम् स क्षिप्रं कथ्यतामिति ॥ ५.८९
मया तु प्रणयिन्यापि प्रकृष्टतरलज्जया
सखीमुखेन कथितम् बहुकृत्वोऽनुयुक्तया ॥ ५.९०
इयं मां बाधते श्रद्धा साशु संपाद्यतामिति
सा च संपादितामात्यैः शतानीकस्य शासनात् ॥ ५.९१
बालभास्करबिम्बाभा दधानाः सानुलेपनाः
व्यचरन्त पुरीं रक्ताम् म्बराभरणस्रजः ॥ ५.९२
रक्तातपत्रव्यजना रक्तकम्बलवाह्यकाः
रक्ताशोकवनाकार परिवारकदम्बकाः ॥ ५.९३
सुयमुनमथारुह्य पद्मरागनगारुणम्
दिग्दाहादिव रक्तानाम् पश्यं मण्डलं दिशाम् ॥ ५.९४
अथ पक्षानिलभ्रान्त संभान्तजनवीक्षितः
ज्येष्ठपुत्र इवागच्छद् गरुडस्य विहंगमः ॥ ५.९५
सरसामिषगृद्धश्च मुग्धामादाय मामसौ
अगमद्गगनं वेगाच् छतानीकस्य पश्यतः ॥ ५.९६
ततः प्रदेशे कस्मिंस्चिद् वतारितवान् स माम्
भक्षयिष्यन्निषिद्धश्च केनाप्याकाशमाश्रयत् ॥ ५.९७
पश्यामि स्म च तत्र द्वौ कृशावृस्.इकुमारकौ
प्रभामण्डलसंसर्ग पिङ्गलाङ्गौ ज्वलज्जटौ ॥ ५.९८
तौ मामवोचतां देवि मा भैषीरयमाश्रमः
वसिष्ठस्याश्रितः पुण्याम् ुदयाद्रेरुपत्यकाम् ॥ ५.९९
आगच्छ ननु पावस्त्वाम् तत्रेत्युक्ते गता सती
पश्यामि स्म जगज्ज्येष्ठम् श्रेष्ठतापसवेष्टितम् ॥ ५.१००
वन्दितश्च मया दूराद् ाशिषा मामवर्धयत्
पुत्रि पुत्रं विजायस्व यशःपात्रमजर्जरम् ॥ ५.१०१
न चोत्कण्ठा त्वया कार्या स्वजने मत्सनाथया
आदित्यवंशजानां हि संनिवेशः परायणः ॥ ५.१०२
इति विश्वास्य मां वाक्यैर् मधुरैरेवमादिभिः
आवासः क्रियतां वध्वा िति शिष्यान् समादिशत् ॥ ५.१०३
क्षिप्रमावसथं कृत्वा ते शिलादारुवेणुभिः
खातशालपरिक्षिप्तम् वसिष्ठाय न्यवेदयन् ॥ ५.१०४
तापसी कृतसानाथ्या तत्राहमवसं सुखम्
ऋषिभिः क्रियमाणेषु गर्भसंस्कारकर्मसु ॥ ५.१०५
प्रसूता चास्मि दशमे मासे पुत्रं पतिं तव
अनुकूलसवितृआदि ग्रहसूचितसंपदम् ॥ ५.१०६
जातकर्म ततः कृत्वा सूर्यवंशगुरुः स्वयम्
दिवसे द्वादशे नाम पुत्रस्य कृतवान्मम ॥ ५.१०७
बालो जातः सुजातोऽयम् यस्मादुदयपर्वते
तस्मादुदयनो नाम प्रसिद्धिमुपयात्विति ॥ ५.१०८
वेदे गन्धर्ववेदे च सकलासु कलासु च
सास्त्रेषु चास्त्रशस्त्रेषु बुद्धिरस्य विनीयत ॥ ५.१०९
गच्छत्सु दिवसेष्वेवम् वसिष्ठेनैष वारितः
मा कदाचिद्भवानस्माद् दूरं गा आश्रमादिति ॥ ५.११०
निसर्गकर्कशत्वात्तु क्षत्रजातेस्तपोवनात्
निर्याय मृगयामेष समक्रीडत कानने ॥ ५.१११
एकदा भ्राजमानोऽयम् दिव्यैः स्रक्चन्दनादिभिः
अभिवादितवान् भीतो वसिष्ठं दर्शितस्मितम् ॥ ५.११२
वसिष्ठः पृष्टवानेनम् पि दृष्टाः कुमारकाः
नलिन्यां प्रस्तुतक्रीडा भवता भोगिनामिति ॥ ५.११३
आम दृष्टा इति प्रोक्ते सुतेन मम नीचकैः
आचक्ष्व विस्तरेणेति वसिष्ठस्तमभाषत ॥ ५.११४
पृष्टेनोदयेनोक्तम् हमाज्ञापितस्त्वया
न गन्तव्यं त्वया दूरम् ेतस्मादाश्रमादिति ॥ ५.११५
आरभ्य च ततः कालात् किं पुनः कारणं गुरुः
मां निवारयतीत्यासम् हं कौतूहलाकुलः ॥ ५.११६
सोऽहं दोषमसंचिन्त्य गुर्वाज्ञाभङ्गसंभवम्
दूरमद्याश्रमादस्माद् गच्छामि दिशमुत्तराम् ॥ ५.११७
तत्र पश्यामि नलिनीम् नानासरसिजाण्डजाम्
वनवारणसंक्षोभ संघट्टितनदाम्भसम् ॥ ५.११८
तस्याममानुषाकारा मया दृष्टाः कुमारकाः
उन्मज्जन्तो निमज्जन्तस्तरन्तश्चारुणेक्षणाः ॥ ५.११९
ते मां तटस्थमालोक्य पुञ्जीभूय ससंभ्रमा